०४२ दशरथविलापः

राजवृत्तं वर्णयन्नाह– यावदिति । निर्यतो निर्गच्छतो रामरथस्य रजोरूपं धूलीस्वरूपं यावत्कालमदृश्यत तावत्कालमिक्ष्वाकुवरो दशरथः आत्मचक्षुषी नैव सञ्जहार अकर्षयत् ॥ २।४२।१ ॥

यावद्राजेति । यावत्प्रियं पुत्रं पश्यति रथरजोवलोकनद्वारेति शेषः । तावत्कालं धरण्यां स्थितमस्य शरीरमिति शेषः । पुत्रदर्शने पुत्रदर्शनार्थं व्यवर्धत इव उत्थायोत्थायालोकतेत्यर्थः ॥ २।४२।२ ॥

नेति । अस्य रामरथस्य रजो ऽपि यदा न पश्यति नापश्यत् तदा आर्तो दुःखितः अत एव विषण्णः उदासीनो भूमिपः पपात ॥ २।४२।३ ॥

तस्येति । दक्षिणं बाहुं कौसल्या अन्वगात्प्राप्नोत् उत्थापनार्थमिति शेषः । परं भिन्नं वाममित्यर्थः । पार्श्वं बाहुमित्यर्थः । कैकेयी अन्वगात् । एतेन तत्तद्बाहुसमीपे एव तत्तत्स्थितिरिति फलितम् ॥ २।४२।४ ॥

तामिति । नयादिना सम्पन्नो राजा तां कैकेयीमुवाच ॥ २।४२।५ ॥

तद्वचनमेवाह– कैकेयीत्यादिभिः । पापनिश्चये पापाय पापिराक्षसविध्वंसाय निश्चयो यस्याः तत्सम्बोधनं हे कैकेयि मामकाङ्गानि भार्या परमशोभावती त्वं मा स्प्राक्षीः । तत्र हेतुः यतस्त्वं बान्धवी अस्मत्प्रतिज्ञाविषयीभूतत्वादस्मदभिप्रेतत्वेन देवाद्युपकारकत्वेन चाभिषेकप्रतिज्ञायाः पूर्वदिनेषु अभिषेकोत्तरदिनेषु वावश्यं याचनीयस्यापि वरस्य अकालकयाचनेन बन्धुहितकारिणी न अतः त्वां दुष्टुं नैवेच्छामि त्वां त्वद्भिनां स्त्रियं च द्रष्टुं नेच्छामि । एतेन त्वद्दर्शनविषयकेच्छाभवः अकालिकवरयाचनरूपापराधेन अन्यदर्शनविषयकेच्छाभावः भ्रष्टप्रतिज्ञं मां कथयिष्यन्तीति लज्जया च प्रादुर्भूत इति सूचितं तेन लोकान्तरगमनेच्छा ममास्तीति व्यञ्जितम् । अयमन्यपर्यायः सर्वादिपठितस्त्वशब्दः जात्यभिप्रायेणैकवचनम् । अत एव ये अनुजीवन्ति तेषामहं न पालयितास्मीति शेषः । अत एव ते मम न पाल्या इति शेषः । मामकाङ्गानि मा स्प्राक्षीरित्यनेन स्पर्शने त्यागविरोधिस्नेहातिशयो भविष्यतीति बोधितं तेन कौशल्यास्पर्शो ऽपि निवारित इति सूचितमत एव कौशल्या न्यवर्तत इति वक्ष्यमाणं सङ्गच्छते तेषामित्यत्र कर्मणः शेषत्वविवक्षया षष्ठी । सार्धश्लोक एकान्वयी ॥ २।४२।६ ॥

ननु मन्थरोक्त्या भ्रान्तत्वादेवमाचरितं मयेत्यत आह– केवलेति । केवलार्थपरामहमतीव राज्ञी प्रियेति स्वार्थसाधिकामत एव त्यक्तधर्मां त्यक्तः त्याजितः धर्मः प्रारम्भविषयीभूतकार्यसमापनरूपमर्यादा यया तां त्वामेवंविधक्रूरकर्मकारिकात्वेन सर्वतो विलक्षणां मन्थरामहं त्यजामि त्याजयामि सम्मतिदानाधिकारतः सा बहिष्कार्येति तात्पर्यम् । अर्धं पृथक् ॥ २।४२।७ ॥

नन्विमामहं त्यजामि पाणिगृहीतीत्यागस्यानौचित्यात्त्वं तु मां मा त्यजेत्यत आह– अगृह्णामिति । अस्मिंल्लोके ते पाणिं यदहमगृह्णां यच्चाहं त्वामग्निं पर्यणयं प्रदक्षिणं प्रापं तत्सर्वं परत्र भिन्ने लोके अनुजानामि स्मरामि मत्स्मरणेनैव भवतीनां कल्याणं भवितेति तात्पर्यं तेनानौचित्यं न स्यादिति व्यञ्जितं तेनेह स्थातुमशक्तो ऽहमिति सूचितम् ॥ २।४२।८ ॥

ननु भरतादीनां शोकातिशयः स्यादित्यत आह– भरत इति । चेद्यदि भरतः प्रतीतः मद्वचनविषयकविश्वासवान्स्यात्तदा अव्ययं विघ्नरहितमेतद्रामराज्यं प्राप्य पाल्यत्वेन स्वीकृत्य पित्रर्थं पितृदेयधनादिकं यन्मे मदुद्देशेन दद्यात्तद्दत्तं भरतसमर्पितं मा मां मया सर्वसम्पत्त्या युक्तं मामागमत्प्राप्ता लुङुपात्तभूतस्याविवक्षा ॥ २।४२।९ ॥

अथेति । अथ राजवचनश्रवणानन्तरकाले रेणुसमुध्वस्तं पृथिव्यां पतनेन तद्रजो व्याप्तं नराधिपं

समुत्थाप्य शोककर्शिता देवी कौशल्या न्यवर्तत राजस्पर्शान्निववृते अत्र कौशल्यायाः प्राधान्यात्तन्मात्रोक्तिः ॥ २।४२।१० ॥

राज्ञः शोकं वर्णयन्नाह– हत्वेति । कामात्स्वेच्छातः ब्राह्मणं हत्वा सन्ताड्येव पाणिना अग्निं स्पृष्ट्वेव राघवं स्वप्रेषितरामं सञ्चिन्त्य संस्मृत्य धर्मात्मा राजा अन्वतप्यत खेदं प्राप्नोत्प्रसिद्धं च हनस्ताडनार्थकत्वं मालाहत इव द्विप इत्यादौ ॥ २।४२।११ ॥

निवृत्त्येति । निवृत्त्य विचारेण शोकात्पुनः पुनर्बहिरागत्यापि सीदतः पुनः पुनः खेदं प्राप्नुवतो राज्ञः रथवर्त्मसु गतरामरथमार्गेषु विद्यमानं रूपं शरीरं नातिबभौ । तत्र दृष्टान्तः ग्रस्तस्य राहुणा स्पृष्टस्य अंशुमतः सूर्यादेः रूपमिव ॥ २।४२।१२ ॥

विललापेति । नगरान्तं नगरमर्यादायाः परं प्राप्तं पुत्रं बुद्ध्वा पुत्रं स्मरन्सन्विललाप रुरोद अथ अब्रवीत् ॥ २।४२।१३ ॥

तद्वचनमेवाह– वाहनानामित्यादिभिः । वाहनानामश्वानां मध्ये मुख्यानां ममात्मजं वहतामश्वानां पदानि दृश्यन्ते स तु न दृश्यते ॥ २।४२।१४ ॥

य इति । चन्दनरूषितः चन्दनैर्भूषितः महार्हाभिः अतिसत्कारकर्त्रीभिः स्त्रीभिः सीताज्ञापिततत्परिचारिकाभिः वीज्यमानः यः सुतोत्तमः उपधानेषु उत्तमोपबर्हणविशिष्टशय्यासु शेते स अद्य क्वचिद्वृक्षमूलमुपाश्रितः प्राप्तः काष्ठमश्मानं प्रस्तरं वा उपाधाय शिरोधोभागे कृत्वा शयिष्यते । श्लोकद्वयमेकान्वयि शेते इत्यत्र “वर्तमानसामीप्य–” इति भूते लट् ॥ २।४२।१५,१६ ॥

उत्थास्यतीति । पांशुगुण्ठितः शयनभूमिधूलिव्याप्तशरीरः कृपणः बन्दीगणादिस्तुत्यादिरहितत्वेन कृपण इव प्रतीयमानः रामः विनिःश्वसन्पित्रादिवियोगजनितशोकहेतुकोच्छ्वासं प्राप्नुवन्सन्मेदिन्याः शयनभूमेः उत्थास्यति । तत्र दृष्टान्तः प्रस्रवणात्प्रदेशविशेषात्करेणूनामृषभ इव । यदि च प्रस्रवणशब्दार्थः प्रस्रवणं वृक्षपतितकठोरफलादि तदतति प्राप्नोतीत्यर्थः । तदा प्रस्रवणादिति रामविशेषणम् । च शब्द इवार्थकः ॥ २।४२।१७ ॥

द्रक्ष्यन्तीति । लोकनाथं सर्वलोकाधीशमुत्थाय गच्छन्तं राममनाथवन्नाथप्रतियोगिकभेदविशिष्टमिव नाथत्वाभाववन्तमिव वनेचराः द्रक्ष्यन्ति ॥ २।४२।१८ ॥

सेति । सुखसदोचिता सुखसम्बन्धिसार्वकालिकौचित्यविशिष्टा किञ्च सुखसदः सुखप्राप्तेः आसमन्ताद्भावेनोचिता योग्या जनकस्येष्टा प्रिया सुता सा सीता कण्टकाक्रमणक्लान्ता कण्टकेषु यदाक्रमणं पादविक्षेपः तेन क्लान्ता खेदं प्राप्ता सती वनं गमिष्यति ॥ २।४२।१९ ॥

अनभिज्ञेति । वनानामनभिज्ञा वनविषयकविशेषज्ञानाभाववती सा श्वापदानर्दितं व्याघ्रादिबहुशब्दं श्रुत्वा भयमुपैष्यति ॥ २।४२।२० ॥

भरतागमनात्पूर्वं राजाभावप्रयुक्तसम्भावितराज्योपद्रवाभावाय कैकेयीमुपदिशन्नाह– सकामेति । विधवा विशेषेण धं राज्यपोषणं वाति अमात्यादिद्वारा प्रापयति सा राज्यपालनेच्छावतीत्यर्थः, किञ्च विगतः धवः भीतिहेतुकप्रकम्पो यस्याः निर्भययेत्यर्थंः, किञ्च धुनोति स्वतेजसा रिपून्प्रकम्पयति सा त्वं सकामा कस्य सुखस्य आमः प्रापणं तेन सहिता प्रजासुखप्राप्ितकर्तीत्यर्थः । भव अत एव राज्यमावस आवासय । ननु भवता पाल्यत एवेति किमनेनोपदेशेनेत्यत आह– पुरुषव्याघ्रं परमपुरुषं तं रामं विना जीवितुं प्रजाः पालयितं नैवोत्सहे ॥ २।४२।२१ ॥

उपसंहरन्नाह– इतीति । अपस्नातः अपगतं स्नातं स्नानं यस्य अकृतस्नान इत्यर्थः, किञ्च अपस्नानमपस्नाः स्नानाभाव इत्यर्थः भावे क्विप् तामतति प्राप्नोतीति अपस्नातः पचाद्यच् । किञ्च पानं पः पानार्थकपाधातोः घञर्थे कः जलपानादिरित्यर्थः । तस्याभावो ऽयः अपे स्नातो निरतः अपस्नातः

स्नाधातोर्निरतार्थत्वं तु मन्त्रस्नात इत्यादौ प्रसिद्धम् । तथा च अकृतभोजनादिरित्यर्थः सम्पन्नः, किञ्च पानं पः रक्षणार्थकपाधातोः कः तस्याभावो ऽपः तत्र स्नातो निरतः अपस्नातः इतःप्रभृति पृथिवीराज्यं न करिष्यामीति प्रतिज्ञातवानिति भावः, किञ्च अं विष्णुं पाति रक्षतीत्यपः अप्रकटसाकेतस्थो रघुनाथः कर्तरि कः तत्र स्नातः निरत इत्यर्थः । अप्रकटसाकेतस्थरघुनाथलालने कृतमना इत्यर्थः । किञ्च न पीयेते इत्यपौ अश्रुप्रस्वेदौ ताभ्यां स्नातः प्रस्वेदाश्रुक्लिन्नशरीरक इत्यर्थः । राजा आरिष्टं रामवियोगिनामतिहिंसकमिव पुरोत्तममयोध्यां प्रविवेश अपस्नातो मृतस्नात इति कोशघटकीभूतापस्नातशब्दस्तु अपोपसर्गपूर्वकस्नाप्रकृतिकनिष्ठान्त इति नात्र तद्विषयता । एतेन अपस्नातो मृतस्नात इति भट्टभूषणाद्युक्तिश्चिन्त्या अमाङ्गलिकत्वेन तस्येहासम्भवात् ॥ २।४२।२२ ॥

पुरीस्वरूपं बोधयन्नाह– शून्येति । शून्याः जनरहिताः चत्वरवेश्मान्ताः यस्यां सा ताम् । तत्र चत्वराश्चतुष्पथाः वेश्मानि गृहाणि अन्तास्तद्द्वाराणि अत एव संवृतापणवेदिकां संवृताः आच्छादिताः आपणवेदिकाः अपणस्थलानि यस्याः सा तां क्लान्तदुर्बलदुःखार्तां क्लान्ताः हतहर्षाः अत एव दुर्बलाः तत्र हेतुः दुःखार्तां तादृशजनवतीं कर्मधारयादर्शआद्यच् अत एव नात्याकीर्णमहापथां नात्याकीर्णाः जनैर्नातिव्याप्ताः महापथाः राजद्वारमार्गाः यस्याः सा तां सर्वां पुरीमवेक्ष्य राममेवानुचिन्तयन्नत एव विलपन् राज्ञा अम्बुदं मेघमण्डलं सूर्य इव प्राविशत् । अभूतोपमैषा । यदि च अम्बूनि जलानि मेघेभ्यो ददातीति अम्बुदः समुद्रः तदा तु नाभूतोपमा । श्लोकद्वयमेकान्वयि ॥ २।४२।२३,२४ ॥

पुर्याः रिप्वाक्रमणयोग्यतां बोधयन्नाह– महाह्रदमिति । सुपर्णेन गरुडेन हृतोरगं हृता उरगा यस्मादत एव अक्षोभ्यं क्षोभाकारणं महाह्रदमिव रामादिना रहितं वेश्मालक्ष्यदिति शेषः ॥ २।४२।२५ ॥

अथेति । अथ अतो हेतोः गद्गदशब्दः स्खलनद्वाग्विशिष्टशब्दविशिष्टः वसुधाधिपः मन्दार्थं मन्दो गमनं अर्थः प्रयोजनं यस्मिन्तत् अस्वरं नीचैरुच्चारितत्वेनाल्पकं दीनं वचनं मृदु यथा स्यात्तथा उवाच ॥ २।४२।२६ ॥

तदेवाह– कौसल्याया इति । राममातुः कौशल्यायाः गृहं शीघ्रं मां नयन्तु द्वारपालका इति शेषः । तत्प्रयोजनमाह– अन्यत्र हृदयस्य मनसः आश्वासः स्वास्थ्यं न भविष्यति ॥ २।४२।२७ ॥

इतीति । द्वारदर्शिनः द्वारपालकाः कौशल्यायाः गृहं विनीतवद्ब्रुवन्तं राजानमनयन् तत्र कौशल्यागृहपर्यङ्के न्यवेश्यत तैः राजेति शेषः ॥ २।४२।२८ ॥

तत इति । ततः वियोगजनितदुःखस्यातिशयत्वाद्धेतोः कौशल्याया निवेशनं गृहं प्रविष्टस्य शयनं शय्यामधिरुह्य विद्यमानस्यापि तस्य राज्ञो मनः लुलितं चञ्चलं बभूव ॥ २।४२।२९ ॥

पुत्रेति । नष्टचन्द्रं चन्द्ररहितम् अम्बरमाकाशमिव ॥ २।४२।३० ॥

तच्चेति । तद्भवनं दृष्ट्वा हा राम नौ आवां मातापितरौ विजहासि त्यजसि इत्युच्चैः स्वरेण प्राक्रोशत् ॥ २।४२।३१ ॥

सुखिता इति । ये नरोत्तमाः तं रामप्रापकं कालं जीविष्यन्ति इह तिष्ठन्तीत्यर्थः । ते पुनरागतं रामं परिष्वजन्तः अत एव सुखिताः सन्तः द्रक्ष्यन्ति । एतेनाहमत्र न स्थास्यामीति सूचितम् ॥ २।४२।३२ ॥

अथेति । आत्मनः कालरात्र्यां संहारकारकनिशीव प्रपन्नायां प्राप्तायां सत्यामर्धरात्रे इदमब्रवीत् ॥ २।४२।३३ ॥

तद्वचनमेवाह– न त्वामिति । हे कौशल्ये त्वामहं न पश्यामि द्रष्टुमिच्छामि अतो मां पाणिना

अस्पृश स्पर्शं मा कुरु दर्शनेच्छाभावे हेतुः अनुगता प्राप्ताः । अ इति निषेधार्थकमव्ययं प्रश्लिष्यते ॥ २।४२।३४ ॥

तमिति । राममेवानुविचिन्तयन्तमत एव कृछ्रं यथा स्यात्तथा ऽधिकं विनिःश्वसन्तं नरेन्द्रं समीक्ष्य आर्तरूपा देवी कौशल्या उपोपविश्य समीपे स्थित्वा विललाप ॥ २।४२।३५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥ २।४२ ॥