०५१ गुह-लक्ष्मणसंवादः

गुहोक्तिं वर्णयितुमाह– तमिति । भ्रातुरर्थाय सुखं शयनाय जाग्रतं तं लक्ष्मणं सन्तापसन्तप्तः लक्ष्मणदुःखदर्शनजनितसन्तापवान् गुहः राघवं लक्ष्मणमब्रवीत् ॥ २।५१।१ ॥

तद्वचनमेवाह– इयमिति । साधु यथा तथा उपकल्पिता रचिता अतः अस्यां शय्यायां यथासुखं प्रत्याश्वसिहि विश्रान्तिं कुरु ॥ २।५१।२ ॥

उचित इति । क्लेशानां जागरणादिदुःखानामयं मदादिर्जनः उचितः योग्यः त्वं तु सुखोचितः अतः काकुत्स्थस्य रामस्य गुप्त्यर्थं वयं निशा सर्वरात्रं जागरिष्यामः ॥ २।५१।३ ॥

नहीति । ते तवाग्रे सत्यं ब्रवीमि अत्र विश्वासार्थं सत्येन स्वसुकृतेनेत्यर्थः । शपे शपथं करोमि ॥ २।५१।४ ॥

अस्येति । अस्य रामस्य प्रसादात् प्रसादं प्राप्यैव यशआदिकमाशासे वाञ्छामि । एतेन प्रसादाभावे यशआदिकं व्यर्थमेवेति सूचितम् । एकश्चकार एवार्थे ॥ २।५१।५ ॥

स इति । सः रामप्रसादाकाङ्क्षी अहं सर्वथा सर्वप्रकारेण रक्षिष्यामि ॥ २।५१।६ ॥

रक्षणे स्वयोग्यतां प्रकाशयन्नाह– नेति । अविदितमज्ञातं सुमहदतिविस्तीर्णमतिबलं चतुरङ्गं रिपुप्रेषितसैन्यं सन्तरेमहि सुखं जेष्याम इत्यर्थः ॥ २।५१।७ ॥

लक्ष्मण इति । ततः गुहवचनश्रवणानन्तरं लक्ष्मण उवाच । ततो वाचेत्यत्र गुणः । अत एव निर्देशात् । चनमेवाह– धर्मं सेवकरीतिमनुपश्यता ज्ञातवता त्वया रक्ष्यमाणाः वयं नैव भीताः ॥ २।५१।८ ॥

ननु तर्हि किमर्थं जागरणमित्यत आह– कथमिति । दाशरथौ रामे भूमौ शयाने सति निद्रादि लब्धुं मया कथं शक्या तत्र जीवितशब्दः करणनिष्ठान्तः भावनिष्ठान्तप्रकृतिकअर्शआद्यजन्तो वा अत एव भक्षणमर्थः ॥ २।५१।९ ॥

भूमिशयनायोग्यत्वं बोधयन्नाह य इति । सर्वैः मिलितैरित्यर्थः देवासुरैः प्रसहितुं पराभवितुं न शक्यः तं तृणेषु सुखसंसुप्तं पश्य ॥ २।५१।१० ॥

य इति । विविधैः पराक्रमैः उपलक्षितः सदृशलक्षणः सदृशानि सकलसद्गुणबोधकानि लक्षणानि शरीरचिह्नानि यस्य सः अत एव एकः मुख्यः मन्त्रतपसा लब्धः यः दशरथस्य पुत्रः तस्मिन्नस्मिन्रामे प्रव्रजिते सति राजा चिरं बहुकालं न वर्तयिष्यति राज्यं पालयिष्यति अतः विधवा पालकरहिता मेदिनी क्षिप्रं भविष्यति । श्लोकद्वयमेकान्वयि ॥ २।५१।१११२ ॥

विनद्येति । सुमहानादं विनद्य रामरामेत्युच्चार्येत्यर्थः । श्रमेण खेदाधिक्येन उपरताः निवृत्ताः स्त्रियो भविष्यन्तीति शेषः । अतः रामनिवेशनं रामगृहं निर्घोषोपरतं निर्घोषरहितं मन्ये ॥ २।५१।१३ ॥

कौशल्येति । कौशल्यादयः इमां शर्वरीं रात्रिं यदि जीवन्ति अतिमूर्च्छां न प्राप्नुवन्तीत्यर्थः । तदा अहमाशंसे तद्धैर्यप्रशंसां करिष्यामीत्यर्थः ॥ २।५१।१४ ॥

जीवेदिति । शत्रुघ्नस्य स्वपुत्रस्य अन्ववेक्षया अवलोकनेन हि यदि मे माता जीवेत्तदापि यदि वीरसूः अतिवीरपुत्रोत्पादनकर्त्री कौशल्या विनशिष्यति विनङ्क्ष्यति लोकान्तरगमनेन अदृश्यत्वं प्राप्स्यति तत्तदा दुःखमतिक्लेशः स्थास्यत्येवेति शेषः ॥ २।५१।१५ ॥

अनुरक्तेति । अनुरक्ताः रामविषयकानुरागविशिष्टाः ये जनास्तैः आकीर्णाः व्याप्ता अत एव सुखः अतिसुखहेतुः अत एव लोकप्रियावहा या पुरी सा अयोध्या राजव्यसनसंसृष्टा राजदुःखसम्बन्धवती सती विनशिष्यति ॥ २।५१।१६ ॥

कथमिति । ज्येष्ठपुत्रमपश्यतः राज्ञः प्राणाः शरीरं कथं धारयिष्यन्ति न धारयिष्यन्तीत्यर्थः ।

राजा लोकान्तरं गमिष्यतीति तात्पर्यम् ॥ २।५१।१७ ॥

अनर्थान्तरमाह– विनष्टे इति । नृपतौ विनष्टे लोकान्तरगमनप्रयुक्तादृश्यत्वं प्राप्ते सति अनन्तरं शीघ्रं यथा स्यात्तथा कौसल्या विनशिष्यति पश्चान्मम मातापि नाशमुपैष्यति ॥ २।५१।१८ ॥

ननु यथा विश्वामित्रसहगमनसमये रामदर्शनाभावप्रयुक्तराजकर्तृकलोकान्तरगमनाभावः तथाद्यपि भविष्यतीत्यत आह– अतिक्रान्तमिति । राज्ये राममनिक्षिप्य अप्रापय्य प्रारम्भविषयीभूताभिषेकमदृष्ट्वेत्यर्थः । अत एव अतिक्रान्तं सर्वत उत्कृष्टमित्यर्थः । मनोरथमनवाप्य मे पिता विनशिष्यति विनङ्क्ष्यति लोकान्तरं गमिष्यतीत्यर्थः । एतेनेदानीं गमने ह्रीर्हेतुर्भविष्यतीति ध्वनितम् ॥ २।५१।१९ ॥

सिद्धार्था इति । तस्मिन्लोकान्तरप्रयाणयोग्ये काले उपस्थिते सति सर्वेषु प्रेतकार्येषु प्रयाणसमयोचितकर्तव्येषु राघवं दशरथं ये संस्करिष्यन्ति मङ्गलपाठादिकं करिष्यन्ति ते सिद्धार्थाः । एतेन भरतो ऽपि तस्मिन्काले तं प्राप्स्यति न वेति संशयः सूचितः ॥ २।५१।२० ॥

रम्येति । अपि यदि दशरथो जीवेत्प्रजाः पालयेत्तदा रम्यचत्वरसंस्थानां रमणीयचतुष्पथयुक्तां हर्म्यैर्धनिनां गृहैः प्रासादैर्देवभूभुजां सदनैः सम्पन्नां रथाश्वगजसम्बाधां रथादिभिर्व्याप्तां समाजोत्सवशालिनीं समाजानां ब्राह्मणादिसमूहानामुत्सवस्य शालिनीमाश्रयभूतां मम पितुः राजधानीमयोध्यां विचरिष्यन्ति सुखेन स्थास्यन्तीत्यर्थः । अयोध्याः आसिन इति शेषः । वयं वनवासात्प्रत्यागम्य निवर्त्य महात्मानं राजानं पश्याम । श्लोकचतुष्टयमेकान्वयि ॥ २।५१।२१२४ ॥

सम्भावनान्तरमाह– अपीति । सत्यप्रतिज्ञेन रामेण सार्धमयोध्यामपि प्रविशेमहि । सम्भावनार्थो ऽपि ॥ २।५१।२५ ॥

परीति । दुःखार्तस्य अत एव परिदेवयमानस्य राजपुत्रस्य लक्ष्मणस्य शर्वरी रात्रिः अत्यवर्तत व्यतीता ऽभवत् ॥ २।५१।२६ ॥

तथेति । नरेन्द्रसूनौ लक्ष्मणे सत्यं मृषासंसर्गशून्यं वचनं ब्रुवति सति गुरुं सौहृदाद्धेतोः व्यसनाभिपीडितः अत एव व्यथातुरश्चञ्चलचित्तः गुहः बाष्पमश्रु मुमोच, तत्र दृष्टान्तः ज्वरातुरः ज्वरपीडितः नागो गज इव ॥ २।५१।२७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकपञ्चाशः सर्गः ॥ २।५१ ॥