रामवचनश्रवणानन्तरकालकिं जाकीवृत्तं वर्णयितुमाह– एवमिति । प्रणयात्स्नेहादेव हेतोः सङ्क्रुद्धा स्नेहकारणफलकक्रोधवती वैदेही इदमब्रवीत् ॥ २।२७।१ ॥
तद्वचनमेवाह– किमिति । हे नरवरोत्तम राम यत् श्रुत्वा त्वया वक्त्रा सह मे अपहास्यमपहासास्पदं में लघुतया विशिष्टं मल्लघुताफलकमित्यर्थः । अत एव अध्रुवमनिश्चितं यद्वाक्यं तदिदं त्वं किं किमर्थं भाषसे एतेनैवं न वक्तव्यमिति सूचितम् ॥ २।२७।२ ॥
वीराणामिति । त्वयेरितमिदानीं कथितं राजपुत्राणामनर्हमयोग्यमत एव अयशस्यं यशोनिवर्तकमित्यर्थ अत एव न श्रोतव्यम् ॥ २।२७।३ ॥
वचनस्यानर्हत्वं साधयन्ती आह– आर्येत्यादिभिः । हे आर्यपुत्र पित्रादयः स्वानि पुण्यानि कर्मफलानि भुञ्जानाः सन्तः स्वं स्वं भाग्यं कर्म उपासते कुर्वते ॥ २।२७।४ ॥
भर्तुरिति । हे पुरुषर्षभ एका केवलं नारी तु भर्तुः भाग्यं भर्तृकृतकर्मफलं प्राप्नोति भुङ्क्ते अतः भर्तृकृतकर्मफलभोक्रीत्वाद्धेतोः अहमपि आदिष्टा त्वत्कर्मकाज्ञापनेनैवाज्ञप्ता इति हेतोः मयापि वने वस्तव्यं मयेत्यध्याहृतम् । एतेन पित्राद्यनाज्ञप्तामिमां कथं नेष्यामीति सङ्कोचस्त्वया न कार्यं इति ध्वनितम् एतेन मयापि तदाज्ञा नोल्लङ्घनीयेति सूचितम् ॥ २।२७।५ ॥
नेति । पित्रादिर्गतिर्न पतिरेव एको मुख्यो गतिः सर्वनाम्नामुद्देश्यविधेयान्यतरलिङ्गतेति पुंस्त्वम् । आत्मा स्वकीयमात्रयत्नः ॥ २।२७।६ ॥
यदीति । हे राघव यदि त्वमद्यैव दुर्गं वनं प्रस्थितः तदापि कुशादीन्मृद्गन्ती स्वपद्भ्यां मर्दयन्ती अहं ते अग्रतो गमिष्यामि एतेन गमने स्वविलम्बाभावः सूचितः ॥ २।२७।७ ॥
अज्ञातस्वापराधं क्षमापयन्ती आह– इर्ष्यामिति । भुक्तशेषमुच्छिष्टं जलमिव ईर्ष्यादिकं बहिष्कृत्य त्यक्त्वा विस्रब्धः मयि कृतविश्वासस्त्वं मां नय । ज्ञातापराधस्य तु न सम्भव इत्याह– मयि पापमपराधः ॥ २।२७।८ ॥
त्वया सह गमनमेव मम श्रेय इति बोधयन्ती आह– प्रासादेति । प्रासादाग्रैः उत्तमप्रासादस्थितिभ्यः विमानैः वैहायसगतेन आकाशगमनाच्च सर्वावस्थागता सर्वावस्थासु आगता विधिप्राप्ता भर्तुः पादच्छाया पादसेवनमित्यर्थः । विशिष्यते अतिश्रेष्ठेत्यर्थः । पूर्वोत्तरयोस्तृतीया पञ्चम्यर्थे ॥ २।२७।९ ॥
ननु त्वया इदं कथं ज्ञातमित्यत आह– अनुशिष्टेति । विविधाश्रयमनेकदृष्टान्तविशिष्टमनेकवारं वानुशिष्टा शिक्षितास्मि अतः सम्प्रति इदानीं न वक्तव्या पतिसेवाविषये उपदेष्टव्या भवतेति शेषः । अतः यथा यथावद्वर्तितव्यम् तव सेवायामिति शेषः ॥ २।२७।१० ॥
अहमिति । पुरुषवर्जितं भृत्यादिरहितं यथा स्यात्तथा गमिष्यामि ॥ २।२७।११ ॥
तत्र क्लेशशङ्कापि न कर्तव्येत्याह– सुखमिति । पितुर्भवने इव निवत्स्यामि त्रीन् लोकांस्तदाधिपत्यमित्यर्थः । अचिन्तयन्ती अगणयन्ती पतिव्रतं पतिसेवारूपधर्मं चिन्तयन्ती ध्यायन्ती ॥ २।२७।१२ ॥
शुश्रूषमाणेति । ब्रह्मचारिणी वेदविहितव्रतपरायणा रंस्ये विहरिष्ये मधुगन्धिषु पुष्परसागन्धविशिष्टेषु किञ्च क्षौद्रगन्धविशिष्टेषु “मधु मद्यं मधु क्षौद्रं मधु पुष्परसं विदुः” इत्यनेकार्थः । एतेन वनगमनविषयकः उत्साहो व्यञ्जितः ॥ २।२७।१३ ॥
त्वमिति । अन्यस्य स्वनिरूपितस्त्रीत्वादिधर्मरहितस्य ॥ २।२७।१४ ॥
मद्गमननिवृत्तिवार्ता न वक्तव्येति बोधयन्ती आह– सेति । उद्यता वनगमनोद्योगं कुर्वती अहं निवर्तयितुं न शक्या ॥ २।२७।१५ ॥
ननु त्वदुद्देश्यकभोजनाद्युद्योगेन मम श्रमः स्यादित्यत आह– फलेति । फलमूलाशना स्वार्जितफलमूलभोजना भविष्यामि अतः ते दुःखं श्रमजनितखेदं न करिष्यामि उत्पादयिष्यामि ॥ २।२७।१६ ॥
अग्रत इति । ते गमनविशिष्टस्य तव अग्रतः अग्रे गमिष्यामि भुक्तवति कृतभोजने त्वयि सति भोक्ष्ये । अर्धं पृथक्– इच्छामीति । पल्वलानि अल्पसरांसि सरांसि महातडागांस्त्वया सह निर्भीताहं द्रष्टुमिच्छामि । अर्धद्वयमेकान्वयि ॥ २।२७।१७ ॥
हंसेति । हंसाश्च कारण्डवा जलकुक्कुटाश्च तैराकीर्णा व्याप्ताः पद्मिनीः कमलिनीः त्वया सह द्रष्टुमिच्छेयं त्वा त्वामनुव्रताहमभिषेकं स्नानं करिष्यामि पद्मिनीयुक्तजलेष्विति शेषः । सार्धश्लोक एकान्वयी ॥ २।२७।१८,१९ ॥
सहेति । हे विशालाक्ष एवमनेन प्रकारेण त्वया सह अहं रंस्ये एवमेतादृशरमणप्रकारेण व्यतिक्रमं व्यतीतं वर्षसहस्राणां शतमपि न वेत्स्यामि स्वर्गः सुखविशेषः एवमेतत्सुखसदृशः न मतो ऽभिमतः । तत्र हेतुमाह– स्वर्ग इति । हे राघव अविना सर्वरक्षकेण त्वया विना स्वर्गे ऽपि यदि वासो भविता तदा अहं न रोचये इच्छामि किञ्चित्सुखमिति शेषः । सार्धश्लोकद्वयमेकान्वयि । एवमिति स्थलत्रयान्वयी ॥ २।२७।२०,२१ ॥
उपसंहरन्ती आह– अहमिति । मृगायुतं मृगैर्व्याप्तं वानरवारणैः वानराश्च वारणा हस्तिनश्च तैश्च युक्तमिति शेषः । सुदुर्गमं कातरगमनानर्हं वनं गमिष्यामि वने तस्मिन्कानने तव सम्मता त्वत्सम्मतिविषयीभूता अहं पितुर्गृहे इव निवत्स्यामि प्रथमार्धे अन्त्यपादे वर्णैकन्यूनता अपूर्वच्छन्दोद्योतना यद्यपि “वारणैर्युतम्” इति भूषणटीकाङ्कितपुस्तकेषु दृश्यते तथापि तत्पाठस्य टीकास्पृष्टत्वादेवमुक्तम् “उपगृह्य संयता” इति भूषणपाठः ॥ २।२७।२२ ॥
अनन्येति । अनन्यभावां त्वदतिरिक्तविषयकप्रीतिरहितामत एव अनुरक्तचेतसं त्वद्विषयकपरमानुरागयुक्तचित्तामत एव त्वया वियुक्तां त्वद्वियोगयुक्तां स्वव्यक्तिमालक्ष्येति शेषः । मरणाय निश्चितां मरणाय एतल्लोकत्यागाय निश्चितां मां नयस्व अतः मन्नयनात्ते गुरुता भारः अगुरुता लघुता वा न भविष्यति ॥ २।२७।२३ ॥
तथेति । तथा तेन प्रकारेण ब्रुवाणां सीतां धर्मवत्सलः धर्मयुक्तवात्सल्यविशिष्टः नृवरो रामः न निनीषति नेतुमिच्छति इति अ न तथापि एनां सन्निवर्तने वनगमनप्रवृत्तिनिवृत्यर्थं वने निवासस्य दुःखितां वनवाससम्बन्धिदुःखं बहु यथा स्यात्तथा उवाच दुःखिशब्दाद्भावे तलू निषेधार्थकाकारलाभस्तु नृवरो निषीदतीत्यत्र त्यौकारात्परं प्रश्लेषात् ॥ २।२७।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे सप्तविंशः सर्गः ॥ २।२७ ॥