रामवृत्तमुक्त्वा गङ्गाकूलस्थितगुहवृत्तमाह– कथयित्वेति । रामे दक्षिणकूलस्थे सति चिरं कथयित्वा रामकथा इति शेषः । भरद्वाजाभिगमनं प्रयागे रामभरद्वाजसमागमं सभाजनं भरद्वाजकर्तृकरामसत्कारं च तेषां रामाहीनामागिरेः चित्रकूटगिरिपर्यन्तं गमनं च तत्रस्थैः गुहप्रेषितशृङ्गवेरपुरस्थचारैः अभिलक्षितं दृष्टं ज्ञात्वा चेति शेषः । सुमन्त्रेण सह गुहः स्वगृहं जगाम । एतेन पञ्चदिनपर्यन्तं शृङ्गवेरपुरसमीपे सुमन्त्रगुहाभ्यां स्थितमिति व्यक्तम् । श्लोकद्वयमेकान्वयि ॥ २।५७।१२ ॥
सुमन्त्रवृत्तमाह– अनुज्ञात इति । गुहेनानुज्ञातः सुमन्त्रः गाढदुर्मनाः अतिखिन्नः सन्नयोध्यां प्रययौ ॥ २।५७।३ ॥
स इति । वनादीनि पश्यन् सः सुमन्त्रः प्रययौ ॥ २।५७।४ ॥
तत इति । ततः शङ्गवेरपुराद्द्वितीये अहनि सायाह्ने समये निरानन्दां प्रकटानन्दरहितामयोध्यां समनुप्राप्य ददर्श । “तृतीये ऽहनि” इति भूषणपाठः ॥ २।५७।५ ॥
स इति । शून्यामिव रामरहितत्वेन प्रतीयमानामत एव निःशब्दामयोध्यां दृष्ट्वा शोकवेगसमाहतः शोकवेगव्याप्तः अत एव परमदुर्मनाः स सुमन्त्रश्चिन्तयामास ॥ २।५७।६ ॥
चिन्तास्वरूपमाह– कच्चिदिति । सगजा गजसहिता साश्वा अश्वसहिता सजना जनसहिता सजनाधिपा जनाधिपो राजा तत्सहिता पुरी अयोध्या रामसन्तापदुःखेन रामस्य यः सन्तापः प्रातिभासिकवनगमनजनितखेदस्तेन जातं यद्दुःखं तेन तद्धेतुकेन शोकाग्निना कच्चिन्न दग्धा । कच्चिदिति सम्भावनायाम् ॥ २।५७।७ ॥
इतीति । इत्यनेन प्रकारेण चिन्तापरः अत एव त्वरितः वेगवान्सूतः शीघ्रयायिभिः त्वरितं गमनशीलैर्वाजिभिः नगरद्वारमासाद्य प्रविवेश ॥ २।५७।८ ॥
सुमन्त्रमिति । अभियान्तं प्राप्तिमन्तं सूतं सुमन्त्रं रामः क्व इति पृच्छन्तः शतशः सहस्रशः नराः अभ्यद्रवन् ॥ २।५७।९ ॥
तेषामिति । गङ्गायां गङ्गातटे राघवमापृच्छ्य किं कुर्यामिति पृष्ट्वा अनुज्ञातः अयोध्यां व्रजेत्याज्ञप्तो ऽहं निवृत्तो ऽस्मि इति तेषां शशंस ॥ २।५७।१० ॥
त इति । ते रामादयस्तीर्णा गङ्गापारं गता इति विज्ञाय सुमन्त्रकथनादवगत्य अहो धिक् रामविहीनानस्मानिति शेषः इति निःश्वस्य बाष्पपूर्णमुखाः नराः हा रामेति विचुक्रुशुः ॥ २।५७।११ ॥
शुश्रावेति । ये वयमिह अस्मिन्समये राघवं न पश्यामः ते वयं हताः स्म इति ॥ २।५७।१२ ॥
दानादिविषये महत्सु प्रवृद्धेषु समाजेषु जनसमूहेषु अन्तरा मध्ये जातु कदाचिद्धार्मिकं रामं पुनर्न द्रक्ष्यामः । इति च नेति च सम्भावनायाम् ॥ २।५७।१३ ॥
किमिति । यत् इति इदं नगरं रामेण पित्रेव परिपालितं मर्यादास्वलावण्यातिशयादिदर्शनेन परिपोषितं तस्यास्य जनस्य समर्थं सम्यगर्थः प्रयोजनसिद्धिर्येन तद्वस्तु किं प्रियं प्रीतिविषयीभूतं च किं सुखावहं सुखप्रापकं च किं रामं विना न किमपीत्यर्थः । इति च वृन्दं वृन्दं तिष्ठतां तेषां जनानां वचः शुश्राव कर्मकर्तरि लिट् अधिगच्छति शास्त्रार्थ इत्यादाविव नात्मनेपदं सुमन्त्र इति कर्तुरध्याहारो वा । श्लोकत्रयमेकान्वयि ॥ २।५७।१४ ॥
वातायनेति । वातायनगतानां रामवार्ताश्रवणाय गवाक्षसंलग्नानां राममुद्दिश्य अभितप्तानां स्त्रीणां परिदेवनाम् अन्तरापणं आपणमध्ये अनुशुश्राव धातूपसर्गयोर्व्यवहितप्रयोगस्त्वत एव निर्देशात् ॥ २।५७।१५ ॥
स इति । पिहिताननः वस्त्रेणाच्छादितमुखः सुमन्त्रः राजमार्गमध्येन यत्र गृहे राजा दशरथः
तेदव गृहमुपययौ ॥ २।५७।१६ ॥
स इति । सः राजगृहं प्राप्तः सुमन्त्रः रथादवतीर्य राजवेश्म प्रविश्य महाजनसमाकुलाः सप्त कक्ष्या अभिचक्राम ॥ २।५७।१७ ॥
हर्म्यैरिति । हर्म्यैः धनिनां गृहविशेषैः विमानैः सप्तभूमिगृहैः । “विमानो ऽस्त्री देवयाने सप्तभूमिगृहे ऽपिच” इति वैजयन्ती । प्रासादैः राजाधिराजगृहविशेषैरुपलक्षिताः रामादर्शनकर्षिताः रामदर्शनाभावेन पीडिताः नार्यः समागतं रामं विना आगतं किञ्च समागतमगतेन रामकर्तृकगमनाभावेन समं सहितं रथं सुमन्त्रं वा अवेक्ष्य हाहाकारकृताः आसन्निति शेषः ॥ २।५७।१८ ॥
आयतैरिति । आर्ततरा अत्यार्ताः स्त्रियः अश्रुवेगेन व्याप्तैः अत एव विमलैः कज्जलादिरहितैः आयतैः विशालैः नेत्रैः व्यक्तं यथा भवति तथा अन्योन्यमभिवीक्षन्ते । एतेन कर्तव्यविषयकविवेकाभावस्तासां ध्वनितः ॥ २।५७।१९ ॥
तत इति । ततस्ततः तेभ्यस्तेभ्यः प्रासादेभ्यः रामशोकाभितप्तानां स्त्रीणां जल्पितं मन्दं शुश्राव एतेन इन्द्रियपाटवराहित्यं सूचितं तेन रामवियोगदुःखस्यातिशयत्वं व्यक्तम् ॥ २।५७।२० ॥
जल्पितस्वरूपमाह– सहेति । रामेण सह निर्यातः निर्गतः रामं विना इहागतः सूतः नाम प्रसिद्धं क्रोशन्तीं कौशल्यां किं प्रतिवक्ष्यति ॥ २।५७।२१ ॥
यथेति । आच्छिद्य राज्यं त्यक्त्वेत्यर्थः । पुत्रे निर्याते यत्र यस्मिन्नुपाये सति कौशल्या जीवति तं ध्रुवं निश्चितं सुकरमुपायं न मन्ये । ननु कौशल्यायाः नित्यत्वान्मरणाभावेन जीवनं सिद्धमेवेत्यत आहुः– एवं चेत् दुर्जीवं यावद्रामागमनं दुःखेन जीवनं यथा यथावन्मन्ये । चशब्दश्चेदर्थे ॥ २।५७।२२ ॥
सत्येति । सत्यरूपं तत्त्वार्थनिरूपकं राजस्त्रीणां तद्वाक्यं निशामयञ्छृण्वन्सञ्छोकेन प्रदीप्त इव सुमन्त्रः सहसा शीघ्रं गृहं गृहावयवीभूताष्टमीं कक्ष्यां विवेश ॥ २।५७।२३ ॥
स इति । स सुमन्त्रः अष्टमीं कक्ष्यां प्रविश्य पुत्रशोकेन परिद्यूनं मलिनमत एव दीनं क्षीणत्वेन प्रतीयमानमातुरं पुत्रदर्शने उत्कण्ठितं राजानं पाण्डुरे श्वेते राजते इत्यर्थः । गृह अपश्यत् ॥ २।५७।२४ ॥
अभिगम्येति । अभिगम्य सम्प्राप्य सुमन्त्रः रामवचनं यथोक्तमुक्तमनतिक्रम्य प्रत्यवेदयत् ॥ २।५७।२५ ॥
स इति । तद्रामवचनं तूष्णीमेव श्रुत्वा शोकाभिपीडितः अत एव विद्रुतमानसः अनवस्थमनाः अत एव मूर्च्छितो राजा भूमौ न्यपतत् ॥ २।५७।२६ ॥
तत इति । ततः तस्मिन्पृथिवीपतौ क्षित्यधीशे नृपतौ राजनि मूर्च्छिते सति अत एव क्षितौ पतिते सति आविद्धमतिपीडितमन्तःपुरं बाहू उच्छ्रित्य चुक्रोश ॥ २।५७।२७ ॥
सुमित्रयेति । तदा ऽ ऽक्रोशनकाले पतितमुत्थापयामास तदा इदं वचनं चाब्रवीत् ॥ २।५७।२८ ॥
वचनस्वरूपमाह– इममिति । वनवासादनुप्राप्तं दुष्करकारिणो रामस्य दूतं सन्देशहरमिमं सुमन्त्रं कस्माद्धेतोः न प्रतिभाषसे हेतुं वदेत्यर्थः ॥ २।५७।२९ ॥
अद्येति । हे राघव इमं स्वपुत्रप्रव्राजमनयं नीतिविरुद्धमिव कृत्वा व्यपत्रपसि किं नैतद्युक्तमित्यर्थः । अतः उत्तिष्ठ ते सुकृतं सत्यपरिपालनमस्तु सदैव तिष्ठत्वित्यर्थः ते शोके सति सहायता सहायसमूहः मन्त्र्यादिरित्यर्थः न स्याद्विनश्येदित्यर्थः ॥ २।५७।३० ॥
यथा रामानुगमने अस्मादादयः केकय्या निवारिताः तथा तद्वार्ताश्रवणमपि निवार्येतेति
केकयीभिया न ब्रूषे चेत्तद्भीरिदानीं नास्तीत्याह– देवेति । यस्या भयाद्यन्निवारणशङ्कया रामं नानुपृच्छसि सा कैकेयी इह न तिष्ठति अतः विस्रब्धं निःशङ्कं प्रतिभाष्यताम् ॥ २।५७।३१ ॥
सेति । तथा उक्त्वा शोकलालसा शोकव्याप्ता अत एव बाष्पविप्लुतभाषिणी बाष्पा बाष्पविशिष्टा विप्लुतभाषिणी स्खलद्वाग्विशिष्टा सैव सेति कर्मधारयः सा कौशल्या निपपात ॥ २।५७।३२ ॥
विलपन्तीमिति । अवेक्ष्य दृष्ट्वा रुरुदुः ॥ २।५७।३३ ॥
तत इति । ततः तस्मिन्समये उत्थितं तमन्तःपुरनादं समीक्ष्य वृद्धादयो मानवाः सर्वाः स्त्रियः पुरवासिन्यश्च समन्ततो रुरुदुः अतः तत्पुरं पुनः सङ्कुलं रोदनव्याप्तमासीत् ॥ २।५७।३४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥ २।५७ ॥