रामादीनां वृत्तमुक्त्वा स्ववृत्तमाह– ममेति । रामे वनं संप्रस्थिते सति निवृत्तस्य मम नियम्या अश्वाः अश्रु विमुञ्चन्तः सन्तः वर्त्मनि मार्गे न प्रावर्तन्त पूर्ववन्न चेलुः ॥ २।५९।१ ॥
उभाभ्यामिति । तद्दुःखं वियोगजनितखेदं धारयन् सहमानो ऽहं प्रस्थितः ॥ २।५९।२ ॥
गुहेनेति । यदि कदाचिद्रामः मां पुनः शब्दापयेत् आह्वयेत् इति आशया बहून् त्रीन् दिवसान् गुहेन सार्धं तत्रैव स्थितो ऽस्मि वर्तमानसामीप्य इति भूते लट् ॥ २।५९।३ ॥
स्ववृत्तमुक्त्वा देशवृत्तमाह– विषय इति । ते विषये देशे सपुष्पाङ्कुरकोरकाः वृक्षा अपि महाव्यसनेनातिदुःखेन कर्षिताः पीडिताः अत एव परिम्लानाः तत्राङ्कुराः शाखासु नवीनपल्लवोद्गमाः कोरकाः कुसुममुकुलानि ॥ २।५९।४ ॥
उपेति । पल्वलानि अल्पसरांसि उपतप्तोदका इत्यस्य लिङ्गविपरिणामेनान्यत्राप्यन्वयः परिशुष्काणि पलाशानि पत्राणि येषां तानि ॥
२।५९।५ ॥
न चेति । सत्त्वानि वनवासिजनाः न सर्पन्ति व्यालाः सर्पादयश्च न प्रसरन्ति । तत्र हेतुः तत्प्राणिजातं रामशोकेन अभिभूतं पराभूतमत एव तद्वनं निःकूजं शब्दरहितमिव अभवदिति शेषः ॥ २।५९।६ ॥
लीनेति । लीनपुष्करपत्राः गलितनलिनीदलविशिष्टाः कलुषाणि मलिनानि उदकानि यासां ताः नद्य आसन्निति शेषः । पद्मिन्यः सरांसि सन्तप्तपद्माः शुष्कपद्मविशिष्टाः अत एव लीना विध्वस्ताः मीनविहङ्गमाः यासु ताः आसन्निति शेषः ॥ २।५९।७ ॥
जलजानि जलोत्पन्नानि पुष्पाणि स्थलजानि माल्यानि पुष्पाणि नातिभान्ति । तत्र हेतुः अल्पगन्धीनि परिभ्रष्टबहुगन्धवन्ति फलानि च यथापुरं यथापूर्वं न भान्ति “माल्यं पुष्पे पुष्पदाम्नि” इति वैजयन्ती ॥ २।५९।८ ॥
अत्रेति । प्रलीनविहगानि परिध्वस्तपक्षीणि अत एव शून्यानि अत्र अयोध्यायामुद्यानानि पुष्पवाटिकाः सन्तीति शेषः । आरामान् कृत्रिमवनानि अभिरामान्न पश्यामि “आरामः स्यादुपवनं कृत्रिमं वनमेव यत्” इत्यमरः ॥ २।५९।९ ॥
प्रविशन्तमिति । अयोध्यायां प्रविशन्तं मां कश्चिज्जनो नाभिनन्दति । तत्र हेतुः राममपश्यन्तो नराः मुहुर्मुहुः निश्वसन्ति ॥ २।५९।१० ॥
तदेव भङ्ग्यन्तरेणाह– देवेति । देव हे राजन् रामं विना इहागतं राजरथं दूराद्दृष्ट्वा सर्वो जनः अश्रुमुख आसेति शेषः ॥ २।५९।११ ॥
हर्म्यैरिति । हर्म्यादिभिरुपलक्षिताः नार्यः आगतं रथमवेक्ष्य रामस्य अदर्शनेन कर्षिताः प्राप्तखेदाः सत्यः हाहाकारकृता आसन् ॥ २।५९।१२ ॥
आयतैरिति । आर्ततराः स्त्रियः अश्रुवेगपरिप्लुतैः अत्यश्रुव्याप्तैः अत एव विमलैः कज्जलादिरहितैः आयतैर्विशालैर्नेत्रैः अन्योन्यं व्यक्तं यथा स्यात्तथा ऽभिवीक्षन्ते । अयं श्लोकः पूर्वमपि पठितः ॥ २।५९।१३ ॥
नेति । अमित्राणां शत्रूणां मित्राणां च उदासीनजनस्य शत्रुत्वमित्रत्वानाक्रान्तस्य च आर्ततया हेतुना कञ्चिद्विशेषं परस्परं भेदं नोपलक्षये नकारत्रयेण क्रियाप्यावर्तते तेनोपलक्षणे स्वप्रमादाभावः सूचितः ॥ २।५९।१४ ॥
अप्रहृष्टेति । न प्रहृष्टाः मनुष्या यस्यां सा दीनाः क्षीणाः नागाः गजाः तुरङ्गमाः अश्वा यस्यां सा आर्तस्वरैः दीनतासूचकशब्दैः परिम्लाना विनिःश्वसितामत्युच्छ्वासानां निःस्वनः शब्दो यस्यां सा
अत एव निरानन्दा आनन्दरहिता, तत्र हेतुः रामप्रव्राजनातुरा अयोध्या पुत्रहीना कौशल्येव प्रतिभाति । श्लोकद्वयमेकान्वयि ॥ २।५९।१५,१६ ॥
सूतस्येति । परमदीनया बाष्पोपहतया बाष्पैः उपहतया स्खलितया वाचा सूतमिदं वचनमब्रवीत् ॥ २।५९।१७ ॥
तद्वचनमेवाह– कैकेय्येति । पापाभिजनभावया पापाः क्रूरकर्मविषयकसम्मतिदानजनितपापविशिष्टा ये अभिजनाः अभितः समीपे विद्यमानाः जनाः मन्थरादयस्तैः सहभावो नित्यं स्थितिर्यस्यास्तया कैकेय्या विनियुक्तेन प्रार्थितेन मया यद्यपि मन्त्रकुशलैर्वृद्धैः सुहृद्भिः सनैगमैः शास्त्रसम्पन्नैरमात्यैश्च सह मन्त्रयित्वा न समर्थितं कृतं रामप्रव्राजनमिति शेषः । तथापि अयं रामप्रवाजनरूपो ऽर्थः सम्मोहादविवेकात्स्त्रीहेतोः सहसा न कृतः न कृतः नञ्द्वयोपादानं दार्ढ्यबोधनाय विवेकादेव कृत इत्यर्थः । वा शब्दो यद्यपीत्यर्थे । श्लोकद्वयमेकान्वयि ॥ २।५९।१८,१९ ॥
विवेककरणे हेतुं वदन्नाह– भवितव्यतयेति । यद्यस्माद्राक्षसकुलादस्य मद्बुद्धिस्थस्य ऋषिसमूहस्य महद्व्यसनं दुःखं तस्य कुलस्य विनाशायं भवितव्यतया उपलक्षितया कृच्छ्रया वनगत्या इदं दुःखं प्राप्तम् ॥
५९।२० ॥
दुःखशान्त्यर्थं यत्नमाह– सूतेति । हे सूत यदि ते तुभ्यं किञ्चित्सुकृतमुपकारः मया कृतमस्ति तर्हि आशु शीघ्रं मां रामं रामसमीपं प्रापय तत्र हेतुः प्राणाः इन्द्रियाणि मां संत्वरयन्ति रामसन्दर्शनार्थमिति शेषः ॥ २।५९।२१ ॥
प्रापणप्रकारं वदन्नाह– यदीति । यदि अद्यापि ममैवाज्ञा वर्तते इति शेषः । तर्हि राघवं रामं निवर्तयतु निवर्त्य मत्समीपे आनयत्वित्यर्थः कश्चिदिति शेषः । ननु किमर्थमेवं त्वरेत्यत आह– रामं विना मुहूर्तमपि जीवितुं स्थातुं न शक्ष्यामि ॥ २।५९।२२ ॥
पक्षान्तरमाह– अथवेति । अथवा निवर्तनयोग्यजनाभावे अपि यदि महाबाहुः रामः दूरं गतो भविष्यति तदा रामाय रामं प्रापयितुं मामेव रथमारोप्य शीघ्रं दर्शय ॥ २।५९।२३ ॥
वृत्तेति । वृत्तदंष्ट्रः कुन्दकुड्मलसदृशदन्तवानसौ रामः क्वास्ति यदि सीतया सह एनं रामं पश्येयं तर्हि साधु यथा स्यात्तथा जीवामि जीवितास्मि वर्तमानसामीप्ये इति भविष्यति लट् ॥ २।५९।२४ ॥
लोहिताक्षमिति । लोहिताक्षमरुणनयनम् आमुक्तानि परित्यक्तानि मणिकुण्डलानि येन तं रामं यदि न पश्यामि तर्हि यमक्षयं यमस्य कालस्य क्षयः अभावो यस्मिंस्तं साकेतलोकं गमिष्यामि ॥ २।५९।२५ ॥
अत इति । इमामवस्थामापन्नः प्राप्तो यो ऽहमिक्ष्वाकुनन्दनं न पश्यामि तस्य मे अतः अस्माद्दर्शनाभावात्किं दुःखतरं न किमपीत्यर्थः ॥ २।५९।२६ ॥
हेति । अनाथवद्रक्षकरहितवत् दुःखेन म्रियमाणं मां भवान्न जानीत हा अतिदुःखमेतत् ॥ २।५९।२७ ॥
स इति । तेन रामवियोगजनितेन दुःखेन अर्पितचेतनः निविष्टचित्तः अत एव सुदुष्पारं शोकसागरमवगाढो निमग्नो राजा अब्रवीत् वचनान्तरमुच्चारयामास । “अर्दितचेतनः” इति भूषणपाठः ॥ २।५९।२८ ॥
वचनान्तरस्वरूपमाह– रामेति । रामशोकमहावेगः
रामनिष्ठपित्रादिवियोगहेतुकशोकस्मरणजनितः रामकर्मको वा शोक एव महावेगो यस्मिन् सः सीताविरहपारगः सीताविरहः सीतावियोगजनितशोकः स एव पारः परसमुद्रस्तं गच्छतीति सः सीतावियोगजनितशोकसागरेण सङ्गत इत्यर्थः । श्वसितोर्मिमहावर्तः श्वसितौ ऊर्ध्वाधश्चलितमहाश्वासौ उर्मिमहावर्तौ यस्मिन् सः बाष्पवेगजलाविलः बाष्पवेगाः अतिवेगवत्कौशल्याद्यश्रूणि तान्येव जलानि तैः आविलः परिपूर्णः ॥ २।५९।२९ ॥
बाहुविक्षेपा एव मीना यस्मिन् सः विक्रन्दितानि नानाविधजनरुदितानि महास्वनाः यस्मिन्सः प्रकीर्णकेशा एव शैवाला यस्मिन्सः कैकेय्येव वडवामुखः बोधकवचनेनापारजलशोषणप्रवृत्तवडवाग्निर्यस्मिन्सः ॥ २।५९।३० ॥
ममाश्रुवेगात्प्रभवति उत्पद्यते सः कुब्जाया मन्थरायाः वाक्यमेव महाग्रहः महाग्रहसदृशग्राहको मकरो यस्मिन्सः या नृशंसा मन्थरा सैव वरा उत्तमा वेला मर्यादा यस्मिन् सः रामप्रव्राजनेन आयतः विस्तृतः ॥ २।५९।३१ ॥
यस्मिन्नहं निमग्नः सो ऽयं शोकसागरः राघवं विना जीवता मया दुस्तरः । श्लोकचतुष्टयमेकान्वयि ॥ २।५९।३२ ॥
अशोभनमिति । राघवं दिदृक्षमाणो यो ऽहं न लभे तस्य मे अशोभनमेतत् इति प्रलपन्सन् सुम्मूर्च्छितो राजा शयनं शय्यायां पपात ॥ २।५९।३३ ॥
इतीति । प्रनष्टे परिणतत्वेन प्रतीयमाने पार्थिवे इत्यनेन प्रकारेण करुणतरं रामहेतोः विलपति सति तस्य विलपतो राज्ञः वचनमनुनिशम्य द्विगुणं राजानवधानताभयापेक्षयाधिकं भयं देवी कौशल्या ऽगमत् ॥ २।५९।३४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकोनषष्टितमः सर्गः ॥ २।५९ ॥