दानौत्तरकालिकं रामवृत्तमाह– दत्त्वेति । ब्राह्मणेभ्यो बहु अधिकं धनं दत्त्वा वैदेह्या विदेहतनयया सीतया सह राघवौ रामलक्ष्मणौ पितरं द्रष्टुं जग्मतुः ॥ २।३३।१ ॥
तत इति । प्रेष्याभ्यां रामलक्ष्मणभृत्याभ्यां गृहीते मालादामभिः उत्तममालाभिरासक्ते युक्ते सीतया समलङ्कृते चन्दनादिभिरर्चिते तदायुधे रामलक्ष्मणधनुषी अशोभेताम् ॥ २।३३।२ ॥
तत इति । ततः पितृगृहकर्मकरामगमनानन्तरं प्रासादहर्म्याणि प्रासादाः राजदेवायतनानि हर्म्याणि तदितरधन्यायतनानि विमानाः सप्तभूमिकगृहाणि शिखराणि मणिपर्वतशृङ्गाणि अधिरुह्य आरुह्य उदासीनः निश्चितरामवियोगहेतुकौदासीन्यविशिष्टः श्रीमान् जनः व्यलोकयत् राममिति शेषः । “प्रासादो देवभूभुजाम्” इत्यमरः “विमानो ऽस्त्री देवयाने सप्तभूमौ च सद्मनि” इति वैजयन्ती ॥ २।३३।३ ॥
ननु रामसमीपमेव कुतो न जग्मुरित्यत आह– नेति । यतो रथ्याः मार्गाः बहुजनाकुला अतो गन्तुं न सुशक्यन्ते तस्माद्धेतोः दीनाः सर्वजनाः प्रासादाद्राघवं पश्यन्ति ॥ २।३३।४ ॥
पदातिमिति । शोकोपहतचेतसः निश्चितवियोगहेतुकशोकव्याप्तचित्ताः जनाः बहुविधा वाचः ऊचुः ॥ २।३३।५ ॥
तद्वचनमेवाह– यमिति । यान्तं गच्छन्तं यं रामं महत् चतुरङ्गबलं साङ्गसैन्यमनुयाति स्म तं सीतया सार्धं यान्तमेकं सीतातिरिक्तजनरहितमेव लक्ष्मणो ऽनुयाति गच्छति । द्वितीयः स्म एवार्थे ॥ २।३३।६ ॥
ऐश्वर्यस्येति । कामानां प्रजेप्सितपदार्थानां महान् व्ययेप्यूनतारहितः आकरः सर्वदा दातेत्यर्थः । रामः धर्मगौरवात्स्वनिष्ठवेदविहितानुष्ठानस्याधिक्याद्धेतोः वचनमानुमानिकपित्राज्ञापनमनृतं मिथ्या कर्तुं नेच्छति ॥ २।३३।७ ॥
येति । आकाशगैः भूतैर्वाद्यादिभिरपि ॥ २।३३।८ ॥
अङ्गेति । अङ्गरागोचितां नित्यं कस्तूर्याद्यालेपनयोग्यां सीतां वर्षादित्रयं विवर्णतां वर्णान्तराक्रान्ततां नेष्यति प्रापयिष्यति ॥ २।३३।९ ॥
अद्येति । सत्त्वं महात्मनां धर्मं सत्यप्रतिज्ञत्वमित्यर्थः । आविश्य आश्रित्य भाषते रामगमनं वक्ति अन्यथा विवासयितुं वनं प्रेषयितुं नार्हति हिरन्यथार्थे । एतेन सत्वं पिशाचमित्यर्थं वर्णयन्तो भट्टादयः चिन्त्यास्तदर्थे सङ्केताभावादसम्भवाच्च ॥ २।३३।१० ॥
तत्र हेतुं वदन्त आहुः– निर्गुणस्येति । वृत्तेनाचरितेन लोको जितः वशीभूत इत्यर्थः ॥ २।३३।११ ॥
आनृशंस्यमिति । आनृशंस्यं सार्वकालिकसर्वप्रकारकहिंसाभावः अनुक्रोशो दयाबाहुल्यं श्रुतं विज्ञापनाश्रवणं शीलमतिसुशीलता दमः यथापराधं दण्डः शमः शान्तिकरणमेते षड्गुणाः पुरुषर्षभं पुरुषश्रेष्ठं राघवं शोभयन्ति ॥ २।३३।१२ ॥
तस्मादिति । तस्मादुक्तषड्गुणवत्वाद्धेतोः तस्य रामाभिषेकस्योपघातेन निवर्तनेन प्रजाः परमपीडिता अतिदुःखिता ऽसन्तीति शेषः । तत्र दृष्टान्तः औदकानि उदकनिवासिनः ॥ २।३३।१३ ॥
पीडयेति । पीडया निश्चितरामवियोगजनितदुःखेन जगत्पतेः साक्षाद्ब्रह्मादिद्वारा च निखिलभुवननियन्तुः अस्य रामस्य सर्वं जगत्पीडितं तत्र दृष्टान्तः पुष्पफलोपगः पुष्पफलानि प्राप्तः ॥ २।३३।१४ ॥
रामस्य मनुवंशश्रैष्ठ्यमुपपादयन्त आहुः– मूलमिति । धर्मसारः परमधर्मज्ञः महाद्युतिः समाधिकरहिततेजोविशिष्टः एव रामः मनुष्याणां मनुवंशजातानां मूलं तत्प्रभूतत्वकारणमितरे
एतद्भिन्नाः जनाः मनुवंशजातानां मूलं तत्प्रभूतत्वकारणमितरे एतद्भिन्नाः जनाः मनुवंशोद्भवाः पुष्पादिकम् एतेन रामसुखेनैव सर्वेषां सुखमिति सूचितम् ॥ २।३३।१५ ॥
ते इति । सपत्न्यः पत्नीसहिताः वयं येन पथा राघवो गच्छति तेन पथा गच्छन्तं राममनुगच्छामः ॥ २।३३।१६ ॥
तदेव भङ्ग्यन्तरेणाह– उद्यानानीति । एकदुःखसुखाः रामसमानदुःखसुखभोगिनः, किञ्च दुःखसुखोपलक्षितसमानद्वन्द्वाः वयं राममनुगच्छामः ॥ २।३३।१७ ॥
इदानीं रामवियोगहेतुत्वात्कैकेयीमधिक्षिपन्त आहुः– समुद्धृतेत्यादिभिः । समुद्धृतनिधानानि समुद्धृतानि प्रक्षिप्तानि निधानानि संस्थापनयोग्यवस्तूनि येषु परिध्वस्तानि उद्धृतप्रस्तरादिना विनष्टानि अजिराणि अङ्गणानि येषु उपात्तानि चोरादिभिर्गृहीतानि धनधान्यानि येभ्यः तानि अत एव सर्वशः सर्वप्रकारेण हृतानि साराणि येभ्यः अत एव रजसा धूलीभिः अभ्यवकीर्णानि व्याप्तानि अत एव देवतैः देवैः परित्यक्तानि अत एव उद्बिलैः बिलेभ्यो निःसृतैः परिधावद्भिः मूषकैः आवृतानि ॥ २।३३।१८,१९ ॥
अत एव अपेताः अभावप्रतियोगिनः उदकधूमा येषु तानि अत एव हीनानि अभावप्रतियोगीनि सम्मार्जनानि येषु तानि अत एव प्रनष्टाः बल्यादयो येषु तानि ॥ २।३३।२० ॥
अत एव दुष्कालेन प्रलयकालेनेव भग्नानि अत एव भिन्नानि विदीर्णानि यानि भाजनानि तद्वन्ति अस्मत्त्यक्तानि अस्मत्कर्तृकत्यागकर्मीभूतानि वेश्मानि गृहाणि कैकेयी प्रतिपद्यतां प्राप्नोतु । श्लोकचतुष्टयमेकान्वयि ॥ २।३३।२१ ॥
इदानीं रामसहगमनकर्तृ़णामेव सुखं भवितेति बोधयन्त आहुः– वनमित्यादिभिः । येन वनेन राघवो गच्छति गमिष्यति तद्वनमेव नगरमस्तु भविष्यतीत्यर्थः । अस्माभिः रामसहगमनकारिभिः परित्यक्तं पुरमयोध्यावनं वनत्वं सम्पद्यतां प्राप्स्यतीत्यर्थः ॥ २।३३।२२ ॥
वने सिंहादिभीतिरप्यस्माकं न भविष्यतीति बोधयन्त आहुः– बिलानीति । सर्वे दंष्ट्रिणः सर्पादयः अस्मद्भयाद्भीताः सन्तः बिलानि मृगपक्षिणः सानूनि शिखराणि च गजाः सिंहाश्च वनानि त्यजन्तु त्यक्ष्यन्ति ॥ २।३३।२३ ॥
ननु भवत्कर्तृकसर्ववन्यजन्तुपीडा भविष्यतीत्यत आहुः– अस्मदिति । अस्मत्त्यक्तमस्माभिर्हीनं वनं प्रपद्यन्तु प्रपद्यन्तां दंष्ट्र्यादय इति शेषः । तेन तेषामपि स्थितेः सावकाशत्वान्न पीडेति सूचितम् । तृणमांसफलादानां तृणादिभक्ष्ाणशीलानां देशं निवासस्थानं रामविहीनमेतत्पुरमिति शेषः कैकेयी प्रपद्यतामत एव व्यालमृगद्विजं व्यालादीन् प्रपद्यतां तैरेव सह मैत्र्यादिकं क्रियतामित्यर्थः । वयं सर्वे तु राघवेण सह निर्वृताः परमानन्दं प्राप्ताः सन्तः वने वत्स्याम वत्स्यामः ॥ २।३३।२४,२५ ॥
इतीति । समीरिताः उच्चारिताः विविधा अनेकविधकेकय्ययोध्याविषयकपरिक्षेपयुक्ताः वाचः शुश्राव श्रुत्वापि अस्य रामस्य मानसं मनः न विचक्रे विकारं न प्राप्नोत् तेन रामस्य क्षमातिशयो गुणो व्यक्तः ॥ २।३३।२६ ॥
प्रासङ्गिकप्रजावृत्तं संवर्ण्य प्रकृतरामवृत्तमाह– स इति । धर्मात्मा रामः मातुः कैकेय्याः वेश्म गृहमभिचक्राम जगाम पितुस्तद्वेश्मन्येव स्थितत्वादिति भावः ॥ २।३३।२७ ॥
विनीतेति । विनीताः नम्रीभूताः वीरपुरुषाः यं तं सुमन्त्रं ददर्श ॥ २।३३।२८ ॥
सुमन्त्रदर्शनानन्तरकालिकं गमनं वर्णयन्नाह– प्रतीक्षमाण इति । आर्तं निश्चितवियोगजनितदुःखाक्रान्तमभिजनं प्रतीक्षमाणः पश्यन्ननार्तरूपः सार्वकालिकार्तत्वाभावः विशिष्टरूपविशिष्टः पितुर्निदेशमाज्ञां विधिवच्चिकीर्षुः कर्तुमिच्छु रामः प्रहसन्नेव पितरं जगाम ॥
२।३३।२९ ॥
तदिति । आर्तरूपं निश्चितरामवियोगजनितदुःखाक्रान्तस्वरूपं नृपं गमिष्यन् ऐक्ष्वाकुसुतो रामः तत्पूर्वं तस्मात्पितुरपि पूर्वं पौर्वकालिकं सुमन्त्रं प्रेक्ष्य दृष्ट्वा पितुः प्रतिहारणार्थं स्वागमनबोधनार्थं व्यतिष्ठत । एकमहात्मशब्दस्य महानां ब्रह्मादित्रयाणां ब्रह्मा आत्मा प्रवर्तक इत्यर्थः । द्वितीयस्य तु मर्यादापालकत्वरूपस्वभावविशिष्ट इत्यर्थ इति न पौनरुक्त्यम् ॥ २।३३।३० ॥
पितुरिति । पितुर्निदेशेन आज्ञयैव वनप्रवेशे कृतौ बुद्धिनिश्चयौ मतिजनतासङ्ग्रहाभावौ येन सः राघवः मे स्वागमनं नृपाय निवेदय इति सुमन्त्रमब्रवीत् ॥ २।३३।३१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥ २।३३ ॥