सुमन्त्रवचनश्रवणानन्तरकालिकं राजवृत्तमाह– तत इत्यादिभिः । प्रतिज्ञया राक्षसहननविषयकरामप्रतिश्रवेण स्वकृतरामाभिषेकप्रतिश्रवेण च पीडितः ऐक्ष्वाको दशरथः सबाष्पं बाष्पसहितं यथा स्यात्तथा अतिनिःश्वस्येदं जगाद कथयामास ॥ २।३६।१ ॥
तद्वचनमेवाह– सूतेति । हे सूत रत्नसुसंपूर्णा नानारत्नव्याप्ता चतुर्विधबला चतुर्विधानि रथादिचतुष्टयप्रकाराणि बलानि वीर्याणि यस्यां सा चमूः सेना राघवस्य अनुयात्रार्थमनुगमनार्थं क्षिप्रं शीघ्रं प्रतिविधीयतां प्रस्थाप्यताम् ॥ २।३६।२ ॥
रूपाजीवा इति । वादिन्यः रमणीयवचनशीलाः रूपाजीवा वेश्याः महाधनाः प्रभूतधनवन्तः सुप्रसारिताः पण्याः द्रव्यप्रसारणचतुराश्च वणिजः वणिग्जातयः कुमारस्य रामस्य वाहिनीं सेनां शोभयन्तु । वादिन्य इत्यस्य स्थाने शालिन्य इति भूषणपाठः । “वारस्त्री गणिकावेश्या रूपाजीवा” इत्यमरः ॥ २।३६।२,३ ॥
ये इति । एनं राममुपजीवन्ति यैश्च सः वीर्यतः पराक्रमदर्शनादिना रमते तेषां योग्यं बहुविधमनेकप्रकारधनं दत्त्वा तानपि अत्र रामसहगमने नियोजय प्रेषयेत्यर्थः ॥ २।३६।४ ॥
आयुधानीति । मुख्यानि राममात्रग्रहणयोग्यानि आयुधानि बाणप्रभृतीनि नागराः नगरवासिनः शकटानि च अरण्यकोविदाः वनविषयकातिज्ञानवन्तो व्याधाश्च काकुत्स्थं राममनुगच्छन्तु ॥ २।३६।५ ॥
व्याधप्रेषणे प्रयोजनं वदन्नाह– निघ्नन्निति । हननयोग्यानपि मृगादीन्निघ्नन्निवर्तयन्नारण्यकं वनोद्भवं मधु अनेकविधपुष्परसं पिबन्सन्राज्यं राजसुखं न संस्मरिष्यति । एतेन रामो विहारप्रियो ऽस्तीति राजनिश्चयः सूचितः । प्रसिद्धश्च निपूर्वकहनः निवर्तनार्थकत्वं शिष्टं निघ्नन्ति कम्पितमित्यादिना वेदभाष्ये तत्र वधो नार्थः । शब्दानामनित्यत्वापत्तेः । मतान्तरे ऽपि शब्दानां प्राणसम्बन्धाभावेन प्राणावियोगानुकूलव्यापारार्थस्यात्रासम्भवात् ॥ २।३६।६ ॥
धान्येति । मामको मत्सम्बन्धी । एतेन रामसमीपं तज्जिगमिषा सूचिता ॥ २।३६।७ ॥
कोशप्रेषणे प्रयोजनं वदन्नाह– यजन्निति । आप्तदक्षिणाः आचार्याद्युचितस्वर्णादीन् विसृजन् ददत् सन्वने सुखं प्रवत्स्यति ॥ २।३६।८ ॥
नन्विह कः पालयितेत्यत आह– भरत इति । महाबाहुर्भरतः अयोध्यां पालयिष्यति अतः सर्वकामैः इच्छाविषयीभूतकृत्स्नपदार्थैर्युक्तो रामः संसाध्यतां तदीप्सितगमनसिद्धिः संपाद्यतामित्यर्थः ॥ २।३६।९ ॥
एवमिति । काकुत्स्थे दशरथे एवमनेन प्रकारेण ब्रुवति कथयति सति कैकेय्या भयं क्षुद्रराक्षसवधफलकनिखिलपरिवारगमनहेतुकलोकापवादभीतिमागतं प्राप्तमत एव मुखं तस्याः आननं शोषमगमत् अत एव स्वरो ऽपि व्यरुध्यत ॥ २।३६।१० ॥
सेति । सन्त्रस्ता सैन्यगमननिवारणफलकस्वविज्ञापनाहेतुकसन्दिग्धराजकोपहेतुकोद्वेगविशिष्टा अत एव विषण्णा उदासीनचित्ता अभिमुखी राजसम्मुखे स्थिता परिशुष्यता मुखेनोपलक्षिता कैकेयी इदं वाक्यमब्रवीत् ॥ २।३६।११ ॥
तद्वचनमेवाह– राज्यमिति । साधो हे प्रव्राजनसाधक गतजनं गताः जनाः पित्रादयो यस्मात्तत एव शून्यं पित्रादिसामग्रीजातरहितमत एव निरास्वाद्यतममास्वाद्यतमपित्रादिसम्माननादिसुखरहितं राज्यं भरतो न अभिपत्स्यते प्राप्स्यते । तत्र दृष्टान्तः पीतमण्डां पीतसारां सुरां जना इव किञ्च पीतः मण्डो दधिसारो यस्याः तां सुरां सुदत्तां दधिव्यक्तिमिव एतेन भरतो ऽपि सहैव गन्तेति सूचितं तेन भवदादिरहितेनैव रामेण गन्तव्यमिति व्यञ्जितम् ॥ २।३६।१२ ॥
कैकय्यामिति । कैकेय्यामतिदारुणं वियोगबोधकत्वेनातिदारुणत्वेन प्रतीयमानं वाक्यं वदत्यामत एव मुक्तलज्जायां मुक्तानैहिकामुष्मिकानुरागरहितान्परमहंसानपि लज्जयति तस्यां सत्यामायतलोचनं कैकेयीं राजा दशरथ्ा उवाच ॥ २।३६।१३ ॥
तद्वाक्यमेवाह– वहन्तमिति । धुरि धरणीभारभूते अनार्ये क्षुद्रे अहिते धर्मविरोधित्वेन शत्रौ राक्षसजाते तद्विनाशार्थं मां राज्यलक्ष्मीं सेनामित्यर्थः । वहन्तं प्रेषयन्तं मा मां किं तुदसि खेदयसि । ननु नाहं तुदामि किन्तु प्रार्थयामीत्यत आह– आरब्धं मदाज्ञया सर्वजनकर्तृकप्रारम्भकर्मीभूतं कृत्यं कृतिनिष्पाद्यं सेनागमनमित्यर्थापूर्वं मदाज्ञापनात्पूर्वकाले किं किमर्थं न उपारुधः सैन्यादिभिर्न गन्तव्यमिति पूर्वमेव कुतो नोक्तमित्यर्थः ॥ २।३६।१४ ॥
तस्येति । क्रोधसंयुक्तं क्रोधहेतुकत्वेन प्रतीयमानं तस्य राज्ञः उक्तं वचनं श्रुत्वा क्रुद्धा क्रुध् क्रोधं जहाति हायपति सा कैकेयी द्विगुणं द्वौ रामविषयकस्नेहवृद्धिरामसत्यप्रतिज्ञत्वे गुणौ यस्मिन् तदिदं भोगत्यागविषयककुलाचारप्रमाणबोधनपूर्वकसत्यप्रतिज्ञत्वबोधकं वचनं राजानमब्रवीत् ॥ २।३६।१५ ॥
तद्वचनमेवाह– तवेति । तव वंशे पूर्वपरम्परायामेव असमञ्ज इति ख्यातं ज्येष्ठपुत्रमुपारुधत् तद्भोग्यभोगान्न्यवर्तयत् तथा राज्यभोगत्यागप्रकारेण अयं रामो गन्तुमर्हति ॥ २।३६।१६ ॥
एवमिति । एवमनेन प्रकारेण केकय्या उक्तः राजा दशरथः धिक् त्वद्दत्तदृष्टान्तमिति शेषः इत्येवाब्रवीद्रामगमननिवृत्तिप्रकारं नाब्रवीदित्यर्थः । एतेन राज्ञो लज्जा जातेति व्यक्तमत एव सर्वो जनः व्रीडितः राजव्रीडितत्वदर्शनेन लज्जित आसीदिति शेषः । सा केकयी तं राजकृतदृष्टान्तधिक्कारं नावबुध्यत अगणयत् पत्युक्तसर्वप्रकारवचनस्य सह्यत्वान्न किञ्चिदब्रवीदित्यर्थः ॥ २।३६।१७ ॥
तत्रेति । तत्र राज्ञस्तूष्णीम्भावेन स्थितौ सत्यां नामतः सिद्धार्थः सिद्धार्थनामेत्यर्थः । कैकेयीमिदं नाम प्रसिद्धमब्रवीत् ॥ २।३६।१८ ॥
तद्वचनमेवाह– असमञ्ज इति । पथि मार्गे क्रीडतो दारकान्बालान्प्रक्षिपन्सन्नास्ते इति शेषः । तेन प्रक्षेपेण दुर्मतिरसमञ्जो रमते ॥ २।३६।१९ ॥
तमिति । तमसमञ्जकर्तृकबालक्षेपं दृष्ट्वा क्रुद्धनागराः अब्रुवन् । तद्वचनमेवाह– असमञ्जमस्मान्वा वृणीष्व स्वीकुरु द्वयोरत्र स्थितौ निर्वाहो न भवितेति तात्पर्यम् ॥ २।३६।२० ॥
तानिति । इदं निर्वाहो न भवितेत्येतद्भयम् । भयं किंनिमित्तं किङ्कारणकमिति राजा तान्नागरानुवाच राज्ञा सम्पृष्टाः ताः प्रकृतयः प्रजाः नागरा इत्यर्थः वाक्यमब्रुवन् ॥ २।३६।२१ ॥
तद्वाक्यमेवाह– क्रीडत इति । एषो ऽसमञ्जो बालानल्पवयस्कान्मौर्ख्यात्क्रीडाकर्तृ़नत एवोद्भ्रान्तचेतसो ऽनवस्थितचित्तान्नो ऽस्माकं पुत्रान्सरय्वां प्रक्षिपन्सन्नतुलां प्रीतिं प्रसन्नतामश्नुते प्राप्तोति ॥ २।३६।२२ ॥
स इति । स नराधिपः सगरस्तासां प्रकृतीनां वचनं श्रुत्वा प्रकृतीनामहितं तमसमञ्जं पुत्रं तत्याज ॥ २।३६।२३ ॥
त्यागप्रकारं बोधयन्नाह– तमिति । सपरिच्छदं वनवासयोग्यसामग्रीसहितं तमसमञ्जं यानमारोप्य यावज्जीवमयं विवास्यः वने स्थापनीय इति तान् प्राप्तविवासनाधिकारान्पिता अन्वशादब्रवीत् ॥ २।३६।२४ ॥
सेति । फालं वनस्थोपभोग्यकन्दमूलादिखननसाधकं, पिटका फलादिस्थापनयोग्यमञ्जूषाविशेषः तयोः समाहारद्वन्द्वः तेन सहितं पितृप्रेषितसामग्रीजातमित्यर्थः । गृह्य गृहीत्वा सर्वाः दिशः अनुचरन्सन् सः असमञ्जः गिरिदुर्गाणि अलोकयत् । तत्र दृष्टान्तः यथा पापकर्मकृत् एतदुपमालङ्कारेण असमञ्जस्य पापकर्मकर्तृत्वाभावः सूचितः । तेन स्वविषयकपित्रतिप्रीतिनिरसनार्थं जले बालप्रक्षेप इति
सूचितं तेन तस्य विज्ञानि श्रेष्ठत्वं व्यक्तम् ॥ २।३६।२५ ॥
इतीति । सुधार्मिकः सगरः इति अनेन प्रकारेण एनमसमञ्जमत्यजत् एवमसमञ्जोक्तिप्रकारेण रामः किं पापं पापाभासमकरोत् तेन हेतुभूतेन उपरुध्यते तद्राज्यभोग इति शेषः ॥ २।३६।२६ ॥
ननु त्वमेव विचारयेत्यत आह– नहीति । राघवस्य रामस्य कञ्चन अगुणं गुणाविरोधि दोषकर्मेत्यर्थः । वयं न पश्यामः तत्र हेतुः शशाङ्कस्य द्वितीयाचन्द्रस्य कल्मषमिव अस्य निरयः कल्मषं दुर्लभः नैवास्तीत्यर्थः ॥ २।३६।२७ ॥
अथवेति । अथवा तत्त्वेन त्वं पश्यसि चेद् ब्रूहि ॥ २।३६।२८ ॥
अदुष्टस्येति । अदुष्टस्येति दोषरहितस्य धर्मविरोधवान् धर्मविरोधबोधकः सन्त्यागः शक्रस्यापि द्युतिं तेजः निर्दहेद्विनाशयेत् ॥ २।३६।२९ ॥
ननु किं रामधर्मविरोधकर्त्री त्वं मयि पश्यसि येनैवं वदसीत्यत आह– तदिति । अविहतया नित्ययेत्यर्थः । श्रिया युक्तया त्वया लोकतो ऽपि रामस्य परिवादः परिहासः हिते स्वकर्तृकशुभलोकप्राप्तये अरक्ष्यः परिहर्तव्य इत्यर्थः । एतेन तन्न कृतमित्येव त्वयि विरोधकर्त्रीत्वमिति ध्वनितं तेन रामविवासनं किञ्चित्तद्दोषानुमापकं भवितेति सूचितं तेन स न विवासनीय इति प्रार्थना बोधिता ॥ २।३६।३० ॥
श्रुत्वेति । श्रान्ततरस्वरो राजा शोकोपहतया निश्चितरामवियोगजनितशोकाक्रान्तया वाचा अब्रवीत् ॥ २।३६।३१ ॥
तद्वचनमेवाह– एतदिति । पापरूपे राक्षसे कृपणं दुःखदं मार्गमास्थाय निश्चित्य एतद्वचः सिद्धार्थवचनं ममात्मनो रामस्य हितं नैव जानासि । अत एव नेच्छसि अतस्ते कुचेष्टा कुत्सितव्यापारत्वेन प्रतीयमाना चेष्टा व्यापारः असाधुपथादपेता त्यक्ता शिष्टसम्मत एवायं पन्था इत्यर्थः । कुचेष्टाशब्दः आचारक्विबन्तप्रकृतिककर्तृक्विबन्तः ॥ २।३६।३२ ॥
इदानीं स्वस्य रामवियोगासहिष्णुत्वं बोधयन्नाह– अन्विति । राज्यादिकं परित्यज्य अद्य अस्मिन् दिने राममनुव्रजिष्यामि सर्वे मन्त्रिणः त्वं च चिराय बहुकालं प्रभूतं राज्यं सुखं यथा स्यात्तथा भुङ्क्ष्व पालय भुजो ऽनवन इत्यस्याप्रवृत्तिस्तु सञ्ज्ञापूर्वकविधेरनित्यत्वादेतेन भरतं क्षिप्रमानयेति सूचितम् ॥ २।३६।३३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे षट्त्रिशः सर्गः ॥ २।३६ ॥