रामगमनानन्तरकालिकं सुप्तोत्थितपौरवृत्तं वर्णयन्नाह– प्रभातायामिति । शर्वर्यां रात्रौ प्रभातायां प्रभातत्वं प्राप्तायां ते सुप्तोत्थिताः पौरा राघवं विना शोकोपहतनिश्चेष्टाः शोकेन उपहताः विपरिणताः अत एव निश्चेष्टाः व्यापाररहितास्ते एव ते इति कर्मधारयः अत एव हतचेतस इव बभूवुः । तुरिवार्थे ॥ २।४७।१ ॥
प्राप्तकिञ्चिच्चैतन्यकालोद्भूतं तद्वृत्तं वर्णयणाह– शोकजेति । शोकजाश्रुभिः परिद्यूनाः व्याप्ताः वीक्षमाणाः दुःखिताः पौराः रामस्यालोकं बोधकं रथरजोरेखादिकमपीत्यर्थः न पश्यन्ति स्म ॥ २।४७।२ ॥
त इति । तेन धीमता रामेण रहिताः अत एव विषादार्तवदनाः विषादेनातिदुःखेन आर्तं दीनं वदनं मुखं येषां ते अत एव कृपणाः कर्तव्यविवेकरहिताः मनीषिणो ऽपि ते पौराः करुणाः वचो वदन्ति स्मः ॥ २।४७।३ ॥
तद्वचनमेवाह– धिगिति । यया निद्रया अपहतचेतसो वयमद्य रामं न पश्यामहे तां निद्रां धिक् ॥ २।४७।४ ॥
कथमिति । अवितथक्रियः न वितथा कदाचिदपि मर्यादामतिक्रान्ता क्रिया व्यापारो यस्य सो ऽपि रामः भक्तं सेवोन्मुखं जनमभित्यज्य कथं गतः केन मार्गेण यात इत्यर्थः ॥ २।४७।५ ॥
य इति । औरसान्मुख्यान्पुत्रान् पितेव यः पालयति सः नस्त्यक्त्वा विपिनं कथं गतः ॥ २।४७।६ ॥
इहेति । निधनं मरणमिह अस्मिँस्थाने एव याम प्राप्नुयाम महाप्रस्थानं हिमालयान्तर्वर्तिमहापथं वा याम । ननु किमर्थमेवंक्रिया इत्यत आहुः– रामेण रहितानां जीवनं हितं नो नास्ति अतः किमर्थं न स्यादित्यर्थः । किञ्च रामेण रहितानां नो ऽस्माकं जीवितं किमर्थमुद्दिश्य हितं न कस्यापीत्यर्थः । अतो मास्तु इति तात्पर्यम् ॥ २।४७।७ ॥
नन्वकाले इह मरणं कथं भविष्यतीत्यत आहुः– सन्तीति । महान्ति बृहन्ति प्रभूतानि बहूनि काष्ठानि सन्ति अथ अतः तैरेव कृतां चितां वयं प्रविशामः ॥ २।४७।८ ॥
ननु दुःखसत्त्वे ऽपि स्वगृहे स्थीयतामित्यत आहुः– किमिति । किं वक्ष्यामः रामः क्वास्तीति तन्मात्रादिभिः पृष्टाः वयं किमुत्तरं दास्याम इत्यर्थः । ननु वनं गत इत्युत्तरं दातव्यमित्यत आहुः– राघवो ऽस्माभिः नीतः वनं प्रापितः इति वक्तुमुत्तरं दातुं कथं क्षमं योग्यं न योग्यमित्यर्थः ॥ २।४७।९ ॥
सेति । सस्त्रीबालवयोधिका स्त्रीबालवयोधिकसहिता सा नगरी अयोध्या राघवं विना ऽस्मात् दृष्ट्वा निरानन्दा आनन्दरहिता अत एव दीना क्षीणा भविष्यति ॥ २।४७।१० ॥
निर्याता इति । तेन वीरेण रामेण नित्यं निर्याता नित्यं गमनशीलिनो वयं तेन हीनाः सन्तः तामयोध्यां कथं द्रक्ष्याम द्रक्ष्यामः ॥ २।४७।११ ॥
इतीवेति । दुःखार्ताः ते पौरा जना बाहुमुद्यम्य उत्थाप्य बहुधा बहुप्रकारा वाचः इतीव अत्यन्तं विलपन्ति स्म । दुःखार्तत्वे दृष्टान्तः हृतवत्साः अग्र्यगाः अग्र्याः मुख्यास्ता एव गाव इति कर्मधारयः ता इव गा इति आर्षमिति भट्टाः ॥ २।४७।१२ ॥
तत इति । ततः वर्णितविलापानन्तरं मार्गानुसारेण गतरथरेखावलोकनेन किञ्चित् क्षणं कालं ततः तस्मात्स्थानाद्गत्वा मार्गनाशादागतपथेन रथपरावर्तनादग्रे रेखोत्पत्त्यभावेन मार्गादर्शनान्महता विशालेन समभिप्लुताः व्याप्ताः बभूवुरिति शेषः ॥ २।४७।१३ ॥
रथेति । रथमार्गानुसारेण स्वगतरथमार्गेणेत्यर्थः । न्यवर्तन्त इदमग्रे रथरेखाभावः किं कथं
जातमिदं न सम्भवतीत्यर्थः । अतः दैवेन अदृष्टविशेषेण उपहता वयं किं करिष्याम इत्यब्रुवन्निति शेषः ॥ २।४७।१४ ॥
तदेति । तदा रामः क्व गत इति निश्चयाभावे यथागतेनैव मार्गेण पथा व्यथितसज्जनामयोध्यां सर्वे अगमन् । क्लान्तचेतस इत्यनेन पुनः पुनः रथमार्गान्वेषणं सामर्थ्याभावः सूचितः ॥ २।४७।१५ ॥
आलोक्येति । क्षयव्याकुलमानसाः क्षयेन रामप्रतियोगिकसंयोगाभावेन व्याकुलं मानसं येषां ते नगरीमध्योध्यामालोक्य शोकपीडितैर्नयनैः अश्रूणि आवर्तयन्त अमुञ्चन् ॥ २।४७।१६ ॥
एषेति । रामेण रहिता एषा नगरी नातिशोभते तत्र दृष्टान्तः ह्रदात् दहराद्गरुडेन उद्धृतपन्नगा उद्धृताः पन्नगाः यस्याः सा आपगा नदीव । एतेन रिपुसत्त्वे तद्गमनयोग्यात्वं सूचितम् ॥ २।४७।१७ ॥
चन्द्रेति । हीनं रहितं निहतानन्दं हतसुखम् ॥ २।४७।१८ ॥
त इति । दुःखोपहतास्ते पौराः महाधनानि तानि वेश्मानि गृहाणि दुःखेन विशन्तो ऽपि निरीक्षमाणा अपि स्वजनं स्वकीयं जनं परं परकीयं जनं वा नैव प्रजग्मुः न ज्ञातवन्त इत्यर्थः ॥ २।४७।१९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥ २।४७ ॥