०५५ यमुनातरणम्

भरद्वाजवचनश्रवणानन्तरकालिकं रामवृत्तमाह– उषित्वेत्यादिभिः । तत्र भरद्वाजाश्रमे उषित्वा महर्षिमभिवाद्य तं महर्षिनिर्दिष्टं गिरिं चित्रकूटं जग्मतुः ॥ २।५५।१ ॥

तेषामिति । औरसान् पुत्रान् पितेव तान्प्रस्थितान्प्रेक्ष्य तेषां रामादीनां स्वस्त्ययनं गमनकालोचितस्वस्तिक्रियां चकार ॥ २।५५।२ ॥

तत इति । स महामुनिः वक्तुं प्रचक्रमे ॥ २।५५।३ ॥

वचनस्वरूपमाह– गङ्गेत्यादिभिः । गङ्गायमुनयोः सन्धिं सङ्गममादाय आरभ्य पश्चान्मुखाश्रितामतिप्रबलगङ्गावेगेन पश्चान्मुखं किञ्चिद्दूरं पश्चिमाभिमुखत्वमाश्रितं यया तां कालिन्दीमनुगच्छेतां तां पश्यंस्तदुत्तरतीरवर्तिमार्गेण गच्छेत्यर्थः । अत्र द्विर्वचं तु सीतारामानतिरेकबुद्ध्या ॥ २।५५।४ ॥

अथेति । अथ यमुनातीरतो गमनानन्तरं प्रतिस्रोतः समागतां प्रवाहमार्गलब्धानेकतीर्थसङ्गमवतीं कालिन्दीमासाद्य प्राप्य तीर्थं पवित्रकारकं तस्याः कालिन्द्याः प्रचरितं विलक्षणप्रचलनं प्रकामं यथा स्यात्तथा प्रेक्ष्य तत्र यमुनायां प्लवमुडुपं कृत्वा आंशुमतीम् अंशुमतः सूर्यस्य इयं कन्या तां तरत । सार्धश्लोक एकान्वयी ॥ २।५५।५ ॥

तत इति । ततो यमुनासन्तरणानन्तरं महान्तमतिप्रवृद्धं हरितच्छदं हरितपत्रविशिष्टमत एव श्यामं बहुभिर्वृक्षैः परीतं युक्तं न्यग्रोधं वटवृक्षमासाद्य प्राप्य तस्मिन्न्यग्रोधे स्थिता सीता अञ्जलिं प्रणयसूचकबद्धयुगलकरं कृत्वा आशिषः वनवासनिवर्तनरूपमनोरथस्य क्रियां कुशलमस्माकमागमनं भवत्विति प्रार्थनां प्रयुञ्जीत “आशिषः शिवाः” इति भूषणपाठः । सार्धश्लोक एकान्वयी ॥ २।५५।६,७ ॥

समासाद्येति । तं वृक्षं समासाद्य पूजनादिना सम्यक् प्राप्य वसेत् तत्रैव निशि शयीत वा अतिक्रमेत्ततः परं गच्छेत्ततः तस्मान्न्यग्रोधात्क्रोशमात्रं गत्वा पलाशबदरीमिश्रं पलाशैः बदरीभिश्च युक्तं यामुनैः यमुनातीरोद्भवैः वंशैः वेणुभिरुपलक्षितं नीलं काननं वनं प्रेक्ष्य मया बहुशो गतस्य बहुवारं मत्कर्तृकगमनविशिष्टस्य चित्रकूटस्य यः रम्यः रमणीयः मार्दवयुक्तः मृदुः स प्रसिद्धः पन्थाः मार्गः त्वया प्राप्स्यते इति शेषः । सार्धश्लोकद्वयमेकान्वयि ॥ २।५५।८,९ ॥

इतीति । इति अनेन प्रकारेण पन्थानमादिश्य बोधयित्वा तथेत्युक्त्वा अभिवाद्य विद्यमानेन रामेण विनिवर्तितः स महर्षिः न्यवर्तत । अर्धद्वयमेकान्वयि ॥ २।५५।१० ॥

उपेति । उपावृत्ते निवृत्ते सति यद्यस्मात् नः अस्मान्मुनिः अनुकम्पते तस्माद्वयं कृतपुण्याः अतः ते भद्रं कल्याणमिति रामः लक्ष्मणमब्रवीत् ॥ २।५५।११ ॥

इतीति । मन्त्रयित्वा परस्परं सम्भाष्य तौ रामलक्ष्मणौ कालिन्दीं जग्मतुः ॥ २।५५।१२ ॥

अथेति । शीघ्रस्रोतस्विनीं झटितिप्रवाहविशिष्टां कालिन्दीमासाद्य चिन्तां कालिन्दीतरणोद्देश्यकभरद्वाजोक्तिविषयकस्मृतिमापेदिरे प्रापुः ॥ २।५५।१३ ॥

ताविति । काष्ठानां सङ्घाटः समूहो यस्मिञ्छुष्कैर्वशैः समाकीर्णं संयुक्तमुशीरैः शोभनगन्धवत्तृणविशेषैः समावृतं सुमहाप्लवं चक्रतुः ॥ २।५५।१४ ॥

तत इति । ततः प्लवनिर्माणानन्तरं वैतसशाखाः जम्बुशाखाश्च छित्वा सीतायाः सुखमासनं चकार ॥ २।५५।१५ ॥

तत्रेति । तत्र तस्मिन्समये अचिन्त्यां श्रियं शोभामिव ईषल्लज्जमानां तां प्रियां स दाशरथिः प्लवमध्यारोपयत ॥ २।५५।१६ ॥

पार्श्वे इति । तत्र प्लवे वैदेह्याः पार्श्वे वसनादीनि कठिनकाजं च कठिनकं

खनित्रमाजमजचर्मपिनद्धं पिटकमित्यर्थः । चक्रे स्थापयामासेत्यर्थः ॥ २।५५।१७ ॥

आरोप्येति । यत्तौ कृतप्रयत्नौ प्रीतौ तौ रामलक्ष्मणौ प्रथमं सङ्घाटं प्लवं परिगृह्य सीतामारोप्य प्रतेरतुः पुप्लुवाते ॥ २।५५।१८ ॥

कालिन्दीति । कालिन्दीमध्यमायाता सीता एनां कालिन्दीमवन्दत वन्दनपूर्वकं प्रार्थयत् । अर्धं पृथक् ॥ २।५५।१९ ॥

प्रार्थनास्वरूपमाह– स्वस्तीति । हे देवि या ऽहं त्वां तरामि तस्याः मे पतिः स्वस्ति यथा स्यात्तथा व्रतं प्रतिज्ञां पारयेत् समापयेत् । अर्धं पृथक्– यक्ष्ये इति । रामे स्वस्ति यथा स्यात्तथा प्रत्यागते सति गोसहस्रेण सहस्रसङ्ख्याकगवीभिः सुराघटशतेन शतसङ्ख्याकदेवदुर्लभपदार्थेन च त्वां यक्ष्ये ॥ २।५५।२० ॥

कालिन्दीमिति । वरवर्णिनी उत्तमवर्णविशिष्टा विलक्षणगौराङ्गीत्यर्थः । कालिन्दीं याचमाना सीता दक्षिणं तीरमभिसम्प्राप्ता ॥ २।५५।२१ ॥

तदेव भङ्ग्यन्तरेणाह– तत इति । तीरजैर्वृक्षैरुपलक्षितामंशुमतीं यमुनां प्लवेन सन्तेरुः ॥ २।५५।२२ ॥

ते इति । तीर्णाः ते रामादयः प्लवमुत्सृज्य त्यक्त्वा यमुनावनात् प्रस्थाय श्यामं न्यग्रोधमासेदुः ॥ २।५५।२३ ॥

न्यग्रोधमिति । समुपागम्य सम्प्राप्य वैदेही न्यग्रोधमभ्यवन्दत वन्दनर्पूवकप्रार्थनामकरोत् । अर्धं पृथक् ॥ २।५५।२४ ॥

प्रार्थनास्वरूपमाह– नम इति । मे पतिः व्रतं प्रतिज्ञां पारयेत् कौशल्यां सुमित्रां च चकारान्तरेण केकयीं च पश्येम ॥ २।५५।२५ ॥

इतीति । सीता पर्यगच्छत्परितो ऽगच्छत्प्रदक्षिणमकरोदित्यर्थः । अर्धं पृथक्– अवलोक्येति । आयाचन्तीं प्रार्थयन्तीं पूजां समापयन्तीमित्यर्थः । विधेयां स्वानुकूलां दयितामवलोक्य रामो लक्ष्मणमब्रवीत् । अर्धद्वयमेकान्वयि ॥ २।५५।२६ ॥

वचनस्वरूपमाह– सीतामिति । अग्रतः अग्रे गच्छ सायुधो ऽहं पृष्ठतः अनुगमिष्यामि ॥ २।५५।२७ ॥

यद्यदिति । यत्र यस्मिंस्थले अस्याः मनो रमते तत्र यद्यत्प्रार्थयते तत्तत्प्रयच्छ ॥ २।५५।२८ ॥

रामोक्तिं संवर्ण्य सीतावृत्तमाह– एकैकमिति । अदृष्टरूपपादपादीन्पश्यन्ती सीता एकैकं पप्रच्छ प्रश्नपूर्वकोत्तरजनितनिश्चयं चकार । अदृष्टरूपामित्यस्य लिङ्गादिविपरिणामेनान्येष्वप्यन्वयः । पादपानित्यस्य पादपावयवानित्यर्थः । अतो न पौनरुक्त्यम् । सार्धश्लोक एकान्वयी ॥ २।५५।२९,३० ॥

सीतेति । सीतावचनसंरब्धः सीताज्ञापनहेतुकत्वरावाँल्लक्ष्मणः विचित्रा वालुका यस्मिंस्तज्जलं यस्याः तां हंसादेभिर्नादितां यमुनामानयामास ॥ २।५५।३१ ॥

रेमे इति । नदीं यमुनां जनकराजस्य सुता प्रेक्ष्य रेमे । एतेन यमुनादक्षिणतटेनैव स मार्ग इति व्यक्तम् । ततो ऽनन्तरं क्रोशमात्रं गत्वा मेध्यान्मार्गे सम्प्राप्तान्मृगान्हत्वा सन्ताड्य यमुनावने चेरतुः । सार्धश्लोक एकान्वयी ॥ २।५५।३२ ॥

विहृत्येति । बर्हिणपूगैः मयूरसमूहैः नादिते वारणवानराभ्यामायुते व्याप्ते वने विहृत्य समं वैषम्यरहितं नदीवप्रं यमुनादक्षिणतीरमुपेत्य प्राप्य निवासं निवासयोग्यवृक्षमाजग्मुः ॥ २।५५।३३ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥

२।५५ ॥