तद्वचनमेवाह– सेति । सा कौशल्या तं निश्चितवियोगजनितमायासं दुःखं विनीय विचारेण दूरीकृत्य मङ्गलानि चकार ॥ २।२५।१ ॥
नेति । हे रघूत्तम इदानीं वारयितुं गमनमिति शेषः । न शक्यते अतः गच्छ अतः सतां महात्मनां क्रमे मार्गे महात्माचरितप्रतिज्ञापालने वर्तस्व शीघ्रं विनिवर्तस्व च वनादिति शेषः ॥ २।२५।२ ॥
यमिति । राघवशार्दूल रघुवंशिश्रेष्ठ अभिरक्षतु विघ्नान् विनाशयतु इत्यर्थः ॥ २।२५।३ ॥
येभ्य इति । हे पुत्र देवेषु कान्तिमत्सु आयतनेषु गृहेषु येभ्यः प्रणमसे ते देवाः महर्षिभिः सह सहितं त्वां वने अभिरक्षन्तु “चैत्येषु” इति भूषणपाठः । महर्षिभिः सह देवा अभिरक्षन्त्वित्यन्वयो वा ॥ २।२५।४ ॥
यानीति । सदा नित्यं गुणैः समुदितं प्रकाशितम् ॥ २।२५।५ ॥
पित्रिति । शुश्रूषया सेवया सत्येन चाभिरक्षितस्त्वं चिरं जीव पालय प्रजा इति शेषः । अन्तर्भावितणिजर्थः ॥ २।२५।६ ॥
समिदिति । समिदादयः तत्तदन्तर्यामिण इत्यर्थः । तत्र क्षुपाः ह्रस्वशाखावन्तो वृक्षविशेषाः “ह्रस्वशाखाशिफः क्षुपः” इत्यमरः पतङ्गाः पक्षिणः पन्नगाः सर्पाः त्वां रक्षन्तु । सार्धश्लोक एकान्वयी ॥ २।२५।७ ॥
स्वस्तीति । महर्षिभिः सह स्वस्ति कुर्वन्तु इति शेषः ॥ २।२५।८ ॥
स्वस्तीति । धाता दक्षादिः विधाता ब्रह्मा करोतु कुर्वन्तु इति शेषः ॥ २।२५।९ ॥
ऋतव इति । ऋतवो वसन्तादयः मासाः चैत्रादयः संवत्सराः प्रभवादयः क्षपाः रात्रयः मुहूर्ताः गिरिशादयः ॥ २।२५।१० ॥
धृतिरिति । धृतिर्धैर्यं स्मृतिः स्मरणं धर्मः श्रुतिस्मृतिविहितः स्कन्दः कार्तिकेयः सोमः उमासहितः देवो महादेवः ॥ २।२५।११ ॥
सप्तर्षय इति । हे पुत्र मया स्तुताः सप्तर्ष्यादयः नित्यशः पान्तु । सार्धश्लोक एकान्वयी ॥ २।२५।१२ ॥
शैला इति । शैलाः अद्रयः वनमाश्रितं त्वां पान्तु । अर्धचतुष्टयमेकान्वयि ॥ २।२५।१३,१४ ॥
ऋतव इति । षट् षट्संख्याका ऋतवः ऋत्ववयवीभूताधिकमासे दिनाभिमानिदेवताः मासा अधिकचैत्रादिमासदेवताः संवत्सराः त्रयोदशमासात्मकवर्षाभिमानिदेवताः । किंच अन्ये सौरत्वादिभेदेन पूर्वतो भिन्नाः ऋत्वादयः कलादयश्च महावने विचरतः तव शर्म कल्याणं दिशन्तु ददतु । सार्धश्लोक एकान्वयी ॥ २।२५।१५,१६ ॥
तवेति । आदित्याः देवताः दैत्याश्च तव सुखदा भवन्तु । अर्धं पृथक्– राक्षसानामिति । राक्षसादीनां भयं ते माभूत् । अर्धद्वयमेकान्वयि ॥ २।२५।१७ ॥
प्लवगा इति । गहने निबिडे कानने वने प्लवगा प्लवेन उत्प्लुत्यागच्छन्ति ते मण्डूकजातिविशेषादय इत्यर्थः । वृश्चिकादयश्च तव समीपे मा भूवन् । सार्धश्लोक एकान्वयी ॥ २।२५।१८,१९ ॥
महिषा इति । महिषादयो न द्रुह्यन्तु । अर्धं पृथक्– नृमांसेति । अन्ये उक्तातिरिक्ताः सर्वजायतः क्रूरा इति शेषः । मया संपूजिताः प्रार्थिताः ॥ २।२५।२० ॥
आगमा इति । आगमाः आगमनानुकूलव्यापाराः शिवाः मङ्गलविशिष्टा विजयपूर्वका इत्यर्थः । सन्तु पराक्रमाः सिध्यन्तु सफला भवन्तु ॥ २।२५।२१ ॥
सर्वसंपत्तय इति । सर्वसंपत्तयः अपेक्षितसामग्र्यः प्राप्नुवन्तु इति शेषः । अन्तरिक्षादिभ्यः ये ते परिपन्थिनः शत्रवस्तेभ्यश्च स्वस्ति अस्तु । सार्धश्लोक एकान्वयी ॥ २।२५।२२ ॥
शुक्र इति । शुक्रादयः पान्तु अर्धद्वयमेकान्वयि ॥ २।२५।२३ ॥
अग्निरिति । उपस्पर्शनकाले अस्पृश्यस्पर्शनसमये अग्न्यादयः ऋषिमुखच्युताः महात्मोपदिष्टाः मन्त्राश्च त्वां पान्तु ॥ २।२५।२४ ॥
सर्वेति । ब्रह्मा साकेतलोकस्थः अतः पूर्वोक्तविधातेत्यनेन न पौनरुक्त्यं शिष्यते इति शेषाः नित्या इत्यर्थः सुराः साकेतलोकस्था इत्यर्थः ॥ २।२५।२५ ॥
इतीति । अनुरूपाभिः स्वयोग्याभिः ॥ २।२५।२६ ॥
ज्वलनमिति । ज्वलनमग्निं समुपादाय ग्राहयित्वा मङ्गलकारणान्मङ्गलहेतोः ब्राह्मणेन हावयामास ॥ २।२५।२७ ॥
हावनप्रकारमाह– घृतमिति । घृतादीनुपसंपादयामास ब्राह्मणसमीपं प्रापयामास ॥ २।२५।२८ ॥
उपाध्याय इति । शान्तिमभिभवकारकविघ्नराहित्यमनामयं रोगराहित्यं च उद्दिश्येति शेषः हुत्वा बाह्यं होमस्थानाद्बहिर्भागयोग्यं बलिं विहितलोकपालादिपूजामकल्पयत् ॥ २।२५।२९ ॥
मध्विति । मध्वादिभिः सहितान्स्वस्तिवाच्यद्विजान् स्वस्तिवचनार्हब्राह्मणान् वने स्वस्त्ययनक्रियां वनविषयकस्वस्तिबोधकवाक्यमित्यर्थः । वाचयामास “जल्पतिप्रभृतीनाम्” इति कर्मत्वम् ॥ २।२५।३० ॥
तत इति । तस्मै हवनकर्त्रे काम्यां तदीप्सितां दक्षिणां प्रददौ राघवं राममब्रवीच्च ॥ २।२५।३१ ॥
तद्वचनमेवाह– यदिति । यद्यादृशं मङ्गलं विजय इत्यर्थः । वृत्रनाशे वृत्रासुरवधसमये सर्वदेवनमस्कृते सहस्राक्षे इन्द्रे समभवत्तत्तादृशं मङ्गलं ते भवतु ॥ २।२५।३२ ॥
यदिति । सुपर्णस्य गरुडस्य विनता गरुडमाता प्रार्थयानस्य प्रार्थयमानस्य आगमशास्त्रस्यानित्यत्वान्मुगभावः ॥ २।२५।३३ ॥
अमृतेति । अमृतस्य उत्पादनमुत्पत्तिर्यस्मिन्समये तस्मिन्समये वज्रधरस्य इन्द्रस्य यन्मङ्गलमदितिः प्रादात्तन्मङ्गलं ते भवतु ॥ २।२५।३४ ॥
त्रीति । त्रिविक्रमान्वारत्रयपादविक्षेपान्प्रक्रमतः कुर्वतः तन्मङ्गलं ते भवतु ॥ २।२५।३५ ॥
ऋषय इति । ऋष्यादयः दिशन्तु ददतु ॥ २।२५।३६ ॥
इतीति । दुःखवशवर्तिनी वियोगजनितदुःखाक्रान्तापि वाचा प्रहृष्टा वचनज्ञाप्यप्रहृष्टात्वविशिष्टैव कौशल्या इति अनेन प्रकारेणैव शेषानक्षतान्पुत्रस्य शिरसि शिरएकदेशे मस्तके इत्यर्थः । कृत्वा अक्षतैरलङ्कृत्येत्यर्थः गन्धैः अनेकविधचन्दनैः रामं समालभ्य विलिप्य सुसिद्धार्थां सुसिद्धः परीक्षितः अर्थो यस्याः तां रिपुबाणभेदनकर्त्रीमित्यन्वर्थसंज्ञावतीमित्यर्थः । विशल्यकरणीमौषधिं रक्षामुद्दिश्य मन्त्रैः चकार हस्ते बबन्धेत्यर्थः । अत एव जजाप मनसि उच्चारयामास मन्त्रानिति शेषः । इव उश्चैवार्थे । शेषा इत्यक्षतनामेति भट्टोदाहृतकतकः । अर्धपञ्चकमेकान्वयि ॥ २।२५।३७३९ ॥
वागिति । संसज्जमानया अत्यासक्तिबोधिकया वाचोपलक्षिता कौशल्या पुत्रमानम्य आघ्राणादि कृत्वा च हे राम इष्टार्थः इष्टः अभीप्सितः अर्थः देवप्रयोजनं यस्य सः त्वं यथासुखं गच्छ इति भावेनातिप्रेम्णा वदद्वाङ्मात्रेण नावदद्यद्यापि निषेधो ऽर्थतः सिद्धस्तथापि स्पष्टप्रतिपत्त्यर्थमिदम् । सार्धश्लोक एकान्वयी ॥ २।२५।४० ॥
अरोगमिति । हे वत्स अरोगं नित्यं रोगरहितं सर्वसिद्धार्थं प्राप्तसकलेप्सितमयोध्यामागतं प्राप्तं राजवर्त्मसु संधितमास्थावन्तं त्वां सुखं यथा स्यात्तथा पश्यामि । सार्धश्लोक एकान्वयी ॥ २।२५।४१ ॥
मङ्गलैरिति । उपसंपन्नः सम्यक् प्राप्तः त्वं याहि अत एव वनवासादिह अयोध्यायामागतः प्राप्तः त्वं मम वध्वाः कामान्संवर्ध अनुदात्तेत्वप्रयुक्तात्मनेपदस्यानित्यत्वात्परस्मैपदम् । अर्धद्वयमेकान्वयि ॥ २।२५।४२ ॥
मयेति । हे राघव मया अर्चिताः पूजिताः देवगणादयः वनमभिप्रयातस्य ते हितानि काङ्क्षन्तु ॥ २।२५।४३ ॥
अतीवेति । अश्रुप्रतिपूर्णलोचना सा कौशल्या स्वस्त्ययनं यथाविधि समाप्य राघवं रामं प्रदक्षिणं चकार पुनः पुनः निरीक्ष्य सस्वजे च मातृप्रदक्षिणकरणेन पुत्राभीष्टसिद्धिरिति धर्मशास्त्रे प्रसिद्धम् ॥ २।२५।४४ ॥
तयेति । देव्या कौशल्यया कृतप्रदक्षिणः स राघवो रामः मातुश्चरणौ पुनः पुनः निपीड्य तया मातृसेवाजनितया श्रिया शोभया प्रज्वलितः सन् सीतानिलयं जानकीगृहं जगाम ॥ २।२५।४५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे पञ्चविंशः सर्गः ॥ २।२५ ॥