राम-वचन-श्रवणानन्तर-कालिक-लक्ष्मण-वृत्तं वर्णयन्न् आह– तत इति ।
भ्रातुः रामस्य शुभकरं मङ्गलप्रापकमत एव प्रियं प्रीतिविषयीभूतं
भ्रातुः शासनम् आज्ञाय ज्ञात्वा
ततः राम-समीपात् सुयज्ञस्य निवेशनं गत्वा प्राप्य आशु शीघ्रं प्रविवेश ॥ २।३२।१ ॥
तमिति । अग्न्यागारस्थं यज्ञशालायां स्थितं तं सुयज्ञं वन्दित्वा लक्ष्मणो ऽब्रवीत् । तद्वचनमेवाह– हे सखे अभ्यागच्छ इह प्राप्नुहि दुष्करकरिणः अन्याशक्यक्रियाकरणशीलस्य रामस्य वेश्म गृहं पश्य रामसमीपं प्राप्नुहीत्यर्थः ॥ २।३२।२ ॥
तत इति । ततः लक्ष्मणोक्त्यनन्तरं सन्ध्यां सन्ध्याकृत्यमुपास्थाय समाप्येत्यर्थः । लक्ष्म्या सर्वसम्पत्त्या जुष्टं सेवितं रामनिवेशनं रामाधिष्ठितगृहं सौमित्रिणा सह गत्वा प्राविशत् सुयज्ञ इति शेषः ॥ २।३२।३ ॥
तमिति । अर्चितं पूजितमग्निं यागपावकमिव आगतं तं सुयज्ञं सीतया सह राघवो रामः अभिचक्राम अभ्युत्थानादिसत्कृतिं चकार ॥ २।३२।४ ॥
जातरूपेति । जातरूपं सुवर्णं तन्मयैः मुख्यैः श्रेष्ठैः अङ्गदैः शुभैः शुभकारकैः कुण्डलैः सहेमसूत्रैः हेमसूत्रसहितैः तत्प्रोतैरित्यर्थः । भूषणविशेषैर्वा मण्यादिभिः बहुभिः अनेकविधैः अन्यैः उक्तेभ्यो विलक्षणैः रत्नैश्च काकुत्स्थः ककुस्थवंशोद्भवो रामः सुयज्ञं वसिष्ठपुत्रं प्रत्यपूजयत् तदा पूजन काले सीताप्रचोदितः जानकीप्रेरितो रामः सुयज्ञमुवाच । सुयज्ञमित्युभयान्वयि ॥ २।३२।५,६ ॥
तद्वचनमेवाह– हारमिति । हेमसूत्रं भूषणविशेषं रशनां क्षुद्रघण्टिकां च ते तव भार्यायै सीता दातुमिच्छति अतः हे सौम्य हे सखे हारय हारादिकं स्वभार्यासमीपे प्रापय ॥ २।३२।७ ॥
अङ्गदानीति । चित्राणि अनेकचित्रविशिष्टानि अङ्गदादीनि भार्यायै भवद्भार्यां प्रापयितुं तुभ्यं वनं गच्छन्ती सीता प्रयच्छति आगमशास्त्रस्यानित्यत्वान्नुमभावः ॥ २।३२।८ ॥
पर्यङ्कमिति । अग्र्यास्तरणमुत्तमास्तरणविशिष्टं तं पर्यङ्कमपि त्वयि त्वद्गृहे प्रतिष्ठापयितुमतिसर्जनपूर्वकं प्रेषयितुमिच्छति ॥ २।३२।९ ॥
नाग इति । यो ऽयं शत्रुंजयो नाम नागो हस्ती मम मातुलो मह्यं ददौ तं निष्कसहस्रेण सहस्रसङ्ख्याकस्वर्णमुद्राभिः सह ते तुभ्यं ददामि ॥ २।३२।१० ॥
इतीति । शिवाः मङ्गलहेतुभूताः आशिषः प्रयुयोज ॥ २।३२।११ ॥
अथेति । अथ सुयज्ञाशीर्वाददानानन्तरं त्रिदशेश्वरं ब्रह्मेव रामः प्रियंवदं प्रियवक्तारं तं लक्ष्मणमुवाच ॥ २।३२।१२ ॥
तद्वचनमेवाह– आगस्त्यमिति । आगस्त्यसुतं कौशिकं विश्वामित्रमर्चय सत्कारेणाहूय रत्नादिभिस्तर्पयस्व । श्लोकद्वयमेकान्वयि ॥ २।३२।१३,१४ ॥
कौशल्यामिति । तैत्तिरीयाणां तित्तिरिशाखाध्येतृ़णामचार्यः अत एव वेदविदत एव अभिरूपः दानप्राप्तियोग्यः यो द्विजः कौशल्याभक्तः कौशल्यानिष्ठस्वविषयप्रीत्यनुकूलव्यापारवान् अत एव आशीर्भिः आशीर्वचनैः कौशल्यां पर्युपतिष्ठति स द्विजः यावद्यावद्भिस्तुष्यति तावन्ति यानादीनि तस्य तस्मै सम्प्रदापय तत्र कौशेयानि कृमिविशेषकोशोद्भवनिर्मितानि “कौशेयं कृमिकोशोत्थम्” इत्मरः । कौशल्यामित्युभयान्वयि ॥ २।३२।१५,१६ ॥
सूत इति । सुचिरोषितः बहु-कालान् मत्-समीपे स्थितः आर्यसचिवः सचिवश्रेष्ठः चित्ररथः चित्ररथसञ्ज्ञः सूतो ऽस्तीति शेषः महार्हैः अतिप्रशंसनीयैः वस्त्रादिभिरेनं सूतं तोषय यदि च चित्रं रथो यस्य इति यौगिकार्थमात्रविवक्षा तदा सूतशब्देन सुमन्त्र एव ग्राह्यः ॥ २।३२।१७ ॥
पशुकाभिरिति । पशुकाभिः प्रशस्ताः पशवः पशुकाः ताभिः यज्ञयोग्याभिरित्यर्थः।
सर्वाभिः अजादि-व्यक्तिभिः दश-शतेन सहस्रेणेत्यर्थः । तोषयेति पूर्वेणान्वयः ।
मे मत्सम्बन्धिनः बहवो ऽनेकविधाः ये कठकालापाः कठ-कलाप-शाखाध्यायिनः
ये च नित्यस्वाध्याय-शीलत्वाद् धेतोः अन्यत्-स्वाध्यायातिरिक्तं किञ्चन न कुर्वन्ति ते दण्डमाणवाः ब्रह्मचारि-विहित-दण्ड-धारिणः उपकुर्वाणब्रह्मचारिणः ये च महतां
सम्मताः महद्भिरादृताः स्वादुकामाः सुस्वाद्वन्नादिभक्षणाकाङ्क्षिणः अलसाः
तेषां तेभ्यः रत्नपूर्णानि अशीतियानानि शालिवाहसस्रं
सहस्रसङ्ख्याकशालिवहनयोग्यबलीवर्दान् द्वे शते
शतद्वयसङ्ख्याकान् भद्रकान् भद्रक-सञ्ज्ञक-हस्तिनश् च
भद्रसञ्ज्ञकधान्यविशेषान्वा कर्षकवर्दान्वा दापय । श्लोकत्रयमेकान्वयि ॥
२।३२।१८२० ॥
व्यञ्जनार्थमिति । व्यञ्जनार्थं व्यज्यते संस्क्रियते ओदनादिकमनेनेति व्यञ्जनं दधिघृतादि तदर्थं गोसहस्रं सहस्रसङ्ख्याकगवीः उपाकुरु देहि अग्निहोत्रिभ्यः इति शेषः । अर्धं पृथक्– मेखलीनामिति । मेखलीनां ब्रह्मचारिणां महासङ्घः बहुसमूहः कौसल्यां समुपस्थितः तत्समीपे प्राप्त इत्यर्थः । तेषां मेखलिनां प्रत्येकं सहस्रं विवाहोपयोगि सहस्रसङ्ख्याकद्रव्यविशेषं सम्प्रदापय अत एव नो ऽस्माकमम्बा कौशल्या मम दक्षिणामवलोक्येति शेषः यथा यथावन्नन्देत । अर्धत्रयमेकान्वयि । मेखलीनामित्यत्र दीर्घ आर्षः ॥ २।३२।२१,२२ ॥
उपसंहरन्नाह– तथेति । सर्वान्द्विजातीन्सर्वश सर्वप्रकारेण अर्चय । अर्धं पृथक्– तत इति । ततः रामाज्ञापनानन्तरं यथोक्तं रामोक्तिमनतिक्रम्य ब्राह्मणेन्द्राणां ब्राह्मणेन्द्रेभ्यः धनद इव अददात् । अर्धद्वयमेकान्वयि ॥ २।३२।२३ ॥
अथेति । अथ ब्राह्मणसम्प्रदानकदानानन्तरं स रामः एकैकस्योपजीविनः उपजीवनमुपजीवनहेतुभूतं बहुद्रव्यं प्रदाय दापयित्वा बाष्पगलानुपजीविनः अब्रवीत् । तद्वचनमेवाह– लक्ष्मणस्य यद्वेश्म गृहं मम च यदिदं गृहं तद्यावन्ममागमनं तावदेकैकं संस्थाप्येति शेषः । अशून्यं शून्यं न कार्यम् । असूर्यपश्या राजदारा इतिवत्समासः । अर्धचतुष्टयमेकान्वयि ॥ २।३२।२४,२५ ॥
इतीति । इत्यनेन प्रकारेणोक्त्वा दुःखितं निश्चितवियोगहेतुकदुःखाक्रान्तं तं पूर्वोक्तिकर्मीभूतं सर्वमुपजीविनमिदमुवाच । तद्वचनमेवाह– मम धनाध्यक्षं कोशाधीशाद्धनमानीयताम् “अकथितं च” इति कर्मत्वम् । अर्धद्वयमेकान्वयि ॥ २।३२।२६ ॥
तत इति । ततः रामाज्ञापनानन्तरमस्य रामस्योपजीविनः धनमाजह्नुः आनिन्युः । अर्धं पृथक् ॥ २।३२।२७ ॥
स इति । दर्शनीयः दर्शनयोग्यः सुमहान् स उपजीव्यानीतः राशिः धनसमूहः अदृश्यत ततः धनदर्शनानन्तरं द्विजेभ्यः तद्धनमदापयत् । सार्धश्लोक एकान्वयी ॥ २।३२।२८ ॥
तत्रेति । तत्र तस्मिन्समये गार्ग्यो गर्गगोत्रः क्षत-वृत्तिः क्षतेन पिपीलिका-रहिते देश-खनने वृत्तिर् जीविका यस्य, किञ्च क्षता त्यक्ता वृत्तिः प्रतिग्रहादि-जीविका येन उञ्छ-वृत्तिर् इति यावत् - क्वचित् “उञ्छवृत्तिः” इत्येव पाठः । फाल-कुद्दाल-लाङ्गली यागादि-हेतुक-खननोपकरणी-भूत–फालादिविशिष्टः पिङ्गलः व्रतोपवासादिना पीतवर्णविशिष्टः त्रिजटो नाम द्विजः वने नित्यमासीत् नित्यमित्यनेन ग्रामगमनव्युदासः ॥ २।३२।२९ ॥
तमिति । यतः स्त्रीणां देवताव्यवहारनिर्वाहकः भर्तैवातः बालान् अल्पवयस्कान्दारकान्पुत्रानादाय गृहीत्वा तं फालाद्युपस्करविशिष्टं वृद्धं ब्राह्मणं त्रिजटं तरुणी भार्या वाक्यमब्रवीत् “दारिद्य्रेणानुपीडिता” इति प्रचुरः पाठः ॥ २।३२।३० ॥
तद्वाक्यमेवाह– अपास्येति । अपास्य त्यक्त्वा वचनं प्रार्थनावाक्यं कुरुष्व परिपालय । किं प्रार्थयसीत्यत आह– धर्मज्ञं रामं दर्शय स्ववृत्तं बोधय अत एव यत्किञ्चिदवाप्स्यसे प्राप्स्यसि ।
इकारो ऽव्ययम् ॥ २।३२।३१ ॥
स इति । दुश्छदां छिद्रादिविशिष्टात्वेन छादनानर्हां शाटीमाच्छाद्य वसित्वा यत्र यस्मिन्पथि रामनिवेशनं रामकर्तृकप्रवेशः तं पन्थानं स द्विजः प्रातिष्ठत ॥ २।३२।३२ ॥
भृग्विति । आपञ्चमायाः कक्षायाः पञ्चमकक्ष्यापर्यन्तं त्रिजटं कश्चिन्न अवारयत् अत एव सः त्रिजटः राममासाद्य प्राप्य वाक्यमब्रवीत् । अर्धत्रयमेकान्वयि ॥ २।३२।३३,३४ ॥
तद्वाक्यमेवाह– निधन इति । निर्धनत्वादिविविष्टो ऽहमस्मीति मां प्रत्यवेक्षस्व ॥ २।३२।३५ ॥
तमिति । परिहास-समन्वितम् अन्यकर्तृक-परिहासप्रापकं वचनं ब्राह्मणं राम उवाच । तद्-वचनम् एवाह– गवाम् एकम् अपि सहस्रं मया न विश्राणितं दत्तम् अदत्ता एवेमाः - बहु-सहस्र-सङ्ख्याक-गव्यस् तिष्ठन्तीत्य् अर्थः ॥ २।३२।३६ ॥
ननु दानाभावेन किमित्यत आह– परीति । दण्डेन यावद्गाः परिक्षिपसि स्प्रक्ष्यसीत्यर्थः । तावद्गास्त्वमवास्यसे यावदिति सामान्ये नपुंसकम् अत एवैकवचनान्तत्वस्य नानुपपत्तिः । अर्धं पृथक् । रामोक्तिं संवर्ण्य द्विजवृत्तमाह– स इति । सम्भ्रान्तः रामेणादृतः स द्विजः कट्यां परितः शाटीं परिवेष्ट्य सर्वप्राणेन कृत्स्नस्वबलेन दण्डमाविध्य भ्रामयित्वा वेगतः चिक्षेप । सार्धश्लोक एकान्वयी ॥ २।३२।३७ ॥
स इति । तस्य द्विजस्य करोद्यतः स दण्डः सरयूपारं तीर्त्वा उक्षाणसन्निधौ वृषसमीपवर्तिनि बहुसाहस्रे गोव्रजे पपात । अर्धद्वयमेकान्वयि । उक्षाणेत्यार्षम् किं च उक्ष्णां वृषाणाम् अणाः शब्दास्तैः संन्निधीयते स्वसमीपं प्राप्यते ऽसौ तादृशे गोव्रजे पपातेत्यर्थः । भागुरिमतेनेदमिति भूषणोक्तिस्तु दुर्ग्रहा एतादृशनिपातनस्य अजादिगणे अदृष्टत्वात् स्वार्थिकाद्यणादिकल्पनाप्येतन्मार्गिकैव ॥ २।३२।३८ ॥
तमिति । धर्मात्मा रामः सरयूतटात्तं ब्राह्मणम् अवाप्य प्राप्य परिष्वज्य मिलित्वा च ताः त्रिजट-दण्ड-स्पृष्टा गावः त्रिजटस्याश्रमं प्रत्य् आनयामास प्रापयामास - वाक्यार्थस्य कर्मतासम्बधेनान्वयान् न द्वितीया ॥ २।३२।३९ ॥
उवाचेति । तदा गोप्रापणकाले गार्ग्यमुवाच । तद्वचनमेवाह– ममायं दण्डस्पर्शाज्ञापनपदार्थः परिहासः अज्ञ-कर्तृक-परिहास-कारकः - अतः मन्युः कोपः न कर्तव्यः ॥ २।३२।४०। ॥
ननु परिहासस्य कोपहेतुत्वे किमर्थं कृत इत्यत आह– इदमिति ।
दुरत्ययं दुर्निवारं यद् इदं तव तेजः तज् जिज्ञासितुं जिज्ञापयिषितुम् इच्छता भवत्-प्रभाव-प्राकट्यं वाञ्छता मया इमं दण्ड-प्रक्षेपण-रूपम् अर्थं भवानभिप्रचोदितः प्रार्थितः अपरं गोभिन्नं किं किञ्चित् व्यवस्यसि इच्छसि
चेद्वृणीष्व स्वीकुरु ॥ २।३२।४१ ॥
ब्रवीमीति । ते तव यन्त्रणा याचनविषकसङ्कोचो न कार्या । तत्र हेतुः मम यद्यद्धनं तत्तद्विप्रकारणाद्ब्राह्मणहेतोः इति सत्येन सत्यं ब्रवीमि अतो मयार्जितं धनं भवत्सु सम्यक्प्रतिपादनेन विधिपूर्वकदानेन यशस्करं परमयशःसम्पादकं भवेत् एतेन यथेच्छं ग्राह्यमिति सूचितम् ॥ २।३२।४२ ॥
तत इति । अनीकं समूहं यश आद्युपबृंहिणीः वर्धिनीः आशिषः महात्मनो रामस्य तदा तस्मिन्काले प्रत्यवदद् । एतेन नान्यत्किञ्चिदयाचदिति सूचितम् ॥ २।३२।४३ ॥
स इति । प्रतिपूर्णपौरुषः प्रतिपूर्णः नित्यं सम्भृतः पौरुषः पुरुषार्थो यस्मिन् यथार्हसम्मानवचःप्रचोदितः यथोचितसम्मानवचोभिः प्रचोदितः जनैरुक्तः स रामः सुहृज्जने महाधनमचिरात् शीघ्रं नियोजयामास दापयामासेत्यर्थः ॥ २।३२।४४ ॥
द्विज इति । तदा तस्मिन्काले द्विजो ब्राह्मणः सुहृद्भृत्यजनो वा दरिद्रभिक्षाचरणः
दरिद्रत्वसमानाधिकरणभिक्षावृत्तिविशिष्टो वा यथार्हसम्माननादिभिः यो न तर्पितः तृप्तिं न प्राप्तः स तत्र तस्मिन् जनसमूहे कश्चिन्न बभूव ॥ २।३२।४५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे द्वात्रिंशः सर्गः ॥ २।३२ ॥