०३४ दशरथमूर्च्छा

उत्तरग्रन्थसन्दर्भशुद्धये पुनः सूतं प्रति रामोक्तिमाह– तत इति । निरुपमः सादृश्यप्रतियोगित्वानुयोगित्वानाक्रान्तत्वेनोपमानोयमेयरहितः राम उवाच ॥ २।३४।१ ॥

स इति । सन्तापकलुषेन्द्रियं निश्चितरामवियोगजनितसन्तापव्याप्तचित्तं नृपतिं ददर्श ॥ २।३४।२ ॥

तदेव भङ्ग्यन्तरेणाह– उपेति । उपरक्तं राहुणा ग्रस्तमादित्यमिव निस्तोयं शैवालाद्याच्छादनहेतुकतोयरहितत्वेन प्रतीयमानं तटाकमिवापश्यत् अत एव पूर्वोपमानाभ्यां न वैरूप्यम् एतदुपमालङ्कारेण राज्ञो वास्तवदुःखाभावः सूचितः तेनाप्रकटसाकेते रामसंयोगो भवितेति राजनिश्चयः सूचितः ॥ २।३४।३ ॥

आबोध्येति । आबोध्य महाराजादिशब्देन राजानं सम्बोध्याब्रवीत् ॥ २।३४।४ ॥

तदेव भङ्ग्यन्तरेणाह– तमिति । जयाशिषा जयसूचकाशीर्वचनैः पूर्वं पौर्वकालिकं तं राजानं वर्धयित्वा प्रोत्साह्य भयविक्लवया स्वाभाविकराजतेजोहेतुकभीतियुक्तया मन्दया दैन्यविशिष्टया वाचा अब्रवीत् ॥ २।३४।५ ॥

तद्वचनमेवाह– अयमिति । उपजीविनामुपजीविभ्यश्च धनं दत्त्वा ते सुतो द्वारि तिष्ठति ॥ २।३४।६ ॥

स इति । स रामः त्वां पश्यतु तत्र हेतुः सर्वान् सुहृदः आपृच्छय वनगमनाय सम्मतिं कृत्वा इदानीं त्वां दिदृक्षते द्रष्टुमिच्छति ॥ २।३४।७ ॥

गमिष्यतीति । यः महारण्यं गमिष्यति तं राजगुणैर्वृतं युक्तं रामं पश्य ॥ २।३४।८ ॥

स इति । धर्मात्मा परमधर्मप्रवर्तकः निष्पङ्कः पङ्करहितः आकाश इव नरेन्द्रस्तं रामं प्रत्युवाच सविशेषणाकाशोपमया राज्ञः सर्वकालमधर्मसंसर्गाभावः सूचितः ॥ २।३४।९ ॥

तद्वचनमेवाह– सुमन्त्रेति । हे सुमन्त्र मे दारान् स्त्रियस्त्वमानय । ननु दाराणां किं प्रयोजनमित्यत आह– मामकाः ये केचिद्दारास्तैः सर्वैः परिवृतो ऽहं राघवं द्रष्टुमिच्छामि ॥ २।३४।१० ॥

राजवचनश्रवणानन्तरकालिकं सुमन्त्रवृत्तमाह– स इति । आर्यः राजा वः युष्मान् ह्वयति आह्वयति अतस्तत्र गम्यताम् ॥ २।३४।११ ॥

एवमिति । शासनमाज्ञापनमाज्ञाय ज्ञात्वा प्रचक्रमुः जग्मुः ॥ २।३४।१२ ॥

अर्धेति । अर्धसप्तशताः सार्धशतत्रयसङ्ख्याकाः ताम्रलोचनाः निश्चितरामवियोगजनितशोकहेतुकरोदनहेतुकात्यन्तारुणीभूतनयनाः प्रमदाः कौशल्यां परिवार्य परिवृत्त्य तत्र राजसमीपे जग्मुः प्रापुः । अर्धसप्तशतशब्दः एकदेशिसमासप्रकृतिकः अर्श आद्यजन्तः ॥ २।३४।१३ ॥

आगतेष्विति । समवेक्ष्य अवलोक्य ॥ २।३४।१४ ॥

स इति । आदाय गृहीत्वा सकाशं समीपम् ॥ २।३४।१५ ॥

स इति । आराद्दूरत एव दृष्ट्वा तूर्णं शीघ्रमासनादुत्पपात उत्तस्थौ ॥ २।३४।१६ ॥

सो ऽभीति । दुःखार्तः निश्चितवियोगजनितदुःखाक्रान्तः ॥ २।३४।१७ ॥

तमिति । तथा तेन प्रकारेण पतितमत एव विसञ्ज्ञं सञ्ज्ञारहितमिव तं नृपतिं रामो ऽभ्यपतच्छीघ्रमभिमुखमगच्छत् ॥ २।३४।१८ ॥

स्त्रीति । हा हा रामेति स्त्रीसहस्रनिनादः सञ्जज्ञे ॥ २।३४।१९ ॥

तमिति । सीतया सार्धं रामलक्ष्मणौ रुदन्तः रुदन्तं तं राजानं परिष्वज्य आलिङ्ग्य पर्यङ्के

समवेशयन् समवेशयेतां समस्थापयेताम् ॥ २।३४।२० ॥

अथेति । मुहूर्तस्य मुहूर्तेन लब्धा सञ्ज्ञा येन तं शोकार्णवपरिप्लुतं महीपतिं प्राञ्जलिः राम उवाच मुहूर्तस्येति सम्बन्धसामान्ये षष्ठी ॥ २।३४।२१ ॥

तद्वचनमेवाह– आपृच्छ इति । यतः नो ऽस्माकं सर्वेषां त्वमीश्वरो ऽसि अतस्त्वामापृच्छे विज्ञापयामि । विज्ञापनमेवाह दण्डकारण्यं प्रस्थितं मां कुशलेन पश्य कुशलफलकावलोकनं कुरु फलस्य हेतुत्वेन विवक्षणात्तृतीया ॥ २।३४।२२ ॥

लक्ष्मणमिति । अनुजानीहि आज्ञापय वनं गन्तुमिति शेषः । सीता च मामन्वेति अनुगच्छति तामप्यनुज्ञापयेत्यर्थः । नन्विमौ वारयेत्यत आह– तथ्यैः प्रलम्भनादिसंसर्गरहितैः बहुभिः अनेकविधैः कारणैः भवदादिसेवादिरूपहेतुभिः वार्यमाणावपि तौ नेच्छत इह स्थितिमिति शेषः ॥ २।३४।२३ ॥

उपसंहरन्नाह– अन्विति । हे मानद सर्वसम्मानदातः प्रजापतिर्ब्रह्मा आत्मजान् तपश्चरणोत्सुकसनकादीनिव सर्वान्नो ऽस्माननुजानीहि आज्ञापय ॥ २।३४।२४ ॥

प्रतीति । जगतीपतेः वनवासायानुज्ञां प्रतीक्षमाणमव्यग्रं सर्वकालं व्यग्रतारहितं राघवं रामं प्रेक्ष्य उवाच ॥ २।३४।२५ ॥

तद्वचनमेवाह– अहमिति । हे राघव कैकेय्या सह अहं वरदानेन देवादिप्रार्थितत्वत्कर्तृकवरप्रदानेन मोहितः वैचित्त्यं प्राप्तः देवादिप्रार्थनां संस्मृत्यैव त्वां वनं प्रेषितुमुद्यतो ऽस्मीत्यर्थः । अतो ऽद्य मां राज्यहेतुभूतविजयसम्पत्तिं निगृह्य अयोध्यायां त्वं राजा भव ॥ २।३४।२६ ॥

एवमिति । वाक्यकोविदं पितरं रामः प्रत्युवाच ॥ २।३४।२७ ॥

तद्वचनमेवाह– भवानिति । हे नृपते वर्षसहस्राय पृथिव्याः वर्षसहस्राणां बहुखण्डानामयः प्राप्तिर्यस्यां सा एव पृथिवीति कर्मधारयः तस्याः यतो भवानेव पतिः अतः राज्यस्य काङ्क्षिता आकाङ्क्षा मे नास्ति अतः अरण्ये अहं वत्स्यामि भवदाज्ञापिताचरणपूर्वकं विहरिष्यामीत्यर्थः ॥ २।३४।२८ ॥

विहारावधिं बोधयन्नाह– नवेति । प्रतिज्ञान्ते अवध्यवसाने ने पादौ पुनः ग्रहीष्यामि पुनरित्यनेन प्रतिज्ञामध्ये एव तव पादौ एकवारं ग्रहीष्यामिति सूचितम् । नचावध्यन्ते राज्ञः प्रकटस्थित्यभावेन तत्पादग्रहणासम्भवात् रामस्य मृषा संसर्गित्वापत्तिरिति वाच्यं मातापित्रोरभेदाध्यवासायात् मातृपादग्रहणस्य सम्भवात् तस्य च पितृपादग्रहणानतिरेकान्मृपासंसर्गित्वस्यासम्भवात्, किञ्च पदयोश्चरणयोः इमौ पादौ पादुकापदाथौ ग्रहीष्यामि नमस्करिष्यामीत्यर्थः । “पादम्” इति पाठे तु पदमेव पादं त्वद्दत्तं राजोचितस्थानं त्राणं वेत्यर्थः । ग्रहीष्यामि स्वीकरिष्यामि । तथा च मेदिनी – “पदं शब्दे च वाक्ये च व्यवसायप्रदेशयोः । पादतच्चिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः” ॥ २।३४।२९ ॥

रुदन्निति । सत्यपाशेन सत्यस्य यः पः पालनं तस्य यः अशो व्याप्तिः परिपूर्णता तेन संयुतः चोद्यमानः वनायाज्ञापयेति रामेण प्रार्थ्यमानः कैकेय्या सह राजा तं राममब्रवीत् । मिथ एवार्थकम् ॥ २।३४।३० ॥

तद्वचनमेवाह– श्रेयसे इति । तात हे प्रिय हे स्व ममात्मप्रभृते श्रेयसे अवलोकनकर्तृ़णां कल्याणाय वृद्धये केषाञ्चिद्राज्यादिप्राप्तये पुनः आगमनाय च अकुतोभयं सर्वहेतुकभयाभावविशिष्टमारिष्टमतिशयेन शत्रुणां निवर्तकं पन्थानमव्यतः सर्वकालं व्यग्रतारहितस्त्वं गच्छ ॥ २।३४।३१ ॥

नेति । तात हे प्रिय धर्माभिमनसः परमधर्मप्रवर्तकस्य अत एव सत्यात्मनः

मिथ्यासंसर्गरहितस्वभावविशिष्टस्य तव बुद्धिः वनगमनविषयकनिश्चयः सन्निवर्तयितुमपाकर्तुं न शक्यते ॥ २।३४।३२ ॥

ननु तर्हि गच्छाम इत्यत आह– अद्येति । अद्यास्मिन्दिवसे त्वं मा गच्छ अत्रैव तिष्ठेत्यर्थः । तत्प्रयोजनमाह– एकाहमेकदिनमिदानीं रजनीमेकरात्रिं दर्शनेन तवावलोकनेनापि सर्वथा सर्वप्रकारेण साधु अतिशोभनं चरामि प्राप्नेमि ॥ २।३४।३३ ॥

शोभनत्वमेवोपपादयन्नाह– मातरमिति । इमां शर्वरीं रात्रिं वस अद्य अस्यां शर्वर्यां सर्वकामैः सर्वैः कामैः इच्छाविषयभूतैः तर्पितः मया तृप्तिं प्राप्तस्त्वं श्वः आगामिनिकाल्ये प्रातःकाले साधयिष्यसि सत्यप्रतिज्ञत्वं पालयितासि वनं गन्तासीत्यर्थः ॥ २।३४।३४ ॥

दुष्करमिति । हे राघव हे पुत्र दुष्करम् अन्यैः कर्तुमशक्यं त्वया क्रियते यद्यस्माद्धेतोः मत्प्रियार्थं मत्तृप्तिकामनया प्रियानतिप्रीतिविषयीभूतानस्मदादींस्त्यक्त्वा विजनं वनं यासि ॥ २।३४।३५ ॥

मत्प्रियार्थमित्युक्त्या प्रतिभासितं वियोगप्रियत्वं स्वस्मिन्निवारयन्नाह– न चेति । हे पुत्र यद्यपि एतत्त्वद्वियोगरूपं वस्तु मे प्रियं न तथापि भस्माग्निकल्पया भस्मपिहितवह्नितुल्यया स्त्रिया केकय्या सहाहं छन्नया चलितः छद् राज्ञां सर्वापराधनिवारकः यो नयो नीतिः तेन आचलितः वनकर्मकगमनानुकूलव्यापारानुकूलप्रेरणावानस्मि । चो यद्यपीत्यर्थे तुस्तथापीत्यर्थे । भस्माग्निकल्पयेति विशेषणदानेन कैकय्याः कापट्यसंसर्गाभावः सूचितः ॥ २।३४।३६ ॥

ब्रह्मादिकर्तृकराक्षसवधादिफलकत्वत्पूजनं त्वयैव सफलं भवितुमर्हतीति बोधयन्नाह– वञ्चनेति । वृत्तसादिन्या मनुवंशोचिताचरितप्रापिकया अनया केकय्या सह मे मया लब्धा स्मृता या वञ्चना वो ब्रह्मणः अञ्चना तत्कर्तृकभवत्कर्मकपूजनं तां निस्तर्तुं पूरयितुमित्यर्थः । प्रचोदितः ब्रह्मादिप्रार्थितो मे सुतस्त्वं यदिच्छसि तदेतदाश्चर्यतमं न यच्च पितरं मामपामेनृतकथमपगता नित्यं निवृत्ता अनृतकथा मिथ्याकथनं यस्मात्तं कर्तुमिच्छसि तदपि नाश्चर्यतमम् । तत्र हेतुः– यतो ज्येष्ठः गुणैः सर्वश्रेष्ठो ऽसि । श्लोकद्वयमेकान्वयि । “ऊकारो ब्रह्मणि स्थितः” इत्येकाक्षरः ॥ २।३४।३७,३८ ॥

अथेति । अदीनः सर्वकालं दीनत्वाभावविशिष्टो रामः अब्रवीत् ॥ २।३४।३९ ॥

तद्वचनमेवाह– प्राप्स्यामीति । अद्य एतत्कालिकगमने यान्गुणान्सत्यप्रतिज्ञत्वादीन्प्राप्स्यामि तान्गुणान् श्वः तत्कालिकगमने को दास्यति दाता एतेनाद्य स्थितौ तन्नङ्क्ष्यतीति सूचितमतः सर्वकामैर्विशिष्टो ऽहमपक्रमणमितः शीघ्रं गमनमेव वृणे । एतेन रामस्य सत्यप्रियत्वातिशयः सूचितः ॥ २।३४।४० ॥

इयमिति । राष्ट्रादिसहिता वसुधा भरताय प्रदीयतां पालने भरतो नियोज्यतामित्यर्थः ॥ २।३४।४१ ॥

वनेति । चलिष्यति अन्यथा भविष्यति त्वयापि कैकेय्यै यो वरो युद्धे दत्तः स वरः दीयतामतः निखिलेन सर्वेण कर्मणा त्वं सत्यो भव निदेशमाज्ञां पालयन्सन्वत्स्ये अतः मा विमर्शः एतद्विरोधी विचारो न कर्तव्य इत्यर्थः । श्लोकत्रयमेकान्वयि ॥ २।३४।४२४४ ॥

स्वकामपूर्णत्वं बोधयन्नाह– नेति । निदेशमाज्ञाम् ॥ २।३४।४५ ॥

अपेति । ते दुःखमपगच्छतु पुत्रेप्सितासिद्धिर्जातेति विचारेण त्यजेत्यर्थः । हि यतः सरितां पतिः समुद्रः नैव क्षुभ्यति मर्यादां त्यजति ॥ २।३४।४६ ॥

स्वेप्सितसिद्धिमेव भङ्ग्यन्तरेण बोधयन्नाह– नैवेति । राज्यादि नैवेच्छामि किं तु सत्यं सत्यवन्तं त्वामिच्छामि अनृतमनृतवन्तं नेच्छामि मिथ्यासंसर्गशून्यं त्वामिच्छामीत्यर्थः । तत्प्रतीतिं द्रढयन्नाह–

सत्येन सुकृतेन च युक्तस्य तव शपे शपथं करोमि । श्लोकद्वयमेकान्वयि ॥ २।३४।४७,४८ ॥

न चेति । स त्वं शोकं धारयस्व निवर्तयस्व अनवस्थानार्थकधृङो रूपम् ॥ २।३४।४९ ॥

अर्थित इति । राघव हे राम त्वं वनं गच्छेति कैकेय्या अहमर्थितः आज्ञापितो ऽस्मि अहं व्रजामीति मया वोक्तं तद्वचनं यथा स्यात्तथानुपालये वनं गच्छामीत्यर्थः ॥ २।३४।५० ॥

मेति । उत्कण्ठामितः प्रभृति चतुर्दशवर्षसङ्ख्याककालिकदर्शनविषयकौत्सुक्यं मा कृथाः ॥ २।३४।५१ ॥

पितेति । दैवतं देवता तस्माद्धेतोः दैवतं देवता देवतासम्बन्ध्येवेतीदं पितुर्वचः करिष्यामि ॥ २।३४।५२ ॥

चतुर्दशस्विति । गतेषु व्यतीतेषु प्राप्तमयोध्यावासिभिः सङ्गतं मां त्वं द्रक्ष्यसि द्रष्टासि एतेन तस्य सर्वलोकेषु कामचारत्वं सूचितम् । पुनरित्यनेनावधिमध्ये ऽप्येकवारं दर्शनं भवितेति ध्वनितम् । अतः अयं मद्वियोगहेतुकः सन्तापः शोको विमुच्यताम् ॥ २।३४।५३ ॥

तव शोकः सर्वथा न युक्त इति बोधयन्नाह– येनेति । बाष्पकलः वियोगहेतुकशोकजनिताश्रुव्याप्तो ऽयं जनः येन त्वया संस्तम्भनीयः बाष्परहितः कर्तव्यः स त्वं विक्रियां चित्तविकारं किमर्थं गतः प्राप्तः ॥ २।३४।५४ ॥

पुरमिति । विसृष्टा इदानींत्यक्ता केवला पुरादिरहिता च मही दीयताम् अहं तु वनं गमिष्यामि ॥ २।३४।५५ ॥

मयेति । सशैलखण्डां शैलखण्डसहितां सपुरोपकाननां पुरग्रामादिसहितामिमां महीं शिवासु राजकल्याणकारणीषु सीमासु मनुवंशमर्यादासु स्थितो भरत अनुशास्तु शिवां “सुसीमाम्” इति पाठे इमे अपि महीविशेषणे ॥ २।३४।५६ ॥

राजानं पुनर्बोधयन्नाह– नेति । हे पार्थिव शिष्टसम्मते तव निदेशे आज्ञायां यथा मनो धीयते संस्थाप्यते तथा महत्सु प्राकृतविलक्षणेषु कामेषु अत्यन्तशोभावत्सु भवनादिष्वित्यर्थः । आत्मनः प्रिये स्वसुखादिषु च मनो न धीयते अतो मत्कृते मदर्थं दुःखं व्यपेतु त्यजतु भवानिति शेषः ॥ २।३४।५७ ॥

तदिति । हे अनघ चिन्तितं मच्चिन्ताविशिष्टं त्वामनृतेन मृषया योजयन्सन्नव्ययं बाधारहितं राज्यं न सर्वकामान्न मैथिलीं न वृणीयमतस्ते व्रतं सङ्कल्पः सत्यमस्तु ॥ २।३४।५८ ॥

मद्भोजनादिविषयिण्यपि चिन्ता न कर्तव्येति बोधयन्नाह– फलानीति । फलानि मूलान्येव भक्षयन्सुखी भविष्यामि अतः तव निर्वृतिः परमानन्दो ऽस्तु ॥ २।३४।५९ ॥

एवमिति । व्यसनाभिपन्नः व्यसनं रामकर्मकाभिषेकत्यागः अभिपन्नं प्रापितं येन सः किञ्च व्यसनं राजवृत्तान्तत्यागमभिपन्नः प्राप्तः शोकेन दुःखेन तत्कार्येण च पीड्यमानः अत एव विनष्टसञ्ज्ञः कार्याकार्यविवेकरहितः भूमिं गतो किञ्चिदपि न चिचेष्ट ॥ २।३४।६० ॥

राजवृत्तान्तमुक्त्वा कौशल्यादीनां वृत्तान्तं वर्णयन्नाह– देव्य इति । समेताः कौशल्यासमीपं प्राप्ताः समस्ताः देव्यो राजमहिष्यः तां मुख्यां नरदेवपत्नीं कौशल्यां वर्जयित्वा रुरुदुः अत एव सुमन्त्रो ऽपि रुदन्सन्मूर्छां जगाम अत एव तत्र तस्मिन्समये सर्वं पुरं हाहाकृतं हाहाशब्दवद्बभूव कौशल्यां वर्जयित्वेत्यनेन तस्याः तात्कालिकशोकाभावः सूचितः । तेन रामोपदेशस्य अघटितघटनापटीयस्त्वं व्यक्तम् ॥ २।३४।६१ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥ २।३४ ॥