राजवृत्तमाह– प्रत्याश्वस्त इत्यादिभिः । यदा राजा मोहात् मूर्छातः प्रत्यागता प्राप्ता स्मृतिः स्वपरिकरविषयकस्मरणं यस्य सः अत एव प्रत्याश्वस्तः स्थिरचित्तस्तदा रामवृत्तान्तकारणाद्रामवृत्तश्रवणहेतोः सूतमाजुहाव ॥ २।५८।१ ॥
तदेति । तदा राजाह्वानसमये नवग्रहं वनात्सद्यो गृहीतमत एव कुञ्जरं स्वयूथगजं ध्यायन्तमत एव विनिःश्वसन्तं परमसन्तप्तमत एव अस्वस्थं द्विपं गजमिव दुःखशोकसमन्वितं महाराजं कृताञ्जलिः सूतः उपस्थितः प्राप्तः । श्लोकद्वयमेकान्वयि ॥ २।५८।२,३ ॥
राजेति । रजसा ध्वस्ताङ्गं समुपस्थितं सूतं परमार्तवत्परमार्तत्वविशिष्टं वच उवाच ॥ २।५८।४ ॥
तद्वचनप्रकारमाह– क्वेति । स राघवो रामः किमशिष्यति भोक्ष्यते ॥ २।५८।५ ॥
दुःखस्येति । हे सुमन्त्र दुःखस्य अनुचितो रामः दुःखं प्राप्तः शयनोचितः महाराजशय्यायोग्यः अनाथवन्नाथत्वाभाववानिव भूमौ कथं शेते ॥ २।५८।६ ॥
यमिति । विजनं स्वजनरहितं वनं कथं वत्स्यति ॥ २।५८।७ ॥
व्यालैरिति । व्यालैर्महासर्पैः मृगैः सिंहादिभिः आचरितं निषेवितं वने वैदेह्या सार्धं कुमारौ कथमुपाश्रितौ संश्रितौ ॥ २।५८।८ ॥
सुकुमार्येति । सुकुमार्या अतिमृदुशरीरया तपस्विन्या धर्मान्वेषणशीलया सीतया सह राजपुत्रौ रथादवरुह्य पादैः कथं गतौ ॥ २।५८।९ ॥
सिद्धार्थ इति । येन त्वया मन्दरं मन्दराचलं प्रविशन्तौ अश्विनाविव वनान्तं प्रविशन्तौ ममात्मजौ दृष्टौ स त्वं सिद्धार्थः सिद्धनिखिलप्रयोजनको ऽसीति शेषः ॥ २।५८।१० ॥
किमिति । वनमासाद्य प्राप्य रामादिः किमुवाच ॥ २।५८।११ ॥
आसितमिति । रामस्य आसितं संस्थितिं शयितं शयनं भुक्तं भोजनं कीर्तय कथय । एतेन कथनेनाहं जीविष्यामि, तत्र दृष्टान्तः साधुषु साधुभिरित्यर्थः । ययातिर्नहुषपुत्र इव । अत्रेयमाख्यायिका स्वर्गात्पतनसमये मां साधुषु पातयेतीन्द्रं सम्प्रार्थ्य साधुसङ्गं लब्ध्वा तेभ्यस्तत्त्वज्ञानं प्राप्येन्द्रलोकादपि परं लोकं प्राप्य सुखं प्राप्तो ययातिरिति । भावनिष्ठान्ता आसितादयः ॥ २।५८।१२ ॥
इतीति । सज्जमानया रामसंलग्नया बाष्पपरिरुद्धया बाष्पाणि परिरुद्धानि यया तया वाचा नरेन्द्रेण चोदितः स सूतः उवाच ॥ २।५८।१३ ॥
तद्वचनस्वरूपमाह– अब्रवीदिति । हे महाराज अञ्जलिं प्रणयसूचकबद्धयुगलकरं कृत्वा धर्मं स्वकुलपरंपरारीतिमनुपालयन्राघवो रामः अब्रवीत् ॥ २।५८।१४ ॥
रामवचनस्वरूपं बोधयन्नाह– सूतेति । हे सूत विदितात्मनः ज्ञातस्वस्वरूपस्य अत एव महात्मनः अत एव शिरसा वन्दनीयस्य तातस्य पादौ मद्वचनाद्रामेणातीव वन्दितावित्युक्त्या वन्द्यौ अभिवन्दनीयौ ॥ २।५८।१५ ॥
सर्वमिति । सर्वमन्तःपुरमविशेषेण अयोध्यातः किञ्चिद्विशेषाभावेन आरोग्यं रोगराहित्यं वाच्यं मद्वचनाद्यथार्हं यथायोग्यमभिवादनं च वाच्यम् । अप्रधानीभूतान्तःपुररूपकर्मणि ण्यत् ॥ २।५८।१६ ॥
मातेति । मम माता कौशल्या च कुशलादिकं वक्तव्या तत्राप्रमादं सावधानतामेनां कौशल्यामिदं वचश्च ब्रूयाः ॥ २।५८।१७ ॥
रामवचनस्वरूपमाह– धर्मेति । हे देवि धर्मनित्या नित्यं धर्मविशिष्टा त्वं यथाकालमग्न्यगारपरा यागशालारक्षिका भव देवस्य राज्ञः पादौ देववत्परिपालय निषेवस्व ॥ २।५८।१८ ॥
अभिमानमिति । अनुराजानं राजसेवानन्तरमभिमानमहं सर्वश्रेष्ठेति गर्वं मानं तत्तत्कृतसत्कारं च त्यक्त्वा तत्रास्थामकृत्वेत्यर्थः । मातृषु स्वसपत्नीषु वर्तस्व कैकेयीं च अवधारय सौहार्देन स्वीकुरु ॥ २।५८।१९ ॥
कुमार इति । कुमारे भरते राजवद्राजनीव वृत्तिः सत्कार इत्यर्थः कर्तव्या । ननु राजभिन्ने कथमिदमित्यत आह अर्थज्येष्ठा अत्यैश्वर्यनियामका इत्यर्थः । राजानः राजवन्मन्तव्याः इति इमं धर्ममनुस्मर । हिरिवार्थे ॥ २।५८।२० ॥
भरत इति । मद्वचनेन भरतः कुशलं वाच्यः सर्वासु मातृषु यथान्यायं वृत्तिमनुवर्तनं सेवामित्यर्थः । वर्तस्व कुरुष्व इति च वाच्यः ॥ २।५८।२१ ॥
वक्तव्य इति । यौवराज्यस्थः युवराजसदृशस्त्वं राज्यस्थं पितरमनुपालय निषेवस्व इति च इक्ष्वाकुकुलनन्दनो भरतो वक्तव्यः ॥ २।५८।२२ ॥
तदेव भङ्ग्यन्तरेणाह– अतीति । अतिक्रान्तवयाः चिरकालप्रादुर्भूतिमान् यो राजा तं मा व्यपरोरुधः तन्मनोभङ्गं न कुर्वित्यर्थः । तदुपायमाह– तस्य राज्ञः आज्ञाप्रवर्तनादेव यौवराज्ये ऽधिकृतस्त्वं जीवस्व निर्वाहं कुरु ॥ २।५८।२३ ॥
अब्रवीदिति । पुत्रगर्धिनी पुत्रविषयकातीच्छावती मम माता इव ते तव द्रष्टव्या इति भृशमश्रूणि वर्तयन्सन् मां भूयो बहुवारमब्रवीत् ॥ २।५८।२४ ॥
इतीति । इति ब्रुवन्महाबाहुः रामः भृशमश्रूणि अवर्तयदिव तच्छ्रवणमात्रेणैवाश्रुपूर्णे मम नेत्रे अभवतामित्यर्थः ॥ २।५८।२५ ॥
रामोक्तिमुक्त्वा लक्ष्मणोक्तिमाह– लक्ष्मण इति । अयं राजपुत्रो रामः केनापराधेन विवासितः अकारणकमेवैतत्कालिकं विवासनमित्यर्थः ॥ २।५८।२६ ॥
वस्तुतस्त्वस्मिन्विषये राज्ञो नापराध इति बोधयन्नाह– राज्ञेति । येन विवासनेन वयमभिपीडितास्तत्कार्यं विवासनं कैकेय्याः लघुशासनमाश्रुत्य अकार्यमिव कृतम् अभिष्ोकप्रतिबन्धकत्वाद्विरुद्धं प्रतिभतीत्यर्थः । वाशब्द इवार्थे ॥ २।५८।२७ ॥
यदीति । यद्राज्ञा रामः प्रव्राजितः तल्लोभकारणकारितं लोभकारणेन राजातीव सत्यवक्ता पुत्रश्चैतस्यातीवाज्ञाकारीति यशोभिवाञ्छारूपहेतुना कारितं कृतं वरदाननिमित्तं वा कृतं सर्वथा इदानीं दुष्कृतं न कर्तव्यमित्यर्थः । इतीदानीमर्थे । दशैते राजमातङ्गास्तस्यैवामी तुरङ्गमा इत्यादाविवाप्रधानीभूतमपि प्रव्राजनं यत्तच्छब्दाभ्यां परामृश्यते अत एव नपुंसकत्वम् ॥ २।५८।२८ ॥
ननु कर्तृत्वं करणत्वं च “स्वभावश्चेतना धृतिः” इत्याद्युक्त्या सर्वस्य परमात्मायत्तत्त्वाद्राज्ञः को ऽपराध इत्यत आह– इदमिति । ईश्वरस्य परमात्मनः कृते इच्छया निष्पादिते एव कृतं राज्ञः प्रयत्नः इदं यथाकामं यथेष्टं स्यादिति शेषः । परं तु परित्यागे हेतुं न उपलक्षये ईश्वरस्यापि कृताविति शेषः ॥ २।५८।२९ ॥
नन्वीश्वरस्य स्वतन्त्रत्वान्निर्हेतुकमपि कार्यं स्यादित्यत आह– असमीक्ष्येति । बुद्धिलाघवाद्बुद्धौ विचारे लाघवादालस्यादिना विचारस्याल्पत्वादित्यर्थः । असमीक्ष्य सम्यग्विचारमकृत्वा समारब्धं विरुद्धं राघवस्य विवासनं सङ्क्रोशं स्वकर्तुर्निन्दां जनयिष्यति ॥ २।५८।३० ॥
ननु पित्रादिवियोगस्यासह्यत्वादयोध्यागमनेच्छया एवं ब्रूषे चेन्मया सार्धं त्वं मागच्छेत्यत आह अहमिति । पितृत्वं मत्कर्तृकसेव्यत्वं नोपलक्षये रामवियोगे सतीति शेषः । तत्र हेतुः– मम भ्रात्रादिः राघव एव ॥ २।५८।३१ ॥
सर्वेति । सर्वलोकहिते रतमत एव सर्वलोकप्रियं रामं त्यक्त्वा विद्यमानेन मया अनेन रामत्यागरूपेण कर्मणा करणभूतेन सर्वलोकः कथमनुरज्येत ॥ २।५८।३२ ॥
रामं विना पितुरपि तत्र स्थितिर्दुर्लभेति बोधयन्नाह– सर्वेति । सर्वलोकविरोधेन विरुद्धभाषणेनेत्यर्थः । राजा दशरथः कथं भविष्यति स्थास्यति न स्थास्यतीत्यर्थः ॥ २।५८।३३ ॥
जानकीवृत्तमाह– जानकीति । तपस्विनी अतिविचारशीला विस्मृता भवनादिविषयकविशेषस्मृतिरहिता भूतोपहितचित्ता अत एव विष्ठिता चेष्टारहितात्वेन स्थिता कान्तेव तेन भवदादिदुःखस्मरणेन निःश्वसन्ती रुदती च सती स्थिता न दृष्टं पूर्वव्यसनं पौर्वकालिकदुःखं यया सा राजपुत्री जानकी तु मां किञ्चिन्न अब्रवीत् । श्लोकद्वयमेकान्वयि ॥ २।५८।३४,३५ ॥
उद्वीक्षेति । मां प्रयान्तं प्रयाणाभिमुखमुदीक्ष्य अवलोक्य परिशुष्यता मुखेनोपलक्षिता भर्तारमुद्वीक्षमाणा सा सीता सहसा बाष्पं मुमोच ॥ २।५८।३६ ॥
तथैवेति । यो रामः तथा अब्रवीत्सन्देशमिति शेषः । सः अश्रुमुखः सन् राजरथं मां च निरीक्षते तथैव सीता च निरीक्षते ॥ २।५८।३७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामाणशिरोमणावयोध्याकाण्डे ऽष्टपञ्चाशत्तमः सर्गः ॥ २।५८ ॥