०४८ शोकमग्ना-अयोध्या

गृहप्रवेशानन्तरकालिकं प्रजावृत्तं बोधयन्नाह– तेषामित्यादिभिः । सशोकानामत एव विषण्णानां दुःखितानामत एवातीवपीडितानां पीडाविशिष्टाङ्गविशिष्टानामत एव बाष्पपरिप्लुतनेत्राणामत एव मुमूर्षया मरणेच्छया उपलक्षितानामत एव अमनस्विनामनवस्थितचित्तानां राममभिगम्य निवृत्तानां नगरवासिनां सत्त्वानि प्राणाः उद्गतानीव बभूवुः । लोकद्वयमेकान्वयि ॥ २।४८।१,२ ॥

स्वं स्वमिति । निलयं गृहं बाष्पेण धूमाभासेन पिहिताननाः सर्वे अश्रूणि मुमुचुः ॥ २।४८।३ ॥

नगरवृत्तं वर्णयन्नाह– नचेत्यादिभिः । वणिजो न अहृष्यन् केनापि वस्तुना सन्तोषं न प्राप्नुवन्नत एव अमोदन् आनन्दं प्राप्नुवंश्च न प्रसारयन् प्रासारयंश्च न क्रय्यद्रव्याणीति शेषः । अत एव पण्यानि आपणद्रव्याणि नाशोभन्त गृहमेधिनो गृहस्थाः न अपचन् पाको नैवाभवदित्यर्थः । प्रायो ऽन्येषां पाकानधिकारान्न न्यूनता ॥ २।४८।४ ॥

नष्टमिति । नष्टं चोरादिना अपहृतं वस्तु लब्ध्वा विपुलं बहुधनागममपूर्वधनप्राप्तिं च दृष्ट्वा अवलोक्य नाभ्यनन्दन् अयोध्यावासिन इति शेषः । प्रथमजं पूर्वजातम् ॥ २।४८।५ ॥

गृहे गृहे इति । गृहमागतं भर्तारं गृहे गृहे रुदन्त्यः दुःखार्ताः स्त्रियः वाग्भिः दुरुक्तैः व्यगर्हयन्त अपीडयन्तेत्यर्थः । तत्र दृष्टान्तः तौत्रैः अङ्कुशैः द्विपानिव ॥ २।४८।६ ॥

तदुक्तमेव वर्णयन्नाह– किमित्यादिभिः । किं कार्यं न किञ्चिदित्यर्थः । तेन रामं विना भवतां गृहे स्थितिर्व्यर्थेति सूचितम् ॥ २।४८।७ ॥

एक इति । यः सीतया सह रामं परिचरन्सन्ननुगच्छति सः एकः लक्ष्मण एव लोके सत्पुरुषः तेन भवत्सु पन सत्पुरुषत्वमिति व्यञ्जितम् ॥ २।४८।८ ॥

आपगा इति । ताः एव आपगा नद्यः कृतपुण्याः तान्येव सरांसि च कृतपुण्यानि येषु शुचि सलिलं विगाह्य अवगाह्य काकुत्स्थो रामो यास्यति ॥ २।४८।९ ॥

शोभयिष्यन्तीति । रम्यकाननाः चारुवृक्षसमूहविशिष्टाः अटव्यो वनानि महानूपाः जलप्रायदेशविशिष्टाः आपगा नद्यश्च सानुमन्तः प्रशस्तशृङ्गविशिष्टाः पर्वताश्च काकुत्स्थं शोभयिष्यन्ति तेन तेषामतिभाग्यवत्त्वं सूचितम् ॥ २।४८।१० ॥

काननमिति । यं रामः अनुगमिष्यति पसः प्राप्तमेनं प्रियातिथिमनर्चितुं नैव शक्ष्यति अर्चिष्यत्येवेत्यर्थः । इव एवार्थे ॥ २।४८।११ ॥

विचित्रेति । विचित्रकुसुमैः अनेकविधपुष्पैः आपीडः शिरोभूषणं येषां ते बहुमञ्जरिधारिणः बहूः विपुलाः मञ्जरीः पुष्पस्तबकान् धरन्ति तच्छीलाः अत एव भ्रमरशालिनः भ्रमराश्रयभूताः नगाः राघवं दर्शयिष्यन्ति स्वस्वरूपमिति शेषः । तेन तेषामतिसाफल्यं सूचितम् ॥ २।४८।१२ ॥

अकाले इति । गिरयः गिरिस्थवृक्षाः अकाले पुष्पफलादिप्रसूतिकालाभावे ऽपि अनुक्रोशात् अत्यादरात्पुष्पादीनि आगतं रामं दर्शयिष्यन्ति तेन तेषां हर्षातिशयो भवितेति व्यञ्जितम् ॥ २।४८।१३ ॥

प्रस्रविष्यन्तीति । महीधराः पर्वताः विविधान्भूयश्चित्रान्बहुविचित्रत्वविशिष्टान्निर्झरान्दर्शयन्तः सन्तः विमलानि तोयानि प्रस्रविष्यन्ति ॥ २।४८।१४ ॥

पादपा इति । पर्वताग्रेषु विद्यमानाः पादपाः वृक्षाः राघवं रमयिष्यन्ति तेन तत्रैवास्माभिरपि गन्तव्यमिति सूचितम् । ननु तत्स्थानस्य व्याघ्रादिमत्त्वेन भीतिवहत्वात्कथं गन्तव्यमित्यत आहुः यत्र रामो विद्यत इति शेषः । तत्र भयं कुतश्चिद्भीतिर्नास्ति अत एव पराभवः किञ्चित्कर्तृकास्मत्पराभूतिर्नास्ति ॥ २।४८।१५ ॥

स इति । दशरथस्य पुत्रः स रामः पुरा इह प्राकट्यात्पूर्वमपि नो ऽस्माकं स्वामी भवति अतो

दूरादपि राघवमनुगच्छाम । एतेन नित्यपरिकराणामियमुक्तिरिति व्यक्तम् ॥ २।४८।१६ ॥

तत्र गमने प्रयोजनं वदन्त आहुः– पादेति । महात्मनः तादृशस्य नित्यस्य भर्तुः स्वामिनो रामस्य पादच्छाया चरणसमीपस्थितिरेव सुखं तत्र हेतुः अस्य नित्यपरिकरस्य स राम एव नाथः वाञ्छितदाता स एव गतिः प्राप्यः अत एव स एव परायणं परमाश्रयः ॥ २।४८।१७ ॥

वयमिति । तन्नित्यपरिकरत्वाद्धेतोः परिचरिष्यामः सेविष्यामहे पौरस्त्रियः नित्यमयोध्यावासिन्यः तद्वचो ऽब्रुवन् ॥ २।४८।१८ ॥

ननु वने कथं निर्वाह इत्यत आहुः– युष्माकमिति । योगक्षेमं योगमलभ्योच्छिष्टपुष्पफलादिलाभं क्षेमं पूर्वलब्धसेवाधिकारपालनं विधास्यति ॥ २।४८।१९ ॥

तत्र स्थितेरयोग्यतां वर्णयन्त आहुः– क इति । अप्रतीतेन रामागमनविषयकप्रतीत्यनिष्पादकेन सोत्कण्ठितजनेन उत्कण्ठितजनसहितेन अत एवामनोज्ञेन रमणीयतारहितेन अत एव हृतचेतसा चेतश्चालकेन वासेन रामसाहित्यरहितनिवासेन कः सम्प्रीयेत न को ऽपीत्यर्थः ॥ २।४८।२० ॥

इदानीं प्रवासकारणीभूतमन्थरां निन्दयन्त्य आहुः– कैकेय्या इति । इतः रामपालनाच्च्युतमत एव अनाथवन्नाथरहितसदृशमिदं राज्यं यदि च कैकेय्याः केकयीदास्या मन्थरायाः अधर्म्यं धर्मादनपेतविरुद्धमधर्मेण पालितमित्यर्थः । स्यात्तदा नो ऽस्माकं जीवितेन न अर्थः प्रयोजनं पुत्रैः कुतः धनैश्च कुतः ॥ २।४८।२१ ॥

ययेति । यया हेतुभूतया मन्थरया ऐश्वर्यकारणादहमतीव राज्ञीप्रियेति स्वप्रभूतिहेतोः पुत्रो रामः भर्ता दशरथश्च त्यक्तौ त्याजितौ सा कैकेयी कुलस्य पांसनी मलभूता मन्थरा अन्यं कं परिहरेत्यजेन्न त्याजयेदित्यर्थः ॥ २।४८।२२ ॥

कैकेय्या इति । जीवन्त्याः पालयन्त्याः कैकेय्याः केकयीदास्याः राज्ये भृतकाः तया पालिता अपि जीवन्त्यो वयं जातु कदाचिदपि न वसेमहि हि निश्चितमेतत् अत एव पुत्रैः अपिना भर्त्रादिभिरपि शपामहे अत्रार्थे शपथं कुर्मः शप उपालम्भे इत्यात्मनेपदम् ॥ २।४८।२३ ॥

ननु वासे को दोष इत्यत आहुः– येति । निर्घृणा अतिक्रूरा या मन्थरा पार्थिवेन्द्रस्य पुत्रं प्रवासयति तामधर्म्यां प्राप्य कः सुखं जीवेन्न को ऽपीत्यर्थः ॥ २।४८।२४ ॥

उपद्रुतमिति । कैकेय्याः मन्थरायाः कृते अनायकं नायकरहितमत एव उपद्रुतं नानोपद्रवसहितमत एव अनालम्भं पश्वालम्भोपलक्षितयागरहितं सर्वमिदं राज्यं विनाशमुपयास्यति प्राप्स्यति ॥ २।४८।२५ ॥

ननु राज्ञो दशरथस्य सत्त्वादनायकं कथमुच्यते इत्यत आहुः– नहीति । रामे प्रव्रजिते सति महीपतिर्न जीविष्यति पालयिष्यति लोकान्तरं गमिष्यतीत्यर्थः । अतः दशरथे मृते लोकान्तरं प्राप्ते सति अनन्तरं विघ्नरहितं व्यक्तं शोभितं यद्राज्यं तत्तस्य विलोपो विनाशो भविष्यतीति शेषः ॥ २।४८।२६ ॥

त इति । ते अस्मदुक्तिं श्रुतवन्तः क्षीणपुण्या यूयमालोड्य अस्मदुक्तिं विचार्य राघवं राममनुगच्छध्वं वा तस्याशक्यत्वे विषं पिबत वा तस्याशक्यत्वे अश्रुतिं मन्थराराज्यश्रवणरहितदेशं गच्छत, अस्मदादिभिः सहेति शेषः ॥ २।४८।२७ ॥

मिथ्येति । रामः मिथ्या वृथा प्रव्राजितः । ननु राजनियोगे भवदुक्त्या किमित्यत आहुः– भरते केकय्यतिप्रियत्वेन भरतसदृशे मन्थरायां तदाज्ञायामित्यर्थः । वयं सन्निबद्धाः स्मः तत्र दृष्टान्तः सौनिके पशुहिंसके पशव इव । एतेन मन्थराज्ञायाः सत्त्वे ऽस्माकं कल्याणं न भविष्यतीति वस्तु व्यक्तं भरतशब्दः आचारक्विबन्तप्रकृतिककर्तृक्विन्तः सामान्ये नपुंसकम् ॥ २।४८।२८ ॥

रामगुणवर्णनपूर्वकारण्यभाग्यवत्तां बोधयन्त्य आहुः– पूर्णेत्यादि श्लोकत्रयेण । पूर्वाभिभाषी अत्यैश्वर्यवत्ताहेतुकपरभीतिनिवर्तनफलकस्वनिष्ठसौहार्दप्रकटनहेतुकपौर्वकालिकभाषणशीलः रामः अरण्यानि विचरन् सन् शोभयिष्यति । श्लोकत्रयमेकान्वयि ॥ २।४८।२९३१ ॥

ता इति । तथा उक्तप्रकारेण विलपन्त्यः नगरस्त्रियः मृत्योर्भयागमे मृत्युकालोद्भूतभयप्राप्ताविव चुक्रुशुः रुरुदुः ॥ २।४८।३२ ॥

उपसंहरन्नाह– इतीति । वेश्मसु स्वस्वगृहेषु विलपन्तीनां स्त्रीणां दिनकरः सूर्यो ऽस्तं जगाम अत एव रजनी रात्रिरभ्यवर्तत ॥ २।४८।३३ ॥

नष्टेति । नष्टो विध्वस्तः ज्वलनस्य आहवनीयाग्नेः सन्तापः ऊष्मा यस्यां सा, प्रशान्ताः विनष्टाः अध्यायसत्कथा अध्ययनसमीचीनवार्ताः यस्यां सा अत एव तिमिरेण अन्धकारेण अनुलिप्ता इव सा नगरी बभौ ददृशे इत्यर्थः ॥ २।४८।३४ ॥

उपशान्तेति । निराश्रया रामरूपाश्रयरहिता अयोध्या नष्टतारमम्बरमाकाशमिवासीत् ॥ २।४८।३५ ॥

तदेति । रामनिमित्तं रामवियोगहेतोः आतुराः स्त्रियः सुते भ्रातरि च विवासिते इव विलप्य विवधिमुक्त्वा रुरुदुः हि यतः सुतैः सुतादिभ्यः अधिकः प्रीतिविषयत्वेनोत्कर्षः तासां स रामो ऽभवत् । सुतैरित्यत्र पञ्चम्यर्थे तृतीया ॥ २।३८।३६ ॥

प्रशान्तेति । पिहिता आपणोदया आपणवस्तूनि यस्यां सा नगरी अयोध्या सङ्क्षपितोदकः विनष्टजलः अर्णवः समुद्र इव बभूव । “सङ्क्षुभितोदकः” इति पाठे क्षैण्यात्सङ्क्षुभितोदक इत्यर्थ इति भट्टाः ॥ २।४८।३७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे ऽष्टचत्वारिंशः सर्गः ॥ २।४८ ॥