कौशल्यावृत्तमुक्त्वा रामवृत्तान्तं वर्णयन्नाह– अभिवाद्येत्यादिभिः । धर्मिष्ठे वर्त्मनि मार्गे स्थितः रामः कौशल्यामभिवाद्य प्रणम्य वनं संप्रस्थितः आसीदिति शेषः ॥ २।२६।१ ॥
मार्गवृत्तान्तं वर्णयन्नाह– विराजयन्निति । राजसुतः नित्यराजसुतत्वाक्रान्तः रामः नरैः रामदर्शनाकाङ्क्षिजनैः वृतं राजमार्गं विराजयन् प्रकाशयन् सन् गुणवत्तया समाधिकरहितगुणविशिष्टत्वेन हेतुना जनस्य हृदयानि आममन्थेव ॥ २।२६।२ ॥
वैदेहीगृहगमनमुपक्रमन्नाह– वैदेहीति । तपस्विनी सर्वविषयकनित्यज्ञानविशिष्टा वैदेही तत्सर्वं सवृत्तगमनं शुश्राव तद्वनगमनमेव तस्याः हृदि आसीदिति शेषः । अत एव राज्याभिषेचनं हृदि नासीत् ॥ २।२६।३ ॥
देवेति । कृतज्ञा देवादिप्रार्थनावेदित्री हृष्टचेतना राजधर्माणामभिज्ञा तत्त्वज्ञात्री सा वैदेही देवकार्यं सूर्याद्याराधनं कृत्वा राजपुत्रं प्रतीक्षते स्म ॥ २।२६।४ ॥
प्रेति । सुविभूषितं प्रहृष्टजनसंपूर्णं प्राप्तानन्दसखीजनविशिष्टं स्ववेश्म स्वकीयं गृहं किंचिद्ध्रिया पित्राद्याज्ञापनमन्तरा इमां कथं सह नेष्यामीति लज्जया अवाङ्मुखः न वाक् वचनं यस्मिन्तन्मुखं यस्य स रामः प्रविवेश ॥ २।२६।५ ॥
अथेति । अथ रामकर्तृकवचनोच्चारणाभावहेतोः वेपमाना सीता समुत्पत्य सम्यगुत्थाय चिन्ताव्याकुलितेन्द्रियं चिन्तया इमां कथं सह नयामीति विचारेण व्याकुलितानि इन्द्रियाणि यस्य तमत एव शोकसंतप्तमुक्तविचारहेतुकशोकाक्रान्तं पतिमपश्यत् । एतेन सीतावियोगासहिष्णुत्वं राघवस्य सूचितम् ॥ २।२६।६ ॥
तामिति । धर्मात्मा परमधर्मप्रवर्तको राघवो रामः तां सीतां दृष्ट्वा तं सीतानयनयुक्त्यभावमूलकसंभावितसीतावियोगजनितं शोकं सोढुं न शशाक ततस्तस्माद्धेतोः विवृततां प्रातीतिकवर्णविशेषविशिष्टत्वं गतः प्राप्तः आसीदिति शेषः ॥ २।२६।७ ॥
रामाभिप्रायविज्ञानहेतुकं सीताप्रश्नं वर्णयन्नाह– विवर्णेति । अमर्षणं वियोगदुःखासहिष्णुं तं रामं दृष्ट्वा दुःखाभिसंतप्ता चेष्टालक्षिततद्दुःखजनितदुःखेनाभिसंतप्ता सीता आह । तद्वचनमेवाह हे प्रभो इदानीमिदं वैवर्ण्यादिकं किं कथम् ॥ २।२६।८ ॥
अद्येति । हे राघव अद्येदानीं बार्हस्पतः बृहस्पतिदेवताकः श्रीमान् कर्मारम्भकर्तृ़णां सकसलमृद्धिप्रापकः अत एव युक्तः अभिषेकयोग्यः पुष्यः प्राज्ञैर्ब्राह्मणैः प्रोच्यते कथ्यते हर्षकालो ऽयमिति तात्पर्यम् त्वं तु केन हेतुना दुर्मना असि ॥ २।२६।९ ॥
नेति । शतशलाकेन शलाकाशतविशिष्टेन जलफेननिभेन जलवृत्तिफेनसदृशेन सादृश्यं च श्वेतत्वेन छत्रेण आवृतं वल्गु सुन्दरं वदनं न विराजते अत्र हेतुं वदेति तात्पर्यम् एवमुत्तरेष्वपि तात्पर्यं बोध्यम् ॥ २।२६।१० ॥
व्यजनाभ्यामिति । चन्द्रहंसप्रकाशाभ्यां मुख्याभ्यां च चक्रवर्तिमात्रवृत्तिभ्यां व्यजनाभ्यां चामराभ्यामित्यर्थः । शतपत्रनिभे कमलसदृशे ईक्षणे नेत्रे यस्मिंस्तत्तवाननं न वीज्यते ॥ २।२६।११ ॥
वाग्मिन इति । वाग्मिनः चतुराः ॥ २।२६।१२ ॥
नेति । क्षौद्रं मधुमूर्धाभिषिक्तस्य कृतसशिरःस्नानस्य तव मूर्ध्नि विधानतो न ददति स्म ॥ २।२६।१३ ॥
न त्वामिति । श्रेणीमुख्याः परिषत्प्रधानाः पौरजानपदाः प्रकृतयः प्रजाः ॥ २।२६।१४ ॥
चतुर्भिरिति । वेगसंपन्नैः अतिवेगविशिष्टैः हयैर्युक्तः मुख्यः श्रेष्ठः पुष्परथः प्रचुरपुष्पभूषितरथविशेषः किं न गच्छति ॥ २।२६।१५ ॥
नेति । सर्वलक्षणपूजितः सर्वसल्लक्षणसंपन्नः कृष्णमेघगिरिप्रभः कृष्णमेघकृष्णगिर्युभयसदृशः श्रीमान् सर्वसंपत्तिहेतुः हस्ती प्रयाणे न लक्ष्यते ॥ २।२६।१६ ॥
नचेति । काञ्चनचित्रं स्वर्णमयचित्रविशिष्टं भद्रासनं कल्याणहेतुभूतासनविशेषं पुरस्कृत्य हस्ताग्रे धृत्वा यान्तं पुरस्सरं भृत्यविशेषं न पश्यामि ॥ २।२६।१७ ॥
अभिषेक इति । तवाभिषेको यथा यथावदिदानीमसज्जः न सज्जते प्रसङ्गं न प्राप्नोतीत्यर्थः । इदं यथावत्प्रसङ्गाप्रापणं किं किमर्थमित्यर्थः ॥ २।२६।१८ ॥
इतीवेति । इतीव अनेन प्रकारेण विलपन्तीं विविधपृच्छन्तीं तां सीतां रघुनन्दनः प्रोवाच । तद्वचनमेवाह– हे सीते तत्रभवान् पूज्यस्तातः पिता मां वनं प्रव्राजयति । अत्रभवत्तत्रभवच्छब्दौ पूज्यार्थौ इति हलायुधे स्पष्टम् ॥ २।२६।१९ ॥
प्रव्राजनमेव सकारणमाह– कुले इत्यादिभिः । येन हेतुना अद्य मम आगतमिहागमनं तत्क्रमेण श्रृणु । गतं तिरश्चीनमनूरुसारथेरितिवत् षष्ठी ॥ २।२६।२० ॥
राज्ञेति । महावरौ वरे महत्वं त्वनिवार्यत्वेन ॥ २।२६।२१ ॥
तयेति । नृपस्य उद्यतः उद्योगो यस्मिन् तस्मिन्नभिषेके सज्जे प्रसक्ते सति स समयः समयेन त्वद्याचितमवश्यं दास्यामीति शपथेन सहितः धर्मेण प्रतिनिर्जितः धर्मवशीभूतः अतिधर्मनिष्ठ इत्यर्थः । मम पिता तया लब्धवरया केकय्या प्रचोदितः प्रार्थित इत्यर्थः । आसीदिति शेषः । “समयाः शपथाचारकालसिद्धान्तसंविदः” इत्यमरः ॥ २।२६।२२ ॥
तत्प्रार्थनमेवाह– चतुर्दशेति । यौवराज्ये यौवराज्यसदृशे पालने इत्यर्थः ॥ २।२६।२३ ॥
स इति । विजनं सज्जनसहितं वनं प्रस्थितः सः पित्राज्ञप्तो ऽहं त्वां द्रष्टुमागतः तेन मत्प्रव्रजनेन हेतुना भरतस्य समीपे कदाचन समये ऽहं कथ्यः श्लाघनीयः मद्गुणवर्णनं कर्तव्यमित्यर्थः । तेन मद्वियोगजनितातिदुःखं भरतस्य न भविष्यतीति सूचितं तेन रामगुणानां सर्वतापशामकत्वं व्यञ्जितम् ॥ २।२६।२४ ॥
ननु प्राप्ताधिकारत्वाद्भरतो ऽपि प्रशंसनीय इत्यत आह– ऋद्धीति । मम ऋद्धियुक्ताः मत्प्रसादप्राप्तैश्चर्याः पुरुषाः परस्तवं स्वकीयातिस्तुतिं न सहन्ते तस्माद्धेतोर्भरतस्य गुणाः अग्रतः भरतसमीपे न कत्थ्याः न श्लाघनीयाः ॥ २।२६।२५ ॥
अहमिति । तेन पूर्वोक्तहेतुना कदाचन भरतागमनसमये अहं विशेषेण सर्वविशिष्टत्वेन रूपेण अनुवक्तव्यः कथनीयः तस्य प्रतिकूलं नाचरणीयमित्याह– तस्य भरतस्य समीपे अनुकूलतया वर्तितुं शक्यं त्वयेति शेषः । “अहं ते नानुवक्तव्यो विशेषेण कदाचन” इति प्राचीनः पाठः । कतकेन दर्शित इति भट्टाः ॥ २।२६।२६ ॥
अनुकूलवर्तने हेतुं वदन्नाह– तस्मै इति । तस्मै भरताय यौवराज्यं यौवराज्यसदृशं सः यौवराज्यसदृशदाता ॥ २।२६।२७ ॥
अहमिति । स्थिरीभव मद्वियोगहेतुकानवस्थितिं न प्राप्नुहीत्यर्थः ॥ २।२६।२८ ॥
यात इति । याते गते सति ॥ २।२६।२९ ॥
कल्यमिति । कल्यं प्रातः न नरेश्वरो राजा ॥ २।२६।३० ॥
मातेति । वृद्धा ज्ञानवयोभ्यामधिका संतापकर्षिता मद्वियोगहेतुकसंतापं प्राप्ता धर्ममेवाग्रतः कृत्वा अनुसृत्येत्यर्थः सन्मानं सत्कृतिम् ॥ २।२६।३१ ॥
वन्दितव्या इति । शेषाः कौशल्यातिरिक्ताः वन्दितव्याः । तत्र हेतुः मम स्नेहप्रणयसंभोगैः स्नेहः अतिप्रीतिः प्रणयो ऽतिसौहार्दं भोगः पालनं तैः समाः कौशल्यासदृश्यः “प्रणयः स्यात्परिचये याच्ञायां
सौहृदे ऽपि च । भोगे राजधने सौख्ये पालनाभ्यवहारयोः” इति वैजयन्ती ॥ २।२६।३२ ॥
भ्रात्रिति । मम प्राणैः प्रियतरौ भरतशत्रुघ्नौ भ्रातृपुत्रसमौ त्वया द्रष्टव्यौ ॥ २।२६।३३ ॥
विप्रियमिति । विप्रियं विरुद्धं नैव कर्तव्यम् । तत्र हेतुः राजा च पालकत्वेन राजसदृशः । च इवार्थे ॥ २।२६।३४ ॥
जानकीसमीपवर्तिजनान्शिक्षयन्नाह– आराधिता इति । शीलेन तदनुकूलस्वाचरणेन आराधिताः स्वेप्सितधर्मपालकत्वसिद्धिं प्राप्ताः प्रयत्नैः तदपेक्षितसाधकव्यापारैः उपसेविताः तद्व्यापारजनितसुखं प्राप्ताः राजानः संप्रसीदन्ति ॥ २।२६।३५ ॥
राजधर्ममाह– औरसानिति । अहितकारिणः पुत्रानपि त्यजन्ति जनान् संबन्धशून्यजन्तूनपि समर्थाननुकूलकारिणः संप्रगृह्णन्ति स्वीकुर्वन्ति ॥ २।२६।३६ ॥
सेति । धर्मे प्रजापालने रता प्रीता भरतस्य समनुवर्तिनी अनुकूला त्वमिहायोध्यायां राज्ञो दशरथस्य समीपे वसे ॥ २।२६।३७ ॥
ननु त्वया सहैव गमिष्यामीत्यत आह– अहमिति । हे प्रिये अहं महावनं गमिष्यामि वने महत्त्वं त्वद्गमनायोग्यत्वेन अतस्त्वया इहैव वस्तव्यम् । इह वासे हेत्वन्तरमपीत्याह– यथा येन प्रकारेण व्यलीकमप्रियं कस्यचिन्मत्पित्रादेः न कुरुषे तथैव त्वया कार्यम् सदैवेति शेषः । इदं मम वचः उक्तिः एतेन त्वद्गमने मत्पित्रादीनां दुःखाधिक्यं भविष्यतीति सूचितं तेन त्वत्कर्तृकगमनमनुचितमिति सूचितम् ॥ २।२६।३८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे षड्विंशः सर्गः ॥ २।२६ ॥