शयनानन्तरकालिकं रामवृत्तमाह– अथेति । रात्र्यां व्यतीतायां सत्यामनन्तरं दूररहितं यथा स्यात्तथा अवसुप्तं लक्ष्मणं रघुपुङ्गवो रामः प्रबोधयामास ॥ २।५६।१ ॥
प्रबोधनप्रकारमाह– सौमित्रे इति । वल्गु व्याहरतां शोभनशब्दं कुर्वतां वन्यानां स्वनं शृणु । तच्छ्रवणप्रयोजनमाह– प्रस्थानस्य कालः समागत इति शेषः । हे परन्तप अतः सम्प्रतिष्ठाम व्रजेम ॥ २।५६।२ ॥
प्रसुप्त इति । प्रसुप्तो लक्ष्मणः समये प्रातःकाले भ्रात्रा प्रबोधितः सन्निद्रादिप्रसक्तमध्वप्राप्तं परिश्रमं च जहौ ॥ २।५६।३ ॥
तत इति । सर्वे रामादयः नद्या यमुनाया जलं स्पृष्ट्वा ऋषिभिर्जुष्टं सेवितं तं भारद्वाजनिर्दिष्टं चिष्टकूटस्य पन्थानं ययुः ॥ २।५६।४ ॥
तत इति । सम्प्रस्थितो रामः कमलपत्राक्षीं सीतामिदमब्रवीत् ॥ २।५६।५ ॥
आदीप्तानिति । हे वैदेहि शिशिरात्यये माघफाल्गुनापगमे वसन्ते इत्यर्थः । स्वैः स्वकीयैः स्वकीयैः पुष्पैः मालिनः मालाधारिण इव पुष्पितान्किंशुकान्पलाशाभिधान्नगान्वृक्षान्सर्वतश्चतुर्दिक्षु आदीप्तान् प्रचलितानिव पश्य । इव उभयान्वयी ॥ २।५६।६ ॥
पश्येति । नरैरनुपसेवितानगम्यत्वेन नररहितान्फलपुष्पैरवनतान्भल्लातकान्वीराभिधवृक्षान् बिल्वांश्च पश्य अतिमनोहरा इमे इत्यर्थः । अतो जीवितुं गजादिसङ्घर्षाद्रक्षितुं शक्ष्याम शक्ष्यामः ॥ २।५६।७ ॥
पश्येति । द्रोणप्रमाणानि आढकचतुष्टयपरिमितानि मधुकारीभिः मधुमक्षिकाभिः सम्भृतानि नगे नगे प्रतिवृक्षे लम्बमानानि मधूनि पश्य ॥ २।५६।८ ॥
एष इति । एषः परिदृश्यमानः नत्यूहः दात्यूहः क्रोशति तं क्रोशन्तं नत्यूहं शिखी मयूरः प्रतिकूजति तं पश्येत्यनुकृष्यते । अर्धं पृथक्– रमणीये इति । पुष्पाणां संस्तरः सर्वत्र विद्यमानत्वेन आच्छादनं तस्य सङ्कटे तत्कर्तृकवृष्टिविशिष्टे अत एव रमणीये वनोद्देशे मातङ्गयूथैर्गजसमूहैः अनुसृतं युक्तं पक्षिसङ्घैः अनुनादितं प्रवृद्धानि शिखराणि यस्य तं चित्रकूटं गिरिं पश्य ॥ २।५६।९,१० ॥
समेति । समान्येकाकाराणि भूमितलानि यस्मिँस्तस्मिंश्चित्रकूटस्य कानने रंस्यामहे ॥ २।५६।११ ॥
तत इति । ततः तस्मात् स्थलात् पादचारेण गच्छन्तौ रामलक्ष्मणौ रम्यं विहरणयोग्यमत एव मनोरमं चित्रकूटमासेदतुः प्रापतुः ॥ २।५६।१२ ॥
तमिति । नानापक्षिगणैः आयुतं व्याप्तं सम्पन्नानि सम्यक् प्राप्तानि सरसानि आस्वादसहितानि उदकानि यस्मिँस्तं पर्वतमासाद्य प्राप्य अयं गिरिः रम्यः रमणयोग्यः अत एव मनोज्ञः मनोहरः अत एव स्वाजीवः शोभनमाजीवः जीविका यस्मिन् सः मे प्रतिभाति निश्चयविषयो भवति इत्युवाचेति शेषः । श्लोकद्वयमेकान्वयि ॥ २।५६।१३,१४ ॥
मुनय इति । अस्मिन् शिलोच्चये मुनयो वसन्ति अत एव अयं दृश्यमान आश्रमः वासः वासयोग्यो भवेद्भवति अत एव वयं वसेमहि ॥ २।५६।१५ ॥
इतीति । इति अनेन प्रकारेणोक्त्वा सर्वे रामादयः आश्रमं प्राप्य वाल्मीकिमभिवादयन्नभ्यवादयन् ॥ २।५६।१६ ॥
तानिति । तानभिवादनकर्तृ़न् धर्मविन्महर्षिः स्वागतं निवेद्य उक्त्वा आस्यतामित्युवाच पूजयामास च अर्घ्यादिभिरिति शेषः ॥ २।५६।१७ ॥
तत इति । ततः वाल्मीकिकर्तृकपूजनप्राप्त्यनन्तरमात्मानं समूलवनगमनप्रयत्नमृषये यथान्यायं सन्निवेद्य कथयित्वा लक्ष्मणमब्रवीत् ॥ २।५६।१८ ॥
तद्वचनस्वरूपमाह– लक्ष्मणेति । वराणि निषिद्धच्छायकविभीतकादिभिन्नत्वेनोत्कृष्टानि काष्ठानि आनय । तत्प्रयोजनमाह– आवसथं वासशालां कुरुष्व वासे अत्र निवसने मे मनो ऽभिरतम् ॥ २।५६।१९ ॥
तस्येति । द्रुमान् द्रुमावयवानाजहार आनिन्ये ततः पर्णशालां चक्रे ॥ २।५६।२० ॥
तामिति । निष्ठितां दृढकाष्ठादिरचितात्वेन वातवर्षादिना पराभवितुमशक्यां बद्धकटां बद्धः संरचितः कटः वर्षाच्छादको यस्याः तामत एव सुदर्शनां तां पर्णशालां दृष्ट्वा एकाग्रं सावधानचित्तं लक्ष्मणमब्रवीत् ॥ २।५६।२१ ॥
वचनस्वरूपमाह– ऐणेयमिति । ऐणेयमेणीसुतं मृगमित्यर्थः । मां समाहृत्य प्रापय्य वर्तस्वेति शेषः । तत्प्रयोजनमाह– वयं शालां शालाभिमानिदेवतां यक्ष्यामहे । एतेन पर्णशालादेवतापूजने मृगः स्थापनीय इति सूचितं प्रसिद्धं च कर्मविशेषे मेषादीनां मृगमिति शास्त्रदृष्टो विधिः कर्तव्यः इमं धर्मं कुलपरम्पराप्राप्तरीतिमनुस्मर अतः मृगं क्षिप्रमेव इहैव आनय । हितुशब्दौ एवार्थौ ॥ २।५६।२२,२३ ॥
भ्रातुरिति । आज्ञाय सम्यक् ज्ञात्वा यथोक्तमुक्तमनतिक्रम्य लक्ष्मणः चकार मृगमानिनायेत्यर्थः । तं लक्ष्मणं स रामः पुनरब्रवीत् ॥ २।५६।२४ ॥
वचनस्वरूपमाह– ऐणेयमिति । ऐणेयं ऐणेयभक्ष्यं फलं श्रपयस्व त्वर अत्र विलम्बं न कुर्वित्यर्थः । तत्र हेतुः अयं मुहूर्तो ध्रुवः ध्रुवसञ्ज्ञकः निश्चयेन कार्यसाधक इत्यर्थः । ननु पुनरयमागमिष्यति किं त्वरयेत्यत आह– अयं विधिः दिवसः दिनसम्बन्धी रात्रौ न कर्तव्य इत्यर्थः । अतः वयं शालां यक्ष्यामहे यजामः लृडुपात्तभविष्यत्वस्याविवक्षा श्रपयस्वेत्यनेन अपक्वफलं मृगाय न समर्पणीयमिति व्यञ्जितम् । अत्रैणेयशब्दात्तस्येदमित्यण् । वृद्धाच्छ इत्यस्याप्रवृत्तिस्तु सञ्ज्ञापूर्वकविधेरनित्यत्वात् ॥ २।५६।२५ ॥
स इति । सः रामाज्ञापितः लक्ष्मणः आमेध्यमतिपवित्रमेव कृष्णमृगं कृष्णमृगभक्ष्यपरिपक्वफलं समिद्धे प्रज्वलिते एव जातवेदसि वह्नौ चिक्षेप । कृष्णमृगशब्दः अर्शआद्यजन्तः तस्येदमित्यण्णन्तो वा, चरमे वृद्ध्यभावः सञ्ज्ञापूर्वकविधेरनित्यत्वात् । कृष्णो मृगो भक्षकत्वेन यस्येति बहुव्रीहिर्वा । हतुशब्दावेवार्थौ । अत एव मृगं हत्वानय क्षिप्रमित्याज्ञापनवचनेन चकार च यथोक्तं स इत्यनेन च न विरोधः ॥ २।५६।२६ ॥
तमिति । तं मृगभक्ष्यं पक्वं तत्र हेतुः निष्टप्तं चिरकालस्थापितत्वेनातितापविशिष्टमत एव छिन्नशोणितमारुण्यरहितं समाज्ञाय लक्ष्मणः पुरुषव्याघ्रं राघवं राममब्रवीत् ॥ २।५६।२७ ॥
वचनस्वरूपमाह– अयमिति । मया श्रृतः परिपक्वः समस्ताङ्गः सर्वावयवसम्पन्नः सर्वो ऽयं कृष्णमृगः कृष्णमृगभक्ष्यः स्थित इति शेषः । अतः हे देवसङ्काश देवता यथा यथाविधि यजस्व मृगोद्देश्यकभक्ष्यसमर्पणपूर्वकयजनं कुरु त्वं कुशलो ऽसि ॥ २।५६।२८ ॥
राम इति । जपकोविदः जपेषु मन्त्रेषु कोविदो ऽभिज्ञः रामस्तु स्नात्वा भक्ष्यसमर्पणपूर्वकस्नानं कृत्वा सत्रावसानिकान् यज्ञसमाप्तिहेतुभूतान्मन्त्रान्सङ्ग्रहेण सङ्क्षेपेणाकरोत् यथाक्रियमुदचारयत् ॥ २।५६।२९ ॥
दृष्ट्वेति । सर्वान् यागसमागतनिखिलान्देवगणान् दृष्ट्वा शुचिः राम आवसथं विवेश । अमिततेजसो रामस्य मनोह्लादो बभूव ॥ २।५६।३० ॥
यागमेव विशिष्य वर्णयन्नाह– वैश्वेति । वास्तुसंशमनीयानि वास्तुदोषपरिहारकाणि मङ्गलानि
प्रवर्तयन्रामः नद्यां यथाविधि स्नात्वा न्यायतो जपं कृत्वा पापसंशमनं वैश्वदेवबलिं रौद्रं रुद्रसम्बन्धिनं बलिं च वैष्णवं बलिं च चकार । एतेन पुनः स्नानकरणं रौद्रयागकरणादिति भूषणोक्तव्याख्यानं चिन्त्यं
पाठक्रमादार्थक्रमो बलीयानित्यस्य सर्वशास्त्रशैलीसिद्धत्वात् । अन्यथा वैश्वदेवबलिवैष्णवबलिजपानन्तरं स्नानकर्तृत्वापत्तिरिति तथैव तेषां वक्तव्यं स्यादिति दिक् । श्लोकद्वयमेकान्वयि ॥ २।५६।३१,३२ ॥
वेदीति । वेदिस्थले विधानं येषां तानि आश्रमस्यानुरूपाणि योग्यानि चैत्यानि ज्ञातव्यानि स्मर्तव्यानीत्यर्थः । आयतनानि गणपत्यादिविशिष्टस्थलानि स्थापयामास प्रतिष्ठाविधिं चकारेत्यर्थः ॥ २।५६।३३ ॥
तामिति । वृक्षपर्णैः तरुविशेषपत्रैः छदनमाच्छादनं यस्यास्तां मनोज्ञां रमणीयां निवातां वातनिवारणयोग्यां यथाप्रदेशमुचितस्थले सुकृतां निर्मितां तां पर्णशालां समेताः सर्वे रामादयः वासाय विविशुः । तत्र दृष्टान्तः सुधर्मां सभां देवगणाः यथा एतेन पर्णशालायाः अतिसमृद्धिमतीत्वं व्यक्तं तेन रामस्य अचिन्त्यशक्तिमत्वं बोधितम् ॥ २।५६।३४ ॥
सुरम्यमिति । सुरम्यं चित्रकूटमासाद्य प्राप्य तत्र सुतीर्थामतिपवित्रत्वविशिष्टां मृगपक्षिभिर्जुष्टां सेवितां माल्यवतीं नदीं च आसाद्य हृष्टः प्राप्तसन्तोषः सन्ननन्द अत एव पुरविप्रवासात् पुरविप्रवासजन्यं दुःखं जहौ ॥ २।५६।३५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥ २।५६ ॥