रामस्येति । वचो वचनं श्रुत्वा मुनिवेषधरं तं रामं समीक्ष्य च भार्याभिः सह राजा विगतचेतनः कर्तव्यविषयकनिश्चयाभाववानासेति शेषः ॥ २।३९।१ ॥
नेति । एनं राघवं दुःखेन सन्तप्तो राजा न प्रत्यवैक्षत अत्यन्तं नावालोकयत् अभिसम्प्रेक्ष्य किञ्चिदवलोक्यापि न प्रत्यभाषत ॥ २।३९।२ ॥
स इति । दुःखितः अतिदुःखाक्रान्तः अत एव असञ्ज्ञः सञ्ज्ञारहित इव स महीपतिः मुहूर्तं विललाप विविधमभाषत ॥ २।३९।३ ॥
तद्भाषणमेवाह– मन्ये इत्यादिभिः । विवत्सा वत्सरहिता कृताः बहवो धेनव इति शेषः । प्राणिनो मनुष्यादयो वा हिंसिताः किञ्च बहवः प्राणिनः विवत्साः प्रियापत्यरहिताः कृताः अत एव हिंसिताः पीडिताः तत्तस्माद्धेतोः इदं दुःखं मामुपस्थितम् एतेन तस्मिन्काले वियोगदुःखेन स्वपापसंसर्गित्वाभावादिर्विस्मृत इति सूचितम् । तेन तद्दुःखस्य परा काष्ठा सूचिता ॥ २।३९।४ ॥
इदं दुःखं मृते सति कथञ्चिन्निवर्तेत तत्त्वस्माकं दुर्लभमिति बोधयन्नाह– नेति । अनागते अने सर्वरक्षके परमात्मनि आगते नित्यं प्राप्ते अत एव अकाले कालगतिरहिते जने विद्यमानाद्देहाज्जीवितं जीवनं नैव भवति । अतो हेतोः सूक्ष्मे वसने वाससी विहाय तापसाच्छादं तपस्विजनोचिताच्छादनविशिष्टं पावकसङ्काशं पुरतः स्थितमात्मजं कैकेय्या सहितो यो ऽहं पश्यामि तस्य क्लिश्यमानस्य मम मृत्युर्न विद्यते । एतेन रामागमनात्पूर्वं तद्दुःखस्य दुष्परिहरत्वं सूचितम् । श्लोकद्वयमेकान्वयि ॥ २।३९।५,६ ॥
अकालविवासने केकय्या नापराध इति बोधयन्नाह– एकस्या इति । इमां प्रसिद्धां निकृतिं शाठ्यं संश्रित्य स्वार्थे अहमतीव राज्ञीप्रियेत्यर्थे प्रयतमानायाः केकय्याः केकयप्रेषितायाः केकयीदास्या इत्यर्थः । एकस्याः प्रधानायाः मन्थरायाः कृते कृतिसाध्ये अकालिकरामविवासने अयं सर्वो जनः खिद्यते “एको ऽन्यार्थे प्रधाने च प्रथमे केवले तथा । साधारणे समाने ऽल्पे सङ्ख्यायां च प्रवर्तते” इत्यभियुक्तोक्तिः ॥ २।३९।७ ॥
एवमिति । बाष्पेण अश्रुणा पिहितेक्षणः व्याप्तनेत्रः स राजा एवं वचनमुक्त्वा रामेति सकृदेकवारमुक्त्वा व्याहर्तुमन्यत्किञ्चिद्वक्तुं नैव शशाक ॥ २।३९।८ ॥
सञ्ज्ञामिति । उपलभ्य प्राप्य अश्रुपूर्णाभ्यां नेत्राभ्यामुपलक्षितो महीपतिः इदमब्रवीत् ॥ २।३९।९ ॥
तद्वचनमेवाह– उपवाह्यमिति । हयोत्तमैः उत्तमाश्वैः रथं युक्त्वा योजयित्वा त्वमायाहि इह प्राप्नुहि । तत्प्रयोजनमाह– उपवाह्यं नित्यं रथकरणकवहनकर्मीभूतं महाभागमेनं राममितो ऽस्माज्जनपदात्पदं जनपदं देशं प्रापय । “औपवाह्यम्” इति पाठस्तु स्वार्थिकष्यञा साधुः “योज्य” इति पाठे तु ल्यबार्षः ॥ २।३९।१० ॥
एवमिति । साधुर्वीरः पुत्रः पित्रादिना यन्निर्वास्यते तद्गुणवतां गुणानां फलमुच्यते ॥ २।३९।११ ॥
राज्ञ इति । शीघ्रविक्रमः अतित्वरया कार्यसाधकः सुमन्त्रः तत्र रामसन्निधौ ययौ प्राप ॥ २।३९।१२ ॥
तमिति । अञ्जलिं प्रणयसूचकबद्धयुगलकरं कृत्वा परमवाजिभिर्युक्तं रथमाचचक्षे भवत्पित्राज्ञप्तेन मया रथो ऽयं प्रापित इत्युवाच ॥ २।३९।१३ ॥
राजेति । सर्वतः सर्वप्रकारेण शुचिः कापट्यादिसंसर्गरहितः दशकालज्ञो राजा वित्तसञ्चये धनधान्यसङ्ग्रहे व्यापृतं नियुक्तं कोशाधिकारिणमित्यर्थः । सत्वरमाहूय निश्चितं वचः उवाच । “शुचिम्”
इति भूषणपाठः ॥ २।३९।१४ ॥
तद्वचनमेवाह– वासांसीति । एतानि वनवासे नियमितानि वर्षाणि सङ्ख्याय ज्ञात्वा वरार्हाणि अतिप्रशंसनीयानि वासांसि चतुर्दशवर्षेषु धारणयोग्यवस्त्राणि तादृशानि भूषणानि च वैदेह्याः वैदेह्यर्थं क्षिप्रमानय ॥ २।३९।१५ ॥
नरेन्द्रेणेति । ततः राजसमीपात्कोशगृहं गत्वा तत् राजाज्ञप्तं सर्वमाहृत्य आनीय सीतायै प्रायच्छत् ॥ २।३९।१६ ॥
सेति । सुजाता शोभनं सर्वमङ्गलकारकं जातं जन्म यस्याः सा वनं प्रस्थिता वैदेही सुजातानि शोभनलक्षणवन्ति गात्राणि तैः राज्ञा दापितैः विचित्रैर्विभूषणैर्भूषयामास ॥ २।३९।१७ ॥
व्यराजयतेति । सुविभूषिता शोभनविभूषणविशिष्टा वैदेही तत्स्वाधिष्ठितं वेश्म गृहं व्यराजयत अशोभयत । तत्र दृष्टान्तः उद्यतः उदयं प्राप्नुवतः अंशुमतः प्रशस्तकिरणविशिष्टस्य विवस्वतः सूर्यस्य प्रभा कान्तिः काले घनाद्यनाच्छन्नसमये खमाकाशमिव एतेन तस्याः परमोत्साहसूचितः ॥ २।३९।१८ ॥
तामिति । कृपणं कार्पण्यमनाचरन्तीमुदारचेष्टामित्यर्थः । मां मैथिलीं मृर्ध्न्युपाघ्राय भुजाभ्यां परिष्वज्य श्वश्रूः कौसल्या वचनमब्रवीत् ॥ २।३९।१९ ॥
तद्वचनमेवाह– असत्य इति । प्रियैः स्वस्वामिभिः सततं सत्कृताः याः स्त्रियः विनिपातगतं त्यक्तैश्वर्यं भर्तारं नाभिमन्यन्ते स्वसेव्यत्वेन नेच्छन्ति ताः अस्मिन् लोकवेदप्रसिद्धे सर्वलोके असत्य पापिन्य इत्यर्थः ॥ २।३९।२० ॥
एष इति । पुरा अनापत्काले सुखं पत्या सहानन्दमनुभूय भुक्त्वा अल्पामीषदपि आपदं पत्यापत्तिं प्राप्य दृष्ट्वेत्यर्थः । दुष्यन्ति नानादुर्गुणैर्दूषयन्ति प्रजहति त्यजन्त्यपि एषः पत्युर्दोषवादः त्यागश्च नारीणां दुष्टस्त्रीणां स्वभावः । कर्तृकर्मणी अध्याहर्तव्ये ॥ २।३९।२१ ॥
स्वभावान्तराणि वर्णयन्त्याह– असत्यशीला इति । असत्यं मृषा कथनं शीलं स्वभावो यासां ताः अत एव विकृताः दर्शनमात्रेण विकारोत्पादिकाः अत एव दुर्गाः दुरवगाह्याभिप्रायाः अत एव अहृदया न हृदयं स्वपतिविषयकं मनो यासां ताः अत एव पापसङ्कल्पाः पापेषु परपुरुषप्रसङ्गादिषु सङ्कल्पो यासां ताः अत एव क्षणमात्रविरागिणः पुरुषान्तरलावण्यमवलोक्य ततो ऽपि तूर्णं विरक्तचित्ताः असत्यः स्त्रियो भवन्तीति शेषः । क्षणमात्रविरागिण इति सामान्ये नपुंसकम् एतेनैवंविधाः स्त्रियः दूरतः परिहर्तव्या इति ध्वनितम् ॥ २।३९।२२ ॥
ननु मामकीं रीतिमवलोक्य ता अपि स्वदुःस्वभावं त्यक्तार इत्यतः स्वभावान्तराण्याह– नेति । कुलं शोभनकुलोत्पत्तिः स्त्रीणां दुष्टस्त्रीणां हृदयं न गृह्णाति पापेभ्यो निवर्तयति एवमन्यदपि योजनीयम् तत्र कृतमुपकारः, विद्यासदुपदेशः, दत्तं द्रव्यादि, समर्पणं सङ्ग्रहः, स्वसमीपेत्यन्तस्थापनं तत्र हेतुः यतस्ता अनित्यहृदयाः प्रतिक्षणं ध्वंसप्रतियोगिनिश्चयकारिण्यः । एतेन तत्संसर्गो दोषावह एवेति व्यञ्जितम् ॥ २।३९।२३ ॥
साध्वीनामिति । शीले स्वधर्मचिन्तने चित्तवृत्तिनिरोधे वा सत्ये मिथ्यारहितवचने श्रुते गुरूपदेशश्रवणे स्थिते स्थिरे त्वकुलमर्यादायामिति शेषः । स्थितानां साध्वीनां, पतिव्रतानां स्त्रीणां तु परममुत्तमं पवित्रकारकमेकः पतिः पतिसेवैव पतिसेवामन्तरा सर्वं निरर्थकं भवतीति तात्पर्यम् । अतः पतिरेव विशिष्यते सर्वधर्मेभ्य इति शेषः । “श्रुते समे” इति भूषणपाठः ॥ २।३९।२४ ॥
स इति । वनं प्रव्राजितः अस्माभिः प्रेषितः पुत्रो मत्सुतः स त्वत्पतिः रामः त्वया नावमन्तव्यः केनापि हेतुना तदपमानं न कार्यमित्यर्थः । तत्र हेतुः एष रामः तव देवसमः सर्वप्रमोदः देवशब्दो
मोदार्थक दिवुप्रकृतिकघञन्तः समशब्दः सर्वपर्यायः तयोः समानाधिकरणः तत्पुरुषः पञ्चम्यर्थे बहुव्रीहिर्वा ॥ २।३९।२५ ॥
विज्ञायेति । धर्मार्थसंहितं धर्म एव अर्थः प्रयोजनं तेन संहितं तस्याः कौशल्यायाः वचनं विज्ञाय सतात्पर्यं ज्ञात्वा सीता इदमुवाच ॥ २।३९।२६ ॥
तद्वचनमेवाह– करिष्य इति । आर्या सर्वश्रेष्ठा भवती यन्मामनुशास्ति तत्सर्वमहं करिष्ये एव तत्र हेतुः भर्तुः सम्बन्धिनि यथा वर्तितव्यं तथा मे मया श्रुतं पूर्वमेव मातापितृभ्यामिति शेषः अतो ऽहमभिज्ञा भवदादिसेवाविषयकज्ञानवत्यस्मि ॥ २।३९।२७ ॥
दुस्सङ्गो ऽपि ममाकिञ्चित्कर इति बोधयितुमाह– नेति । असज्जनेन अल्पसज्जनेन अपरिपक्वेनेत्यर्थः । मां समानयितुं समानां कर्तुमार्या भवती नार्हति परिपक्वपतिव्रताहमिति तात्पर्यम् । अतः धर्माद्धर्मपथाद्विचलितुं दुस्सङ्गेनाप्यन्यत्र गन्तुमहं नालं न समर्था तत्र दृष्टान्तः चन्द्रात्प्रभा तत्कान्तिरिव ॥ २।३९।२८ ॥
नातन्त्रीति । अतन्त्री तन्त्रीरहिता वीणा न विद्यते यत्नान्तरशतैरपि वादनाश्रया न भवतीत्यर्थः । अचक्रः चक्राभ्यां रहितो रथो न विद्यते यत्नान्तरशतैरपि गमनाश्रयो न भवतीत्यर्थः । एवं शतात्मजापि या स्त्री अपतिः पतिरहिता स्यात्सा सुखं न एधेत सुखाश्रया न भवतीत्यर्थः । एतेन पतिरेव स्त्रीणां सुखहेतुरिति व्यञ्जितम् ॥ २।३९।२९ ॥
तदेव द्रढयन्ती आह– मितमिति । मितं परिमितमत अमितस्य सर्वस्वस्य दातारं का अभिज्ञा न पूजयेत्सर्वापि पूजयेदित्यर्थः ॥ २।३९।३० ॥
सेति । श्रेष्ठा श्रुतधर्मपरावरा श्रेष्ठाभ्यः स्वमात्रादिभ्यः श्रुतः धर्मपरावरः उत्कृष्टापकृष्टरूपधर्मो यया सा अत एव स्त्रियाः भर्तैव दैवतं देवता एवं गता ज्ञानवती अहं किं किमर्थमवमन्येयम् ॥ २।३९।३१ ॥
सीताया इति । हृदयङ्गमं मनोहरं वचनं श्रुत्वा शुद्धसत्त्वा विशुद्धान्तःकरणा कौशल्या दुःखहर्षजं दुःखवत्प्रतीयमानो यो हर्षः तज्जन्यमश्रु मुमोच । दुःखत्वेन प्रतीयमानत्वं हर्षस्य नवोढानां पतिसहगमने प्रसिद्धम् ॥ २।३९।३२ ॥
तामिति । मातृमध्येतिसत्कृतां तां मातरमभिप्रेक्ष्य रामो वाक्यमब्रवीत् ॥ २।३९।३३ ॥
तद्वाक्यमेवाह– अम्बेति । अम्ब हे मातः दुःखिता भूत्वा मम पितरं त्वं मा पश्येः तत्र हेतुः वनवासस्य वनवाससमयस्य क्षयो ध्वंसः क्षिप्रमेव भविष्यति त्वद्दुःखमवलोक्य सो ऽतिदुःखी भविता तन्माभूदिति तात्पर्यम् ॥ २।३९।३४ ॥
ननु वनवासकालस्य बहुत्वात्कथं द्रुतं नाश इत्यत आह– सुप्ताया इति । सुप्ताया इव ते गमिष्यन्ति गन्तारः अनन्तरं समग्रं समीचीनः अग्रः अग्रगन्ता सन्देशहर इत्यर्थः । यस्य तं सुहृद्वृतं सम्प्राप्तं मां द्रक्ष्यसि द्रष्टासि । सुप्ताशब्द आचारक्विबन्तः चशब्दो ऽनन्तरार्थकः ॥ २।३९।३५ ॥
एतावदिति । अभिनीतः प्राप्तः अर्थः मातृप्रयोजनं यस्मिन् तदेतावद्वचः जननीमुक्त्वा त्रयः शतशतार्धाः त्रयश्शतेन शतत्रयेण युक्तः शतार्धः पञ्चाशत्परिच्छेदकत्वेन यासु ताः मातरः अवेक्ष्य संविविच्य ददर्श । तथा चोत्पत्तयः शुभा इतिवत्प्रयोगः त्रेस्त्रय आदेशो ऽत एव निर्देशात् ॥ २।३९।३६ ॥
ता इति । स दशरथात्मजो रामः इदं वाक्यं निजगाद ॥ २।३९।३७ ॥
तद्वाक्यमेवाह– संवासादिति । संवासादत्यन्तसन्निकर्षादज्ञानाद्भवतीनामभिप्रायाविचारणाद्वा परुषं भवत्प्रतीतिविषयीभूतकठोरवचनादि यत्किञ्चित्कृतं निष्पादितं तन्मे कृतं समुपजानीत क्षमध्वम्
एददर्थं सर्वाः वो युष्मान् आमन्त्रयामि प्रार्थयामि ॥ २।३९।३८ ॥
वचनमिति । समाहितं समाधानकारकमेतद्वचनं शोकोपहतचेतसः सर्वाः स्त्रियः शुश्रुवुः ॥ २।३९।३९ ॥
जज्ञ इति । सन्नादो महान् शब्दः मानवेन्द्रस्य दशरथस्य राघवे रामे ॥ २।३९।४० ॥
मुरजेति । यद्वेश्म गृहं मुरजादिवाद्यविशेषत्रयघोषवत्तच्छब्दविशिष्टं पुरा बभूव तत् विलपितपरिदेवनाकुलं विलपितैः को ऽस्मान् रक्षितेत्यादिवाक्यैः यत्परिदेवनं तेनाकुलं व्याप्तं बभूव अत एव व्यसनगतं विविधकर्मकचित्तचालनप्रापकमत एव सुदुःखितमतिदुःखप्रदमभूत् श्रोतृ़णामिति शेषः ॥ २।३९।४१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥ २।३९ ॥