उत्तरदिनवृत्तं बोधयितुमाह– ते इति । ते रामादयः शुभां रजनीमुषित्वा प्रतस्थिरे ॥ २।५४।१ ॥
प्रस्थानमेव सविशेषं वर्णयन्नाह– यत्रेति । सुमहद्वनं विगाह्य अवलोक्येत्यर्थः । भागीरथी गङ्गा यत्र यमुनामभिप्रवर्तते तया सह सङ्गतेत्यर्थः । तं देशं प्रयागतीर्थमित्यर्थः उद्दिश्य जग्मुः ॥ २।५४।२ ॥
विगाहनप्रकारं बोधयन्नाह– त इति । भूमिभागान् भूमेर्भागो विभागो येषु तानदृष्टपूर्वान् विविधान्देशान् तत्र तत्र तत्तद्देशे यशस्विनः अतितपोविशिष्टत्वेन प्रशस्तयशोविशिष्टमुनींश्च किञ्च देशान् वत्स्यदेशोत्तरवर्त्यवान्तरदेशांस्तत्र तत्र भूमिभागान् तत्तद्देशज्ञानजनकभूमिप्रदेशान् सीमा इत्यर्थः । पश्यन्तो यशस्विनस्ते रामादयो जग्मुरित्यनुकृष्यते ॥ २।५४।३ ॥
यथेति । यथाक्षेमेण क्षेममनतिक्रम्य द्रुमान् सम्पश्यन्सन् दिवसे निवृत्तमात्रे निवृत्तप्राये किञ्चिदवशिष्टे सतीत्यर्थः सौमित्रिमब्रवीत् ॥ २।५४।४ ॥
तद्वचनमेवाह– प्रयागमिति । प्रयागमभितः प्रयागक्षेत्रसमीपे गङ्गायमुनासङ्गमसन्निधावित्यर्थः । भगवतः समर्थस्य अग्नेः केतुं सूचकमुत्तमं सुगन्धविशिष्टमित्यर्थः । धूमं पश्य । ननु किं दर्शनेनेत्यत आह– मुनिर्भरद्वाजः सन्निहित इत्यहं मन्ये हवनसम्बन्धिधूमदर्शनेनानुमिनोमीत्यर्थः ॥ २।५४।५ ॥
ननु प्रयागो ऽयमित्यत्र किं गमकमित्यत आह– नूनमिति । गङ्गायमुनयोः सम्भेदं सङ्गमं वयं प्राप्ताः स्म नूनं निश्चितमेतत् । तथाहि यतः गङ्गायमुनयोर्वारिणोः वारिघर्षजः उभयवारिसङ्घर्षजनितः शब्दः श्रूयते “घट्टज” इति पाठे ऽप्येवमेवेति भट्टाः । “घट्टित” इति भूषणपाठः । “सम्भेदः सिन्धुसङ्गमः” इत्यमरः तत्र सिन्धुर्नदी ॥ २।५४।६ ॥
दारूणीति । वनजैः वनोद्भूतफलपुष्पादिभिर्हेतुभिः उपजीविभिः जीविकावद्भिः
दारूणि काष्ठानि परिभिन्नानि विदारितानि दृश्यन्ते छिन्नाः विदारिता द्रुमाश्च दृश्यन्ते । वनजशब्देन यदि जन्तव उच्यन्ते तदा उपजीविभिरित्यस्य समानाधिकरणं विशेषणम् ॥ २।५४।७ ॥
रामोक्तिं समाप्य तद्वृत्तमाह– धन्विनाविति । दिवाकरे लम्बमाने अर्धास्तं प्राप्ते सति सन्धौ विद्यमानं मुनेर्भरद्वाजस्य निलयमाश्रमं प्रापतुः ॥ २।५४।८ ॥
राम इति । मृगपक्षिणः दुष्टान्मृगान्पक्षिणश्च त्रासयन् भरद्वाजमुपागमत् ॥ २।५४।९ ॥
तत इति । अनुगतौ युक्तौ दर्शनकाङ्क्षया आसाद्य प्राप्य दूरात् दूरे एव अवतस्थतुः तदाज्ञाकाङ्क्षयेति शेषः ॥ २।५४।१० ॥
स इति । स बहिःप्राप्तशिष्यादिद्वारा लब्धाज्ञः रामः शिष्यगणैः शिष्यसमूहैः वृतं संशितव्रतं तीक्ष्णव्रतधारिणं तपसा लब्धं चक्षुः सर्वविषयकज्ञानं येन तं महात्मानमृषिं रामो ऽभ्यवादयत् । श्लोकद्वयमेकान्वयि ॥ २।५४।११,१२ ॥
न्यवेदयतेति । लक्ष्मणपूर्वजो रामस्तस्मै भरद्वाजाय आत्मानं न्यवेदयत अबोधयत । तदेवाह– आवां दशरथस्य पुत्रौ रामलक्ष्मणौ ॥ २।५४।१३ ॥
भार्येति । मामनुयाता अनुगता इयं वैदेही मम भार्या न्यवेदयत । चात्मानमित्यत्रात्मशब्देनात्मभूतानामपि ग्रहणान्न लक्ष्मणादिनिवेदनमधिकम् ॥ २।५४।१४ ॥
आगमने कारणं बोधयन्नाह– पित्रेति । पित्रा वनं प्रव्राज्यमानं केकयीवरदानहेतुना प्रेष्यमाणं मामयं भ्राता अन्वगमत् ॥ २।५४।१५ ॥
उपसंहरन्नाह– पित्रेति । नियुक्ता साक्षात्परंपरया चाज्ञप्ताः वयं तपोवनं प्रवेक्ष्यामः धर्मं वानप्रस्थोचितकर्म आचरिष्यामः ॥ २।५४।१६ ॥
तस्येति । तस्य रामस्य वचनं श्रुत्वा गां मधुपर्काङ्गीभूतमहोक्षं अर्घ्यमर्घहितमुदकं तदुपलक्षितनिखिलपूजनसामग्रीं धर्मात्मा भारद्वाजः उपानयत् रामसमीपं प्रापयत् ॥ २।५४।१७ ॥
नानेति । वन्यान्येव मूलफलानि आश्रयः उपादानं येषां तान् नानाविधानन्नरसान् अन्ना अदनीया एव रसास्तान् तेभ्यो रामादिभ्यो ददौ वासं वासयोग्यस्थलं च अभ्यकल्पयत् अरचयत् । अन्नस्यौदनार्थकत्वं तु नात्र सम्भवति धर्ममेवाचरिष्यामस्तत्र मूलफलाशना इत्यनेन तन्निषेधस्य बोधितत्वात् अत एव न स्वातन्त्र्सयेण कर्मणोरन्वयः ॥ २।५४।१८ ॥
मृगेति । समन्ततः मृगपक्षिभिः मुनिभिश्च सहासीनो मुनिः भरद्वाजः तां मुनिसमर्पितामर्चां प्रतिगृह्य उपविष्टं संस्थितं राघवमिदं धर्मयुक्तं वाक्यमब्रवीत् । श्लोकद्वयमेकान्वयि ॥ २।५४।१९,२० ॥
तद्वाक्यमेवाह– चिरस्येति । हे काकुत्स्थ राम तव उपागतं समीपागमनं चिरस्य बहुकालतः पश्यामि कदा आगन्तेति सर्वदैवालोचयामीत्यर्थः । तत्र हेतुः अकारणं स्वेच्छातिरिक्तकारणरहितं तव विवासनं श्रुतं वाल्मीकिमुखादवगतम् । चो हेतौ ॥ २।५४।२१ ॥
स्वाभिप्रेतमाह– अवकाश इति । महानद्योः गङ्गायमुनयोः समागमे सङ्गमसमीपे अवकाशः विशाल इत्यर्थः । विविक्तः दुर्जनसंसर्गरहितः अत एव पुण्यः अत एव रमणीयः अयं देशो ऽस्तीति शेषः । अतः इह भवान्सुखं वसतु ॥ २।५४।२२ ॥
एवमिति । भरद्वाजेन एवमुक्तो राघवः प्रत्युवाच ॥ २।५४।२३ ॥
तदेवाह– भगवन्निति । इतः स्थानात् आसन्नः निकटवर्ती प्रेक्षको दर्शनाभिलाषी पौरजानपदः अयोध्यातद्देशयोर्भवः अजनः कर्माधीनजन्मरहितः नित्यसुखादिरित्यर्थः । जनः सुदर्शनं सुखेन दर्शनयोग्यं मां वैदेहीं च प्रेक्ष्य ज्ञात्वा इममाश्रममागमिष्यति अनेन कारणेन न रोचये वाञ्छामि । श्लोकद्वयमेकान्वयि ॥ २।५४।२४,२५ ॥
एकान्त इति । आश्रम् आसमन्तात् अश्रमं श्रमनिवर्तकं स्थानं पश्य आलोच्य आज्ञापय यत्र वैदेही रमते रमेत ॥ २।५४।२६ ॥
एतदिति । अर्थग्राहकं स्थानान्तरान्वेषणप्रयोजनबोधकं तद्वाक्यं श्रुत्वा भरद्वाज एतद्वाक्यमब्रवीत् ॥ २।५४।२७ ॥
तद्वचनमेवाह– दशेति । इतः दशक्रोशे त्रिंशत्क्रोशपरिछिन्नदेशसन्निधौ महर्षिसेवितः पर्वतः अवान्तरपर्वतविशिष्टः गिरिः पर्वतो ऽस्ति यस्मिंस्त्वं निवत्स्यसि दशशब्दस्यैकश्ोषेणायमर्थो लब्धः अत एव नासम्भवः दशक्रोशः दशक्रोशपरिमित इति पर्वतविशेषणे तु नैकशेषकल्पना ॥ २।५४।२८ ॥
ननु तद्गिरेः किं नामेत्यत आह– गोलाङ्गूलेति । गोलाङ्गूलानुचरितः वानरादिभिर्निषेवितः गन्धमादनसदृशः चित्रकूट इति ख्यातो ऽस्तीति शेषः ॥ २।५४।२९ ॥
यावतेति । यावता कालेन नरः शृङ्गाणि अवेक्षते पश्यति तावता कालेनैव कल्याणानि दर्शनप्रभावजनितशुभानि समाधत्ते प्राप्नोति अत एव पापे मनः न कुरुते ॥ २।५४।३० ॥
तत्र वासे शिष्टाचारं प्रमाणयन्नाह– ऋषय इति । तत्र चित्रकूटे तपसा युक्ता बहवः ऋषयः कपालशिरसा त्वद्दर्शनफलकनित्यस्थितिमच्छिवेन सह शरदां शतं विहृत्य दिवप्रमोदविशेषमारूढाः प्राप्ताः । एतेन शिवस्य रामानुरागिश्रेष्ठत्वं व्यञ्जितम् ॥ २।५४।३१ ॥
प्रविविक्तमिति । प्रविविक्तं दुष्टजनरहितं सुखं सुखप्रदं तं चित्रकूटं भवतः वासं वासाश्रयं मन्ये अतः तत्र इह वा मया सह वस तत्रेत्यध्याहृतम् ॥ २।५४।३२ ॥
स इति । प्रियातिथिं तं रामं सर्वकामैः निखिलेच्छाविषयीभूतपदार्थप्रापकवचनैः हर्षयन्स
भरद्वाजो जग्राह तस्यां रात्रौ निवासयामास ॥ २।५४।३३ ॥
तस्येति । प्रयागे महर्षिमुपेयुषः प्राप्तस्य कथाः कथयतो रामस्य रजनी प्रपन्ना प्राप्ता ॥ २।५४।३४ ॥
सीतेति । सीता तृतीया यस्य सः सुखोचितः परिश्रान्तः अध्वजनितश्रमवत्तया प्रतीयमानः काकुत्स्थः भरद्वाजाश्रमे सुखमवसत् ॥ २।५४।३५ ॥
प्रभातायामिति ज्वलिततेजसं मुनिमुवाच ॥ २।५४।३६ ॥
तद्वचनमेवाह– शर्वरीति । हे भगवन् सत्यशील तवाश्रमे एव शर्वरी रात्रिः उषिता स्म ह अथ वसतिं वासस्थलं गन्तुमिति शेषः । अनुजानातु आज्ञापयतु । उरेवार्थे ॥ २।५४।३७ ॥
रात्र्यामिति । व्युष्टायां व्यतीतायां सत्यां भरद्वाजः इदमब्रवीत् । तद्वचनस्वरूपमाह– इति इतः चित्रकूटं व्रज ॥ २।५४।३८ ॥
तत्र हेतुं वदन्नाह– वासमिति । नाना अनेकविधैः नगगणैर्वृक्षसमूहैः उपेतः मयूरनादैः अभिरतः रमणीयः गजराजैः निषेवितः विश्रुतः प्रख्यातः शैलश्चित्रकूटः गम्यतां तत्र वासमौपयिकं युक्तं मन्ये । श्लोकद्वयमेकान्वयि ॥ २।५४।३९,४० ॥
पुण्य इति । तानि कुञ्जरमृगयूथानि सरिदादीनि च द्रक्ष्यसि अतः तव मनो नन्दिष्यति । तत्र सरितो नद्यः, प्रस्रवणाः बिन्दुशो जलनिपाताः, प्रस्थाः शिलाः, दर्यः पाषाणसन्धयः, कन्दराः गुहाः, निर्झराः गिरिच्युताल्पप्रवाहाः । सार्धश्लोकद्वयमेकान्वयि ॥ २।५४।४१,४२ ॥
प्रहृष्टेति । प्रहृष्टानां कोयष्टिककोकिलानां स्वनैः शब्दैः सुखं विनोदयन्तं प्रापयन्तं मृगैः कुञ्जरैश्च सुरम्यमाश्रयं वासयोग्यपर्वतमासाद्य प्राप्य समावस ॥ २।५४।४३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥ २।५४ ॥