०५३ राम-लक्ष्मणसंवादः

वासवृक्षप्राप्त्यनन्तरकालिकं रामवृत्तमाह– स इति । समासाद्य प्राप्य पश्चिमामुत्तरां सन्ध्यामन्वास्य रामः लक्ष्मणमुवाच ॥ २।५३।१ ॥

तद्वचनमेवाह– अद्येति । जनपदात्स्वकीयजनसेवितदेशाद्बहिः याता प्राप्ता सुमन्त्रेण रहिता प्रथमा या इयं रात्रिः तां प्राप्य उत्कण्ठितुं पित्रादि स्मर्तुं नार्हसि ॥ २।५३।२ ॥

जागर्तव्यमिति । अतन्द्रिभ्यां तन्द्रारहिताभ्यामावाभ्यां जागर्तव्यं जागरितव्यम् तत्र हेतुः सीतायाः योगक्षेमौ आवयोरधीनौ इति शेषः । वर्तते तत्र योगः अलभ्यस्य वन्यफलादेर्लाभः, क्षेमः लब्धस्य स्वमर्यादारूपवस्तुनः परिपालनम् ॥ २।५३।३ ॥

रात्रिमिति । हे लक्ष्मण कथञ्चित्सुखाभावे ऽपीत्यर्थः । इमां रात्रिं वर्तयामहे व्यतीतयामः सुखाभावे हेतुः भूमौ पर्णशालारहितस्थले स्वयमर्जितैः तृणादिभिः आस्तीर्य अपवर्तामहे तिष्ठामः “उपावर्तामहे” इति भूषणपाठः ॥ २।५३।४ ॥

रामविशेषोक्तिं वर्णयितुमाह– स इति । स रामः इमाः कथाः सौमित्रये व्याजहार कथयामास ॥ २।५३।५ ॥

तत्कथनमेवाह– ध्रुवमिति । अद्य अस्मिन्समये दुःखं यथा स्यात्तथा महाराजः स्वपिति ध्रुवं निश्चितमेतत् अतः कृतकामा प्राप्तस्वाभीष्टवरापि कैकेयी किं तुष्टा भवितुमर्हति नेत्यर्थः । तु किमर्थे ॥ २।५३।६ ॥

सेति । प्राणान्प्राणसदृशास्मद्रक्षक हे लक्ष्मण आगतं भरतम् न दृष्ट्वा भरतकर्तृकागमनमदृष्ट्वेत्यर्थः । किञ्च न आगतमागमनं यस्य तं भरतं दृष्ट्वा ज्ञात्वा भरतो नागत इति विचार्येत्यर्थः । आगतमित्यत्र निषेधार्थकमकारं प्रश्लिष्येमौ अर्थौ राज्यकरणाद्राज्यकरणहेतुकभरतानयनार्थं महाराजं तु न च्यावयेत्प्रेषयेत् । अस्मद्वियोगदुःखितत्वादिति तात्पर्यम् । तेन सुमन्त्रमेव प्रेषयितेति व्यञ्जितम् ॥ २।५३।७ ॥

अनाथ इति । अनाथः सर्वनियन्तृत्वेन नाथान्तररहितः चक्रवर्तीत्यर्थः । वृद्धः ज्ञानवयोभ्यामधिकः अत एव वशमतिकान्तिमागतो नित्यं प्राप्तो ऽपि महाराजः कैकेय्या मन्थरया मया विना कृतः अत एव कामात्मा कामः अभिषेकविषयिणीच्छा आत्मनि मनस्येव यस्य सः दुःखी सन्नित्यर्थः । किं करिष्यति एतेन तत्कृत्यं विचारणीयमिति ध्वनितम् ॥ २।५३।८ ॥

इदमिति । कामे अभिषेकविषयकोत्कटेच्छायां सत्यां मतिविभ्रमं मतिविभ्रमकारकमिदं वियोगतं व्यसनं दुःखमालोक्य अनुभूय विद्यमानस्यापि राज्ञः अर्थधर्माभ्यां गरीयान्गरीयस्त्वमस्ति अर्थधर्मयोर्नैव त्याग इत्यर्थः । इति मे मतिः निश्चयः तेन तस्य धैर्यातिशयवत्त्वं मर्यादापालकत्वं च ध्वनितम् ॥ २।५३।९ ॥

तस्य धैर्यातिशयवत्त्वं प्रकाशयन्नाह– क इति । तातो दशरथो मामिव अविद्वान् अरसज्ञो ऽपि कः पुमान् कृते परोपकाराय छन्दानुवर्तिनमाज्ञाकारिणं पुत्रं प्रमदायाः अतिहर्षहेतुभूतायाः पुर्यास्त्यजेत् पृथक् कुर्यात् न कोपी ऽत्यर्थः । कृते इत्यत्र विनापि प्रत्ययमित्युपपदलोपः ॥ २।५३।१० ॥

इदानीं भरतस्यापि दुःखातिशयो भवितेति बोधयन्नाह– सुखीति । एकः मया रहितः सभार्यः केकयीसुतो यो भरतः सः सुखी सन् अधिराजवत्कोशलान् बत किं भोक्ष्यति पालयिता नेत्यर्थः ॥ २।५३।११ ॥

ननु तर्हि राज्याधिकारे एव न तिष्ठेदित्यत आह– स इति । ताते वयसातीते अतिवयस्के सतीत्यर्थः । स वशिष्ठादिभिर्बोधितो भरतः सर्वस्य राज्यस्य सर्वप्रजाभ्य इत्यर्थः । एकमल्पं प्राणरक्षामात्रजं सुखं भविष्यति प्रापयिष्यति प्राप्त्यर्थको ऽन्तर्भावितणिजर्थश्च भवतिः ॥ २।५३।१२ ॥

इदानीमिदं वियोगजनितदुःखं न दशरथयोग्यमिति बोधयन्नाह– अर्थेति । राजा दशरथो यथा येन प्रकारेण क्षिप्रं दुःखं प्राप्त इति शेषः । एवमनेन प्रकारेण दुःखं यः पुरुषः अर्थधर्मौ परित्यज्य कामं स्वच्छामनुवर्तते सः आपद्यते एतेन अकारणकमिदं दुःखं शीघ्रं नंष्टेति सूचितम् ॥ २।५२।१३ ॥

इदानीं केकय्यां दुःखातिशयो ऽस्तीति बोधयन्नाह– मन्य इति । मम प्रव्राजनं निर्वर्तयितुं दशरथान्ताय दशरथसिद्धान्तं निर्वर्तयितुं भरतस्य राज्याय स्वनियुक्तत्वमूलकभरतसम्बन्धिराज्यपालनाय विद्यमाना कैकेयी सन्तप्ता अस्मद्वियोगजदुःखाक्रान्तास्तीति मन्ये अत एव मत्कृते हर्षध्वंसे सति सौभाग्यमदमोहिता अहमतीव पतिप्रियेति सौभाग्यविषयको यो मद्धर्षस्तेन अमोहिता सा कैकेयी कौशल्यादीन् अ न प्रबाधेत । श्लोकद्वयमेकान्वयि ॥ २।५३।१४,१५ ॥

ननु एतत्स्मरणस्य इदानीं किं प्रयोजनमित्यत आह– मातेति । माताः कौशल्यादयः सुमित्रा च अस्मत्कारणादस्मदर्थमदुःखमावसेत्प्राप्नुयात् इतः हेतोः काले प्रभातसमये अयोध्यां प्रविश गच्छ सुमित्राया मातृग्रहणेन ग्रहणे ऽपि पुनरुपादानं गोबलीवर्दन्यायेन वैशिष्ट्यबोधनाय ॥ २।५३।१६ ॥

अहमिति । एकः सहायान्तररहितः नाथो रक्षकः ॥ २।५३।१७ ॥

मन्थरातो ऽवश्यं रक्षा कर्तव्येति बोधयन्नाह– क्षुद्रेति । कैकेयी तद्दासी मन्थरा द्वेषात्सर्वनिष्ठप्रीत्यभावाद्धेतोः क्षुद्रकर्मा सती अन्यायमाचरेत् । तदेवाह– गरं विषम् ॥ २।५३।१८ ॥

ननु हिंसाजनकं कर्म कथं करिष्यतीत्यत आह– नूनमिति । जात्यन्तरे मनुवंशातिरिक्तक्षत्रियजातौ स्त्रियः पुत्रैरपत्यैर्वियोजिताः अत्यन्तवियोगं प्राप्ता भवन्ति बालान् घ्नन्तीत्यर्थः । तत्तस्माद्धेतोः एतदुपस्थितं दुःखं वारयेति शेषः ॥ २।५३।१९ ॥

मयेति । चिरपुष्टेन चिरं पोषितेन अत एव दुःखसंवर्धितेन कदा अयं संविर्धितो भविष्यतीति सम्भावनामूलकदुःखाभासं यथा स्यात्तथा संवृद्धिं प्रापितेन मया फलकाले विप्रायुज्यत अतः मां वियोगसम्पत्तिं धिक् ॥ २।५३।२० ॥

मेति । यतः यो ऽहम् अनन्तकमनिवानिवार्यम् अम्बायाः मातुः शोकं दद्मि अतः ईदृशं मत्सदृशवियोगहेतुकं सीमन्तिनी स्त्री मा स्म जनयेत् ॥ २।५३।२१ ॥

मन्ये इति । सा मात्रा कौशल्यया पालिता सारिका पक्षिविशेषः । मत्तो ऽधिका प्रीतिविशिष्टा मातृविषयकस्नेहयुक्ता मातृप्रमोदजनिकेत्यर्थः । यद्यस्माद्धेतोः शुक पादमरेर्दशेति तस्याः सारिकायाः वाक्यं श्रूयते नात्रेति शेषः तदर्थस्तु हे शुक अरेः कौशल्याशत्रोः पादं त्वं दशेति सा तु वचनश्रवणेनापि सन्तोषयति अहं तु तत्राप्यशक्त इति तात्पर्यम् ॥ २।५३।२२ ॥

शोचन्त्या इति । अल्पभाग्यायाः अल्पभाग्यासदृश्याः अपुत्रायाः प्रव्राजितपुत्रवत्याः मातुः न किञ्चिदुपकुर्वता वियोगजदुःखमशमयतेत्यर्थः मया किं कार्यम् ॥ २।५३।२३ ॥

अल्पभाग्येति । यतो मया रहिता अत एव अल्पभाग्या तत्सदृशी अत एव परमदुःखार्ता अत एव शोकसागरे पतिता मे माता शेते आस्ते ॥ २।५३।२४ ॥

ननु भवद्गमनमन्तरा कथं शत्रुविनाशः तं विना कथं तस्याः परमसुखमिति सुखार्थमेव गच्छसीत्यत आह– एक इति । अयोध्यां नित्यं प्राप्त इति शेषः एको ऽहं पृथिवीं निखिलपृथिवीशत्रून् चकारेण लोकान्तरशत्रूनपि क्रुद्धः सन्निषुभिः तरेयम् । ननु तर्हि किमर्थं गम्यत इत्यत आह– अकारणं विशेषकारणरहितं वीर्यं वीर्यहेतुकशत्रुनाशो न भवति नु निश्चितमेतत् ॥ २।५३।२५ ॥

नन्वपराधविशेषाभावे ऽपि शत्रुत्वेन प्रसिद्धा हन्तव्या एवेत्यत आह– अधर्मभयभीतः सङ्ग्रामादन्यत्र रिपूणामपि वधः अधर्मः इति भयेन भीतः परलोकस्य दूरशत्रुजनस्य हन्ता नास्मीति

शेषः तेन हेतुना नाभिषेचये ॥ २।५३।२६ ॥

एतदिति । अदीनः नित्यं दीनतारहितो ऽपि रामः विलप्य विविधमुक्त्वा उपाविशत् ॥ २।५३।२७ ॥

विलापेति । आश्वासयदाश्वासनफलकविज्ञापनामकरोत् ॥ २।५३।२८ ॥

तद्विज्ञापनामेवाह– ध्रुवमिति । आयुधिनां वर श्रेष्ठ शर्वरी रात्रिः एतेन त्वया विना मद्गमनमनर्थकमिति ध्वनितम् ॥ २।५३।२९ ॥

नेति । यदिदं परितप्यसे शोचसि तदौपयिकं युक्तं न अत एव विषादयसि दुःखयसि ॥ २।५३।३० ॥

मन्मात्रप्रेषणं सर्वथा अयुक्तमिति बोधयन्नाह– न चेति । त्वया हीना सीता अहं च न जीवावो न जीवावः नञ्द्वयेन क्रिया ऽ ऽवर्त्यते ॥ २।५३।३१ ॥

नहीति । तातादिकं स्वर्गं साकेतं च त्वया विना द्रष्टुं नेच्छेयम् । एतेन नोत्कण्ठितुमर्हसीत्यस्योत्तरं जातम् ॥ २।५३।३२ ॥

तत इति । ततः लक्ष्मणोक्तिश्रवणानन्तरं तत्र न्यग्रोधे सुखासीनौ धर्मवत्सलौ सीतारामौ नातिदूरे समीपे इत्यर्थः । सुकृतां लक्ष्मणेन रचितां शय्यां निरीक्ष्य भेजाते तस्थतुः ॥ २।५३।३३ ॥

स इति । उत्तमपुष्कलं मधुरं पूर्णार्थं लक्ष्मणस्य वचः सुचिराय बहुकालं निशम्य श्रुत्वा वनवासं वनवासोचितं धर्मं प्रपद्य यथाकालं कर्तव्यत्वेन निश्चित्य समस्ताः समाः वर्षाणि विदधे विधातुमशिक्षयत् ॥ २।५३।३४ ॥

तत इति । भयं कुतश्चिद्भीतिं सम्भ्रममुद्वेगं च नैव अभ्युपेयतुः ॥ २।५३।३५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे त्रिपञ्चाशत्तमः सर्गः ॥ २।५३ ॥