०४५ तमसातीरगमनम्

नगरवासवृत्तं वर्णयन्नाह– अनुरक्ता इति । वनवासाय प्रयान्तं तं राममनुरक्ताः तद्विषयकातिप्रीतिमन्तः मानवाः अयोध्यावासिजनाः अनुजग्मुः ॥ २।४५।१ ॥

निवर्तिते इति । सुहृद्धर्मेण अनुव्रजने सुहृद्भिराचरणीयो धर्मः तेन “यमिच्छेत्पुनरायान्तं नैव दूरमनुव्रजेत्” इत्याद्युक्तिरूपेणेत्यर्थः । राजनि निवर्तिते सति रामस्य रथमनुगतास्तेनैव सन्न्यवर्तन्त तेन तेषां तत्सहगमनेच्छा सूचिता ॥ २।४५।२ ॥

अयोध्येति । गुणसम्पन्नो यो रामः येषां अयोध्यानिलयानामयोध्यावासिनां पूर्णचन्द्र इव प्रियो बभूव स काकुत्स्थः ताभिः प्रकृतिभिर्याच्यमानः सहगमनाय प्रार्थ्यमान एव पितरं सत्यं कुर्वाणः सन् वनमन्वपद्यत अगच्छत् । श्लोकद्वयमेकान्वयि ॥ २।४५।३,४ ॥

अवेक्षमाण इति । स्वाः स्वकीयाः प्रजाः पुत्रानिव ताः याचमानाः प्रजाः राम उवाच ॥ २।४५।५ ॥

तद्वचनमेवाह– येत्यादिभिः । अयोध्यावासिनां भवतामपि या यादृशी प्रीतिः स्नेहः यो बहुमानः अतिसत्कारश्च सा स च मत्प्रियार्थं मन्निष्ठप्रीतिवृद्ध्यर्थं भरते विधीयतां क्रियताम् एतेन भरतो मदतिप्रिय इति व्यञ्जितम् ॥ २।४५।६ ॥

स इति । कल्याणचारित्रः सर्वकल्याणकारकाचरणविशिष्टः स भरतः वो युष्माकं प्रियाणि प्रीतिनिष्पादकानि हितानि वृद्धिकारककार्याणि यथावत्करिष्यति ॥ २।४५।७ ॥

तत्पालनयोग्यतां बोधयन्नाह– ज्ञानेति । ज्ञानवृद्धः अतिज्ञानवान् मृदुवीर्यगुणान्वितः मृदुः अतिकोमलचित्तः वीर्यगुणैः अतिपराक्रमवात्सल्यादिभिरन्वितो युक्तः स एव स इति कर्मधारयः, मृदुशब्दस्य धर्मपरत्वे तु त्रयाणां द्वन्द्वे कृते तत्पुरुषः अत एव अनुरूपः पालनयोग्यः अत एव भयापहः प्रजाभयनाशनयोग्यः वयोबालः वयसा बालः स भरतः वो युष्माकं भर्ता भविष्यति ॥ २।४५।८ ॥

स इति । मया शिष्टैः शिक्षितैः राजगुणैर्युक्तः स भरतः युवराजः प्रजापालकत्वेन युवराजसदृशः समीक्षितो निश्चितः पित्रादिभिरिति शेषः । अतः भर्तृशासनं राजाज्ञा वो युष्माकं कार्यम् ॥ २।४५।९ ॥

नेति । महाराजो दशरथः यथा न सन्तप्येत्तथा कार्यः अनुकूलाचरणेन तोषणीय इत्यर्थः ॥ २।४५।१० ॥

यथेति । दाशरथिः रामः यथा यथा येन येन प्रकारेण धर्ममाश्रितः ग्राहितवाँस्तथातथा तेन तेन प्रकारेण धर्ममाश्रितः आश्रयणकर्त्र्यः प्रकृतयः प्रजाः पतिं राममकामयन्नशोभयन्नाश्रितः शब्दावृत्त्या उभयान्वयी पूर्वत्रान्तर्भावितणिजर्थः श्रिञः कर्तरि निष्ठा परत्र कर्तरि क्विप् ॥ २।४५।११ ॥

बाष्पेणेति । दीनं निश्चितरामवियोगजनितदुःखाक्रान्तमत एव बाष्पेण अश्रुणा पिहितं व्याप्तं गुणैः रघुनाथनिष्ठातिसौशील्यादिभिर्बद्धं स्वाधीनीकृतं पुरवासिनं जनं गुणैः रज्जुभिः बद्धमिव रामश्चकर्ष । अत्रापि गुणबद्धशब्दौ शब्दावृत्त्योभयान्वयिनौ ॥ २।४५।१२ ॥

ते इति । ज्ञानादिभिस्त्रिभिः त्रिविधं यथा स्यात्तथा वृद्धाः ये अत एव वयःप्रकम्पशिरसः अतिवयोहेतुकप्रकम्पविशिष्टशिरोविशिष्टाः ये द्विजाः ते दूरादिदं वचः ऊचुः । दूरादित्यनेन तत्समीपगमनासामर्थ्यं तेषां सूचितम् ॥ २।४५।१३ ॥

तद्वचनमेवाह– वहन्त इति । जात्याः उत्तमजातिप्रसूताः अत एव जवनाः अतिगमनशीलाः भो भो तुरङ्गमाः मन्तव्यं मननयोग्यं रामं वहन्तो यूयं भर्तरि रामे हिताः प्रियवहनकर्तारः भवन न निवर्तध्वं गन्तव्यदेशमप्राप्य भवद्भिर्न निवर्तितव्यमित्यर्थः । “गन्तव्यम्” इति पाठे अनुगमनार्हमित्यर्थः ॥ २।४५।१४ ॥

ननु पशुत्वादस्माभिः कथं तव सम्भाषणमित्यत आहुः– कर्णवन्तीति । भूतानि प्राणिनः कर्णवन्ति सन्तीति शेषः । तत्र तुरङ्गमाः अश्वाः विशेषेण कर्णवन्तः अतो याचनां प्रतिवेदिताः मत्प्रार्थनाविषयकज्ञानवन्तो यूयं तस्मात्स्वविचारितवनमार्गमध्यनिवर्तनान्निवर्तध्वं वनप्रापणमन्तरा न निवर्तितव्यमित्यर्थः ॥ २।४५।१५ ॥

तदेव भङ्ग्यन्तरेणाह– धर्मत इति । विशुद्धात्मा वो युष्माकं भर्ता अत एव नापवाह्यः विरुद्धवहनानर्हः स रामः पुराद्वनं धर्मतः सुखप्रापकत्वेन उपवाह्यः प्रापणीयः ॥ २।४५।१६ ॥

एवमिति । आर्तप्रलापान्दुःखसूचकशब्दान्प्रलपतः कथयतो द्विजान्ब्राह्मणानवेक्ष्य रथादवततार । एतेन रामस्य मर्यादापालकत्वं व्यक्तम् ॥ २।४५।१७ ॥

पद्भ्यामिति । सन्निकृष्टपदन्यासः सन्निकृष्टो ब्राह्मणसङ्गमनेच्छया अल्पीभूतः पदन्यासो यस्य स रामः पद्भ्यामेव जगाम ॥ २।४५।१८ ॥

रथादवतरणे प्रयोजनं वदन्नाह– द्विजातीनिति । चारित्रवत्सलः वात्सल्यसूचकाचरणविशिष्टः घृणाचक्षुः दयासूचकदृष्टिमान् रथेन सहितः स रामः पदातीन्द्विजातीन्परिमोक्तुं निवर्तयितुं न शशाक । तेन रामस्याधर्मभीरुत्वं सूचितम् ॥ २।४५।१९ ॥

गच्छन्तमिति । रामं सर्वाभिरामदातारम् एवं रथादिरहितत्वेन गच्छन्तं तं रामं दृष्ट्वा सम्भ्रान्तमानसाः सम्भ्रान्ते रामकर्तृकादरे मानसं येषां ते परमसन्तप्ताः निश्चितरामवियोगजनितसन्तापं प्राप्ताः द्विजाः इदं वाक्यमूचुः ॥ २।४५।२० ॥

तद्वचनमेवाह– ब्राह्मण्यमिति । कृत्स्नं निखिलमेतद्ब्राह्मण्यं ब्राह्मणसमूहः “ब्राह्मणमाणववाडवाद्यत्” इति यत् । ब्रह्मण्यम् ब्राह्मणहितं त्वामनुगच्छति अत एव द्विजस्कन्धादिरूढाः ब्राह्मणस्कन्धेषु स्थिताः अमी अरणीपात्रादिद्वारका अग्नयस्त्वामनुयान्ति ॥ २।४५।२१ ॥

वाजपेयेति । वाजपेयसमुत्थानि वाजपेये वाजपेययागे समुत्थानि लब्धानि पृष्ठतो ऽनुप्रयातानि जलात्यये शरदि मेघानिव एतानि नो ऽस्माकं छत्राणि पश्य वाजपेयिनां राजवच्छत्रधारणं श्रुतौ प्रसिद्धम् ॥ २।४५।२२ ॥

छत्रदर्शने प्रयोजनं वदन्नाह– अनवाप्तेति । न अवाप्तं प्राप्तमातपत्रं छत्रं येन तस्य अत एव रश्मिसन्तापितस्य ते वाजपेयकैः वाजपेये उपलब्धैः एभिः स्वैः स्वकीयैश्छत्रैः छायां करिष्यामः “यावज्जीवं कञ्चन प्रत्यारोहेद्बृहस्पतिसवेन वा वजेत्प्रत्यवरोहिणीयेन यजेत् श्वेतच्छत्री भवतीति विज्ञायते” इति वाजपेययाजिनां श्वेतच्छत्रधारणविधानम् ॥ २।४५।२३ ॥

येति । नो ऽस्माकं या बुद्धिः वेदमन्त्रानुसारिणी मन्त्राभ्यासनिरतेत्यर्थः सा बुद्धिस्त्वत्कृते त्वदर्थं वनवासानुसारिणी कृता । एतेन वयमपि सहैव नेव्या इति सूचितम् ॥ २।४५।२४ ॥

ननु धनदारान्विहाय कथं भवतां सह गमनमित्यत आहुः– हृदयेष्विति । ये वेदाः नः परमुत्कृष्टं धनं ते हृदयेष्वेव अवतिष्ठन्ते चारित्ररक्षिताः स्वाचरणकर्तृकरक्षाविशिष्टा दारा अपि गृहे वत्स्यन्ति । एतेन सहगमने न काप्यनुपपत्तिरिति सूचितम् ॥ २।४५।२५ ॥

ननु बहूनामसम्मतत्वान्मद्गमनमेव सन्दिग्धमित्यत आहुः– पुनरिति । गतौ त्वत्कर्तृकगमने त्वद्गमनविरोध्यन्यः निश्चयः पुनर्न कार्यः कैश्चिदिति शेषः । इति मतिर्निश्चयः सुकृता अस्माभिरिति शेशः । अयं त्वच्छब्दः सर्वादिपठितोन्यपर्यायः । तत्र हेतुमाह– त्वयि धर्मव्यपेक्षे धर्मापेक्षारहिते सति धर्मपथे धर्ममार्गे स्थितं किं वस्तु स्यान्न किमपीत्यर्थः ॥ २।४५।२६ ॥

याचित इति । हंसशुक्लशिरोरुहैः हंसशुक्लसदृशशुक्लविशिष्टकेशविशिष्टैः शिरोभिरुपलक्षितैः महीपतनपांसुलैः प्रणामार्थं महीपतनेन धूलीधूसरैः अमात्यादिभिर्याचितो ऽपि त्वं नो निवर्तस्व

निभृताचारेति सम्बोधनं तदर्थस्तु निभृतो नितरां पोषितः आचारः सज्जनमार्गो येनेति ॥ २।४५।२७ ॥

बहूनामिति । हे वत्स ये इहागतास्तेषां बहूनां द्विजानां ये वितताः विस्तृता यज्ञास्तेषां समाप्तिः निवर्तने वनवासान्निवृत्तिसमये आयत्ता अस्माभिर्निश्चितेत्यर्थः । पूर्वस्तेषांशब्दो यच्छब्दमहिम्ना उत्तरत्र ये इति तच्छब्दमहिम्ना चाध्याहृतः ॥ २।४५।२८ ॥

वनगमने प्रयोजनान्तरं वदन्त आहुः– भक्तिमन्तीति । जङ्गमाजङ्गमानि चराचराणि ते भक्तिमन्ति सन्तीति शेषः । अतो याचमानेषु तेषु भक्तेषु विद्यमानां भक्तिं त्वं दर्शय स्वगमनेन प्रकटय तेन “भक्तिरेवैनं गमयति” इत्यादि श्रुतिसार्थक्यं कुर्विति प्रार्थना सूचिता ॥ २।४५।२९ ॥

ननु भक्ताः स्वयमेवागत्य मद्दर्शनं करिष्यन्तीति किं मद्गमनेनेत्यत आहुः– अनुगन्तुमिति । वायुवेगेन करणेन मूलेन सह उद्धतवेगिनः अतिप्रकम्पविशिष्टाः इत्यर्थः । पादपा इव उद्धतवेगिनः अतिवृद्धा इत्यर्थः । अत एव त्वामनुगन्तुमशक्ताः उन्नताः उदि परमात्मनि त्वयि नताः महान्तः त्वां विक्रोशन्ति आह्वयन्ति त्वदागमनं वाञ्छन्तीत्यर्थः । त्वामित्युभयान्वयि । एतेन त्वयैव गन्तव्यमिति सूचितम् ॥ २।४५।३० ॥

तद्वने तिर्यग्योनीनामपि तव दर्शनाकाङ्क्षेति बोधयन्त आहुः– निश्चेष्टेति । निश्चेष्टाहारसञ्चाराः वृद्धत्वादिना निर्गता श्चेष्टा बहुवाव्यापाराः आहारसञ्चाराः आहारार्थं सञ्चरणं येषां ते अत एव वृक्षैकस्थाननिश्चिताः एकवृक्षस्थितिविषयकनिश्चयवन्तः पक्षिणः सम्पातिप्रभृतयो ऽपि सर्वभूतानुकम्पनं त्वां प्रयाचन्ते द्रष्टुमिच्छन्तीत्यर्थः ॥ २।४५।३१ ॥

एवमिति । एवमनेन प्रकारेण विक्रोशतां तेषां द्विजातीनां निवर्तने इव स्थिता राघवं रामं वारयन्ती वरमिच्छन्ती तमसा तत्र तस्मिन्समये ददृशे कर्मणि लिट् । वारशब्दः स्वार्थिकाणन्तः ॥ २।४५।३२ ॥

तत इति । ततस्तमसादर्शनानन्तरं श्रान्तान्हयान्रथाद्विमुच्य परिवर्त्य श्रमनिवर्तकपरिभ्रमणं कारयित्वा पीतोदकान्पीतजलांस्तोयपरिप्लुताङ्गान्कृतस्नानान्हयांस्तमसाविदूरे तमसाया निकटे अचारयत् ॥ २।४५।३३ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥ २।४५ ॥