०४९ रामादिभिः गोमत्यादिनदीतरणम्

पुरवासिवृत्तान्तमुक्त्वा रामवृत्तान्तमाह– राम इत्यादिभिः । तेन उत्थानकालादारब्धेन रात्रिविशेषेण महदन्तरमतिदूरं रामो जगाम ॥ २।४९।१ ॥

तथेति । तथा अतिवेगेन गच्छतस्तस्य रामस्य शिवा हर्षदा रजनी व्यपायादगच्छदत एव शिवां सन्ध्यामुपास्य विषयान्देशान्तराणि अत्यगाहत ॥ २।४९।२ ॥

गमनप्रकारं वर्णयन्नाह– ग्रामानिति । विकृष्टसीमान्तान् विकृष्टाः वपनाय कर्षिताः सीमान्ताः सीमापर्यन्तभूमयो येषु तान् वनानि च पश्यन् ग्रामसंवासवासिनां ग्रामाः बहुगृहकाः संवासाः अल्पगृहकाः तद्वासिनां वाचः श्रृण्वन् सन् शरैरिव बाणवेगसदृशवेगविशिष्टैः हयोत्तमैः शीघ्रं ययौ अयमेव पाठः कतकसम्मतः । तीर्थसम्मतस्तु “शनैः” इति पाठः । शनैरिव शीघ्रं ययौ रमणीयदेशादिदर्शनपारवश्यादतिशीघ्रमपि गमनं शनैरिव प्रत्यभादिति भट्टोदाहृततीर्थव्याख्या । सार्धश्लोक एकान्वयी ॥ २।४९।३ ॥

तद्वचनस्वरूपं बोधयन्नाह– राजानमित्यादिभिः । राजानं दशरथं हा इमं पुत्रं विना कथं जीविष्यतीति तत्सम्बन्धिनी शोच्यतेत्यर्थः । आस्थितं कविभिर्वर्णितं कामस्य वशं कान्तिं धिक् रामकान्त्यग्रे तत्कान्तिस्तुच्छेत्यर्थः ॥ २।४९।४ ॥

योग्यतया व्युत्क्रमेणान्वयः नृशंसा अतिक्रूरा अत एव पापा क्रूरत्वकारणीभूतपापविशिष्टा अत एव पापानुबन्धिनी पापं सर्वजनदुःखदानरूपाधर्ममनुबध्नाति शिक्षयतीत्यर्थः । तच्छीला अत एव तीक्ष्णा अनम्रा अत एव सम्भिन्नमर्यादा सम्भिन्ना निवर्तिता मर्यादा निश्चितकार्यासमापनरूपा यया सा या कैकेयी केकयीदासी मन्थरा सानुक्रोशमतिदयावन्तमीदृशं राज्ञः पुत्रं विवासयति सा मन्थरा तीक्ष्णकर्मणि अनम्रतासूचकव्यापारे स्वापराधक्षमापनाभावविशिष्टचेष्टायामद्यापि वर्तते । सार्धश्लोकद्वयमेकान्वयि ॥ २।४९।५,६ ॥

कथमिति । जनकनन्दिनी दुःखान्दुःखोत्पादकान्पदार्थान्कण्टकादीन्कथमनुभविष्यति सहेतेत्यर्थः ॥ २।४९।७ ॥

अहो इति । प्रजानामनघमघनिवर्तकं रामं परित्यक्तुं राजा दशरथः इच्छति अतः स्वसुतं प्रति निःस्नेहः स्नेहरहितो ऽस्तीति शेषः । अहो आश्चर्यमेतत् ॥ २।४९।८ ॥

एता इति । ग्रामेषु यः संवास उत्तमनिवासस्तद्वासिनां मनुष्याणाम् एता वाचः शृण्वन्सन्कोशलेश्वरो रामः कोशलान्देशविशेषानतिययौ अतिक्रमणपूर्वकदेशान्तरं प्राप ॥ २।४९।९ ॥

तत इति । ततः कोशलदेशातिक्रमणानन्तरं शिववारिवहां कल्याणप्रदजलवतीं वेदश्रुतिं वेदश्रुत्यभिधां नदीमुत्तीर्य अगस्त्याध्युषितामगस्त्यवासाधिकरणीभूतां दिशं दक्षिणामित्यर्थः । अभिमुखः सम्मुखो ययौ ॥ २।४९।१० ॥

गत्वेति । सुचिरं बहुकालं ततः वेदश्रुतिनद्याः गत्वा शीतवहां शैत्यविशिष्टजलवहनकर्त्रीं गोयुतानूपां गोयुक्तजलप्रदेशविशिष्टां सागरङ्गमां सर्वकालं गङ्गासङ्गमद्वारा समुद्रं प्राप्तां गोमतीं नदीमतरत् । गमेः सुप्युपसङ्ख्यानमिति खचि मुमि च सिद्धम् ॥ २।४९।११ ॥

गोमतीमिति । गोमतीमतिक्रम्य तीर्त्वा मयूरहंसाभिरुतां मयूरादिशब्दविशिष्टां स्यन्दिकां तदभिधां नदीं ततार ॥ २।४९।१२ ॥

स इति । सः उत्तीर्णस्यन्दिकानदीको रामः इक्ष्वाकवे तदभिधमहाराजाय राज्ञा राजराजेन मनुना दत्तां राजधानीप्रकल्पनायाज्ञप्तामित्यर्थः । स्फीतां स्वच्छां राष्ट्रावृतामवान्तरदेशविशिष्टां महीं पृथ्वीं वैदेहीमन्वदर्शयत् ॥ २।४९।१३ ॥

सूतेति । सारथिं सूत इति अभीक्ष्णशः आभाष्य सम्बोध्य हंसमत्तस्वरः

मत्तहंसस्वरसदृशस्वरविशिष्टः श्रीमान् अतिशोभाविशिष्टो रामः उवाच ॥ २।४९।१४ ॥

तदाकारमाह– कदेति । आगम्य वनवासान्निवृत्य पुष्पिते सरय्वाः वने मात्रादिना सङ्गतो ऽहं मृगयामाखेटं कदा पर्यटिष्यामि ॥ २।४९।१५ ॥

ननु “स्त्रीद्यूतमृगयामद्यवाक्पारुष्योग्रदण्डताः । अर्थस्य दूषणं चेति राज्ञां व्यसनसप्तकम्” इत्यादिना मृगयाया निषिद्धत्वाद्धिंसाप्रचुरत्वाच्च कथं तामभिकाङ्क्षसे इत्यत आह– नेति । सरयूवने मृगयामाखेटमत्यर्थमर्थातिक्रमणां हिंसनमित्यर्थः नाभिकाङ्क्षामि । ननु पुनः किमर्थमुच्यते इत्यत आह– एषा मदीप्सिता मृगयारतिः मृगादिना विहरणमेव नतु हिंसेत्यर्थः । अत एव राजर्षिगणसम्मता मन्वादिसम्मतिविषयीभूता अत एव लोके अतुला हिंसाप्रचुराखेटोपमारहिता । एतेन निषेधवाक्यानि प्रचुरहिंसाविशिष्टाखेटपराणीति सूचितम् ॥ २।४९।१६ ॥

राजर्षीणामिति । यतः राजर्षीणां रत्यर्थं मृगया अतः काले विहरणसमये मनुजैः मनुवंशराजैः कृतां स्वीकृतामत एव धन्विनामितरधनुर्धराणामभिकाङ्क्षितां मृगयामाकाङ्क्षामीति शेषः ॥ २।४९।१७ ॥

स इति । ऐक्ष्वाकः इक्ष्वाकुवंशप्रसूतः स रामः मधुरया गिरा वाक्यमुदीरयन् सन् तं स्वोक्तवाक्यार्थं तं सूतमभिप्रेत्य बोधयित्वा तमध्वानं ययौ ॥ २।४९।१८ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥ २।४९ ॥