०२९ सीतायाः वनगमनविज्ञप्तिः

उत्तरग्रन्थसङ्गतिप्रदर्शनाय पूर्वसर्गान्ते उक्तमप्यर्थं वदन्नाह– एतदिति । एतद्वियोगबोधकं रामस्य वचनं श्रुत्वा दुःखिता अत एव अश्रुमुखी अश्रुयुक्तमुखविशिष्टा प्रसक्ता पतिविषयकात्यनुरागविशिष्टा सीता इदमब्रवीत् ॥ २।२९।१ ॥

तद्वचनमेवाह– ये इति । वस्तव्यतां वासं प्रति ये दोषास्त्वया कीर्तिताः तान्गुणानेव विद्धि इति । यतः तव स्नेहपुरस्कृता त्वद्विषयकस्नेहमात्रदर्शनशीलाहमस्मीति शेषः ॥ २।२९।२ ॥

मृगा इति । तव अदृष्टपूर्वरूपत्वाददृष्टपूर्वं रूपं स्वरूपं यैः तेषां भावः तस्माद्धेतोः ते त्वत्परिगणिताः सर्वे मृगादयः तव रूपं दृष्ट्वा अपसर्पेयुः तत्र हेतुः यतः सर्वे बिभ्यति अपूर्वरूपं दृष्ट्वेति शेषः । तत्र शरभाः अष्टपादवन्तो मृगविशेषाः सृमराः गवायाः । श्लोकद्वयमेकान्वयि ॥ २।२९।३४ ॥

त्वयेति । गुरुजनाज्ञया आर्थिकत्वत्पित्राद्याज्ञया इह जीवितमेतल्लोके स्थितिः ॥ २।२९।५ ॥

नेति । हे राघव सुराणां देवानामीश्वरः शक्रः इन्द्रो ऽपि प्रधर्षयितुं पराभवितुं न शक्तः ॥ २।२९।६ ॥

पतिहीनेति । पतिहीना पतिवियोगविशिष्टा नारी जीवितुं न शक्ष्यति अतः हे राम एवंविधं त्वद्वियोगे ऽपि स्थितिकारकं मम काममिछाविषयीभूतं वस्तु न निदर्शितम् । नकार उभयान्वयी । किञ्च एवंविधं सहगमननिवारकवचनं मम कामं कस्य सुखस्य अमो गमनं यस्मात् दुःखदमित्यर्थः निदर्शितं कथितम् । किञ्च एवंविधमुक्तप्रकारकं मया कामं मदिच्छाविषयीभूतं वस्तु त्वयैव निदर्शितं कौशल्याप्रार्थनासमये उक्तम् ॥ २।२९।७ ॥

स्ववनवासस्यावश्यकत्वं बोधयन्ती आह– अथेति । ब्राह्मणानां सत्यं वच इति शेषः पितृगृहे मया श्रुतम् । किं तदित्यत आह– मे मम वने वस्तव्यं वास इति । च इत्यर्थे ॥ २।२९।८ ॥

लक्षणिभ्य इति । लक्षणिभ्यः शुभाशुभसूचकलक्षणज्ञातृभ्यो द्विजातीभ्यः वचनं वनवासबोधकवाक्यं श्रुत्वा वनवासकृतोत्साहा नित्यमेवाहमस्मीति शेषः ॥ २।२९।९ ॥

आदेश इति । वनवासस्य आदेशः त्वत्कर्तृकाज्ञापनं मया प्राप्तव्यः अतः सा भवदाज्ञप्ताहं त्वया सह यास्यामि अन्यथा न भविष्यतीति शेषः । एतेन ब्राह्मणवचनं त्वया अन्यथा न कर्तव्यमिति सूचितम् ॥ २।२९।१० ॥

मर्यादापालकत्वाद्भवदाज्ञावश्यं भविष्यतीत्याह कृतेति । कृतादेशा कृत आदेश आज्ञा यस्यै साहं भविष्यामि अत एव त्वया सह गमिष्यामि अत एव द्विजः सत्यवाक् भवतु ॥ २।२९।११ ॥

वनेति । अकृतात्मभिः अजितेन्द्रियैः दुःखानि प्राप्यन्ते तेनावयोर्दुःखं न भवितेति सूचितं तेन तयोरिन्द्रियानधीनत्वं व्यक्तम् ॥ २।२९।१२ ॥

सिंहावलोकन्यायेन प्रमाणान्तरमप्याह– कन्ययेति । शमवृत्तायाः शमदमादिसम्पन्नायाः भिक्षिण्याः कन्ययोक्त इति शेषः । वनवासो मया श्रुतः शमवृत्ताया इत्यनेन तत्कन्योक्तमन्यथा न भवितेति सूचितम् ॥ २।२९।१३ ॥

प्रसादित इति । वनवासस्य वने वासो यस्य स तस्य मुनिसमूहस्य त्वया सह गमनं वनवासिमुनिकर्मकत्वत्साहित्यविशिष्टमत्कर्तृका गतिः काङ्क्षितमेव अत एव बहुतिथमनेकवारं त्वं प्रसादितः मुनिदर्शनार्थं प्रार्थित इत्यर्थः ॥ २।२९।१४ ॥

कृतक्षणेति । गमनं प्रति त्वया सह वनगमनार्थमहं कृतक्षणा जातोत्सवास्मीति शेषः । साहित्ये कारणमाह– वनवासस्य वनं प्राप्तस्येत्यर्थः । शूरस्य तव चर्या अनुचरणं मम रोचते ॥ २।२९।१५ ॥

शुद्धात्मन्निति । प्रेमभावात् रात्रिं दिवं त्वन्निकटवर्तिनीत्वेन प्रवृद्धस्नेहात् भर्तारं त्वामनुगच्छन्ती

अहं विकल्मषा दिवा (?देव) वियोगरूपकल्मषरहिता भविष्यामि । ननु किमर्थं मय्येवमनुरागवाञ्छेत्यत आह– भर्ता त्वमेव मम दैवतं देवता ॥ २।२९।१६ ॥

नन्वपूर्वो निरवच्छिन्नसम्बन्धः किमर्थं प्रार्थ्यते इत्यत आह– प्रेत्येति । प्रकर्षेण ईतिर्जगद्भक्षणं यस्मिन् स प्रेतिः कालः तस्याभावो यस्मिन् साकेतलोके इत्यर्थः । कल्याणः श्रोतृ़णां कल्याणप्रदः त्वया सह मे सङ्गमः सदा नित्यः इति ब्राह्मणानामुच्चारिता श्रुतिर्वेदः श्रूयते श्रुतिश्च कौषीतक्यादौ प्रसिद्धा अत एव सशरीरः सहानुज इत्यादिवक्ष्यमाणं सङ्गच्छते ॥ २।२९।१७ ॥

प्राकृतस्त्रीणामपि पातिव्रतधर्मस्वीकारे नित्यः पतिसङ्गमो भवतीत्याह– इहेति । यस्य पुरुषस्य या स्त्री पितृभिर्दत्ता सा स्वधर्मेण पातिव्रतधर्मेण प्रेत्यभावे नित्यलोके तस्य पत्युः नित्यसंयोगे लभत इति शेषः ॥ २।२९।१८ ॥

एवमिति । एवमनेन प्रकारेण सुवृत्तां शोभनवृत्तान्तविज्ञापनकर्त्रीं स्वकां स्वकीयां पतिव्रतां नारीं मामस्मात्पुरान्नेतुं केन हेतुना नेच्छसि तं वदेति तात्पर्यम् ॥ २।२९।१९ ॥

भक्तामिति । सुखदुःखयोः सुखं कुबेरादीनां राज्यादिभोगानन्दः दुःखमिव याभ्याम् तयोः रावणकुम्भकर्णयोरित्यर्थः । दीनां विध्वंसिकां भक्तां त्वत्प्रीत्यनुकूलव्यापारवतीं समां प्रशस्तकुलादिमत्त्वेन त्वत्सदृशीं पतिव्रतामत एव समानसुखदुःखिनीं मां नेतुमर्हसि । सुखदुःखयोर्दीनामित्यनेन तद्वधे ऽहं निमित्तं भवितास्मीति ध्वनितम् । अन्तर्भावितणिजर्थत्वेन निमित्तं भवितास्मीति ध्वनितम् । अन्तर्भावितणिजर्थत्वेन दीङः सकर्मकत्वं, तत्कर्माविवक्षया कर्तरि निष्ठा, तदनन्तरं कर्मसमभिव्याहारः । प्रसिद्धश्चायं पन्थाः प्रत्युदाहृतकृतपूर्वीकटमित्यादिना भाष्ये ॥ २।२९।२० ॥

यदीति । मृत्युकारणान्मृत्युसदृशदुःखहेतोः विषादिकमास्थास्ये तत्तद्भक्षणादिविषयकनिश्चयं करिष्ये विषभक्षणादिजनितपीडया वियोगदुःखाल्पता भवितेति तात्पर्यम् ॥ २।२९।२१ ॥

एवमिति । सा सीता महाबाहुः रामः नानुमेने अनुमतिं न चकार तेन प्रणयकोपसूचकवचःशुश्रूषाव्यक्ता ॥ २।२९।२२ ॥

एवमिति । चिन्तां समुपागता प्राप्ता अत एव उष्णैः अश्रुभिः गां पृथ्वीं स्नापयन्ती इव आसेति शेषः ॥ २।२९।२३ ॥

चिन्तयन्तीमिति । चिन्तयन्तीं सहगमनोपायं विचारयन्तीं क्रोधाविष्टां प्रणयकोपविशिष्टां वैदेहीं निवर्तयितुं कोपं दूरीकर्तुं सान्त्वयन्सन्नासेति शेषः ॥ २।२९।२४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकोनविंशः सर्गः ॥ २।२९ ॥