०३० वनगमनानुज्ञा

सीतावृत्तं वर्णयितुमुपक्रमते– सान्त्व्यमानेति । मैथिली मिथिलादेशप्रादुर्भूता जनकात्मजा सीता वनवासो निमित्तं कारणं यस्य तदेव अर्थमनेकार्थविशिष्टमिदं वचनमब्रवीत् ॥ २।३०।१ ॥

वचनस्य विशेषस्वरूपं वर्णयन्नाह– सेति । उत्तमसंविग्ना वियोगहेतुकात्युद्वेगं प्राप्ता अभिमानादहमस्यानन्ययेति मां त्यक्तुमयमसमर्थ इति गर्वात्प्रणयात्प्रकर्षेण नयः रामकर्तृकस्वकर्मकनयनं तस्माद्धेतोः राघवं परिचिक्षेप विलक्षणवचनमुच्चारयामास ॥ २।३०।२ ॥

वचनमेवाह– किमिति । पुरुषविग्रहं पुरुषाकृतिं स्त्रियं स्त्र्यन्तराकाङ्क्षारहितत्वेन स्त्रीसदृशं त्वां वैदेहः विदेहकुलोद्भवो मे पिता जामातरं किममन्यत जामातृत्वेन त्वयि निश्चयमकरोत् एवं ज्ञाने तुभ्यं न दद्यादिति तात्पर्यं यद्वा यः त्वया प्रापि स वैदेहः विदेहकुलोत्पन्नः मे पिता पुरुषविग्रहं पुरुषत्वस्य विशेषेण ग्रहो ज्ञानं यस्मिन् परमपुरुषमित्यर्थः । तं जामातरं त्वामस्त्रियं स्त्रीरहितं किं कथममन्यत एतेन तव स्त्र्यन्तरमस्तीत्यनुमीयते तेन तदर्थमेव ते वनगमनमिति व्यञ्जितम् । किञ्च अस्त्रियमस्त्रिणा निखिलास्त्रज्ञेन विश्वामित्रेण सह याति गच्छति तं विश्वामित्रसहचारिणमित्यर्थः । जामातरं त्वां पुरुषविग्रहं विशेषपुरुषं किं कथममन्यत तवेदृग्वचनश्रवणेन विशेषपुरुषत्वं न प्रतीयत इति तात्पर्यं तेन पितुर्भ्रमः सूचितः ॥ २।३०।३ ॥

न केवलं मत्पितुरेव भ्रमः एवं त्वद्वचनश्रवणे सर्वेषां भ्रान्तिः प्रकटीभविष्यतीति बोधयन्ती आह– अनृतमिति । यदि मां न नेष्यसीति शेषः । तदा दिवाकरे सूर्ये इव तपति त्वयि अज्ञानात्त्वन्निश्चितमन्नयनाभावहेतुविषयकज्ञानाभावाद्धेतोः रामे परं तेजो नास्तीति अनृतं मिथ्या अयं लोको जनः वक्ष्यति वदिता तेन तद्वचनश्रवणे मम खेदो भवितेति सूचितम् । अद्यतनत्वस्याविवक्षा ॥ २।३०।४ ॥

ननु गमनाभावहेतुमुक्त्वा त्वयैव लोको बोद्धव्य इत्यत आह– किमिति । किं कारणं कृत्वा मनसि प्रकल्प्य त्वं विषण्णः उदासीनः भयं वा कुतः यद्यस्मात्त्वं परित्यक्तुकामः एतेन मयापि हेतुर्न ज्ञात इति कथं बोधयितास्मीति ध्वनितम् ॥ २।३०।५ ॥

नाहं परित्यागार्हेति बोधयन्ती आह– द्युमदिति । द्युमत्सेनसुतं सत्यवन्तं सत्यवत्सञ्ज्ञकमनुव्रतां तद्वशवर्तिनीं सावित्रीमिव आत्मवशवर्तिनीं विद्धि जानीहि ॥ २।३०।६ ॥

नेति । त्वदृते त्वां विना अन्यं भवदुपदिष्टमत्सुखहेतुभूतपदार्थं मनसापि अहमन्या पतिव्रताविलक्षणा कुलपांसनीव न द्रष्टास्मि अतः त्वया सह गच्छेयम् ॥ २।३०।७ ॥

स्वयमिति । चिरं बहुकालमध्युषितां स्वसमीपवर्तिर्नीं कौमारीं भार्यां कुमारावस्थायामेव विवाहितामित्यर्थः । सतीं मां शैलूषः नर्तनकालिकनट इव परेभ्यः स्वातिरिक्तेभ्यः दातुं तत्सन्निधौ स्थापयितुं किमिच्छसि । तुः किमर्थे । “प्रसृतोन्मुखे च शैलूषः कथितो नटबिल्वयोः” इति विश्वः ॥ २।३०।८ ॥

यस्येति । हे राम यस्य स्वमात्रादेः पथ्यं हितं त्वमात्थ कथयसि अत एव यस्यार्थे प्रयोजनार्थमवरुध्यसे मामवरोधयसि इह स्थापयसि तस्य वश्यः त्वमेव भव त्वयैव विधेयः तस्यार्थ इति शेषः ॥ २।३०।९ ॥

स इति । अनादाय अगृहीत्वा प्रस्थितुं नार्हसि तत्र हेतुः तपआदिकं त्वया सहैव स्यात् ॥ २।३०।१० ॥

नेति । पृष्ठतः गच्छन्त्या मे विहारशयनेष्विव श्रमो न भविता ॥ २।३०।११ ॥

कुशेति । मार्गे त्वया सह त्वत्साहित्यविशिष्टायाः मम कुशादयः तूलादिसमस्पर्शाः भवितार इति शेषः । तत्राजिनं कोमलं मृगविशेषचर्म ॥ २।३०।१२ ॥

महेति । महावातसमुद्धूतं महावातनीतं यद्रजः मां त्वत्सहचारिणीमवकरिष्यति आच्छादयिष्यति तत्परार्ध्यमुत्तमं चन्दनमिवाहं मन्ये ॥ २।३०।१३ ॥

शाद्वलेष्विति । यदा यस्मिन्काले वनगोचरा वनं प्राप्ताहं वनान्तः वनमध्ये शाद्वलेषु दूर्वादियुक्तभूमिषु शिश्ये तदा कुथास्तरणयुक्तेषु विलक्षणचित्रकम्बलरूपास्तरणविशिष्टेषु पर्यङ्केष्विति शेषः । यत्सुखतरमनुभूतमित्यर्थः । तत्ततः शाद्वलशयनात्किं साधारणं स्यात् भवितेत्यर्थः ॥ २।३०।१४ ॥

पत्रमिति । पत्राद्यन्यतमं यद्दास्यसे तदमृतरसोपमं स्यादिति शेषः ॥ २।३०।१५ ॥

नेति । आर्तवानि फलोत्पत्तियोग्यताविशिष्टऋतूत्पन्नानि पुष्पाणि फलानि च भुञ्जानाहं मात्रादिकं न स्मरिष्यामि । “अधीगर्थ–” इति षष्ठी ॥ २।३०।१६ ॥

न चेति । ततः मद्गमनाद्विप्रियमनिष्टं द्रष्टुं नार्हसि यतः मत्कृते मदर्थं शोकः शोकहेतुः न भविष्यतीति शेषः । अत एव दुर्भरा त्वत्कर्तृकभरणाशक्या अहं न भविष्यामि ॥ २।३०।१७ ॥

य इति । यः देशः त्वया सह त्वत्साहित्यविशिष्टः स एव स्वर्गंः साकेतलोकः यो देशः त्वया विना त्वत्साहित्याभावविशिष्टः स एव निरयः निर्गतः अयः कल्याणं यस्मात्प्राकृतलोक इत्यर्थः इति परां सर्वविलक्षणां प्रीतिं त्वद्विषयकमत्प्रेम जानन् त्वं मया सह गच्छ ॥ २।३०।१८ ॥

अथेति । अथ एवं मत्प्रार्थनानन्तरमपि अव्यग्रामनवधानतारहितचित्तां न नयिष्यसे नेष्यसे तर्हि विषं अतिमादककालकूटविशेषमद्यैव पास्यामि । तत्र हेतुः द्विषतां त्वद्वियोगहेतुकसर्ववस्तुविषयकप्रीत्यभावविशिष्टानां भवन्मात्रादीनामवशमप्रीतिहेतुककान्त्यभावं मा गमं न प्राप्स्यामि द्रष्टुं न शक्ष्यामीत्यर्थः । एतेन दुःखादर्शित्वं गुणः सीताया व्यक्तः ॥ २।३०।१९ ॥

ननु विषमदस्याल्पकालस्थायित्वाद्विषपानमत्किञ्चित्करमित्यत आह– पश्चादिति । पश्चाद्विषमदध्वं सानन्तरमपि दुःखेन मम जीवितं मत्कर्तृकत्वन्मात्रादिपालनं सेवनमित्यर्थः । नैव स्यादत एव त्वयोज्झितायाः त्यक्ताया मम मरणमिहलोकत्यागेन मरणसदृशं साकेतगमनमित्यर्थः । वरं श्रेष्ठमस्ति तेन तत्र तव संयोगो भवितैवेति ध्वनितम् ॥ २।३०।२० ॥

ननु चतुर्दशवर्षानन्तरमिह मदागमनस्य निश्चितत्वात्किमर्यं शोक इत्यत आह– इममिति । दुःखिता त्वद्वियोगहेतुकातिदुःखविशिष्टा ॥ २।३०।२१ ॥

इतीति । आयस्ता अत्यायासं प्राप्ता ॥ २।३०।२२ ॥

सेति । दिग्धैः विषविशेषसंस्कृतबाणैः विद्धा ताडिता गजाङ्गना इव बहुभिः वियोगादिसूचकैर्वाक्यैः विद्धा उक्ता सा सीता चिरसन्नियतं बहुकालनिरुद्धं बाष्पमग्निमरणिरिव मुमोच ॥ २।३०।२३ ॥

तस्या इति । सन्तापसम्भवं वियोगश्रुतिहेतुकसन्तापजनितं स्फटिकसङ्काशं स्फटिकसूक्ष्मगुटिकावद्भासमानं तस्याः नेत्राभ्यां पङ्कजाभ्यामुदकमिव परिसुस्राव ॥ २।३०।२४ ॥

तदिति । सितामलचन्द्राभं सिते शुक्लपक्षे ऽमलो ऽन्धकारनिवर्तकः यश्चन्द्रः पूर्णिमाचन्द्र इत्यर्थः । तत्सदृशमायते लोचने यस्मिंस्तन्मुखं जलोद्धृतं जलान्निःसृतमम्बुजमिव पर्यशुष्यत इव । इव उभयान्वयी ॥ २।३०।२५ ॥

तामिति । दुःखितां वियोगश्रवणहेतुकदुःखाक्रान्तामत एव विसञ्ज्ञामिव सञ्ज्ञारहितासदृशीं तां सीतां परिष्वज्य विश्वासयन् साहित्यगमने विश्वासमुत्पादयन् सन्नुवाच ॥ २।३०।२६ ॥

तद्वचनमेवाह– नेति । तव दुःखेन स्वर्गं त्वन्निष्ठदुःखफलकसुखविशेषमपि नाभिरोचये तेन त्वां सह नेष्यामीति सूचितम् । पूर्वोक्तभयादिकमप्यकिञ्चित्करमित्याह स्वयंभोः

स्वयंप्रकाशसर्वावभासकब्रह्मण इव मे भयं नास्ति स्वयंभोरित्यत्र भाधातोरौणादिको डुः ॥ २।३०।२७ ॥

ननु गमननिवारकवाक्यं पूर्वं कथमुक्तमित्यत आह– तवेति । तवाभिप्रायं सहगमनविषकत्वदिच्छामविज्ञाय तवारण्ये वासं न रोचये । एतेन त्वदभिप्रायविज्ञानार्थमेव पूर्वमुक्तमिति सूचितम् ॥ २।३०।२८ ॥

यदिति । यद्ययस्माद्धेतोः मया सार्धं वनवासाय सृष्टा निश्चयं प्राप्ता किञ्च सृष्टा प्रकटितासि अतः विहातुं त्यक्तुं मया त्वं न शक्या । तत्र दृष्टान्तः आत्मवता परमात्मविषयकविज्ञानविशिष्टेन प्रीतिः तद्विषयकस्नेहो यथा ॥ २।३०।२९ ॥

धर्म इति । हे गजनासोरु शुण्डादण्डसदृशोरुविशिष्टे यो धर्मः पुरा सद्भिराचरितः तं पतिव्रतास्त्रीसहचरणधर्ममनुवर्तिष्ये प्रवर्तयिष्यामि अतः सूर्यं सुवर्चला तत्पत्नीव मामनुवर्तस्वेति शेषः ॥ २।३०।३० ॥

स्वगमनस्यावश्यकत्वं बोधयन्नाह– नेति । सत्योपबृहितं सत्यसंयुक्तं पितुर्वचनं मां वनं नयति अतो वनं न गच्छेयमिति न गमिष्याम्येवेत्यर्थः ॥ २।३०।३१ ॥

पितुराज्ञापालनस्यावश्यकत्वं बोधयन्नाह– एष इति । पित्रादिवश्यता धर्मः अत एव व्यतिक्रम्य उल्लङ्घ्य जीवितुं प्रजाः पालयितुं नोत्सहे ॥ २।३०।३२ ॥

अस्वाधीनमिति । स्वाधीनं प्रत्यक्षस्वसेवायत्तत्वविशिष्टं मात्रादिकं समतिक्रम्य अस्वाधीनमप्रत्यक्षत्वेन प्रत्यक्षस्वसेवायत्तत्वरहितं दैवं स्वेप्सितदेवताप्रकारैः क्रियाभिः कथमभिराध्यते एतेन गुरूपदिष्टपथेनैव देवा आराधनीया इति सूचितम् ॥ २।३०।३३ ॥

यत्रेति । यत्र मात्राद्याराधने त्रयं धर्मार्थकामाः अस्तीति शेषः । अत एव त्रयः उर्ध्वाधोमध्यवर्तिनः लोकाः जना यत्र वर्तन्त इति शेषः । अतस्तत्समं मात्राद्याराधनसदृशं पवित्रं भुवि कस्मिंश्चिद्देशे अन्यन्नास्ति तेन हेतुना इदं पितृवचनमभिराध्यते परिपाल्यते । अर्थशब्देन परमपुरुषार्थभूतमोक्षस्यापि ग्रहणान्न व्याख्याने न्यूनता अत एव त्रयमित्युक्तिः सानुकूला ॥ २।३०।३४ ॥

नेति । यथा पितुः पित्रादेः सेवा बलकरी प्राबल्यसम्पादिका मता निश्चिता तथा सत्यादयः आप्तदक्षिणः आप्ता ब्राह्मणैः आप्ता दक्षिणा यस्मिन् स यज्ञश्च न बलकरः बलकरा इति लिङ्गवचनविपरिणामेनान्यत्राप्यन्वेति । “हिता” इति पाठान्तरम् ॥ २।३०।३५ ॥

तदेव द्रढयन्नाह– स्वर्ग इति । गुरुवृत्त्यनुरोधेन गुर्वादिसेवानुरूपेण स्वर्गादिकं किञ्चिदपि दुर्लभं न सेवानुरूपं फलं भवत्येवेत्यर्थः ॥ २।३०।३६ ॥

तदेव भङ्ग्यन्तरेणाह– देवेति । मातापितृपरायणाः मात्रादिभक्ताः ॥ २।३०।३७ ॥

स इति । मा मां शास्ति आज्ञापयति ॥ २।३०।३८ ॥

ममेति । वसिष्यामि वत्स्यामि पत्या सहेति शेषः इति हेतोः मामनुयातुं यतस्तवं सुनिश्चिता अतस्त्वां नेतुं मम मतिः सन्ना प्राप्ता ॥ २।३०।३९ ॥

सेति । वनाय वनं गन्तुं यतः दिष्टा आज्ञप्ता तस्मान्मामनुगच्छस्व ॥ २।३०।४० ॥

सर्वथेति । मम कुलस्य स्वस्य स्वकीयस्य कुलस्य त्वत्पितृकुलस्येत्यर्थः । सदृशं योग्यं व्यवसायं सहगमनविषयकनिश्चयमनुक्रान्ता प्राप्ता अतो ऽतिशोभनमेतत् ॥ २।३०।४१ ॥

आरभस्वेति । वनवासक्षमाः वनवासोचिताः क्रिया आरभस्व ॥ २।३०।४२ ॥

ब्राह्मणेभ्य इति । आशंसमानेभ्यः मङ्गलमुच्चारयितृभ्यः भिक्षुकेभ्यो ब्राह्मणेभ्यः रत्नानि उत्तमपदार्थान् भोजनं च देहि सन्त्वरस्व मा चिरं विलम्बं न कुरु ॥ २।३०।४३ ॥

भूषणानीति । ब्राह्मणानां ब्राह्मणसम्प्रदानकदानानामनन्तरं महार्हाणि अतिपूज्यानि क्रीडार्थाः क्रीडामात्रप्रयोजनकाः उपस्कराः सामग्र्यः मम शयनीयादीनि च स्वभृत्यवर्गेभ्यो देहि । श्लोकद्वयमेकान्वयि ॥ २।३०।४४४५ ॥

अनुकूलमिति । आत्मनो गमनं भर्तुरनुकूलं ज्ञात्वा प्रमुदिता सती क्षिप्रं दातुं प्रचक्रमे ॥ २।३०।४६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामाणशिरोमणावयोध्याकाण्डे त्रिंशः सर्गः ॥ २।३० ॥