सिंहावलोकनन्यायेन रामनिष्क्रमणकाले जातं वृत्तं वर्णयन्नाह– तस्मिन्निति । पुरुषव्याघ्रे परमपुरुषे रामे निष्क्रामति निर्गच्छति सति महान् आर्तशब्दो दीनः स्वनः सञ्जज्ञे ॥ २।४१।१ ॥
शब्दस्वरूपं बोधयन्नाह– अनाथस्येति । अनाथस्य रक्षणरहितस्य रक्षाविषयकौदासीन्यविशिष्टदशरथस्येत्यर्थः । दुर्बलस्य रामातिरिक्तबलरहितस्य अस्य जनस्य प्रजासमूहस्य च तपस्विनः नित्यतपोनिरतस्य वशिष्ठादिब्रह्मकुलस्य चेत्यर्थः । यो रामः गतिः प्राप्यः शरणं चासीत् स नाथः अस्मन्मनोरथपूरकः क्व गच्छति किञ्च अनाथस्य दशरथस्य पालनोदासीनत्वेन रामातिरिक्तरक्षकरहितस्य अत एव दुर्बलस्य रामातिरिक्तबलरहितस्य अत एव तपस्विनः स्वरक्षा कथं स्यादिति विचारयतः अस्य जनस्य गतिः रामः क्व गच्छति शेषं पूर्ववत् ॥ २।४१।२ ॥
नेति । अभिशप्तः हास्यादिना केनचिद्दुरुक्तो ऽपि क्रोधनीयानि क्रोधोत्पादकवचनानि वर्जयन् अश्रृण्वन्निवेत्यर्थः । क्रोधनीयानीति भावानीयान्तप्रकृतिकार्शआद्यजन्तं क्रुद्धान् कैश्चिद्धेतुभिः क्रोधविशिष्टान्प्रसादयन् तत्क्रोधदूरीकरणपूर्वकतत्प्रीतिमुत्पादयन् समदुःखः किञ्चिद्धेतुकास्मद्दुःखदर्शनमात्रेण तद्दुःखविशिष्टः सन् यो न क्रुध्यति स रामः क्व गच्छति ॥ २।४१।३ ॥
कौसल्यायामिति । महात्मा रामः ॥ २।४१।४ ॥
कैकेय्येति । कैकेय्या सह क्लिश्यमानेन निश्चितवियोगहेतुकक्लेशविशिष्टेन राज्ञा अवनं वनस्थरक्षणं यथा स्यात्तथा सञ्चोदितः प्रेरितः अस्य जनस्य चेतनस्येत्यर्थः । जगतो जडस्येत्यर्थः । परित्राता रक्षको रामः क्व गच्छति ॥ २।४१।५ ॥
अहो इति । जीवलोकस्य चिदचितोः सङ्क्षयं समीचीनमाश्रयं धर्म्यं नित्यं धर्मसंयुक्तमत एव सत्यव्रतं रामं वनवासे यत्प्रवत्स्यति प्रेषयति अतो राजा निश्चेतनः प्रशस्तनिश्चयाभाववान् अहो कष्टमेतत् ॥ २।४१।६ ॥
इतीति । रुरुदुः विचुकुशुः । हा रामेत्यूचुश्र ॥ २।४१।७ ॥
स इति । स महीपतिः तमार्तशब्दं श्रुत्वा सुदुःखितश्चासीत् ॥ २।४१।८ ॥
नेति । अग्निहोत्राणि न अहूयन्त हवनकरणयोग्यैरिति शेषः । सूर्यः अन्तरधीयत अकालकदुर्दिनादिना तिरो ऽभवदित्यर्थः । नाना हस्तिनः कम्बलान् स्वपृष्ठाच्छादनविशेषान् व्यसृजन् । गावः वत्सान् न पायन् अपाययन् आगमशास्त्रस्यानित्यत्वादड्विरहः । एतेन सर्वेषां रामवियोगदुःखासहिष्णुत्वं सूचितम् ॥ २।४१।९ ॥
इहस्थानां शोकं संवर्ण्य लोकान्तरस्थानामपि तं वर्णयन्नाह– त्रिशङ्कुरिति । त्रिशङ्कुः विश्वामित्रनिर्मितस्वर्गविशेषस्थित इक्ष्वाकुवंश्यविशेषः लोहिताङ्गो मङ्गलः बृहस्पतिबुधावपि दारुणाः क्रूराः सर्वे ग्रहाः शनैश्चरादयश्च सोमं चन्द्रमसमभ्येत्य रात्रौ वक्रगमनेन प्राप्य अव्यवस्थिताः चञ्चलचित्ता आसन्निति शेषः ॥ २।४१।१० ॥
नक्षत्राणीति । गतार्चींषि अनुद्भूतेतेजांसि नक्षत्राणि गततेजसः ग्रहादयश्च सधूमाः धूमसदृशाः नभसि प्रचकाशिरे ददृशिरे ॥ २।४१।११ ॥
कालिकेति । कालिका मेघमाला अनिलवेगेनोत्थितो महोदधिः समुद्र इवोत्थिता एतेनाकालवृष्ट्या रामगमनं निवारयामीति तदभिप्रायः सूचितः अत एव तदयोध्यानगरं प्रचचाल रामेण सहागच्छदित्यर्थः । अत्र सत्त्वगुणवतां शोकः सार्वकालिकस्वसहायीभूतदशरथादिशोकदर्शनजनितः, तमो गुणवतां तु निश्चितरावणादिविध्वंसजनित
इति विवेकः । किं च अत्र सत्त्वासत्त्वगुणवतां शोकः प्रातिभासिकरामौदासीन्यजनितः तेन रामस्वरूपस्य सर्वचित्तापहारकत्वं व्यक्तम् । “मेघजाले च कालिका” इत्यमरः ॥ २।४१।१२ ॥
दिश इति । तिमिरेण संवृताः सर्वा दिशः तदभिमानिदेवताः पर्याकुला व्याकुलचित्ता आसन्निति शेषः । अत एव ग्रहः शन्यादिः किञ्चन नैव प्रचकाशे नक्षत्रमश्विन्यादि च नैव प्रचकाशे ॥ २।४१।१३ ॥
अकस्मादिति । अकस्मादतर्कितरामवियोगाद्दैन्यमुपागमत् अत एवाहारादौ मनो नाकरोत् ॥ २।४१।१४ ॥
शोकेति । शोकपर्यायसन्तप्तः शोकस्य परम्परयातितापं प्राप्तः अयोध्यायां विद्यमानः सर्वो रामप्रेषणाभिप्रायानभिज्ञो जनः जगतीपतिं चुकोप किं च जगतीपतिं प्राप्य मन्थरायै चुकोप अत एव जगतीपतेः कर्मत्वम् ॥ २।४१।१५ ॥
बाष्पेति । राजमार्गगतः सर्वो जनः शोकपरायणः आसीदिति शेषः । अत एव बाष्पपर्याकुलमुखः आसीदत एव कश्चिद्धृष्टो न लभ्यते ॥ २।४१।१६ ॥
नेति । सर्वं जगत् पर्याकुलं व्याकुलचित्तमासीदिति शेषः ॥ २।४१।१७ ॥
अनर्थिन इति । सुताः मातापित्रोः अनर्थिनः मातापित्रर्थसाधनरहिताः भर्तारः पतयः स्त्रीणामनर्थिनः भ्रातरो भ्रातृ़णामनर्थिन आसन् । मातापित्रोरिति भ्रातृ़णामिति च आसीदिति शेषः । तत्र हेतुः सर्वं स्वस्वकर्तव्यं परित्यज्य राममेव अन्वचिन्तयन् ॥ २।४१।१८ ॥
ये इति । शोकभारेण आक्रान्ता व्याप्ता अत एव मूढचेतसः ये सर्वे रामस्य सुहृदः ते तु शयनं निद्रां नैव भेजिरे प्रापुरित्यर्थः ॥ २।४१।१९ ॥
तत इति । महात्मना रामेण रहिता प्रातीतिकवियोगं प्राप्ता चचाल रामेण सहाप्रकटरूपान्तरेणेति शेषः । ननाद च ॥ २।४१।२० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥ २।४१ ॥