०३५ सुमन्त्रकृतं कैकेयीगर्हणम्

तत इति । ततः सर्वस्यातिशोकवत्वाद्धेतोः शिरः असकृन्निर्धूय कराभ्यां सन्ताड्य दन्तान्कटकटय्य कटकटाशब्दविशिष्टान्कृत्वा लोचने कोपसंरक्ते कोपेन अकालप्रार्थनाहेतुकमन्थराविषयकक्रोधेन संरक्ते अत्यरुणे कृत्वा कोपाभिभूतः कोपः अभिभूतः पराभूतो येन सः अशुभं शुभनिवर्तकं सन्तापं जनानां खेदं गतो निवर्तकः सूतः सुमन्त्रः दशरथस्य मनः अन्तर्वृत्तिं समीक्षमाणः जिज्ञासमानः सन् अत एव पूर्वोचितं पौर्वकालिकयोग्यताविशिष्टं वर्णं स्वनम्रतामित्यर्थः । जहत् त्यजन् सन्नत एव शितैः तीक्ष्णैः वाक्शरैः कैकेय्या हृदयं हृत् हृदयमयते अन्यविषयं प्रापयति तन्मन्थरामित्यर्थः । सामान्ये नपुंसकं कम्पयन्निव आशुभैः जनसन्तापनिवर्तकत्वेनातिशुभहेतुभिः अनुपमैः अतिविलक्षणत्वेनोपमारहितैः वाक्यवज्रैः लक्ष्यविदारकत्वेन वज्रसदृशवचनैः कैकेय्याः सर्वमर्माणि सम्भावितापराधजातानि निर्भिन्दन् विदारयन्निव प्रत्यभाषत अनुकरणीभूतकटकटाशब्दप्रकृतिककरोत्यर्थणिजन्तप्रकृतिकल्यबन्त कटकटय्येति “कटकटाय्य” इति पाठे तु कटकटां कटकटाशब्दत्वमयते प्राप्नोतीति कटकटायः तं करोतीति णिचि ल्यपि च साधुः गत इत्यत्रान्तर्भावितणिजर्थः कर्तरि निष्ठा । श्लोकचतुष्टयमेकान्वयि ॥ २।३५।१४ ॥

तत्प्रतिभाषणमेवाह– यस्या इति । स्थावरस्य चरस्य च सर्वस्य जगतो भर्ता पालकः यस्याः तव पतिः राजा दशरथः स्वयं शोभनः अयः शुभावहो विधिर्यस्मिंस्तद्राज्यं त्यक्तः “अयः शुभावहो विधिः” इत्यमरः कर्तरि निष्ठा तस्याः तव इह रामाभिषेके अकार्यतमं किञ्चिन्न विद्यते एतेन रामाभिषेकानन्तरं वनयात्रा स्यादिति प्रार्थना सूचिता । सार्धश्लोक एकान्वयी ॥ २।३५।५ ॥

ननु यदि तव प्रार्थितं वरं स्यात्तर्हि अतिबुद्धिमती मन्थरात्रार्थे सम्मतिं कुतो न कुर्यादित्यत आह– पतिघ्नीमिति । यतः यद्यस्याः कर्मभिः वचनैः महेन्द्रमिन्द्रमिवाजय्यं जेतुमशक्यमचलं महापर्वतमिव दुष्प्रकम्प्यं महोदधिं समुद्रमिवाक्षोभ्यं राजानं सन्तापयसि तस्माद्धेतोः तां त्वां विलक्षणसम्मतिदात्रीत्वेन सर्वस्त्रीभ्यो ऽत्यन्तभिन्नां मन्थरामेव पतिघ्नीं सर्वस्वामिपीडादात्रीमत एव कुलघ्नीं प्रजादिसमूहपीडादात्रीमहं मन्ये प्रसिद्धो ऽन्यपर्यायः त्वशब्दः सर्वादौ अत एवास्य वचनस्य वक्ष्यमाणकृताञ्जल्यनुरूपत्वम् । सार्धश्लोक एकान्वयी ॥ २।३५।६,७ ॥

मेति । दशरथं मावमंस्थाः तदवमानं न कुर्वित्यर्थः । ननु रामेच्छयैव मयेत्थं क्रियते इत्यत आह– पुत्रकोट्याः पुत्रकोटीच्छातः भर्तुः पाणिग्रहीतुः इच्छा विशिष्यते एतेन स्त्रीभिः पत्यनुसारेणैव वर्तितव्यमिति सूचितम् ॥ २।३५।८ ॥

ननु भर्तुः राज्ये स्थितत्वात्किमर्थं पुत्राभिषेकयत्न इत्यत आह– यथेति । यथावयः वृद्धावस्थातिरिक्तावस्थामनतिक्रम्यैव नृपक्षपये राज्यासने स्थिता इक्ष्वाकुकुलराजा इति शेषः राज्यानि प्राप्नुवन्ति पालयन्तीत्यर्थः । एतेन वृद्धावस्थायां तपः कुर्वन्तीति सूचितम् । अस्मिन् दशरथे तं तपश्चरणधर्मं लोपयितुं ध्वंसितुमिच्छसि एतेनेदं न युक्तमिति व्यञ्जितम् ॥ २।३५।९ ॥

ननु पतिपुत्रानुक्तं त्वद्वचो नाद्रियते इत्यत आह– राजेति । भरतः मेदिनीं शास्तु अत एव राजा भवतु वयं तु तत्र गमिष्यामः ॥ २।३५।१० ॥

अन्ये ऽपि गन्तार इति बोधयन्नाह– नेति । अमर्यादं प्रारब्धकार्यनिवर्तनरूपमर्यादाविरुद्धं तादृशं प्रारब्धाभिषेकत्याजनपूर्वकप्रव्राजनं कर्म करिष्यसि चेत्तर्हि ते विषये देशे कश्चिद्ब्राह्मणो विज्ञाता वस्तुं नार्हति अर्हिष्यति “वर्तमनसामीप्ये” इति भविष्यति लट् । चश्चेदर्थे ॥ २।३५।११ ॥

आश्चर्यमिति । ईदृशमर्यादं वे वृत्तं वृत्तान्तमाचरन्त्याः आचरयन्त्याः यस्याः मन्थरायाः मेदिनी पृथ्वी सद्यो न विदृता विदीर्णा तस्यास्तेजः आश्चर्यमिव पश्यामि । तेज इत्यध्याहृतम् ॥ २।३५।१२ ॥

महेति । महाब्रह्मर्षिसृष्टाः वसिष्ठप्रभृतिप्रयुक्ता वाग्दण्डाः रामप्रव्राजने स्थितां परमहेतुभूतां मन्थरामित्यर्थः । यतो न हिंसन्ति अतो धिक् प्रत्यासत्तिन्यायेन वाग्दण्डानेवेत्यर्थः ॥ २।३५।१३ ॥

इदानीमस्मत्त्यागपूर्वकमन्थरासम्मतिग्रहणं त्वदनिष्टकारकमेवेति बोधयन्नाह– आम्रमिति । कुठारेण आम्रं च्छित्त्वा अतिस्वाद्वास्पदीभूतनिम्बवृद्ध्यादिप्रतिबन्धकीभूतबुद्ध्या भित्त्वा निम्बं परिचरेत् स्वादुलाभबुद्ध्या सेवेत यश्च एनं निम्बं पयसा सिञ्चेत्तस्यास्य परिवरणसेचनयोः कर्तुरपि मधुरो न भवेदेतेन मन्थरासम्मतौ इष्टसाधिकात्वबुधिर्न कर्तव्येति सूचितम् ॥ २।३५।१४ ॥

इदानीमसत्सङ्ग्रहस्तव दुस्त्यज इति बोधयन्नाह– आभिजात्यमिति । यथा येन प्रकारेण ते तव मातुः आभिजात्यं स्वभावः तवापि तत्तथैव इति अहं मन्ये निश्चिनोमि । स्वनिश्चियस्य प्रामाणिकत्वं द्रढयन्नाह– हि यतः निम्बात् क्षौद्रं मधु न भवेत् इति वचः लोके निगदितम् । एतेन तन्मातुः असत्सङ्ग्रहकर्तृस्वभाववतीत्वं व्यञ्जितम् ॥ २।३५।१५ ॥

तदेवोपपादयन्नाह– तवेति । पूर्वं यथाश्रुतं श्रुतमनतिक्रम्य तव मातुः असद्ग्राहमसत्सङ्ग्रहकर्तृस्वभावं विद्मः । श्रुतमेव बोधयन्नाह –वरदो वरदानसमर्थः कश्चिदनुत्तमं श्रेष्ठं वरं ते तव पितुः पित्रे ददौ ॥ २।३५।१६ ॥

वरस्वरूपं बोधयन्नाह– सर्वेति । तस्माद्वरदानाद्वसुधाधिपस्तव पिता सर्वभूतरुतं सर्वभूतोच्चारितशब्दं सञ्जज्ञे तच्छ्रवणसामर्थ्यं प्रापेत्यर्थः । अत एव तेन राज्ञा तिर्यग्गतानामपि भूतानां वचो विदितं ज्ञातम् ॥ २।३५।१७ ॥

तत इति । ततः शब्दविज्ञातृत्वप्राप्त्यनन्तरं जृम्भस्य पक्षिविशेषस्य विरुताच्छब्दात् जृम्भस्य भावो ऽभिप्रायः शयने पर्यङ्केशयानस्येति शेषः । भूरिवर्चसस्ते पितुः विदितो ज्ञातः अत एव सः ज्ञाताभिप्रायस्त्वत्पिता तत्र तस्मिन् शयने बहुधा अनेकवारमहसत् । एतेन तदभिप्रायस्य हास्यरसोत्पादकत्वं व्यक्तम् ॥ २।३५।१८ ॥

तत्रेति । तत्र हसनसमये क्रुद्धा मामयं हसतीति बुद्ध्या क्रोधविशिष्टा अत एव मृत्युपाशं मृत्युकारणीभूतगलबन्धनयोग्यरज्जुविशेषमभीप्सती इच्छन्ती सती हे नृपते हे सौम्य ते हासं जिज्ञासामि किमर्थं हसितवानसीति ज्ञातुमिच्छामीत्यब्रवीत् । सञ्ज्ञापूर्वकविधेरनित्यत्वात् ज्ञादिशास्त्राप्रवृत्तिः ॥ २।३५।२९ ॥

राजवचनं बोधयन्नाह– नृप इति । तां पृच्छन्तीं नृप उवाच । तद्वचनमेवाह– हासं हासस्वरूपं यदि ते तुभ्यं शंसामि तदा मे मरणं सद्यो भविष्यति अत्र अस्मिन्विषये संशयो न एतेन कथने तव मृतिर्भवितेति वरदानसमये वरदात्रोक्तमिति व्यक्तम् ॥ २।३५।२० ॥

मातेति । देवी राज्ञी ते माता केकयं पुनः अब्रवीत् । तद्वचनमेवाह– जीव वा मा जीव वा त्वं मे मह्यं शंस कथय । ननु किमर्थमेवमाग्रहः इत्यत आह– मां त्वं न प्रहसिष्यसि मदुपहासं न करिष्यसि हासकारणकथनादिति शेषः । अयं मां परिहसतीति मयि भ्रमो न भविष्यतीत्यर्थः । एतेन पतिकर्तृकमरणोक्तिरपि हासहेतुकेति तया निश्चितमिति ध्वनितम् ॥ २।३५।२१ ॥

प्रिययेति । प्रियया उक्तः स केकेयः वरदाय वरदात्रे तं स्वभार्याग्रहरूपमर्थं तत्त्वतः कथयामास ॥ २।३५।२२ ॥

तत इति । ततः केकयराजवचनश्रवणानन्तरं वरदः साधुः राजानं प्रत्यभाषत । तद्भाषणमेवाह– हे महीपते इयं तव पत्नी म्रियतां ध्वंसतां पित्रादिगेहं गच्छतु वा त्वं मा शंसीः न कथय ॥ २।३५।२३ ॥

स इति । प्रसन्नमनसः तस्य वरदातुः वचः श्रुत्वा ते मातरं निरस्य नृपः केकयः कुबेरवद्विजहार ॥ २।३५।२४ ॥

तथेति । पापदर्शिनी पापं पापाचरणशीलां मन्थरां पश्यति तदनुमतिं गृह्णति तच्छीला अत एव दुर्जनाचरिते प्रतिज्ञाहापनरूपे पथि मार्गे प्रवर्तिता त्वं तथा स्वमातरमिव असद्ग्राहं प्रतिज्ञात्यागरूपासत्कर्मग्राहकं राजानं मोहान्मन्थराया अविवेकाद्धेतुभूतात्कुरुषे ॥ २।३५।२५ ॥

ननु पितुः स्वभावो मयि कुतो नागत इत्यत आह– सत्य इति । प्रवादः उक्तिः मा मां सत्यः प्रतिभाति । प्रवादस्वरूपमाह– नराः पुरुषाः पितृ़न्समनुजायन्ते पितृस्वभावसदृशस्वभाववन्तो भवन्तीत्यर्थः । अङ्गनाः कन्या मातरं समनुजायन्ते ॥ २।३५।२६ ॥

ननु लोकप्रवादस्य सत्यत्वे किमर्थं तन्निवारणयत्नः क्रियते इत्यत आह– नेति । एवं लोकवत्त्वं न भव तेन तस्याः प्राकृतविलक्षणात्वं ध्वनितम् । ननु तर्हि मया किं कर्तव्यमित्यत आह– वसुधाधिपो राजा यदाह वदति तदिदं गृहाण एतेन राजेदानीं प्रव्रजनं निवारयतु इत्यभिप्रायः सूचितः । तेन राजसत्यप्रतिज्ञत्वस्य सुमन्त्रविस्मृतिः सूचिता तेन वियोगदुःखस्याश्चर्यशक्तिमत्त्वं व्यक्तम् । ग्रहणफलमाह– उपास्य तदनुसारेण वर्तित्वा इह दुःखे विद्यमानस्य अस्य जनस्य गतिर्भव ॥ २।३५।२७ ॥

तदेव द्रढयन्नाह– मेति । पापैः मन्थरादिभिः प्रोत्साहिता त्वं भर्तारमसद्धर्ममभिषेकप्रतिज्ञात्यागं मा उपावह प्रापय । एतेन प्रतिज्ञातः पूर्वमेव प्रव्राजनं त्वया कर्तव्यमिदानीं तन्नोचितमिति सूचितम् ॥ २।३५।२८ ॥

ननु त्वमेव राजानं बोधयित्वा प्रव्राजननिवृत्तिं कुरु इत्यत आह– नेति । अनघः अघसंसर्गशून्यो राजा तवाग्रे प्रतिज्ञातं मिथ्या न करिष्यति । एतेन मद्बोधनमकिञ्चित्करमिति सूचितम् ॥ २।३५।२९ ॥

ननु निवारणे राक्षसध्वंसः कथं भविष्यतीत्यत आह वारणफलमाह– ज्येष्ठ इति । ज्येष्ठः सर्वगुणैः श्रेष्ठः कर्मण्यः निखिलसत्कर्मणि साधुः रक्षिता रामो ऽभिषिच्यताम् । एतेनैतद्गुणश्रवणादेव राक्षसध्वंसो भवितेति बोधितम् ॥ २।३५।३० ॥

ननु प्रतिज्ञाहापनयत्नो निरर्थक इत्यत आह– परीति । एतेन परिहासभीतिश्चेन्निवारयेति ध्वनितम् ॥ २।३५।३१ ॥

स्वेति । राघवो रामः स्वराज्यं पातु त्वं विगतज्वरा भव । ननु पालनं विगतज्वरात्वं च राजैव कर्तेत्यत आह– राघवाद्रामादन्यः राजा भरतो वा इह पुरे वसन् वस्तुं न क्षमः हिते त्वत्प्रियाचरणे च न क्षमो भविता रामगमने सतीति शेषः ॥ २।३५।३२ ॥

स्वविचारितमाह– राम इति । पूर्ववृत्तं स्वकुलमर्यादाम् ॥ २।३५।३३ ॥

उपसंहरन्नाह– इतीति । तीक्ष्णैः मातृवृत्तान्तकथनादिभिः भूयः अत्यन्तं क्षोभयामास चालयामास ॥ २।३५।३४ ॥

नैवेति । तदा सुमन्त्रचालनकाले । एतेन रामारागरक्तानां क्षोभादिविक्रियाराहित्यं व्यञ्जितम् ॥ २।३५।३५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥ २।३५ ॥