रामवृत्तं बोधयितुमाह– तत इति । रम्यं रमणीयं तमसायाः नदीविशेषस्य तीरमाश्रित्य सीतामुद्वीक्ष्य अवलोक्य सौमित्रिमिदं वचनमब्रवीत् ॥ २।४६।१ ॥
तद्वचनमेवाह– इयमिति । हे सौमित्रे वनवासस्य वनवाससम्बन्धिनी इयं पूर्वा प्रथमा निशा प्रहिता प्राप्ता इतःप्रभृत्येव चतुर्दशवर्षगणना कर्तव्येति तात्पर्यम् । अतः अवनं वनवासविरोधि वस्तु उत्कण्ठितुं स्मर्तुं नार्हसि ते भद्रं कल्याणमेव सर्वत्रेति शेषः ॥ २।४६।२ ॥
पश्येति । समन्ततः चतुर्दिक्षु यथानिलयं स्वस्ववासस्थानमनतिक्रम्य आयद्भिरागच्छद्भिः मृगद्विजैः मृगपक्षिभिः निलीनानि शून्यानि मङ्गलकार्यरहितानि रुदन्तीवारण्यानि तमसातीरवनानि त्वं पश्य ॥ २।४६।३ ॥
अद्येति । सस्त्रीपुंसा स्त्रीपुंसैः सहिता “अचतुरविचतुर–” इत्यच् । अयोध्या अस्माञ्छोचिष्यति ॥ २।४६।४ ॥
शोके हेतुं वदन्नाह– अनुरक्ता इति । बहुभिर्गुणैरुपलक्षितान्राजादीन्मनुजा अयोध्यावासिजनाः अनुरक्तास्तद्विषयकातिस्नेहवन्तः सन्तीति शेषः ॥ २।४६।५ ॥
पितरमिति । यशस्विनीमतियशोविशिष्टामनुशोचामि । ननु किमर्थमनुशोचसीत्यत आह– नौ अस्मदर्थमभीक्ष्णशः वारंवारं रुदन्तौ तौ मातापितरौ अन्धौ नापि भवेतां बहिर्दृष्टितां नापि निवर्तेयातामित्यर्थः । किञ्च अन्धौ अस्मद्विषयकद्वेषवत्तासम्भावनया बहूनां चक्षुरपहारकौ नापि भवेतां तेनापहारकत्वेन मत्पित्रोर्दोषस्पर्शित्वं स्यादिति पश्चात्तापः सूचितः । अपिः सम्भावनार्थकः ॥ २।४६।६ ॥
वस्तुतस्त्वेवं न भवितेति बोधयन्नाह– भरत इति । धर्मार्थकामसहितैर्धर्मादिबोधकैर्वाक्यैः आश्वासयिष्यति ॥ २।४६।७ ॥
भरतस्येति । अनृशंसत्वं सर्वकालं क्रूरतासंसर्गरहितत्वं क्रूरताविरोधित्वं वा सञ्चिन्त्य संस्मृत्य नानुशोचामि ॥ २।४६।८ ॥
लक्ष्मणोपकृतिं बोधयन्नाह– त्वयेति । अनुव्रजता अनुगमनं कुर्वता त्वया कार्यमस्माभिः कर्तव्यं कृतं साधितमन्यथा वैदेह्या रक्षणार्थं सहायता सहायसमूहः अन्वेष्टव्या अन्वेषणीया स्यादिति शेषः । तेन सहायसमूहसामर्थ्यं लक्ष्मणे एव दर्शितमिति व्यक्तम् ॥ २।४६।९ ॥
तात्कालिककर्तव्यं बोधयन्नाह– अद्भिरिति । अद्भिर्जलैरेव इमां निशां वत्स्यामि एवेन भक्षणान्तरव्यावृत्तिः तत्र हेतुः विविधे अनेकप्रकारे वन्ये भक्ष्यफलादौ सत्यपि एतज्जलमात्रभक्षणमेव अद्य अस्यां रात्रौ रोचते । एतेन तमसायास्तीर्थत्वात्तदुपवासविधिः कृत इति व्यक्तं तेन तस्य मर्यादापालकत्वं ध्वनितम् ॥ २।४६।१० ॥
एवमिति । सौमित्रिमेवमुक्त्वा अश्वेषु अश्वरक्षणेषु अप्रमत्तस्त्वं भवेति सुमन्त्रमुवाच ॥ २।४६।११ ॥
स इति । स सुमन्त्रः अश्वान्संयम्य यथोचतं बन्धनं प्रापय्य प्रभूतयवसान्बहुघासान्कृत्वा तदग्रे संस्थाप्य प्रत्यनन्तरः रामं प्रत्यासन्नो बभूव ॥ २।४६।१२ ॥
उपास्येति । उपागतां रात्रिं दृष्ट्वा सौमित्रिणा सह सूतः शिवां कल्याणप्रदां सन्ध्यामुपास्य सन्ध्याविधिं समानयेत्यर्थः । विद्यमानस्य रामस्य शयनं शयनयोग्यस्थलं चक्रे । विद्यमानस्येति ल्यबन्तार्थान्वयार्थमध्याहृतम् ॥ २।४६।१३ ॥
तामिति । सौमित्रिणा सार्धं सूतेन वृक्षदलैः वृक्षपर्णैः वृत्ता रचितामित्यर्थः । तां शय्यां वीक्ष्य सभार्यो रामः संविवेश ॥ २।४६।१४ ॥
सभार्यमिति । सम्प्रेक्ष्य समवलोक्य विविधान् अनेकप्रकारान्रामस्य गुणाँल्लक्ष्मणः कथयामास ॥ २।४६।१५ ॥
जाग्रत इति । सूतस्य सुमन्त्राय रामस्य गुणान् ब्रुवतः अत एव तां रात्रिं जाग्रतः सौमित्रेः रविरुदितः । “षष्ठी चानादरे” इति षष्ठी । “कालाध्वनोरत्यन्तसंयोगे” इति द्वितीया । सूतस्येत्यत्र सम्बन्धसामान्ये षष्ठी ॥ २।४६।१६ ॥
गोकुलेति । गोकुलाकुलतीरायाः गोसमूहः व्याप्ततीरविशिष्टायाः तमसायाः विदूरतः ष्ठीवनादिहेतुकापचारभिया किञ्चिद्दूरे तां रात्रिमवसत् ॥ २।४६।१७ ॥
उत्थायेति । ताः सुप्ताः प्रकृतीः प्रजाः निशाम्य दृष्ट्वा लक्ष्मणमब्रवीत् ॥ २।४६।१८ ॥
तदाकारमाह– अस्मदिति । अस्मद्व्यपेक्षानस्मद्विषयकात्यपेक्षाविशिष्टानत एव गृहेषु अपिना पुत्रादिषु निर्व्यपेक्षानपेक्षारहितान् अत एव वृक्षमूलेषु संसुप्तान् अध्वश्रमादेतावत्कालपर्यन्तमपि स्वापविशिष्टान्पौरान्पश्य विशेष्यमध्याहृतम् ॥ २।४६।१९ ॥
यथेति । यथा येन प्रकारेण अस्मन्निवर्तने अस्मत्कर्तृककिञ्चिज्जनबोधितनिवृत्तौ नियमं नियोगं कुर्वन्ति तथा प्राणानपि न्यसिष्यन्ति त्यक्ष्यन्ति ज्ञातवियोगे सतीति शेषः । निश्चयं सहगमनकृतनियोगं तु न त्यक्ष्यन्ति । एतेन एतन्निवारणे यत्नो ऽन्वेषणीय इति ध्वनितम् ॥ २।४६।२० ॥
तात्कालिकस्वकर्तव्यमाह– यावदिति । यावत् यावत्कालं वयं लघुसंसुप्तास्तावत्कालं द्वित्रिघटिकयेत्यर्थः । रथमारुह्य अकुतोभयं सर्वतो भयरहितं पन्थानं गच्छाम । एतेन तमसातद्दक्षिणतटादारभ्य किञ्चिद्दूरं प्रशस्तो मार्गो नास्तीति व्यक्तम् ॥ २।४६।२१ ॥
ननु पुरवासिनां का गतिरित्यत आह– अत इति । स्वप हे स्वकीयरक्षक लक्ष्मण अतः मध्ये सुमार्गाभावाद्धेतोः भूयो ऽधिकं मामनुरक्ता अपि इक्ष्वाकुपुरवासिनः इदानीं मां न ईयुः आगच्छेयुः । इदानीमित्यनेन भरतेन सह आगन्तार इति सूचितम् ॥ २।४६।२२ ॥
ननु सहगमने का क्षतिरित्यत आह– पौरा इति । नृपात्मजैः आत्मकृतात्स्वकारणकादपि दुःखात्पौराविप्रमोच्याः आत्मना स्वेनापि कृतेन दुःखेन पुरवासिनो न योज्याः । एतेन सह गमने तेषां दुःखातिशयो भवितेति ध्वनितं तेन रामस्य दयालुत्वातिशयो व्यक्तः ॥ २।४६।२३ ॥
अब्रवीदिति । हे प्राज्ञ येन प्रकारेण भवता उक्तं तथा मे रोचते अतः क्षिप्रमारुह्यतां रथ इति शेषः इति लक्ष्मणो राममबव्रीत् ॥ २।४६।२४ ॥
अथेति । प्रभो हे समर्थ सूत रथः शीघ्रं संयुज्यतां ततस्तेन रथेन इतः अस्मात्स्थानाच्छीघ्रं गमिष्यामि इति रामः सूतमब्रवीत् ॥ २।४६।२५ ॥
सूत इति । ततः रामोक्त्यनन्तरं त्वरितः वेगवान् सूतः हयोत्तमैः रामस्य स्यन्दनं योजयित्वा प्राञ्जलिः सन्प्रत्यवेदयदबोधयत् ॥ २।४६।२६ ॥
बोधनप्रकारमाह– अयमिति । हे महाबाहो अयं रथो युक्तः अश्वैः योजितः अतस्त्वरया वेगेन आरोह त्वमिति शेषः ॥ २।४६।२७ ॥
तमिति । सपरिच्छदः धनुरादिसामग्रीसहितो राघवः स्यन्दनमधिष्ठाय शीघ्रगामतिवेगवतीमाकुलावर्ताम् आकुला व्याप्ता आवर्ता यस्यां तां तमसां नदीमतरत् ॥ २।४६।२८ ॥
स इति । महाबाहुः स रामः महाप्रशंसनीयेन घट्टेनेत्यर्थः । सन्तीर्य तमसामिति शेषः । भयदर्शिनां भीतिमतामपि अभयं भयनिवर्तकं शिवं मार्गं प्रापद्यत प्राप्नुमैच्छत् ॥ २।४६।२९ ॥
मोहनार्थमिति । हे सारथे रथमारुह्य उदङ्मुखः सन्पौराणां पाटलिपुत्रदेशादागतानामश्वानां
मोहनार्थं मोहजनितातिवेगकुटिलगतिनिवृत्त्यर्थं त्वं प्रयाहि अतिवेगेनाधान् गमयेत्यर्थः । इति वचः सूतं रामो ऽब्रवीत् । एतेन तमसोत्तरणानन्तरं रामो रथादवततारेति सूचितं तेन स्वस्योदङ्मुखगमने व्रतभङ्गः स्यादिति हेतुः सूचितः । “पुरं नपुंसकं गेहे देहपाटलिपुत्रयोः” इति मेदिनी ॥ २।४६।३० ॥
ननूदङ्मुखगमनानन्तरं किं कर्तव्यमित्यत आह– मुहूर्तमिति । त्वरितं शीघ्रं यथा स्यात्तथा मुहूर्तं गत्वा उत्तरदक्षिणक्रमेण पुनः पुनर्यात्वा पुनः रथं निवर्तय मत्समीपं प्रापयेत्यर्थः । एवं गमनस्य प्रयोजनं पुनराह– यथा येन प्रकारेण पौराः अश्वमार्गावगतिसम्पत्तिं न विद्युः संस्मरेयुः त्वं तथा कुरु ॥ २।४६।३१ ॥
रामस्येति । वचो वचनं श्रुत्वा स सारथिस्तथा चक्रे अतिवेगेन मुहूर्तमुदङ्मुखं गत्वा रामसमीपं पुनः प्रापेत्यर्थः । प्रत्यागम्य रामसमीपं प्राप्य स्यन्दनं रामस्य रामाय प्रत्यवेदयत् आरोहणार्थं प्रार्थयदित्यर्थः ॥ २।४६।३२ ॥
ताविति । तदा सूतप्रार्थनानन्तरकाले ससीतौ सीतासहितौ रघुवंशवर्धनौ तौ रामलक्ष्मणौ सम्प्रयुक्तं सारथिना सम्यक्प्रदर्शितं रथं समास्थितौ बभूवतुरिति शेषः । ततः रामप्ररोहणानन्तरं येन पथा अध्वना तपोवनं प्राप्यते इति शेषः । तेन पथा स सारथिस्तुरङ्गमान् प्रचोदयामास ॥ २।४६।३३ ॥
तत इति । ससारथिः सारथिसहितो दाशरथिः रामः रथं समास्थाय ततस्तमसातीराद्वनं ययौ तं रामाधिष्ठितरथं तु सः सारथिः प्रयाणमाङ्गल्यनिमित्तदर्शनात्प्रयाणे यन्माङ्गल्यं तस्य यन्निमित्तं तद्दर्शनात्सुशकुनपक्ष्यादिदर्शनार्थमुदङ्मुखं चकार । तेन प्रयाणे मङ्गलसूचकः कश्चन पक्ष्यादिरुदीच्यां स्थित इति सूचितम् । किञ्च प्रयाणमाङ्गल्यनिमित्ते यद्दर्शनमुदङ्मुखीभूय गन्तव्यमिति बोधकशास्त्रं तस्मात् ॥ २।४६।३४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे षट्चत्वारिंशः सर्गः ॥ २।४६ ॥