सूतसम्भाषणानन्तरकालिकं वृत्तमाह– विशालानित्यादिभिः । विशालान्विस्तीर्णान्रम्यान्कोशलान्यात्वा तदन्तं प्राप्य अयोध्यामुन्मुखः अभिमुखो रामः वाक्यमब्रवीत् ॥ २।५०।१ ॥
तद्वाक्यमेवाह– आपृच्छे इति । पुरि श्रेष्ठे सर्वोत्कृष्टे हे पुरि त्वां यानि दैवतानि त्वां पालयन्ति रक्षन्ति यानि च आवसन्ति भवत्प्रीत्या नित्यं तिष्ठन्ति तानि च आपृच्छे कथयामि ॥ २।५०।२ ॥
तद्वचनमेवाह– निवृत्तेति । निवृत्तवनवासः चतुर्दशवर्षनियमितवनवासान्निवृत्तः अत एव जगतीपतेः पितुः अनृणः आज्ञापितकरणेन तदृणरहितः त्वां दैवतसहितभवतीं पुनर्द्रक्ष्यामि । एतेन भवत्यापि पित्रादिसमीपे गन्तव्यमिति सूचितं तेन केनिचद्रूपेण सापि सहैवागतेति व्यक्तं तेन तस्याः कामचारगमनकर्त्रीत्वं व्यञ्जितम् ॥ २।५०।३ ॥
तत इति । ततः अयोध्याज्ञापनानन्तरं रुचिरताम्रे स्वाभाविकस्वछारुणे अक्षिणी नेत्रे यस्य सः अश्रुपूर्णमानन्दजलव्याप्तं मुखं यस्य सः अदीनः नित्यं दीनत्वाभावविशिष्टः रामः जानपदं जनमब्रवीत् ॥ २।५०।४ ॥
तद्वचनमेवाह– अनुक्रोश इति । यथार्हं यथायोग्यमपि अनुक्रोश आदरः दया च कृतः कृता लिङ्गविपरिणामेनान्यत्राप्यन्वयः । अतः अर्थसिद्धये स्वस्वकार्यनिर्वर्तनाय गम्यताम् । ननु सहगमने का क्षतिरित्यत आह– दुःखस्य चिरं विलम्बः पापीयः न युक्तमित्यर्थः । एतेन सहगमने भवतां मद्गमनादिजनितः खेदातिशयो भविष्यतीति सूचितम् ॥ २।५०।५ ॥
ते इति । ते रामेण निवारिताः नराः घोरं विलपन्तः विविधं कथयन्तः क्वचित्क्वचिद्व्यतिष्ठन् स्थितियोग्यस्थलाविचारेणैवातिष्ठन्नित्यर्थः ॥ २।५०।६ ॥
तथेति । अतृप्तानां रामदर्शनहेतुकतृप्तिरहितानामत एव तथा तेन प्रकारेण विलपतामेषां जनानामचक्षुर्विषयं चक्षुर्गतिरहितदेशं राघवः प्रायात् तत्र दृष्टान्तः क्षणदामुखे सायंसमये अर्को यथा ॥ २।५०।७ ॥
तत इति । धान्यधनैः उपेतान्युक्तान्दानशीलजनान्दानिजनविशिष्टानत एव शिवान्मङ्गलविशिष्टानकुतश्चिद्भयान् कुतश्चिद्भयरहितानत एव रम्यान् चैत्ययूपसमावृतान् चैत्याः देवाधिष्ठितवृक्षादयः यूपाः यज्ञस्तम्भास्तैर्युक्तान् ॥ २।५०।८ ॥
उद्यानाम्रवणोपेतामुद्यानैः पुष्पवृक्षादिनिर्मितवाटिकाविशेषैः आम्रवनैश्च उपेतान्युक्तान्सम्पन्नाः अतिरमणीयाः सलिलाशयाः येषु तानत एव तुष्टपुष्टजनैः आकीर्णान्व्याप्तान्गोकुलाकुलसेवितान् गवां कुलैः गवादिभिः गवामकुलैः गवयमहिष्यादिभिः सेवितान् ॥ २।५०।९ ॥
ब्रह्मघोषैः वेदनादैः अभिनादितानत एव नरेन्द्राणां रक्षणीयान्कोशलानत्यवर्तत । श्लोकत्रयमेकान्वयि ॥ २।५०।१० ॥
मध्येनेति । मुदितं स्फीतं स्वच्छं नरेन्द्राणां खण्डमण्डलेश्वराणां भोज्यं राज्यं मध्येन मध्यगतमार्गेण ययौ ॥ २।५०।११ ॥
तत्रेति । तत्र तस्मिन् समये त्रिपथगां त्रयः स्वर्गमृत्युपाताललोका एव पन्थानः तैर्गच्छति तां दिव्यां प्राकृतविलक्षणां शिवतोयां परमकल्याणप्रदजलविशिष्टामशैवलां शैवालरहिताम् ऋषिभिर्निषेवितामत एव रम्यां मनोहरां गङ्गां ददर्श ॥ २।५०।१२ ॥
आश्रमैरिति । आश्रमैः सिद्धमुन्यादिगृहैः समलङ्कृतां काले स्रानादिसमये हृष्टाभिः अप्सरोभिः सेवितामम्भोह्रदामम्भः पूर्णह्रदविशिष्टां शिवां शिवसम्बन्धिनीम् ॥ २।५०।१३ ॥
देवादिभिः किन्नरैश्च उपशोभितां नागगन्धर्वपत्नीभिः सततं सेवितां शिवां शिवप्रापिकाम् ॥ २।५०।१४ ॥
देवाक्रीडानां देवाक्रीडाविशिष्टपर्वतानां शतैः आकीर्णा तीरद्वये व्याप्तां देवोद्यानैः देवनिर्मितपुष्पादिवृक्षवाटिकाभिर्युतां नदीं सर्वनदीमनोरथपूरिकां सर्वनदीस्वामिनीमित्यर्थः । देवार्थं क्रीडार्थमाकाशगमां शिलासङ्घट्टोत्थितजलकणिकाद्वारा आकाशगमनकर्त्रीं विख्यातां सकलभुवनप्रसिद्धां देवपद्मिनीं देवभोग्यपद्मविशिष्टाम् ॥ २।५०।१५ ॥
जलाघाताट्टहासोग्रां जलानां शिलसु पतिततो यानां यः आघातः अतिसङ्घर्षः तेन जातो यो ऽट्टहासः अट्टहाससदृशशब्दः तेन उग्रां फेननिर्मललहासिनीं फेन एव निर्मलहासो ऽस्त्यस्याः तां क्वचिद्देशे वेणीकृतजलामनेकविधतिर्यगादिगमनेन वेणीकृतं जलं यया सा तामावर्तैः अनेकविधभ्रमितजलैः शोभिताम् ॥ २।५०।१६ ॥
स्तिमितगम्भीराम् स्तिमिता निश्चला सा एव गम्भीरेति कर्मधारयः तां वेगेन समाकुलां व्याप्तां गम्भीरः निर्घोषः शब्दो यस्याः सा तां भैरवो भयप्रदः निःस्वनो यस्याः सा ताम् ॥ २।५०।१७ ॥
देवसङ्घैः आप्लुतं स्नातं जलं यस्याः सा तां निर्मलान्येवोत्पलानि तैः सङ्कुलां व्याप्ताम् आभोगेन जलपरिपूर्णतया विशिष्टं पुलिनं यस्याः सा ताम् “आभोगः परिपूर्णता” इत्यमरः । निर्मला स्वच्छा वालुका यस्यां ताम् ॥ २।५०।१८ ॥
हंसादिभिः सङ्घुष्टामभिपन्नां व्याप्तामनिन्दितां स्वजननिन्दानिवर्तिकाम् ॥ २।५०।१९ ॥
क्वचित्तीररुहैः तीरजनितैः, फुल्लान्येवोत्पलानि तैः छन्नां, पद्मवनैः कमलजातिविशेषसमूहैः आकुलाम् ॥ २।५०।२० ॥
कुड्मलैः कलिकाभिः कुमुदखण्डैः कुमुदसमूहैः उपशोभितां नानापुष्परजोभिर्ध्वस्तां व्याप्तामित्यर्थः । क्वचित्प्रयागादौ समदां स्वेच्छयोत्पथगत्यादिभिः मदसहितामिव ॥ २।५०।२१ ॥
व्यपेति । व्यपेतो निःशेषतो निवर्तितो मलसङ्घातः जनानां पापसमूहो यया तां मणिनिर्मलदर्शनां रजोसम्बन्धाभावे शिलाघाते वा मणिवन्निर्मलं स्वच्छं दृश्यते । सा तां दिशागजैः दिग्गजजातीयगजैः मत्तैर्वनगजैश्च वरवारणैः ग्रामीणोत्तमगजैश्च ॥ २।५०।२२ ॥
देवराज इन्द्रः उपवाह्यो येषां तैः ऐरावतजातीयगजैरित्यर्थः । सन्नादितवनान्तराम् सन्नादितं वनस्यारण्यस्य जलस्य वा अन्तरं मध्यं समीपदेशो वा यस्याः तां जलवाची वनशब्दः कोशे प्रसिद्धः । भूषणोत्तमैः भूषितां प्रमदामिव ॥ २।५०।२३ ॥
किसलयैः नवीनपत्रैः द्विजैः विलक्षणपक्षिभिः वृताम् विष्णुपादच्युतां विष्णोर्महाविष्णोः पादं स्थानं साकेतान्तर्वर्तिमहावैकुण्ठः तस्माच्च्युतां प्रथमं निर्गतामत एव बालकाण्डोक्तहिमवत्प्रभवत्वं न विरुध्यते । अत एव दिव्यां प्राकृतविलक्षणजनैरपि सेविताम् अर्शआद्यजन्तः । अत एव अपापां सर्वकालं पापसंसर्गशून्याम् ॥ २।५०।२४ ॥
शिंशुमारैर्जलकपिभिः “शिंशुमारो जलकपिः” इति वैजयन्ती । नक्रैः मकरैः सागरतेजसा भगीरथतपोबलेन शङ्करस्य जटाजूटाद्भ्रष्टाम् ॥ २।५०।२५ ॥
सारसादिनादितां शृङ्गवेरपुरं प्रति शृङ्गवेरपुरसमीपे विद्यमानां गङ्गां महाबाहुः राम आससाद ॥ २।५०।२६ ॥
तामिति । ऊर्मिभिः लहरीभिः कलिला व्याप्ता आवर्ता यस्या तामन्ववेक्ष्य अवलोक्य अद्य इहैव वसामहे इति सुमन्त्रमब्रवीत् ॥ २।५०।२७ ॥
स्थलविशेषं निर्दिशन्नाह– अविदूरादिति । प्रवालं नवीनपत्रमविदूरात्समीपे सुमहान् इङ्गुदीवृक्षः
तापसतरुः अत्रैव वसामः ॥ २।५०।२८ ॥
प्रेक्षामीति । देवादिभिः सम्मान्यं पूजनीयं सलिलं यस्याः तां सरितां श्रेष्ठां प्रेक्षामि इहस्थ एव पश्यामीत्यर्थः । एतेन वासयोग्यत्वं सूचितम् ॥ २।५०।२९ ॥
लक्ष्मण इति । बाढमतिशोभनमित्येवोक्त्वा तं राघवमिङ्गुदीवृक्षमुपययतुः प्रापयामासतुः ॥ २।५०।३० ॥
राम इति । अभियाय प्राप्य रथात् अवतरदवातरत् । आगमशास्त्रस्यानित्यत्वादड्विरहः ॥ २।५०।३१ ॥
सुमन्त्र इति । उपतस्थे सेवार्थं समीपं प्राप ॥ २।५०।३२ ॥
तत्रेति । तत्र तस्मिन्देशे आत्मसमः निखिलधृतिमानतिधैर्यवानित्यर्थः । बलवान् निषादजात्यः निषादजातीयः स्थपतिः अधीशः इति विश्रुतः ख्यातः गुहो नाम गुहनामा राजा दशरथेन आज्ञप्त इति शेषः रामस्य सखाः आसीदिति शेषः । ननु “हीनप्रेष्यं हीनसख्यं हीनगेहनिवेशनम्” इत्यादिना हीनजातिसख्यस्य उपपातकेषु परिगणनात्प्रशस्तकुले प्रसूतः परमधर्मज्ञो राजा दशरथः रामश्च हीनजातिनिषादेन सह सख्यं कथं कृतवान् इति तु न भ्रमितव्यम् । निषादानां भगवदवतारभूतपृथुराजजनकब्राह्मणमथितवेनशरीरोद्भवत्वेन क्षत्रियत्वादत एव निषादस्थपत्यधिकरणे “निषादस्थपतिं याजयेत्” इति श्रुत्या निषादस्थपतीनां याजनाधिकारः सङ्गच्छते । प्रप्रञ्चितं चैतत् । निषादस्थपत्यधिकरणे मीमांसकैः अत एव रामभोजनार्थं निषादकर्तृकोदनानयनं न विरुध्यते । धर्मशास्त्रे हीनप्रकरणे निषादपरिगणनं तु निषादविलोमजातानामिति न विरोधस्तत्र निषादत्वव्यवहारस्तु भाक्त इति दिक् ॥ २।५०।३३ ॥
स इति । विषयं स्वदेशमागतं प्राप्तं रामं श्रुत्वा वृद्धादिभिः परिवृतः स गुहः उपागतः रामसमीपं प्राप्तः ॥ २।५०।३४ ॥
तत इति । दूरादुपस्थितं प्राप्तं दृष्ट्वा सौमित्रिणा सह रामः गुहेन समागच्छदालिङ्गनमकरोत् ॥ २।५०।३५ ॥
तमिति । आर्तः रामदर्शनमन्तरा अतिदुःखी गुहः तं राघवं सम्परिष्वज्य अब्रवीत् । तद्वचनमेवाह– हे राम यथा अयोध्या तव तथा इदं मत्पुरं तव अतः ते किं करवाणि यथेच्छमाज्ञापयेत्यर्थः ॥ २।५०।३६ ॥
स्वभाग्यातिशयं बोधयन्नाह– ईदृशमिति । ईदृशमतिमनोहरं प्रियमतिथिं कः प्राप्स्यति न को ऽपीत्यर्थः । अर्धं पृथक्– तत इति । पृथग्विधमनेकप्रकारं गुणवत् स्वादुशीघ्रपरिपाकादिगुणविशिष्टमन्नाद्यमोदनादि उपादाय प्रापय्य ॥ २।५०।३७ ॥
अर्घ्यमर्घहितजलोपलक्षितपूजनसामग्रीमुपानयत् उवाच च । हकारो हर्षार्थः । अर्धद्वयमेकान्वयि । तद्वचनमेवाह– स्वागतमिति । इयं मम भोग्या मही तवैव ॥ २।५०।३८ ॥
अतः भर्ता स्वामी भवानेव वयं प्रेष्या दासाः सर्वं वाक्यं सावधारणं भवतीति न्यायेन एवकारलाभः अतः नः प्रदर्शितं राज्यमुपस्थितभक्ष्यादि च शयनानि शय्याश्च खादनं घासादि च प्रशाधि स्वीकुरु तत्र भक्ष्यमन्नादि, भोज्यं पायसादि, पेयं पानकरसादि, लेह्यं विलक्षणयवाग्वादि चकारेण चूष्येक्षुदण्डादि । अर्धचतुष्टयमेकान्वयि ॥ २।५०।३९ ॥
गुहमिति । राघवो रामः प्रत्युवाच ॥ २।५०।४० ॥
तत्प्रतिवचनमेवाह– अर्चिता इत्यादिभिः । पद्भ्यामुपानदादिरहितचरणाभ्यामभिगमात् आगमनात् स्नेहसन्दर्शनेन च सर्वदा निखिलदानकर्त्रा भवता वयमर्चिताः अत एव हृष्टाः अतिसन्तोषं
प्राप्ताः ॥ २।५०।४१ ॥
भुजाभ्यामिति । साधुषु महात्मसु वृत्तं वर्तनं ययोस्ताभ्यां पीडयन् पुनरालिङ्गनं कुर्वन् वाक्यं वचनान्तरमब्रवीत् । वचनान्तरमेवाह– बान्धवैः सह त्वां पश्यामि दिष्ट्या भाग्यमेतत् ॥ २।५०।४२ ॥
अपीति । राष्ट्रादौ ते कुशलम् । अपिः प्रश्ने मत्समुपकल्पितं प्रापितं तत्सर्वं तु प्रतिजानामि मित्रधनत्वात् ममैवेदं सर्वमिति प्रतिज्ञां करोमि तथापि प्रतिग्रहे राजभोग्यवस्तुग्रहणे न वर्ते अतो न गृह्णामीत्यर्थः । सार्धश्लोक एकान्वयी । हिस्तथाप्यर्थकः ॥ २।५०।४३ ॥
स्ववृत्तिं बोधयन्नाह– कुशेति । वनगोचरं वनमात्रवसनशीलं तापसं तपोनिरतमत एव धर्मे तापसोचितकर्मणि प्रणिहितमत एव कुशादिधरमत एव फलाद्यशनं मां विद्धि जानीहि अतः अश्वानां खादनेन अश्वकर्तृकभोजनेनैवाहमर्थी तदेवापेक्ष्यते इत्यर्थः ॥ २।५०।४४,४५ ॥
एतावतेति । एतावता भवदागमनादिनैव सुपूजितो भविष्यामि । अर्धं पृथक्– एते इति । एते अश्वादयिताः प्रियाः अतः सुविहितैः घासादिना तृप्तिं प्राप्तैः अश्वैः अहमर्चितो भविष्यामि । सार्धश्लोक एकान्वयी ॥ २।५०।४६ ॥
रामवचनश्रवणानन्तरकालिकां गुहोक्तिमाह– अश्वानामिति । प्रतिपानं घासभक्षणानन्तरं पेयं पायसादिखादनं घृतशर्करादिमिश्रयवचूर्णादि त्वरितं दीयतामिति स गुहः पुरुषान् स्वभृत्यान् अन्वशात् आज्ञापयत् । अर्धद्वयमेकान्वयि ॥ २।५०।४७ ॥
तत इति । चीरोत्तरासङ्गः उत्तरीययुक्तो रामः स्वयं लक्ष्मणेन आहृतमानीतं जलमेवाददे पपौ तीर्थोपवासविधिः कृत इत्यर्थः ॥ २।५०।४८ ॥
तस्येति । वृक्षमुपाश्रितः प्राप्तस्य सभार्यस्य तस्य रामस्य पादौ प्रक्षाल्य ततः सीता रामादभ्येत्य तत्समीपदेशाद्देशान्तरं प्राप्य लक्ष्मणः तस्थौ सूतेन सह गुहो ऽपि धनुर्धरः सन् सौमित्रिमनुभाषयन् सन् रामं ससुखं यथा स्यात्तथा अन्वजाग्रदजागरीत् आर्षमेतत् । सार्धश्लोक एकान्वयी ॥ २।५०।४९,५० ॥
तथेति । यशस्विनः समाधिकरहितयशोविशिष्टस्य शर्वरी रात्रिः व्यतीता ॥ २।५०।५१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे पञ्चाशत्तमः सर्गः ॥ २।५० ॥