कौशल्याश्वासनहेतुभूतसुमित्रोक्तिं वर्णयितुमाह– विलपन्तीमिति । धर्मे स्थिता सुमित्रा धर्म्यं धर्मादनपेतमिदं वाक्यमब्रवीत् ॥ २।४४।१ ॥
तद्वचनमेवाह– तवेति । हे आर्ये सर्वश्रेष्ठे सद्गुणैः समाधिकरहितासाधारणसौशील्यादिभिर्युक्तः अत एव पुरुषोत्तमः “पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः । उत्तमः पुरुषस्त्वन्यः” इत्यादि श्रुतिस्मृतिप्रतिपाद्यपरमपुरुषः स तव पुत्रो ऽस्ति अतः एवं दीनतासूचकेन ते विलपितेन विविधकथनेन कृपणं रुदितेन वा किं न किमपीत्यर्थः । विलापादि न कर्तव्यमिति तात्पर्यम् । एतेन रामस्य निखिलशक्तिमत्त्वं सूचितं तेन तस्य दुःखास्पर्शित्वं ध्वनितं तेन शोको न कार्य इति बोधितम् ॥ २।४४।२ ॥
ननु यदि रामस्य सर्वशक्तिमत्वं स्यात्तर्हीहस्थः सन्नेव निखिलं कार्यं कुर्यात्किं वनगमनेनेत्यत आह– य इति । हे आर्ये शिष्टैः अधर्मसंसर्गशून्यैः सम्यक् शश्वदाचरिते अत एव प्रेत्य फलोदये प्रेत्यानां लोकान्तरगतानामपि फलोदयः शुभफलप्राप्तिर्यस्मात्तस्मिन्धर्मे स्थितः अत एव श्रेष्ठः महाबलो यस्तव पुत्रो रामः सः महात्मानं पितरं सत्यवादिनं कुर्वन्नेव साधु यथा स्यात्तथा राज्यं त्यक्त्वा गतः वनमिति शेषः अतः कदाचन न शोच्यः । श्लोकद्वयमेकान्वयि ॥ २।४४।३४ ॥
वर्तत इति । सदानघः सर्वकालमघशून्यः सर्वभूतेषु दयावांल्लक्ष्मणः अस्मिन्रामे उत्तमां सानुकूलां वृत्तिं सेवामित्यर्थः । वर्तते वर्तयति करोतीत्यर्थः । दयावानित्यादिविशेषणोक्तिः “समानशीलव्यसनेषु मैत्री” इत्याद्युक्त्या राममैत्रीयोग्यताबोधनाय ॥ २।४४।५ ॥
सीतयापि शोको न कार्य इति बोधयन्ती आह– अरण्येति । सुखोचिता वैदेही अरण्यवासे यद्दुःखं तज्जानन्ती अयोध्यास्थापनफलकरामवर्णितवनदुःखजातविषयकज्ञानं प्राप्नुवत्येव तवात्मजमनुगच्छति । एतेन रामानुगमनसुखेन वनवासक्लेशो न तद्बुद्ध्यारूढो भवितेति सूचितम् । अत एव अनभिज्ञा वनानां सेति पूर्वोक्तेर्न विरोधः ॥ २।४४।६ ॥
प्रत्युत वनगमनं श्रेयःसाधनमिति बोधयन्ती आह– कीर्तीति । कीर्तिभूतां यशोरूपां पताकां लोके त्रिलोक्यां यो भ्रामयति स धर्मः सर्वधर्मप्रवर्तकस्तवात्मजो रामः किं श्रेयो न प्राप्तः सर्वं प्राप्त इत्यर्थः ॥ २।४४।७ ॥
व्यक्तमिति । व्यक्तं देवादिषु प्रसिद्धं शौचम् अतिपवित्रकारकमत एव उत्तमं रामस्य माहात्म्यं विज्ञापय सूर्यः अंशुभिः किरणैः रामस्य गात्रं सन्तापयितुं नार्हति ॥ २।४४।८ ॥
शिव इति । काननेभ्यो वनेभ्यो विनिःसृतः युक्तशीतोष्णः यथोप्सितशीतोष्णविशिष्टः अत एव सुखः सुखसम्पादकः अत एव शिवः माङ्गलिककार्यप्रवर्तको ऽनिलः सर्वेषु कालेषु राघवं सेविष्यति सेविष्यते ॥ २।४४।९ ॥
शयानमिति । पिता दशरथ इव शीतैः रश्मिभिः करैरास्पृशन्नभिपरिष्वजन् सम्मिलंश्च संश्चन्द्रमाश्चन्द्रः ह्लादयिष्यति ॥ २।४४।१० ॥
ददाविति । दानवेन्द्र तमतिप्रबलं तिमिध्वजसुतं तिमिध्वजः शम्बरस्तस्य सुतः सुबाहुस्तं रणे दृष्ट्वा ज्ञात्वा ब्रह्मा ब्राह्मणत्वं प्राप्तः सृष्टिकर्तृत्वेन ब्रह्मसदृशो वा विश्वामित्रः महौजसे अतिपराक्रमविशिष्टाय यस्मै रामाय दिव्यानि अस्त्राणि ह हर्षेण ददौ सः शूरः पुरुषव्याघ्रः परमपुरुषः स्वबाहुबलमाश्रितः अत एव रणे असन्त्रस्तः असौ रामः वेश्मनि गृहे इव अरण्ये वने निवत्स्यते । एतेन सुबाहुवधात्पूर्वमेव विश्वामित्रास्त्रदानस्योक्तत्वात् हतं दृष्ट्वेत्यर्थे असमञ्जसमुपलभ्य कदाचिद्रामो वैजयन्तं नगरं निरुध्य तत्रत्य तिमिध्वजाख्यशम्बरपुत्रस्य दानवस्य पुत्रं हतवांस्तेन प्रीतो ब्रह्मा रामाय दिव्यास्त्राणि ददौ । इत्येतत्तीर्थकल्पितं क्लिष्टं तादृशकल्पनायां प्रमाणाभावात् सुबाहोर्मारीचभ्रातृत्वस्य
पूर्वमुक्तत्वेन शम्बरपुत्रानौचित्यादिति भट्टोक्त्या न भ्रमितव्यं मारीचपितुरेव शम्बरेति नामान्तरे बाधकाभावात् । श्लोकद्वयमेकान्वयि ॥ २।४४।११,१२ ॥
यस्येति । यस्य रामस्य इषुपथमासाद्य प्राप्य शत्रवो विनाशं यान्ति तस्य शासने आज्ञायां पृथिवी स्थातुं कथं नार्हति ॥ २।४४।१३ ॥
येति । रामस्य या श्रीः विलक्षणसम्पत्तिः शौर्यं विलक्षणशूरता च या च कल्याणसत्त्वता कल्याणकारकविलक्षणबलयुक्तत्वं तैर्हेतुभिः रामः स्वं राज्यं क्षिप्रमवाप्स्यति प्राप्स्यति ॥ २।४४।१४ ॥
रामस्य सर्वनियन्तृत्वं बोधयन्ती आह– सूर्यस्येति । सूर्यस्य सर्वावभासकादित्यस्यापि सूर्यो ऽवभासक इत्यर्थः । ननु “तमेव भान्तमनुभाति सर्वम्” इत्यादि श्रुत्या सूर्यावभासकत्वं ब्रह्मणः प्रसिद्धमिति ब्रह्म किमित्यत आह– अग्नेः सर्वाग्र्यस्य प्रकाशब्रह्मणो ऽप्यग्निः प्रकाशक इत्यर्थः । अत एव प्रभोः सर्वनियन्तुर्ब्रह्मादित्रयस्यापि प्रभुर्नियन्ता अग्निशब्दस्य ब्रह्मपरत्वम् । अग्र्यत्वादग्निनामासावित्यादिना मध्वाचार्यैर्व्याख्यातम् अभिमतश्चायं सिद्धान्तो भूषणकृतामपि अत एव प्रभो सर्वनियन्तुरपि नियन्तेति तैर्व्याख्यातं सर्वनियन्तृत्वं च विष्ण्वादीनामेवेति भावः । किञ्च सूर्यस्य प्रकाशकारणस्यापि सूर्यः कारणमित्यर्थः । ननु सूर्यकारणत्वेन वह्निः प्रसिद्ध इति किं स इत्यत आह– अग्नेरप्यग्निः कारणमित्यर्थः । ननु सर्वकारणत्वेन ब्रह्मणः प्रसिद्धत्वादिति किं तदित्यत आह– प्रभोः सकलनियन्तुरपि प्रभुर्नियन्तेत्यर्थः । अग्र्या रामाग्रे गमनशीला क्षमाक्षमा क्षमायाः पृथिव्याः क्षमा क्षान्तिर्यस्याः सा किञ्च क्षमायाः शान्तेरपि क्षमा शान्तिः अतिशान्तिविशिष्टेत्यर्थः । किञ्च क्षमया पृथिव्या क्षम्यते सह्यते पाल्यते इत्यर्थः । सा सीता तु श्रियाः लक्ष्म्याः श्रीः स्वामिनीत्यर्थः । अत एव कीर्त्याः रामयशसः कीर्तिः कारणभूतेत्यर्थः । सूर्यस्य सर्वजगदवभासकस्यापि सूर्यो ऽवभासकः अग्नेः सर्वदाहकस्याप्यग्निर्दाहक इति भूषणोक्तार्थस्तु न युक्तः । दाहकत्वेन प्रकाशकत्वेन च द्वयोः प्रसिद्ध्या ऽन्यत रोपादानस्य निरर्थकत्वापत्तिः । नापि सूर्यस्यापि प्रकाशको दाहकश्च अग्नेरपि प्रकाशको दाहकश्चेत्यर्थो युज्यते पतत्प्रकर्षदोषवत्तापत्तेरिति दिक् ॥ २।४४।१५ ॥
दैवतमिति । हि पूर्वोक्तहेतोः भूतसत्तमः भूतान् प्राणिनः सत्तमयति सत्तममिच्छति यः सीतारामः भूतानां पृथिव्याद्यधोदेशवासिनां देवतानामूर्ध्वदेशवासिनां च दैवतं देवता पूज्य इत्यर्थः । तस्य सीतारामस्य अगुणाः नित्यगुणविरोधिनः अन्यथा कर्तार इत्यर्थः । देशे दण्डकादौ पुरे लङ्कादौ वा के सन्ति न के ऽपीत्यर्थः ॥ २।४४।१६ ॥
पृथिव्येति । पृथिव्या शासनान्तररहितभूम्या श्रिया अन्यासाध्यविजयसम्पत्त्या च वैदेह्या निखिलकार्यसाधनकारणीभूतसीतया च एताभिस्तिसृभिः सह सहितः स रामो ह हर्षेण अभिषेक्ष्यते वशिष्ठादिभिरिति शेषः ॥ २।४४।१७ ॥
दुःखजमिति । अपराजितं कैश्चिदपि पराजेतुमशक्यं कुशचीरधरं कुशचीरयोर्धारणं गच्छन्तं प्राप्नुवन्तं वीरं यं रामं निष्क्रामन्तमयोध्याया निर्गच्छन्तमुदीक्ष्य दृष्ट्वा अयोध्यायां विद्यमानः सर्वो जनः दुःखजमश्रु विसृजति यस्य च सीतेव सीतासदृशी अनुगता नित्यं प्राप्ता लक्ष्मीः महाराजत्वसूचकशोभा सम्पत्तिः तस्य रामस्य किं दुर्लभं न किञ्चिदित्यर्थः । श्लोकद्वयमेकान्वयि ॥ २।४४।१८,१९ ॥
धनुरिति । धनुर्ग्रहवरो धनुर्धारिश्रेष्ठः अत एव बाणखड्गास्त्रभृत्स्वयं लक्ष्मणो यस्याग्रे व्रजति तस्य किं दुर्लभ्ां न किमपीत्यर्थः ॥ २।४४।२० ॥
निवृत्तेति । निवृत्तवनवासं वनवासान्निवृत्तं तं रामं द्रष्टासि ॥ २।४४।२१ ॥
तदेव भङ्ग्यन्तरेणाह– शिरसेति । एतौ भवदीयौ चरणौ शिरसा मूर्ध्ना वन्दमानं पुत्रमुदितं चन्द्रमिव पुनर्द्रक्ष्यसि ॥ २।४४।२२ ॥
पुनरिति । प्रविष्टं गृहे समागतं दृष्ट्वा आनन्दजं जलं नेत्राभ्यां शीघ्रं समुत्स्रक्ष्यसि त्यक्तासि ॥ २।४४।२३ ॥
मेति । हे देवि रामे अशिवं न दृश्यते अत एव पुत्रं क्षिप्रं शीघ्रं द्रक्ष्यसि अत एव शोकस्तज्जन्यं दुःखं वा मास्तु ॥ २।४४।२४ ॥
त्वयेति । हे अनघे अशेषः सर्वो ऽयं रामवियोगजनितदुःखवाञ्जनः यतस्त्वया समाश्वास्यः अतः तत् विक्लवं शोकं हृदि करोषि तत्किं कुत्सितं न युक्तमित्यर्थः ॥ २।४४।२५ ॥
नेति । सत्पथे अतिसमीचीनमार्गे स्थितः यस्माद्रामात्परो भिन्नो लोके कस्मिंश्चिद्भवने न स राघवो यस्यास्ते सुतः सा त्वं शोचितुं शोकं कर्तुं नार्हा ॥ २।४४।२६ ॥
अभीति । ससुहृदं सुहृत्सहितमभिवादयमानं वन्दनां कुर्वन्तं तं रामं क्षिप्रं दृष्ट्वा मुदा अतिहर्षेणाश्रु मोक्ष्यसे तत्र दृष्टान्तः वार्षिकी वर्षासम्बन्धिनी मेघरेखा अभ्रपङ्क्तिरिव ॥ २।४४।२७ ॥
पुत्र इति । अयोध्यां पुनरागतस्ते पुत्रः चरणौ त्वत्पादौ पीडयिष्यति ॥ २।४४।२८ ॥
अभिवाद्येति । अभिवाद्य सुहृद्भिरभिवादनं कारयित्वा नमस्यन्तं सुतं मुदास्रैः आनन्दाश्रुभिः पुनः प्रोक्ष्यसि वर्तमानसामीप्य इति भविष्यति लट् ॥ २।४४।२९ ॥
उपसंहरन्नाह– आश्वासयन्तीति । वाक्योपचारे वाक्यप्रयोगे कुशला अनवद्या मृषावक्तृत्वादिदोषसंसर्गरहिता विविधैर्वाक्यैः रामस्य मातरमाश्वासयन्ती रामा रामविषयकस्मृतिमती देवी सुमित्रा एवमुक्त्वा विरराम तूष्णीं बभूव रामाशब्द अर्शआद्यजन्तः ॥ २।४४।३० ॥
निशम्येति । तद्वर्णितं लक्ष्मणमातृवाक्यं निशम्य श्रुत्वा विद्यमानायाः रामस्य मातुः शरीरे शोकः सद्यो विननाश दध्वंसे तत्र दृष्टान्तः अल्पतोयः स्वल्पवारिविशिष्टः शरद्गतः शरदृतौ दृश्यमानः मेघ इव ॥ २।४४।३१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥ २।४४ ॥