०४३ कौसल्याक्रोशः

कौशल्यावचनं वर्णयितुमाह– तत इति । शोकेन सन्नं शोककर्तृकप्राप्तिमन्तं पार्थिवं समीक्ष्य उवाच ॥ २।४३।१ ॥

तद्वचनमेवाह– राघवे इत्यादिभिः । हे नरशार्दूल जिह्मगा जिह्मं कौटिल्यं गाते स्वस्वामिन्यां प्रापयति सा कैकेयी केकयीदासी मन्थरा विषं मुक्त्वा त्यक्त्वा सन्दश्येत्यर्थः । निर्मुक्ता पन्नगी सर्पिणीव राघवे रघुवंशप्रभूते त्वयि विषं खेदं मुक्त्वा संस्थाप्य विचरिष्यति यथा केनचित्पालिता सर्पिणी स्वपालकं सन्दश्यानन्तरं तेन त्यक्ता विचरति तथा स्वस्वामिनि दुःखं प्रापय्य सम्मतिदानाधिकारात्त्यक्ता विचरिष्यतीत्यर्थः ॥ २।४३।२ ॥

ननु त्यक्ताधिकाराया मन्थरायाः विचरणेन किमित्यत आह– विवास्येति । रामं विवास्य सुभगा सुभमहो अस्याः केकय्यतिवशेति प्रशंसाजनितातिदीप्तिं गच्छति प्राप्नोति सा अत एव लब्धकामा प्राप्तस्वप्रतिष्ठारूपमनोरथा अत एव समाहिता एकाग्रचित्ता सती मन्थरा मां भूयो ऽधिकं त्रासयिष्यति । तत्र दृष्टान्तः वेश्मनि गृहे दुष्टाहिरिव यथा कस्मिंश्चित्कार्ये ऽधिकाराभावे ऽपि सर्पस्य स्थितिरेवानर्थकारिणी तथेयमप्यधिकानर्थकारिणी भवितेत्यर्थः । तेन गृहान्निःसारयितव्या सेति सूचितम् ॥ २।४३।३ ॥

अथेति । अथ मन्थरानिःसारणानन्तरं वरम् अस्मदीप्सितरामाभिषेचनं दातुं निवर्तयितुमस्मिन्नगरे यः कामकारः इच्छावानत एव केकय्या मन्थरया हेतुभूतया दासं देनातिदानेन आसो अतिप्रकाशो यस्य तं ममात्मजं स्थानाद्राज्यासनात्पातयित्वा अभिषेकतो बहिष्कृत्येत्यर्थः प्रविद्धः अस्मद्दुःखदाता अत एव अरामः रामविरोधी सः मन्थरानुकूलज्ञातिरित्यर्थः । भैक्ष्यं भिक्षान्नं यथेष्टतः चरन्भक्षयन्सन् गृहे स्ववेश्मनि अवसेन्न तिष्ठेत् । ननु तन्निःसारेण तदुपदिष्टतत्स्वामिन्या अभिनिःसारणं स्यादित्यतो दृष्टान्तेन तत्स्वामिन्या निःसारणाभावं बोधयन्नाह– आहिताग्निना रक्षसां भागः धान्यसंलग्नतुषादिरिव यथाग्निहोत्रिणा यत्तुषादिसम्बन्धेन धान्यस्य राक्षसभागत्वं भवति तत्तुषादिरेव त्यज्यते तथा यद्यत्सम्बन्धेन राज्ञ्याः केकय्या बुद्धिसञ्चलनं तत्तदेव त्वयापि त्यज्यतामित्यर्थः । श्लोकद्वयमेकान्वयि ॥ २।४३।४,५ ॥

राजकर्तव्यं सम्प्रार्थ्य शोचन्ती आह– नागराजेत्यादिभिः । धनुर्धरो रामः वनमाविशते ॥ २।४३।६ ॥

वने इति । त्वया अन्यया मन्थरया कैकेय्यनुमते सम्मतौ सति वनवासाय त्यक्तानां रामादीनामन्या वनवासावस्थातो भिन्ना कावस्था दुःखमित्यर्थः भविष्यति इदमेवाधिकं दुःखमित्यर्थः ॥ २।४३।७ ॥

ते इति । फलकाले अत्यभ्युदयसमये विवासिताः अत एव रत्नहीना उत्तमवस्त्रभूषणादिरहिताः अत एव कृपणास्तरुणास्ते फलमूलैः कृताशनाः कृतभोजनाः सन्तः कथं वत्स्यन्ति “रत्नं स्वजातिश्रेष्ठे ऽपि” इत्यमरः ॥ २।४३।८ ॥

अपीति । यद्यस्मिन्काले सभार्यं भार्यासहितं सह भ्रात्रा भ्रात्रासहितं राघवमिह अयोध्यायां पश्येयं सः शिवः अतिकल्याणसम्पादकः शोकक्षयः शोकस्य क्षयो विध्वंसो यस्मिन्स कालः इदानीमस्मिन्दिने अपि स्यात् । सम्भावनार्थको ऽपि ॥ २।४३।९ ॥

श्रुत्वेति । वीरौ रामलक्ष्मणौ उपस्थितौ प्राप्तौ श्रुत्वेव हृष्टजना हर्षविशिष्टजनविशिष्टा अत एव सूच्छ्रितध्वजमालिनी समुत्थितध्वजसमूहविशिष्टा यशस्विनी अयोध्या कदा भविष्यति ॥ २।४३।१० ॥

कदेति । नरव्याघ्रौ परमपुरुषौ ॥ २।४३।११ ॥

कदायोध्यामिति । वीरो रामः गोवधूं यज्ञपत्नीं वृषभः यज्ञ इव रथे सीतां पुरस्कृत्य अग्रे कृत्वा

अयोध्यां कदा प्रवेक्ष्यति “गौर्ना ऽ ऽदित्ये बलीवर्दे किरणक्रतुभेदयोः” इति कोशः । वृषभशब्दार्थस्तु वृषेण यागकर्तृ़णामभीष्टदानेन भा दीप्तिर्यस्य सः किञ्च गोवधूं सूर्यपत्नीं वृषभः वृषा जलवृष्टिकर्त्री भा किरणो यस्य स सूर्य इव ॥ २।४३।१२ ॥

कदा प्राणीति । प्राणिसहस्राणि असङ्ख्येयजनाः ॥ २।४३।१३ ॥

प्रविशन्ताविति । उदग्रायुधनिस्त्रिंशौ उदग्राणि अत्युत्कृष्टानि आयुधानि धनुरादीनि निस्त्रिंशाः खड्गाश्च ययोस्तौ अत एव श्रृङ्गौ शृङ्गसहितौ पर्वताविव अयोध्यां प्रविशन्तौ कदा द्रक्ष्यामि “तूण्यां खड्गे तु निस्त्रिंशः” इत्यमरः ॥ २।४३।१४ ॥

कदेति । सुमनसो देवाः द्विजातीनां कन्याश्च हृष्टाः फलानि प्रदिशन्तः रामं समर्पयन्तश्च सन्तः पुरीमयोध्यां प्रदक्षिणं कदा करिष्यन्ति प्रदिशन्त इत्यादौ “पुमान्स्त्रिया” इत्येकशेषः । “प्रदिशन्त्यः” इति भूषणसम्मतपाठे तु सुमनस इत्यत्र लिङ्गविपरिणामेनान्वयः ॥ २।४३।१५ ॥

कदा परिणत इति । बुद्ध्या वयसा च अपरिणतः परिणामरहितः सर्वकालमपरिणतज्ञानवयोविशिष्ट इत्यर्थः । अत एव अमरप्रभः अमरान्देवानपि प्रभाति प्रकाशयति स धर्मात्मा रामः त्रिवर्षः त्रैवार्षिक इव लालयन्नस्माकं लालनाबुद्धिमुत्पादयन्कदाभ्युपैष्यति । अन्तर्भावितणिजर्थो भाति ॥ २।४३।१६ ॥

वियोगदुःखस्यासह्यत्वेन वियोगहेतुविषयकनिश्चयाभावानवगमाद्धेत्वाभासं प्रकल्प्याह– निःसंशयमिति । हे वीर कदर्यया मया वत्सेषु पातुकामेषु सत्सु मातृ़णां तज्जनिकानां स्तनाः निःसंशयं यथा स्यात्तथा शातिताः छिन्नाः इत्यहं मन्ये ॥ २।४३।१७ ॥

सेति । हे पुरुषव्याघ्र वत्सलापुत्रविषयकातिवात्सल्यविशिष्टा बालवत्सा बालवत्सविशिष्टा गौरिव याहं सा सिंहेनेव कैकेय्या केकयीदास्या मन्थरया बलाद्धठाद्विवत्सा प्रियवत्सरहिता गौरिव कृत्वा ॥ २।४३।१८ ॥

नेति । गुणैः समातिशयरहितसौशील्यवात्सल्यादिभिर्जुष्टं सेवितं पुत्रं विना एकपुत्राहं जीवितुं पालयितुं न उत्सहे ॥ २।४३।१९ ॥

ननूत्साहाभावे ऽपि यथाकथञ्चित्पालनं युक्तमेवेत्यत आह– नहीति । प्रियं पुत्रमपश्यन्त्याः मे जीविते पालने किञ्चित्सामर्थ्यं न कल्प्यते केनापि कल्पयितुं न शक्यते इत्यर्थः ॥ २।४३।२० ॥

अयमिति । महाहितः अत्यहितकारी तनूजशोकप्रभवः पुत्रशोकजनितः अयं वह्निः मां दीपयते सन्तापयति । तत्र दृष्टान्तः उद्धतप्रभः उद्भूतप्रभावान् भगवानतिशयसामर्थ्यविशिष्टः दिवाकरः सूर्यः निदाघे ग्रीष्मे महीमिव ॥ २।४३।२१ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे त्रिचत्वारिंशः सर्गः ॥ २।४३ ॥