०३८ रामेण दशरथप्रार्थना

सीताचीरधारणसमयभवजनवृत्तमाह– तस्यामिति । नाथवत्यां नित्यं स्वामियुक्तायां तस्यां सीतायां चीरं वसानायां सत्यां त्वां सर्वसम्मतिविलक्षणसम्मतिदात्रीत्वेन सर्वतो भिन्नां मन्थरां धिगिति सर्वो जनः दशरथमनाथवत् प्रचुक्रोश कथयामास । अयमन्यपर्यायो ऽदन्तस्त्वशब्दः ॥ २।३८।१ ॥

तेनेति । तेन सर्वजनजनितेन प्रणादेन दुःखितः स महीपतिः आत्मनो धर्मे जीविते पालने यशसि च श्रद्धामुत्कटेच्छां चिच्छेद जहौ ॥ २।३८।२ ॥

स इति । उष्णं निःश्वस्य हे कैकेयि कुशचीरेण युक्ता सीता गन्तुं नार्हति इदं वचनमैक्ष्वाको राजा दशरथस्तां कैकेयीमब्रवीत् ॥ २।३८।३ ॥

तत्र हेतुं वदन्नाह– सुकुमारीति । इयं सीता वनस्य योग्या न इति हेतोर्मम गुरुर्वशिष्ठः सत्यमुचितमाह ॥ २।३८।४ ॥

नन्वियमपि राक्षसादिवधादौ साहाय्यं कर्तेत्यत आह– इयमिति । या चीरमासाद्य प्राप्य विसञ्ज्ञा सञ्ज्ञारहिता काचिच्छ्रमणीव ब्रह्मचारिणीव जनस्य मध्ये स्थिता सा राजवरस्य जनकस्य पुत्री तपस्विनी नित्यं पातिव्रतरूपतपोयुक्ता इयं सीता कस्यापि किञ्चिदनिष्टमिति शेषः किं करोति नेत्यर्थः । हिः किमर्थः “अपकरोति” इति पाठे त्वनिष्टं नाध्याहर्तव्यम् ॥ २।३८।५ ॥

चीराणीति । अपास्यात् जहातु । तत्र हेतुः यतो दत्तपूर्वा वरप्रदानपूर्विका इयं सीता चीरधारणविषयिणी मम प्रतिज्ञा न अतः सर्वरत्नैः सह समग्रा अतिभाग्यवती राजपुत्री यथासुखं सुखमनतिक्रम्य वनं गच्छतु ॥ २।३८।६ ॥

ननु रामचीरधारणे कुतो नैवं दुःखमित्यत आह– अतीवनार्हेणेति । अजीवनार्हेण प्रतिज्ञाभङ्गे जीवनायोग्येन मया त्वया करणभूतया नियमेन यदा याचितासि तदा दातास्मीति मत्कर्तृकनियमनेन हेतुभूतेन बाल्यादसमये एवमियं

याचिष्यतीत्येतद्विषयकाज्ञानान्नृशंसा अत्युत्साहभङ्गेन सर्वजनघातिका अजीवनार्हेण समर्थपुत्रवत्वात्पालनायोग्येन मया तावत्प्रथमं कृता या प्रतिज्ञा त्वद्याचितं ददामीति प्रतिश्रवणं तत् ततः प्रतिपन्नं प्राप्तम् एतद्रामचीरधारणजनितसुखमपि दहेत् दहति शोषयतीत्यर्थः । तत्र दृष्टान्तः आत्मपुष्पं वेणुं वंशमिव एतेन दुःखप्रदत्वे ऽपि तच्चीरधारणस्य प्रतिज्ञाविषयीभूतत्वादनिवार्यत्वं सूचितम् । हिरप्यर्थे ॥ २।३८।७ ॥

इदानीं राममात्रस्यैव गमने प्रयोजनमिति बोधयन्नाह– रामेणेति । यदि यदा त्वद्वरयाचनानन्तरकाले रामेण हेतुभूतेन अधमे पापे राक्षसे किञ्चित् राक्षसत्वनिवृत्तिफलकैश्वर्यादित्याजनमशोभनं ते त्वया मया च कृतं प्रमाणतो निश्चित्तं तदा वैदेह्या कः अपकारः राक्षसापकृतिः दर्शितो निश्चित न को ऽपीत्यर्थः ॥ २।३८।८ ॥

इहापि कस्यचिदपकारो ऽनया न कृत इति बोधयन्नाह– मृगीति । ते तव स्नुषा जनकात्मजा इह अयोध्यायामपकारं कस्यचिदपकृतिं किं करोति न किमपीत्यर्थः । एतेनैतत्सन्निधौ रामो ऽपि न कञ्चन हन्तेति सूचितम् । एतेन तस्या दयालुत्वातिशयः सूचितः । तेनैतद्गमनं नोचितमिति सूचितम् ॥ २।३८।९ ॥

सीताविवासने दोषान्तरं वदन्नाह– नन्विति । एवमनेन प्रकारेण रामविवासनमेव पापे पापिराक्षसार्थं पर्याप्तं परिपूर्णमतः एभिः कृपणैः कार्पण्यहेतुभिः अत एव पातकैः पापसम्पादकैः ते कृतैः त्वत्कर्तृकसीताविवासनव्यापारैः किं न किमपीत्यर्थः ॥ २।३८।१० ॥

प्रतिज्ञातमिति । इहागतं राममभिषेकाय इदानीन्तनाभिषेकं निवर्तयितुं यत्त्वमब्रवीस्तत् त्वयोक्तं श्रृण्वता मया प्रतिज्ञातामङ्गीकृतम् ॥ २।३८।११ ॥

तदिति । मैथिलीं चीरवासिनीं सतीं याहि इति यत्त्वमीक्षसे ईक्षापूर्वकं कथयसि तदेतत्पूर्वप्रतिज्ञातं समतिक्रम्य निरयममङ्गलं गन्तुं गमयितुं जनानिति शेषः । किमर्थमिच्छसि । अपि किमर्थमित्यर्थे ॥ २।३८।१२ ॥

इतीति । भृशातुरत्वाद्धेतोः इत्यनेन प्रकारेण विलपन् राजा शोकस्य अन्तं निवर्तकं किञ्चिन्न ददर्श अत एव तेन तादृशेन पुत्रव्यसनेन पुत्रवियोगजनितदुःखेन निमग्नो ऽभिभूतो राजा भूमौ पपात ॥ २।३८।१३ ॥

एवमिति । वनं सम्प्रस्थितो रामः इदं वचनं पितरमब्रवीत् ॥ २।३८।१४ ॥

तद्वचनमेवाह– इयमिति । अक्षुद्रशीला महाशीलविशिष्टेत्यर्थः । त्वां न गर्हते मद्वियोगहेतुत्वबुद्ध्या न निन्दति ज्ञाताभिप्रायत्वादिति तात्पर्यम् ॥ २।३८।१५ ॥

मयेति । हे वरद अदृष्टपूर्वव्यसनां मया विहीनामत एव शोकसागरं प्रपन्नां प्राप्तां निमग्नामित्यर्थः । कौसल्यां भूयो ऽधिकं सम्मन्तुमर्हसि ॥ २।३८।१६ ॥

इमामिति । हे महेन्द्रोपम जातगर्धिनीं निरन्तरमद्दर्शनविषयकातिशयेच्छावतीं मम जननीं वनस्थे मयि शोककर्शिता सती जीवितं स्वपरिकरपालनं न्यस्य परित्यज्य यमक्षयं कालागम्यमप्रकटसाकेतमित्यर्थः । यथा न व्रजेत्तथा विधातुं त्वमर्हसि ॥ २।३८।१७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे ऽष्टात्रिंशः सर्गः ॥ २।३८ ॥