०५२ गङ्गातरणम्-सुमन्त्रविसर्जनं च

लक्ष्मणोक्त्यनन्तरकालिकां रामोक्तिं वर्णयितुमाह– प्रभातायामिति । शर्वर्यां रात्रौ प्रभातायां सत्यां रामः लक्ष्मणमुवाच ॥ २।५२।१ ॥

तद्वचनमेवाह– भास्करेति । असौ भास्करोदयकालः अतः भगवती तारासम्पत्तिमती निशा गता तत्र हेतुः सुकृष्णः अतिश्यामः कोकिलः कोकिलपालितः विहगः काक इत्यर्थः । कूजति प्रातःकाले काकशब्दस्यैव प्रसिद्धत्वात्कोकिलशब्देन काक उच्यते । काकशब्दानुक्तिस्तु प्रातस्तन्नामोच्चारणस्य निशिद्धत्वादिति दिक् । बर्हिणानां मयूराणां निर्घोषश्च श्रूयते अतः जाह्नवीं तराम । श्लोकद्वयमेकान्वयि ॥ २।५२।२,३ ॥

विज्ञायेति । सौमित्रिः रामस्य वचः विज्ञाय विशेषेण ज्ञात्वा तरणार्थं नावमाकाङ्क्षते इति बुद्धेत्यर्थः । गुहं सूतं च आमन्त्र्य शीघ्रं नौरानेया शीघ्रं तरणकामो रामः इत्युक्त्वेत्यर्थः भ्रातुः अग्रतः अग्रे अतिष्ठत् ॥ २।५२।४ ॥

स इति । स्थपतिः निषादाधिपतिः सः गुहः रामस्य वचनं निशम्य श्रुत्वा प्रतिगृह्य लक्ष्मणद्वारा तदभिप्रायं बुद्ध्वा सचिवान्स्वमन्त्रिणस्तूर्णमाहूय इदमब्रवीत् ॥ २।५२।५ ॥

अस्येति । वाहनसंयुक्तां वाहयति जलनिरसनद्वारा नावं तीरं प्रापयतीति वाहनमरित्रं तेन संयुक्तां कर्णग्राहवतीं कर्णग्राहः कर्णधारः तद्वतीं शुभां रमणीयरागादिविशिष्टात्वेन मनोरमां दृढां छिद्रादिरहितात्वेन अदार्ढ्यशङ्कारहितामत एव अस्य रामस्य सुप्रतारां सुखं तारणयोग्यां नावं तीर्थे तरणघट्टे शीघ्रमुपाहर प्रापय ॥ २।५२।६ ॥

तमिति । गुहादेशं निशम्य श्रुत्वा रुचिरां नावमुपोह्य तत्समीपघट्टे प्रापय्य प्रत्यवेदयत् इयं नौरागतेत्यबोधयत् ॥ २।५२।७ ॥

तत इति । ततः स्वमन्त्रिबोधितनौदर्शनानन्तरं गुहः राघवं राममब्रवीत् । तद्वचनमेवाह– हे देव नौरुपस्थिता प्रापिता भूयः पुनस्ते किं करवाणि ॥ २।५२।८ ॥

तवेति । हे अमरसुतप्रख्य अमरा ध्वंसा ऽप्रतियोगिनी सुतप्रख्या दशरथसुतेति नाम यस्य तत्सम्बोधनं सागरगामिनीं गङ्गां तर्तुमियं नौः प्रापितेति शेषः । अतः शीघ्रमारोह ॥ २।५२।९ ॥

अथेति । अथ गुहप्रार्थनाश्रवणानन्तरं भवता अहं कृतकामः निष्पादिताभीष्टः अतः शीघ्रमारोप्यतां खनित्रपिटकादि आरोह्यतामित्यर्थः । इदं वचः रामो गुहमुवाच ॥ २।५२।१० ॥

तत इति । ततः गुहाज्ञापनानन्तरं सन्नह्य कवचं सन्धार्य कलापाँस्तूणीराखड्गौ च बद्ध्वा धन्विनौ राघवौ येन मार्गेण तरणार्थं जना गच्छन्ति इति शेषः । तेन मार्गेण गङ्गां जग्मतुः ॥ २।५२।११ ॥

राममिति । एवं स्वकर्मकानाज्ञापनप्रकारेण विद्यमानं राममुपागत्य विनीतवद्विनीतिविशिष्टं किमहं करवाणीति वचः सूतो ऽब्रवीत् ॥ २।५२।१२ ॥

तत इति । हे सुमन्त्र राज्ञः दशरथस्य सकाशे समीपे शीघ्रं याहि अप्रमत्तः मद्वियोगहेतुकानवधानतारहितश्च भव इति वचः उत्तमदक्षिणेन स्पर्शमात्रेण स्पृश्यमानोत्तमत्वसूचकसव्येतरेण करेण सुमन्त्रं स्पृशन्सन्नुवाच ॥ ५२।१३ ॥

तदौदासीन्यमुपलक्ष्य पुनः प्रवृत्तं रामवचनं वर्णयन्नाह– निवर्तस्वेति । एतावद्गङ्गापर्यन्तरथकरणकगमनमेव कृतं पित्राज्ञया स्वीकृतमतस्त्वं निवर्तस्व वयं तु पद्भ्यां गमिष्यामः इति एनं सुमन्त्रमुवाच ॥ २।५२।१४ ॥

आत्मानमिति । अभ्यनुज्ञातमयोध्यागमनायाज्ञप्तमात्मानमवेक्ष्य ज्ञात्वा ऐक्ष्वाकं राममब्रवीत् ॥ २।५२।१५ ॥

तद्वचनमेवाह– नेति । पदैश्वर्यमतिक्रम्य सभ्रातृभार्यस्य तव वने वासः तदिदमैश्वर्यं लोके केनचित्पुरुषेण नाक्रान्तं परित्यक्तम् ॥ २।५२।१६ ॥

नेति । यदि ब्रह्मचर्यादौ फलोदयः तर्हि व्यसनं दुःखमागतं प्राप्तं त्वामहं न मन्ये त्वां व्यसनं नैव प्राप्स्यतीति निश्चिनोमीत्यर्थः । अत्र मार्दवं दयालुत्वमार्जवं तृप्तिकारकवचनोच्चारणमिति न पौनरुक्त्यम् ॥ २।५२।१७ ॥

सदेति । हे राघव वैदेह्या भ्रात्रा च सह वने वसन्संस्त्रीन्लोकाञ्जयन्निव गतिमत्युत्कर्षं प्राप्स्यसे ॥ २।५२।१८ ॥

ननु तर्हि किमर्थं शोचसीत्यत आह– वचमिति । हे राम त्वया सह वयं कैकेय्या कैकेयीदास्या मन्थरया वञ्चिता अकालकवरयाचनप्रेरणया प्रलम्भिताः अत एव दुःखभागिनो वयं पापायाः मन्थरायाः वशमेष्यामः ॥ २।५२।१९ ॥

इतीति । आत्मसमममात्योचितमित्यर्थः । ब्रुवन् सुमन्त्रः दूरगतं दूरदेशसंयोगानुकूलव्यापारवन्तं रामं दृष्ट्वा चिरं रुरुदे ॥ २।५२।२० ॥

तत इति । बाष्पे अश्रुणि विगते सति स्पृष्टोदकं स्पृष्टमुदकं येन तं सूतं रामः मधुरं वाक्यं पुनः पुनरुवाच ॥ २।५२।२१ ॥

तद्वाक्यमेवाह– इष्वाकूणामिति । त्वया तुल्यं इक्ष्वाकूणां सुहृदं नोपलक्षये पश्यामि अतः यथा येन राजा मां न शोचेत्तथा कुरु ॥ २।५२।२२ ॥

(प्रिंट् सम्यक् नास्ति)

शोकेति । कामभारावसन्नः कामः इच्छाविषयीभूतः भारो ऽभिषेकधारणं अवसन्नः विध्वस्तः यस्य अत एव शोकोपहतचेताः अस्तीति शेषः तस्मादेतद्ब्रवीमि ॥ २।५२।२३ ॥

शोकनाशकोपायं बोधयन्नाह– यदिति । महात्मा महीपतिः कैकेय्याः प्रियकामार्थं यद्वस्तु यथा येन प्रकारेण आज्ञापयेत्तत्तथा तेन प्रकारेण अविकाङ्क्षया विकाङ्क्षा अनादरः तदभावेन अत्यादरेणेत्यर्थः । कार्यं कर्तव्यम् ॥ २।५२।२४ ॥

एतदर्थमिति । नराधिपाः राजानः एतदर्थं राज्यानि प्रशासति । एतदर्थमेवाह– यद्येन प्रशासनेन सर्वकृत्येषु एषां राज्ञां मनः ईप्सितं न प्रतिहन्यते । एतेन राजेप्सितमविचारेण कर्तव्यमिति सूचितम् ॥ २।५२।२५ ॥

यदिति । यद्यस्मिन्कार्ये अलीकमौदासीन्यं नाधिच्छति शोकेन न ताम्यति तदेव कार्यं तथा तेन प्रकारेण कुरु ॥ २।५२।२६ ॥

अदृष्टेति । त्वं राजानं अभिवाद्य मम हेतोः मम इदं वचः ब्रूयाः ॥ २।५२।२७ ॥

स्ववचनमेवाह । नेति । अयोध्यायाः वयं च्युताः इति न शोचामि लक्ष्मणश्च न शोचति वने वत्स्यामहे इति वा न शोचामि । एतेन मच्छोकहेतुकः शोकस्त्वया न कार्य इति सूचितम् । नमुनेत्यत्र नकारस्य योगविभागेन त्रिपाद्याः क्वचिदसिद्धत्वाभावबोधनात्सन्धिः ॥ २।५२।२८ ॥

चतुर्दशेति । शीघ्रमागताँल्लक्ष्मणादीन्द्रक्ष्यसे ॥ २।५२।२९ ॥

एवमिति । एवमनेन प्रकारेण राजानमुक्त्वा मे मातरं कौशल्यां सहिताः हितत्वयुक्ताः अन्याश्च देवी राज्ञीः केकयीं च पुनः पुनः मे आरोग्यं ब्रूहि । अथ अनन्तरं सीतायाः आर्यस्य मम च लक्ष्मणस्य च वचनात् पादाभिवन्दनं कौशल्यादिचरणप्रणामं ब्रूहि । श्लोकद्वयमेकान्वयि । हितशब्दो भावप्रधानः ॥ २।५२।३०३१ ॥

ब्रूया इति । भरतं क्षिप्रं शीघ्रमानय इति च महाराजं ब्रूयाः तदानयने प्रयोजनमाह– आगतो भरतः नृपमते राजेच्छाविषयीभूते पदे स्थाने स्थाप्यः ॥ २।५२।३२ ॥

सुमन्त्रदुःखध्वंसोपायं वदन्नाह– भरतमिति । यौवराज्ये भरतमभिषिच्य इव सर्वं तदधीनं कृत्वेत्यर्थः । परिष्वज्य तमालिङ्ग्येत्यर्थः । विद्यमानं त्वामस्मत्सन्तापजं दुःखं नाभिभविष्यति । च इवार्थे ॥ २।५२।३३ ॥

भरत इति । भरतश्च वक्तव्यः । वक्तव्यमेवाह अविशेषतः वैषम्यरहितत्वेन ॥ २।५२।३४ ॥

यथेति । एतासु विषमदृष्टिर्न कर्तव्येति तात्पर्यम् ॥ २।५२।३५ ॥

तातस्येति । तातस्य जनकस्य प्रियकामेन अत एव यौवराज्यं यौवराज्यसदृशपालनमित्यर्थः । अपेक्षता स्वीकुर्वता त्वया उभयोः प्रकटाप्रकटसाकेतयोः सुखमेधितुं वर्धयितुमतिसुखं प्राप्तुमित्यर्थः शक्यम् ॥ २।५२।३६ ॥

निवर्त्यमान इति । रामेण निवर्त्यमानः अत एव प्रतिबोधितः सुमन्त्रः काकुत्स्थमब्रवीत् ॥ २।५२।३७ ॥

तद्वचनमेवाह– यदिति । यद्वचः उपचारेण भृत्यवक्तव्यत्वेन न ब्रूयां किन्तुं स्नेहादविक्लवं धार्ष्ट्यविशिष्टं यथा स्यात्तथा ब्रूयाम् तद्वाक्यं भक्तिमानयं मद्विषयकातिस्नेहवानिति ज्ञात्वा क्षन्तुमर्हसि ॥ २।५२।३८ ॥

तद्वचनमेवाह– कथमिति । हे तात तव वियोगेन पुत्रशोकातुरामिव तां पुरीमयोध्यां त्वद्विहीनो ऽहं कथं प्रतियास्यामि ॥ २।५२।३९ ॥

स इति । तावत्पूर्वं मे रथं सरामं रामविशिष्टं दृष्ट्वा अनुमानतो ज्ञात्वा तदा समीपागमनसमये विना रामं रथं दृष्ट्वा साक्षादवलोक्य सा पुरी विदीर्येतापि । अपिः सम्भावनार्थकः ॥ २।५२।४० ॥

तदेव भङ्ग्यत्तरेणाह– दैन्यमिति । शून्यं त्वया रहितं रथं दृष्ट्वा नगरी दैन्यं गच्छेत् तत्र दृष्टान्तः सूतावशेषं सूतमात्रावशिष्टमाहवे सङ्ग्रामे हतवीरं स्वसैन्यमिव ॥ २।५२।४१ ॥

दूरे इति । दूरे निवसन्तं त्वां दूरे निवसन्तीं त्वां सर्वतो विलक्षणां सीतां च मानसेन मनोव्यापारेण अग्रतः स्थितं स्थितां च चिन्तयन्त्यः प्रजाः अद्य त्वद्रहितरथगमनसमये निराहाराः कृताः त्वदागमनाभावं श्रुत्वा आहारादिकं न करिष्यन्तीत्यर्थः । निवसन्तमित्यस्य स्थितमित्यस्य च लिङ्गविपरिणामेनान्यत्राप्यन्वयः । एकस्त्वाशब्दः सर्वादिपठितादन्तप्रकृतिकटाबन्तः ॥ २।५२।४२ ॥

अत्र त्वदनुभव एव प्रमाणमिति बोधयन्नाह– दृष्टमिति । हे राम त्वत्प्रवासने त्वच्छोकक्लान्तचेतसां प्रजानां सङ्कुलमार्तरवादिविशिष्टं यादृशं वृत्तं तत्तादृशं त्वया दृष्टमेव ॥ २।५२।४३ ॥

आर्तेति । त्वत्प्रवासने यः आर्तनादः पौरैः उन्मुक्तः ततस्तस्मादार्तनादाच्छतगुणं नादं सरथं रथसहितं मामेव निशम्य कुर्युः ॥ २।५२।४४ ॥

अहमिति । देवीं कौशल्यामहं किं वक्ष्यामि येन वचनेन शोको न स्यात्तद्वचनं वदेत्यर्थः । ननु त्वयैव तद्विचार्य उच्यतामित्यत आह– तव सुतो मया मातुलकुलं नीतः अतः सन्तापं मा कृथाः इतीदृशमसत्यमेव वचनमहं नैव ब्रूयाम् । एतेनेदृशासत्यकथनं कञ्चित्कालं किञ्चिच्छोकहानिः सम्भवतीति सूचितम् । ननु तर्हि सत्यमेव ब्रूहीत्यत आह– अप्रियमिदं सत्यं वचः कथं ब्रूयाम् । तथा च मनुः “सत्यं ब्रुयात्प्रियं ब्रुयान्न ब्रुयात्सत्यमप्रियम्” इति । श्लोकद्वयमेकान्वयि ॥ २।५२।४५,४६ ॥

इदानीं रथगमनस्यैवाशक्यत्वं बोधयन्नाह– ममेति । मम नियोगस्थाः मम नियमने स्थिताः त्वद्बन्धुजनवाहिनः तव बन्धुजनः त्वमेव बन्धुजनश्च त्वद्बन्धुजनः स च स च त्वद्बन्धुजनौ तावेव वहन्ति तच्छीलिनः हयोत्तमाः त्वया त्वद्बन्धुना न विहीनं रथं कथं प्रवाह्यन्ति प्रवहनं करिष्यन्ति कथमिति सम्भावनायाम् । अत्र त्वयेत्यनेन त्वद्बन्धुलाभो भेदाध्यवसायाद्भाक्ताभाक्तयोर्ग्रहणं

त्वावृत्त्यागमकं तत्र प्रकरणम् ॥ २।५२।४७ ॥

तदिति । तदुक्तहेतोः त्वदृते त्वां विना अयोध्यां गन्तुं न शक्ष्यामि अतः वनवासानुयानाय वनवासानुगमनाय मामनुज्ञातुं त्वमर्हसि ॥ २।५२।४८ ॥

यदीति । याचमानस्य मे यदि त्यागमेव करिष्यसि तर्हि त्यक्तमात्रः कारणाभावेनापि त्यक्त एव सरथो ऽहमग्निं प्रवेक्ष्यामि ॥ २।५२।४९ ॥

अनुगमने प्रयोजनं बोधयन्नाह– भविष्यन्तीति । ते तयोर्विघ्नकराणि यानि भविष्यन्ति चेदिति शेषः । तानि बाधिष्ये एतेनाहमवश्यं नेतव्य इति सूचितम् ॥ २।५२।५० ॥

नन्वनुगमने क्लेशः स्यादित्यत आह– त्वदिति । त्वत्कृतेन त्वल्लाभेच्छया मया रथचर्याकृतं रथवाहनजनितं सुखं प्राप्तमतः त्वत्कृतेन त्वल्लाभेच्छयैव वनवासकृतं सुखमाशंसे इच्छामि ॥ २।५२।५१ ॥

प्रसीदेति । अरण्ये ते प्रत्यनन्तरः अतिनिकटकवर्ती भवितुमिच्छामि । तत्र हेतुः प्रीत्या ते अभिहितमुक्तमिच्छामि श्रोतुमिति शेषः । अतः मे प्रत्यनन्तरस्त्वं भव । यदि च अभिहितमित्यस्य आज्ञामित्यर्थस्तदा श्रोतुमिति नाध्याहार्यम् ॥ २।५२।५२ ॥

इमे इति । परिचर्यां सेवाम् ॥ २।५२।५३ ॥

तवेति । तव शुश्रूषणं सेवां वने करिष्यामि अतः अयोध्यां देवलोकं देवलोकगमनं च प्रजहामि त्यजामि । एतेन यथेच्छं देवलोकमप्ययं गच्छतीति व्यञ्जितम् ॥ २।५२।५४ ॥

नहीति । दुष्कृतकर्मणा पापकर्मकारिणा महेन्द्रस्य इन्द्रस्य राजधानी अमरावतीव ॥ २।५२।५५ ॥

वनवासे स्वप्रयोजनान्तरं बोधयन्नाह– वनवास इति । वनवासे नियमितवनवासकाले क्षयं प्राप्ते सति यत्प्रयत्नवानहमनेन रथेन पुरीमयोध्यां त्वां वहेयं हि एष मम मनोरथः ॥ २।५२।५६ ॥

चतुर्दशेति । वने त्वया सहितस्य मे चतुर्दशवर्षाणि क्षणभूतानि क्षणत्वं प्राप्तानि यास्यन्ति अन्यथा सहगमनाभावे शतसङ्ख्यानि यास्यन्ति संहिताया अभावस्तु “इको ऽसर्वर्णे शाकल्यस्य–” इति प्रकृतिभावात् ॥ २।५२।५७ ॥

भृत्येति । हे भृत्यवत्सल भर्तृपुत्रगते स्वामिपुत्रकर्तृकगतिमति पथि मार्गे तिष्ठन्तं स्थित्या सेवकरीत्या स्थितं विद्यमानं मां हातुं त्यक्तुं त्वं नार्हसि ॥ २।५२।५८ ॥

एवमिति । भृत्यानुकम्पी भृत्यविषयकातिदयावान्रामः सुमन्त्रमब्रवीत् ॥ २।५२।५९ ॥

तद्वचनमेवाह– जानामीति । यदर्थं त्वामितः प्रषयामि तच्छृणु ॥ २।५२।६० ॥

तत्प्रयोजनमाह– नगरीमिति । नगरीमयोध्यां त्वां गते प्राप्तं दृष्ट्वा यवीयसी कनिष्ठा मे जननी कैकेयी रामो वनं गत इति प्रत्ययं प्रतीतिं गच्छेत्प्राप्नुयात् । रथेन गमने केनचिद्राज्ञा स्वदेशं प्रापित इति शङ्का भविष्यतीति सूचितम् ॥ २।५२।६१ ॥

ननु तत्प्रतीत्या किमित्याह– परितुष्टेति । मयि वनवासं गतं तन्निश्चयत्वविशिष्टगतिमति सति परितुष्टा

सती धार्मिकं राजानं मिथ्यावादी इति नातिशङ्केत ॥ २।५२।६२ ॥

एष इति । भरतारक्षितं भरतेन आसमन्ताद्रक्षितमत एव वृत्तं प्रशस्तवृत्तिमत्पुत्रराज्यं यवीयसी अम्बा कैकेयी अवाप्स्यते । एषः मम प्रथमः कल्पः सङ्कल्पः । एतेन भरतागमनादि त्वद्गमनसाध्यमिति बोधितम् ॥ २।५२।६३ ॥

ममेति । पुरीमयोध्यां त्वं व्रज यान्यानर्थान्यथा यथा त्वं सन्दिष्टः पृष्टस्ताँस्तानर्थांस्तथा तथा

ब्रूयाः ॥ २।५२।६४ ॥

इतीति । इत्यनेन प्रकारेण वचनमुक्त्वा तेन सूतं सान्त्वयित्वा अक्लीबं क्लीबतानिवर्तकं हेतुमद्वचनं गुहमब्रवीत् ॥ २।५२।६५ ॥

तदाकारमाह– नेति । हे गुह सजने स्वकीयजनसहिते वने मे वासो न योग्यः अतः आश्रमे स्वकीयजनागम्यवनपर्णशालादाववश्यं वासः कर्तव्यः अत एव तद्गतस्तद्वासिषु प्राप्तः विधिश्च कर्तव्यः । कर्तव्य इत्युभयान्वयी ॥ २।५२।६६ ॥

तद्विधिं बोधयन्नाह– स इति । पित्रादेर्हितकामो ऽहं तपस्विजनभूषणं नियमं भूशयनादि गृहीत्वा अत एव जटाः कृत्वा निर्माय गमिष्यामि अतः न्यग्रोधक्षीरं वटवृक्षपय आनय तद्रामाज्ञापितं क्षीरं गुहः क्षिप्रमुपाहरत् । श्लोकद्वयमेकान्वयि ॥ २।५२।६७,६८ ॥

लक्ष्मणस्येति । तेन गुहानीतक्षीरेण जटाः अकरोत् । अतः जटिलत्वं जटिलधर्ममधारयत् ॥ २।५२।६९ ॥

ताविति । चीरसम्पन्नौ भ्रातरौ ऋषिसमौ अशोभेताम् ॥ २।५२।७० ॥

तत इति । वैखानसं मार्गं वानप्रस्थधर्मम् आस्थितः अत एव व्रतं तदनुष्ठानमादिष्टवान् स्वीकृतवान्रामः सहायं तरणादिसाहाय्यकारिणं गुहमब्रवीत् ॥ २।५२।७१ ॥

तद्वचनमेवाह– अप्रमत्त इति । बलादौ अप्रमत्तस्त्वं भवेथाः । तत्र हेतुः– हि यतः राज्यं दुरारक्षतमं दुःखेन आरक्ष्यते दुरारक्षं अतिशयेन दुरारक्षं दुरारक्षतमं मतं निश्चितम् ॥ २।५२।७२ ॥

तत इति । गुहं तूर्णं समनुज्ञाप्य इक्ष्वाकुनन्दनो रामः जगाम ॥ २।५२।७३ ॥

स इति । गङ्गां तितीर्षुः स रामः नदीतीरे उत्तरतीरवर्तिजले नावं दृष्ट्वा अब्रवीत् लक्ष्मणमिति शेषः ॥ २।५२।७४ ॥

तद्वचनमेवाह– आरोहेति । हे नरव्याघ्र लक्ष्मण मनस्विनीं सीतां परिगृह्य स्थितां नावं शनैरारोपय अन्वक्षं पश्चात्त्वमारोह ॥ २।५२।७५ ॥

स इति । स लक्ष्मणः भ्रातुः शासनं श्रुत्वा अप्रतिकूलयन्ननुकूलयन्सन्मैथिलीं पूर्वमारोप्य आरुरोह ॥ २।५२।७६ ॥

अथेति । अथ लक्ष्मणारोहणानन्तरं लक्ष्मणपूर्वजो रामः आरुरोह ततो ऽनन्तरं गुहः ज्ञातीनचोदयत् रामाज्ञानुकूलं वर्तितव्यमिति प्रैरयत् ॥ २।५२।७७ ॥

राघव इति । ब्रह्मवद्वेदप्रवर्तकः महातेजा राघवः क्षत्रवत्क्षत्रियकुलविहितं यथा भवति तथा आत्मनो हितं स्वप्रापकं मन्त्रविशेषं जजाप । एतेन तन्मन्त्रोच्चारणे रामस्य प्रीत्यतिशयो ध्वनितः ॥ २।५२।७८ ॥

आचम्येति । सीतया सह सन्तुष्टो रामः लक्ष्मणश्च यथाशास्त्रमाचम्य प्रणमत्प्राणमत् । आगमशास्त्रस्यानित्यत्वादड्विरहः ॥ २।५२।७९ ॥

अनुज्ञायेति । सुमन्त्रं सबलं सैन्यसहितं गुहं चानुज्ञाय नावमास्थाय नाविकांश्चोदयामास ॥ २।५२।८० ॥

तत इति । ततः नाविककर्मकप्रेरणानन्तरं तैः नाविकैः चालिता कर्णधारैः अरित्रग्राहकैः समाहिता तरणघट्टसम्मुखीकृता शुभस्फवेगाभिहता शुभस्फस्य शोभनारित्रस्य वेगेन अभिहता शीघ्रं चालिता नौका सलिलं गङ्गाजलमत्यगाच्छीघ्रमचलत् ॥ २।५२।८१ ॥

मध्यमिति । भागीरथ्याः मध्यं समनुप्राप्य अनिन्दिता आश्रितानां निन्दितत्वनिवर्तिका वैदेही इदमब्रवीत् ॥ २।५२।८२ ॥

तद्वचनमेवाह– पुत्र इति । अयं दशरथस्य पुत्रः त्वदभिरक्षितः सन्निदेशं राजाज्ञापितं पालयतु निर्विघ्नं चतुर्दशवर्षपर्यन्तं वनवासं करोत्वित्यर्थः ॥ २।५२।८३ ॥

चतुर्दशेति । कानने वने उष्य उषित्वा भ्रात्रादिना सह यस्मिन्समये प्रत्यागमिष्यति ततः तस्मिन्समये क्षेमेण आगता अत एव प्रमुदिताहं त्वां यक्ष्ये पूजयितास्मि । श्लोकद्वयमेकान्वयि ॥ २।५२।८४,८५ ॥

गङ्गायाः सामर्थ्यं पूजासमयविशेषं च बोधयन्ती आह– त्वमिति । हे देवि हे त्रिपथगे या त्वं ब्रह्मलोकं समक्षसे व्याप्नोषि अस्मिँल्लोके उदधिराजस्य भार्या सम्प्रदृश्यसे तां त्वां सा सीताहं नमस्यामि प्रशंसामि स्तौमि च शिवेन कल्याणेन पुनरागतेन नरव्याघ्रे रामे प्राप्तराज्ये सति तव प्रीतिचिकीर्षया गवां शतसहस्रं शतसहस्रसङ्ख्याकगवीः वस्त्राणि च पेशलमतिस्वादु अन्नं च ब्राह्मणेभ्यस्त्वत्तीरवर्तिविप्रेभ्यः प्रदास्यामि । श्लोकत्रयमेकान्वयि ॥ २।५२।८६८८ ॥

गङ्गापूजनसामग्रीं बोधयन्ती आह– सुरेति । पुरीं पुनः उपागता प्राप्ता अहं सुराघटसहस्रेण सुरेषु देवेषु न घटन्ते न सन्तीत्यर्थः तेषां सहस्रं तेन सहस्रसङ्ख्याकसुरदुर्लभपदार्थेनेत्यर्थः । मांसभूतौदनेन मा नास्ति अंसो राजभागो यस्यां सा एव भूः पृथ्वी च उतं वस्त्रं च ओदनं च एतेषां समाहारः तेन च त्वां यक्ष्ये अतः प्रीयतां दन्त्योपधो ऽप्यंसशब्दो भागवाची कोशे प्रसिद्धः ॥ २।५२।८९ ॥

यानीति । त्वत्तीरवासीनि यानि दैवतानि तीर्थानि प्रयागादीनि च आयतनामि अक्षयवटालोप्यादीनि च सन्ति तानि सर्वाणि यक्ष्यामि ॥ २।५२।९० ॥

पूजनप्रयोजनमुपसंहरन्ती आह– पुनरिति । हे अनघे मया भ्रात्रा च सङ्गतः संयुक्तो रामः अयोध्यां पुनः प्रविशतु ॥ २।५२।९१ ॥

तथेति । दक्षिणा पत्यनुकूला गङ्गां तथा सम्भाषमाणा सा सीता दक्षिणं तीरमभ्युपागमत् ॥ २।५२।९२ ॥

तीरमिति । नावं हित्वा त्यक्त्वा नरर्षभो रामः प्रातिष्ठत गमनप्रारम्भमकरोत् ॥ २।५२।९३ ॥

अथेति । सुमित्रानन्दवर्धनं लक्ष्मणं महाबाहुः रामः अब्रवीत् । तद्वचनमेवाह– विजने जनरहिते सजने परजनसहिते ऽपि वने संरक्षणार्थाय सीतारक्षायै भव उद्युक्त इति शेषः ॥ २।५२।९४ ॥

रक्षणे हेतुं वदन्नाह– अवश्यमिति । मद्विधैः मर्यादापालकैः विजने स्वजनेन रहिते वने रक्षणमवश्यं कार्यं बालादीनां स्त्रियाश्चेति शेषः । अतः हे सौमित्रे त्वमग्रतो गच्छ त्वामनुपश्चात्सीता गच्छतु अनुपालयन्सन्पृष्ठतः अहमनुगमिष्यामि । नन्वावयो रक्षकत्वे ऽपि रक्षकान्तरापेक्षा स्यादित्यत आह– नो ऽस्माकमन्योन्यस्य रक्षा कर्तव्या तेन रक्षकान्तरापेक्षा नास्तीति सूचितम् । श्लोकद्वयमेकान्वयि ॥ २।५२।९५,९६ ॥

नहीति । यया वैदेह्या असुकरा अतिप्रयत्नसाध्या काचनक्रिया नातिक्रान्ता कृतेत्यर्थः । सा वैदेही अद्य गमनसमये वनवासस्य वनवाससम्बन्धि दुःखं वनगमनजनितखेदं वेत्स्यति अयं खेदो निवार्य इति तात्पर्यम् ॥ २।५२।९७ ॥

दुःखे हेतुं वदन्नाह– प्रनष्टेति । प्रनष्टा अतिसूक्ष्मत्वाददृष्टा जनसंबाधा जनगमनहेतुकमार्गतृणादिक्षोदो यस्मिंस्तत्प्रायो जनैरगम्यमित्यर्थः । अत एव क्षेत्रादिभिर्विवर्जितमत एव विषमं सर्वत्र निम्नोन्नताभ्यां सहितमत एव प्रपातं पतनयोग्यगर्तादिविशिष्टं वनमद्य गमिष्यति प्रवेक्ष्यति ॥ २।५२।९८ ॥

श्रुत्वेति । अग्रतः अग्रे लक्ष्मणः प्रतस्थे सीतया लक्ष्मणमनुगच्छन्त्या इति शेषः । रघुनन्दनो रामः ॥ २।५२।९९ ॥

गतमिति । गतं प्राप्तं रामं सुमन्त्रः निरीक्ष्य अध्वप्रकर्षाद्रामाधिष्ठितमार्गस्य दूरत्वाद्धेतोः विनिवृत्तदृष्टिः अत एव व्यथितः सन् बाष्पं मुमोच ॥ २।५२।१०० ॥

स इति । महानदीं गङ्गां तीर्त्वा शुभसस्यमालिनः निर्बाधसस्यसमूहविशिष्टानत एव मुदितान्वत्स्यान् वत्स्यनामकदेशानुपागमत् । देशव्यवस्था तु गङ्गायमुनासङ्गमसमीपवर्त्यन्तर्वेदीदेशः प्रयागदेशः, ततः पश्चिमभागे वत्सकदशेः, ततः पश्चिमभागे पाञ्चालः, यमुनादक्षिणतीरे शूरलदेशः, तस्मात्पश्चिमतो मत्स्यदेश्ा इत्यादि ग्रन्थान्तरादवगन्तव्यम् ॥ २।५२।१०१ ॥

ताविति । तत्र वत्स्यदेशे वराहादीन् चतुरो महामृगान्हत्वा खेलनार्थं सन्ताड्य बुभुक्षितौ तौ रामलक्ष्मणौ मेध्यं व्रतिभिर्भोक्तव्यं फलादिकमित्यर्थः । आदाय गृहीत्वा वनस्पतिं वृक्षसमीपं ययतुः ॥ २।५२।१०२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे द्विपञ्चाशत्तमः सर्गः ॥ २।५२ ॥