सीतारामयोर्वृत्तमुक्त्वा लक्ष्मणवृत्तमुपक्रमन्नाह– एवमिति । पूर्वमागतः पौर्वकालिकागमनविशिष्टः बाष्पपर्याकुलमुखः अश्रुव्याप्तमुखविशिष्टः स सक्ष्मणः एवमनेन प्रकारेण संवादं सीतारामोक्तिप्रत्युक्ती श्रुत्वा शोकं रामवियोगहेतुकसन्तापं सोढुमशक्नुवन्सन्नासेति शेषः ॥ २।३१।१ ॥
स इति । अतियशाः स रघुनन्दनो लक्ष्मणः भ्रातुः रामस्य चरणौ गाढं दृढं निष्पीड्य सीतां राघवं रामं चोवाच ॥ २।३१।२ ॥
तद्वचनमेवाह– यदीति । मृगगजायुतं मृगगजैरायुतं व्याप्तम् एतेन स्वनिष्ठभीत्यभावः सूचितः ॥ २।३१।३ ॥
स्वानुगमने प्रयोजनमाह– मेयति । समेतो युक्तः बहूनि अनेकविधानि ॥ २।३१।४ ॥
रामवियुक्तस्थाने स्वस्थित्ययोग्यतां बोधयन्नाह– नेति । देवलोकाक्रमणं नहुषादिवद्देवलोकगमनं त्वया विना न वृणे स्वीकरोमि अमरत्वं देवत्वं च लोकानां भुवनानामैश्वर्यमाधिपत्यं च न कामये ॥ २।३१।५ ॥
एवमिति । वनवासाय वनवासं कर्तुं निश्चितः एवं ब्रुवाणः सौमित्रिर्लक्ष्मणः बहुभिः अनेकविधैः सान्त्वैः वियोगश्रुतिहेतुकोद्वेगशामकैः वचनैः रामेण निषिद्धो वनगमनान्निवारितो ऽपि पुनरब्रवीत् ॥ २।३१।६ ॥
तद्वचनमेवाह– अन्विति । भवता पूर्वमेवानुज्ञातः आनुमानिकगमनकर्मिकाज्ञाविषयीभूतः अत एव यद्गमनविषकयत्नवानहमस्मि इदानीं तु मे मम निवारणं गमनप्रतिषेधो भवता क्रियते इदं किं न युक्तमित्यर्थः । अनुमानप्रकारस्तु त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ ममेति सीतां प्रति भवदुक्तेः अहं सहगमनविषयकरामज्ञापितः मद्विषयकानुशासनान्तराभावान्नित्यसहचारिराजवर्गवत् ॥ २।३१।७ ॥
ननु प्रयोजनविशेषस्य सत्त्वात्पूर्वं गमनायाज्ञापितः इदानीं तदभावान्निवार्यसे इत्यत आह– यदिति । गन्तुमिच्छतः मे यदर्थं प्रतिषेधः गमननिवारणं क्रियते एतद्विज्ञातुमहमिच्छामि तत्र हेतुः यतो मे संशयः गमनप्रतिषेधहेतोः प्राबल्याप्राबल्यविषयकसन्देहः ॥ २।३१।८ ॥
तत इति । अग्रतः अग्रे स्थितं प्राग्गामिनं रामगमनात्पूर्वमेव गमनशीलं रामगमननिश्चये सतीति शेषः याचमानं सहगमनं प्रार्थयन्तं धीरं कृताञ्जलिं लक्ष्मणं रामो ऽब्रवीत् ॥ २।३१।९ ॥
तद्वचनमेवाह– स्निग्ध इति । यद्यपि स्निग्धः मद्विषयकस्नेहवान् अत एव धर्मरतः मत्तोषककर्मनिष्ठः अत एव धीरः कर्मविषयकानवधानतारहितः अत एव सत्पथे वेदोक्तमार्गे स्थितः अत एव प्राणसमः प्राणप्रतियोगिकसादृश्यानुयोगी अत एव प्रियः मन्निष्ठप्रीतिविषयीभूतः अत एव अवश्यः मदतिरिक्तनिरूपितवश्यत्वानाक्रान्तः अत एव विधेयः मया ऽवश्यं धारणीयः अत एव मे सखा तथापि हे सौमित्रे मया सह त्वयि तन्मज्जिगमिषितं वनं गच्छति सति कौशल्यां सुमित्रां च को भजिष्यति सेविष्यते “भरिष्यति” इति पाठान्तरमिति भट्टाः । श्लोकद्वयमेकान्वयि । चशब्दौ यद्यपितथाप्यर्थौ वाश्चार्थे ॥ २।३१।१०,े११ ॥
ननु राजैव पालयितेत्यत आह– अभीति । यो महीपतिः कामैः प्रजेप्सितैः पर्जन्य इव अभिवर्षति प्रजानिखिलमनोरथान्प्रापयदित्यर्थः । स महीपतिः कामपाशपर्यस्तः कामेन स्वेच्छया यः पः पालनं तस्य यः अशो व्याप्तिस्तस्मात्पर्यस्तो निवृत्तः आस्ते इति शेषः ॥ २।३१।१२ ॥
ननु प्राप्तराज्याधिकारत्वात्केकयी पालयितेत्यत आह सेति । अश्वपतेः अश्वपतिनाम्नो नृपस्य सुता केकयी शोभनमतिसम्पन्नमिदं राज्यं प्राप्यापि दुःखितानां मद्वियोगजनितप्राप्तदुःखानां सपत्नीनां समीपे न करिष्यति राज्यं न पालयिष्यतीत्यर्थः । तेन केकय्यपि तद्दुःखदुःखिता भवितेति ध्वनितम् । हिरप्यर्थे ॥ २।३१।१३ ॥
ननु भरतः पालयितेत्यत आह– नेति । केकय्यां न पर्यवस्थितः केकयीविषयकास्थारहितः केकय्या मद्वियोगहेतुत्वेन तद्विषयकौदासीन्यविशिष्ट इत्यर्थः । भरतः कौसल्यां सुमित्रां च राज्यं च आसाद्य प्राप्य स्मरिष्यति मत्कर्मकोत्कण्ठापूर्वकस्मरणमेव करिष्यतीत्यर्थः । एतेन भरतस्यापि पालनायोग्यत्वं सूचितम् ॥ २।३१।१४ ॥
तामिति । हे सौमित्रे राजानुग्रहणेन युक्तस्त्वम् आर्यां सर्वश्रेष्ठां तां कौशल्यां भर पालय उक्तं मया वर्णितममुमर्थमिहं स्थितौ प्रयोजनं चर जानीहि । गत्यर्थानां ज्ञानार्थकत्वप्रसिद्धेः प्रकृते चरो ज्ञानमर्थः ॥ २।३१।१५ ॥
नन्विह स्थितौ मत्कर्तृकत्वत्सेवाभङ्गः स्यादित्यत आह– एवमिति । एवं मदुक्तप्रकारेण ते गुरुपूजायां त्वत्कर्तृकमात्रादिशुश्रूषायां सत्यां सुदर्शिता विधिनोक्ता मम भक्तिः मत्कर्मिका सेवा भविष्यति अत एव अतुलः उपमारहितः महान्धर्मश्च भविष्यति ॥ २।३१।१६ ॥
उपसंहरन्नाह– एवं कुरुष्वेति । हे रघुनन्दन हे सौमित्रे एवं मदुक्तप्रकारेण कुरुष्व मात्रादिसेवामिति शेषः । विपक्षे दोषमाह– विप्रहीणायाः त्यक्तायाः न अस्माकम् ॥ २।३१।१७ ॥
एवमुक्त इति । श्लक्ष्णया सरसया प्रत्युवाच कथयामास ॥ २।३१।१८ ॥
तद्वचनमेवाह– तवेति । तव तेजसा त्वत्प्रभावेणैव पूजयिष्यति संशयः अस्मिन्विषयसन्देहो नास्ति ॥ २।३१।१९ ॥
ननु भरतमात्रस्थितौ राजान्तरकृतोपद्रवः स्यादित्यत आह– यदिति । यद्यतः राजादेर्हेतोः दुःस्थः चञ्चलचित्तः सन् भरत उत्तमं राज्यं न रक्षेत् तं वीरगर्वेण अहं वीर इत्यभिमानविशिष्टेन दुर्मनसा दुष्टान्तःकरणेनोपलक्षितं दुर्मतिं दुष्टनिश्चयवन्तमत एव विशेषतः क्रूरं राजादिं तान्प्रसिद्धान्सर्वांस्तत्पक्षान्प्राप्याहं वधिष्यामि । ननु बहुभिः सह विरोधे कथं त्वकर्तृकहननमित्यत आह– त्रैलोक्यमपि तत्पक्षं चेदहं वधिष्यामि एतेन स्वपराक्रमस्यातिमहत्त्वं सूचितं तेन रामसेवायाः प्रभावातिशयो ध्वनितः । इकारो वितर्कार्थकमव्ययम् किन्तु अपरमुच्यत इत्यर्थः । यस्याः उपजीविनामुपजीविभिः भृत्यादिभिरित्यर्थः ग्रामाणां सहस्रं सम्प्राप्तं सा कौसल्या मद्विधान् सहस्रमपि बिभृयात् । श्लोकत्रयमेकान्वयि ॥ २।३१।२०२२ ॥
तदेव भङ्ग्यन्तरेणाह– तदिति । तदुक्तहेतोः आत्मभरणस्वरक्षणे मम मातुः मद्विधानां च भरणाय मनस्विनी कौशल्या पर्याप्ता ॥ २।३१।२३ ॥
कुरुष्वेति । यतः इह सहगमने वैधर्म्यं विरुद्धत्वं न विद्यते अतः मामनुचरं सहगमनकारिणं कुरुष्व अत एव अहं कृतार्थो भविष्यामि तवार्थः त्वत्कर्मकसेवेत्यर्थः प्रकल्पते सेद्धा “वर्तमानसामीप्य–” इति भविष्यति लट् ॥ २।३१।२४ ॥
सेवामेव दर्शयन्नाह– धनुरिति । सगुणं ज्यासहितं खनित्रपिटकाधरः खनित्रेण कुद्दालादिना सहिता पिटका फलादिस्थापनयोग्यवंशादिनिर्मिता मञ्जूषाविशेषः तां धरति सः अत्र धनुर्ग्रहणं क्रूरजन्तुभर्त्सनार्थम् ॥ २।३१।२५ ॥
आहरिष्यामीति । अन्यानि शाकादीनि स्वाहार्हाणि स्वाहायोग्यानि “स्वाहाराणि” इति पाठे शोभनाहारसाधकानीत्यर्थः ॥ २।३१।२६ ॥
सेवान्तरमाह– भवानिति । गिरिसानुषु पर्वतशृङ्गेषु रंस्यते विहरिष्यते सर्वमाज्ञप्तमनुमितं चेत्यर्थः । जाग्रतः स्वपतश्चेत्यनेन स्वस्य निद्रावशकर्तृत्वं सूचितम् ॥ २।३१।२७ ॥
राम इति । अनेन निर्हेतुकप्रीतिबोधकेन वाक्येन लक्ष्मणोक्त्या सुप्रीतो रामः प्रत्युवाच । तत्प्रतिवचनमेवाह– हे सौमित्रे त्वं व्रज मया सहेति शेषः अत एव सुहृज्जनं सुहृदं स्वसौहार्दं
जनयति नित्यं प्रकटयति तं मात्रादिमित्यर्थः । आपृच्छ अनुमतिं गहाण अनुमतिकरणाज्ञापनेन तत्सम्माननं कर्तव्यमिति सूचितं तेन ते न नेतव्या इति बोधितम् ॥ २।३१।२८ ॥
ये इति । राज्ञो जनकस्य महायज्ञे यद्धनुरादि राज्ञो जनकस्य वरुणः स्वयं ददौ तत्सर्वमाचार्यसद्मनि निहितं विवाहसमये जनकाल्लब्ध्वेति शेषः । एतत्सर्वमायुधमादाय गुरोर्गृहीत्वा क्षिप्रं शीघ्रमाव्रज आगच्छ जनकस्येत्युभयान्वयि उत्तरत्र जनकस्येति सम्बन्धसामान्ये षष्ठी । श्लोकत्रयमेकान्वयि ॥ २।३१।२९३१ ॥
स इति । इक्ष्वाकुगुरुं वशिष्ठमागम्य प्राप्य स लक्ष्मणः जग्राह ॥ २।३१।३२ ॥
तदिति । तद्गुरुगृहादानीतं सत्कृतं पूजितमत एव माल्यभूषितमायुधं दर्शयामास ॥ २।३१।३३ ॥
तमिति । आत्मवान् जीवादिनियन्ता राम उवाच । तद्वचनमेवाह– मम काङ्क्षिते मदीप्सिते काले आगतः शीघ्रं प्राप्त इत्यर्थः ॥ २।३१।३४ ॥
अहमिति । मामकं मदुपार्जितमित्यर्थः धनं ब्राह्मणेभ्यः त्वया सह प्रदातुमहमिच्छामि ॥ २।३१।३५ ॥
वसन्तीति । गुरुषु दृढभक्ता ये द्विजसत्तमा वसन्ति तेषां द्विजसत्तमानां सर्वेषां मे उपजीविनां च ये भूयः श्रेष्ठास्तान्द्विजानामार्यं श्रेष्ठमत एव प्रवरं प्रकर्षेण वरणीयं सुयज्ञं सुयज्ञनामानं वसिष्ठपुत्रं च
अपरांस्तद्भिन्नाञ्छिष्टान्सदाचारसम्पन्नान्द्विजातींश्च अभ्यर्च्य वनं प्रयास्यामीति हेतोः आशु शीघ्रमानय । श्लोकद्वयमेकान्वयि ॥ २।३१।३६,३७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकत्रिंशः सर्गः ॥ २।३१ ॥