रामादिवृत्तमाह– अथेति । उपसङ्गृह्य पितृपादस्पर्शनपूर्वकप्रणतिं कृत्वा दीनाः राक्षसक्षयकारकाः रामादयो राजानं प्रदक्षिणं चक्रुः । अन्तर्भावितणिजर्थो दीङ्कर्माविवक्षया कर्तरि निष्ठा ॥ २।४०।१ ॥
तमिति । तं राजानं समनुज्ञाप्य तत्सम्मतिं लब्ध्वेत्यर्थः । शोकसम्मूढः शोकः सम्मूढो येन सः शोकापहर्तेत्यर्थः । सीतया सह धर्मज्ञो राघवः जननीमभ्यवादयत्प्राणमत् ॥ २।४०।२ ॥
अन्वक्षमिति । भ्रातुः रामस्य अन्वक्षमनुपदं लक्ष्मणः कौशल्यामभ्यवादयन्मातुः सुमित्रायाः अपि चरणौ जग्राह ॥ २।४०।३ ॥
तमिति । हितकामा पुत्रप्रियमिच्छन्ती रुदती वियोगहेतुकरोदनं कुर्वती माता सुमित्रा तां वन्दमानं सौमित्रिं मूर्ध्न्युपाघ्राय आघ्राणं कृत्वा अब्रवीत् ॥ २।४०।४ ॥
तद्वचनमवाह– सृष्ट इति । हे पुत्र सुहृज्जने सुहृदं सौहार्दं जनयति उत्पादयति स तस्मिन् गच्छति भ्रातरि रामे स्वनुरक्तः अत्यनुरागविशिष्टः अत एव वनवासाय सृष्टो मया प्रेरितस्त्वं प्रमादं तत्सेवायामनवधानतां मा कार्षीः ॥ २।४०।५ ॥
तत्सेवावश्यं कर्तव्येत्यत्र हेतुं वदन्ती आह– व्यसनीति । हे अनघ कपटसंसर्गशून्यव्यसनी त्यक्तैश्वर्यः समृद्धः स्वीकृतैश्वर्यो वा एष राम एव लोके सर्वभुवने तव गतिः तत्र हेतुः यद्यस्माद्धेतोः ज्येष्ठवशगो भवेत् अनुजम् इति शेषः । एषः ज्येष्ठवशगत्वभावः सतां धर्मः ॥ २।४०।६ ॥
वने राक्षसादिहेतुकभीतिर्न कार्येति बोधयन्ती आह– इदमिति । उचितं राजकुलयोग्यमिदं वृत्तमस्य रघुसम्बन्धिनः कुलस्य सनातनं सार्वकालिकम् । तद्वृत्तमेवाह– दानं याचकेप्सितसमर्पणं यज्ञेषु दीक्षा च मृधेषु सङ्ग्रामेषु तनुत्यागः शत्रुतनुत्याजनं च ॥ २।४०।७ ॥
लक्ष्मणमिति । एवमनेन प्रकारेण उक्त्वा उपदिश्य संसिद्धं गमनानुकूलव्यापारवन्तं प्रियराघवं
सर्वप्रीतिविषयीभूतरामं त्वं गच्छ गच्छ इत्यसौ सुमित्रा तं लक्ष्मणं पुनः पुनरुवाच संसिद्धमित्यत्र गत्यर्थकषिधो निष्ठा पुनः पुनरित्यनेन सुमित्रायाः रामविषयकप्रीत्यतिशयः सूचितः ॥ २।४०।८ ॥
रामसेवान्तरायकारकपित्रादिस्मरणमपि न कर्तव्यमिति बोधयन्तीं आह– राममिति । रामं दशरथं वात्सल्यरसहेतुत्वेन दशरथसदृशं विद्धि जानीहि एवं जनकात्मजां सीतां मां स्वजननीं विद्धि अटवीं वनमयोध्यां सर्वसम्पत्सम्प्रापकत्वेन अयोध्यासदृशं विद्धि अतः यथासुखं सुखमनतिक्रम्य गच्छ रामेण सहेति शेषः । यत्त्वस्यार्थान्तरवर्णनाय दशतीति दशः पक्षी स गरुडो रथो यस्येति व्युत्पत्त्या दशरथशब्दस्य विष्णुपरत्वं भूषणे व्याख्यातं तच्चिन्त्यम् दशशब्दस्य गरुड दशरथशब्दस्य विष्णौ शक्त्यभावात् दंशधातोरचि दश इति रूपस्यासिद्धत्वाच्च मूलविभुजादित्वकल्पनं तु निष्प्रामाणिकत्वाद्धेयमत एव ब्रह्मेशानाच्युतेशायत्यादिभिर्न विरोधः । एवं तृतीयार्थकल्पनाय रामशब्दः उपरतपरत्वेन व्याख्यातस्तदपि उपाद्युपपदमन्तरा विरुद्धम्, एवं मां जनकस्य पितुः आत्मजां विद्धि कैकेयीविवासिततया पितृगृहवर्तिनीं विद्धीत्यर्थो व्याख्यातः । सो ऽपि दुर्लभः जनकजाशब्दस्य कयाचिदपि वृत्त्या स्वरसतः पितृगेहवर्तिनीत्वाबोधनात् तस्माद्यथोक्तमेव न्याय्यमिति दिक् ॥ २।४०।९ ॥
तत इति । विनीतो विनम्रः विनयज्ञः सुमन्त्रः वासवमिन्द्रं मातलिस्तत्सारथिरिव काकुत्स्थं राममब्रवीत् ॥ २।४०।१० ॥
तद्वचनमेवाह– रथमिति । हे राजपुत्र महायशः हे राम रथं त्वमारोह । तत्प्रयोजनमाह– यत्र यस्मिन् देशे मां त्वं वक्ष्यसे प्रापणार्थं नियोजयिष्यसि तस्मिन् देशे त्वां क्षिप्रं प्रापयिष्यामि ॥ २।४०।११ ॥
चतुर्दशेति । यानि चतुर्दष वर्षाणि वने त्वया वस्तव्यानि देव्या केकय्या त्वं प्रचोदितः राजाभिप्रायनिरूपणेनाज्ञापितो ऽसि तानि वर्षाणि उपक्रमितव्यानि अद्यैवारम्भणीयानि एतेनेतःप्रभृत्यत्र स्थितावाज्ञाभङ्गः स्यादिति सूचितं तेन सुमन्त्रस्य परमधर्मज्ञत्वं व्यक्तम् ॥ २।४०।१२ ॥
तमिति । वरारोहा वरः अयोनिजात्वेन सर्वोत्कृष्टः आरोहः प्रादुर्भावो यस्याः सा सीता आत्मनः स्वदेहस्य अलङ्कारं स्वकीयवस्त्राभरणादिभूषां कृत्वा हृष्टेन चेतसा सूर्यसङ्काशं सूर्यस्यापि प्रकाशकं तं रथमारुरोह ॥ २।४०।१३ ॥
वनेति । वनंवासं वनवासनियमितवर्षपरिधानयोग्यतां सङ्ख्याय ज्ञात्वा यत् प्रयत्नवान् श्वशुरो दशरथः वास आदीनि यथा सीतायै ददौ तथा आयुधजातानि शस्त्रास्त्रसमूहान् कवचानि वर्माणि च कठिनं दृढं सचर्म चर्मणा पिनद्धं शस्त्रास्त्रस्थापनयोग्यमञ्जूषाविशेषमित्यर्थः । भ्रातृभ्यां रामलक्ष्मणार्थे रथोपस्थे रथैकदेशविशेषे प्रविन्यस्य संस्थाप्य ददौ बोधयामासेत्यर्थः । किञ्च स इति कर्तृविशेषणं चर्मशब्दः खड्गादिघातवारकयन्त्रविशेषपरः । श्लोकद्वयमेकान्वयि ॥ २।४०।१४,१५ ॥
अथेति । अथ स्वोद्देश्यकशस्त्रादिस्थापनानन्तरं चामीकरविभूषितं रचितस्वर्णविशेषैः शोभितं ज्वलनसङ्काशं वह्नेरपि प्रकाशकं तं संस्थापितशस्त्रास्त्रविशिष्टं रथं रामलक्ष्मणौ तूर्णं शीघ्रमारुरुहतुः ॥ २।४०।१६ ॥
सीतेति । सीतातृतीयान् सीता तृतीया येषु तान् सीतारामलक्ष्मणान् रथमारूढान् दृष्ट्वा वायुवेगसमान् वायुवेगसदृशवेगविशिष्टान् सम्मतान् स्वानुकूलान् अश्वान् जवे अतिवेगचलनयोग्ये रथे स्थितः सुमन्त्रः अचोदयत् ॥ २।४०।१७ ॥
प्रयाते इति । राघवे रामे चिररात्राय बहुकालं वासार्थं महारण्यं प्रयाते सति नगरे अयोध्यायां विद्यमानस्य जनस्य मूर्छा बभूव बलमूर्छा सेनायाः मूर्छा च बभूव चिररात्रायेत्यव्ययम् ॥ २।४०।१८ ॥
तदिति । समाकुलसम्भ्रान्तं समाकुलं व्याप्तं सम्भ्रान्तमुद्वेगो यस्मिंस्तन्मत्तसङ्कुपितद्विपं मत्तेन सर्वदैन्यावलोकनेन सङ्कुपिताः दैन्यसम्पादनहेतुभूता दृष्टादिविषयककोपविशिष्टाः द्विपाः हस्तिनो यस्मिंस्तदत एव हयसिञ्जितनिर्घोषं हयानामश्वानां सिञ्जितैर्वचोभिः नितरां घोषो यस्मिंस्तदत एव महास्वनमतिशब्दविशिष्टं तत्पुरमयोध्या आसीत् ॥ २।४०।१९ ॥
तत इति । सबालवृद्धा बालवृद्धसहिता परमपीडिता रामवियोगहेतुकातिपीडां प्राप्ता पुरी सा अयोध्या राममेवाभिदुद्राव रामेण सह जगामेत्यर्थः । तत्र दृष्टान्तः घर्मार्तः घर्मपीडितः । पुरी परमपीडितेत्यनेन तस्याश्चेतनात्वं व्यक्तम् ॥ २।४०।२० ॥
पार्श्वत इति । पार्श्वादौ लम्बमानाः गच्छन्तः तदुन्मुखाः रामं पश्यन्त इत्यर्थः । भृशनिस्वनाः परस्परं स्वस्वदुःखकथनेनातिशब्दविशिष्टाः सर्वे ऽयोध्यावासिनस्तं सुमन्त्रमूचुः ॥ २।४०।२१ ॥
तद्वचनमेवाह– संयच्छेति । वाजिनामश्वानां रश्मीन् संयच्छ आकर्षय । तत्प्रयोजनमाह– हे सूत शनैश्शनैर्याहि गच्छ । तस्यापि प्रयोजनमाह– रामस्य मुखं द्रक्ष्याम द्रक्ष्यामः । तत्र हेतुर्दुर्दर्शं द्रष्टुमशक्यं नो ऽस्माकं भविष्यति ॥ २।४०।२२ ॥
आयसमिति । देवगर्भप्रतिमे देवगर्भो देवजन्मा देवताविशेष इत्यर्थः । स एव प्रतिमा उपमेयं यस्य तस्मिन् रामे याति गच्छति सति राममातुः यद्धृदयं न भिद्यते तदायसं लोहनिर्मितम् मन्ये इति शेषः ॥ २।४०।२३ ॥
कृतेति । धर्मे पातिव्रतरूपकर्मणि रता अत एव पतिमनुगता वैदेही सीता यतः पतिं न जहाति अतः कृतकृत्या साधितस्वनिखिलप्रयोजना । पतिमित्युभयान्वयि । हिर्हेतौ ॥ २।४०।२४ ॥
अहो इति । हे लक्ष्मण सततं निरवच्छिन्नं प्रियवादिनं प्रीत्युत्पादकवचनविशिष्टं देवसङ्काशं
देवानामपि प्रकाशकं भ्रातरं रामं यस्त्वं परिचरिष्यसि तत्परिचर्यां कर्तासि स त्वं सिद्धार्थः निष्पादितनिखिलप्रयोजनः अहो अतिभाग्योदयमेतत् ॥ २।४०।२५ ॥
सिद्धार्थत्वे हेतुं वदन्नाह– महतीति । यद् यमेनमनुगच्छसि स एषः स्वर्गस्य साभ्यातिशयरहितसुखविशेषस्य मार्गः उपाय इत्यर्थः । अतः एषः रामसहगमनमेव महानभ्युदयः अत एव एषा रामसहगमनसाधिका ते बुद्धिमेहती ॥ २।४०।२६ ॥
एवमिति । प्रियं सर्वप्रीतिविषयीभूतमिक्ष्वाकुनन्दनं तं राममनुगच्छन्तः एवं वदन्तस्ते नराः जनाः आगतं बाष्पं सोढुं न शेकुः ॥ २।४०।२७ ॥
अथेति । अथ रामरथनिर्गमनानन्तरं प्रियं पुत्रमहं द्रक्ष्यामि इति ब्रुवन् सन् राजा गृहात् निर्जगाम ॥ २।४०।२८ ॥
शुश्रुव इति । कुञ्जरे बद्धे सति करेणूनां हस्तिनीनां यथा नादः नाद इव रुदन्तीनां स्त्रीणां महास्वनः अग्रतः शुश्रुवे राज्ञेति शेषः ॥ २।४०।२९ ॥
पितेति । काले ज्योतिःशास्त्रोक्तसमये ग्रहेण राहुणा उपप्लुत उपद्रुतः शशी चन्द्र इव सन्नः खेदं प्राप्तः राजा तदा निर्गमनसमये बभौ जनैर्ददृशे इत्यर्थः । अबभाविति वा छेदः तत्राकारो निषेधार्थकमव्ययम् ॥ २।४०।३० ॥
स इति । अचिन्त्यात्मा तत्कृपामन्तरा चिन्तनाशक्यस्वरूपो रामस्त्वरितं शीघ्रं वाह्यतामिति सञ्चोदयामास ॥ २।४०।३१ ॥
नोदनमेव वर्णयन्नाह– राम इति । याहीति रामः तिष्ठेति जनश्च सञ्चोदयामासेत्यनुकृष्यते अत एव चोदितः उभयप्रेरितः सूतः उभयं वाहनस्थापनं नाशकत् । न च रामाज्ञापनात् जनप्रेरणायाः दौर्बल्याद्बाधसम्भवेनोभयं नाशकदिति विरुद्धमिति वाच्यम् । राजादीनामपि जनान्तःपातित्वेन तदनुमतिसम्भावनया तस्यापि बलवत्त्वेन अतिविचारमन्तरा बाधायोगात् ॥ २।४०।३२ ॥
निरिति । रामे निर्गच्छति सति पतितैः पौरजनाश्रुभिः अभ्यवहितं रथचलनैरभ्युत्थितं महीरजः प्रणनाश प्रशशाम ॥ २।४०।३३ ॥
रुदितेति । राघवस्य प्रयाणे सति रुदिताश्रुपरिद्यूनं रोदनाश्रुज्ञाप्योत्साहाभाववदत एव अचेतनं चेतनाभाववत्पुरमासीत् ॥ २।४०।३४ ॥
सुस्रावेति । आयाससम्भवं वियोगजनितदुःखसम्भूतमस्रमश्रु स्त्रीणां नयनैर्नेत्रेभ्यः सुस्राव । तत्र दृष्टान्तः मीनसङ्क्षोभचलितैः मीनानां यः सङ्क्षोभः आकुलतया सञ्चलनं तेन चलितैः पङ्कजैः पङ्कजेभ्यः सलिलमिव ॥ २।४०।३५ ॥
दृष्ट्वेति । एकचित्तगतं रामवियोगासहिष्णुत्वेन समानचित्ततां प्राप्तं पुरं दृष्ट्वा नृपतिः पपात । तत्र दृष्टान्तः कृत्तमूलः कृत्तं छिन्नं मूलं यस्य स द्रुम इव ॥ २।४०।३६ ॥
तत इति । ततः दशरथपातानन्तरं सीदन्तं राजनं प्रेक्ष्य विद्यमानानां नराणां भृगदुःखितं यथा स्यात्तथा हलहलाशब्दः एककालसर्वजनप्रभूतत्वेन महास्वनविशेषः जज्ञे बभूव । यदि च सीदन्तमित्यस्य समीपं प्राप्तमित्यर्थः । तदा भृशदुःखितमिति राजविशेषणम् ॥ २।४०।३७ ॥
हा रामेति । अन्तःपुरसमृद्धमन्तःपुरसहितमित्यर्थः । क्रोशन्तं राजानमवलोक्येति शेषः । केचित् हा राम इति अपरे राममातेति पर्यदेवयन् व्यलपन् ॥ २।४०।३८ ॥
अन्वीक्षमाण इति । पथि अनुगतौ प्राप्तौ “पुमान् स्त्रिया” इति एकश्ोषः ॥ २।४०।३९ ॥
स इति । धर्मपाशेन धर्मस्य पः पालनं तस्य अशो व्याप्तिस्तेन संयुक्तः स रामः पाशेन बद्धः किशोरो ऽश्वसूनुरिव प्रकाशं यथा स्यात्तथा मातरं नाभ्युदैक्षत तेन रामस्य सुशीलतातिशयो व्यक्तः
“धर्मपाशेन सङ्क्षिप्तः” इति भूषणपाठः तत्र धर्मपालनव्याप्त्या सम्प्रेरित इत्यर्थः । व्याप्तेः प्रेरिकात्वं च भिक्षा वासयतीत्यादाविव भाक्तम् ॥ २।४०।४० ॥
पदातिनाविति । यानार्हौ नित्यं यानगमनयोग्यौ सुखोचितौ नित्यं सुखप्राप्तियोग्यौ मातापितरौ पदातिनौ दुःखार्तौ च दृष्ट्वा शीघ्रं याहि रथं प्रापयेति सारथिं सञ्चोदयामास ॥ २।४०।४१ ॥
शीघ्रं यापने हेतुं वदन्नाह– नहीति । दुःखजं दुःखजनकं पितुर्मातुश्च दर्शनं सहितुं नैव शक्तः, तत्र दृष्टान्तः तोत्रैरङ्कुशैर्नुन्नः प्रेरितो द्विप इव ॥ २।४०।४२ ॥
प्रत्यगारमिति । सा राममाता अभ्यधावत रथमिति शेषः । तत्र दृष्टान्तः बद्धवत्सा बद्धः गृहे निरुद्धो वत्सो यस्याः सा सवत् प्रयत्नसहिता वत्सकारणात् वत्सार्थं प्रत्यगारं प्रतिदिनमागन्तव्यगृहमायान्ती धावन्ती धेनुर्यथा ॥ २।४०।४३ ॥
तथेति । तेन प्रकारेण रथमनुधावतीमनुधावन्तीं नेत्रजं वारि स्रवन्तीं नृत्यन्तीं गात्रविक्षेपं कुर्वन्तीं तां मारतं कौशल्यां स रामः असकृदेव प्रैक्षत । इव एवार्थे श्लोकद्वयमेकान्वयि ॥ २।४०।४४,४५ ॥
तिष्ठेति । सुमन्त्रस्य आत्मा मनः चक्रयोः युद्धार्थं विष्णुद्वयप्रक्षेपितसुदर्शनयोरन्तरा मध्ये इव बभूव ॥ २।४०।४६ ॥
मत्कर्तृकनिवारणे ऽपि त्वया रथः किमर्थं न स्थापित इति राज्ञा पृष्टेन मया किमुत्तरयितव्यमिति सुमन्त्रशङ्कामुपलभ्य राम आह– नाश्रौषमिति । उपालब्धः राज्ञा भर्त्सनपूर्वकं पृष्टो ऽपि त्वं दुःखस्य चिरं विलम्बः पापिष्ठमतिपापानुमापकमित्यर्थः । अतो नाश्रौषं रथनिवारणफलकभवद्वचनकर्मकश्रुत्यनुकूलव्यापारानुकूलकृतिमान्नासमिति वक्ष्यसि इति तं सुमन्त्रं रामो ऽब्रवीत् अत्र नैयायिकमते फलव्यापारौ धात्वर्थौ कृतिः प्रत्ययार्थः वैयाकरणमते ऽपि न क्षतिः । तन्मते कृतेर्धात्वर्थत्वात् प्राचीनमते ऽपि व्यापारस्य धात्वर्थत्वेन तस्य च व्यापारो भावना सैवेत्यादिना कृत्यनतिरेकात् तस्या अपि धात्वर्थत्वं सिद्धमेव । प्राचीनमते कृतिजन्यत्वेन व्यापारस्य न बोधविषयत्वं नवीनमते तत्त्वेनापीत्यन्यदेतत् । अत्रैवङ्कल्पने धर्मात्मा सत्यसन्धश्च सत्यवाक्यो दृढव्रत इत्यादिना नित्यं सत्यादिधर्मपरायणस्य रामस्य न मिथ्योपदेशकत्वम् । न च कृतेर्निषेधे तज्जन्यव्यापारजनितश्रुतेरपि निषेधापत्त्या मिथ्योपदेशकर्तृत्वं तदवस्थमिति वाच्यं कृतिजन्यव्यापारमन्तरा ऽपि श्रुतेरनुभवसिद्धत्वात् । तथाच कृतिजन्यव्यापारजनितश्रुतेर्निषेधे ऽपि विषयेन्द्रियसम्बन्धजनितश्रूतेर्निषेधात् न मिथ्यासंसर्गित्वम् । कृतिजन्यव्यापारजनितश्रुतेर्निषेधो विषयेन्द्रियसम्बन्धजनितश्रुतेरपि निषेध इति तु न भ्रमितव्यं श्यामं घटं न पश्येत्युक्तं श्यामेतरघटविषयकदर्शननिषेधस्यानुभ्ावविरुद्धत्वात् चिरं दुःखस्य पापिष्ठमित्युक्तेः स्थितावधिकं दुःखं भवितेति ध्वनितम् ॥ २।४०।४७ ॥
स इति । स सुमन्त्रः तं समीपस्थं जनमनुज्ञाप्य तदनुमतिं गृहीत्वा व्रजतः चलतो ऽपि हयान् शीघ्रमतिवेगं यथा स्यात्तथा चोदयामास ॥ २।४०।४८ ॥
न्यवर्ततेति । राज्ञो जनः राजकीयः पुरुषः रामं प्रदक्षिणं कृत्वा न्यवर्तत दशरथसमीपं प्रापेत्यर्थः । आशुवेगेन मनसा तु राजकीयो जनः मानुषं साधारणजनो ऽपि न न्यवर्तत जनस्य नञश्चावृत्तिः ॥ २।४०।४९ ॥
राजकीयपुरुषस्य राजसमीपगमने प्रयोजनं वदन्नाह– यमिति । पुनरायातं पुनरागमनविशिष्टं यं जनमिच्छेत्तं जनं दूरं नैवानुव्रजेत् इति वचो ऽमात्या ऊचुः ॥ २।४०।५० ॥
तेषामिति । तेषाममात्यानां वचो निशम्य श्रुत्वा सभार्यो राजा व्यवस्थितः तत्रैवातिष्ठदित्यर्थः ॥ २।४०।५१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे चत्वारिंशः सर्गः ॥ २।४० ॥