कौशल्यावृत्तान्तमाह– तमिति । निर्देशपालने आज्ञापितकरणे व्यवसितं कृतनिश्चयं तं रामं समीक्ष्य ज्ञत्वा कौशल्या वचः अब्रवीत् ॥ २।२४।१ ॥
तद्वचनमेवाह– अदृष्टेति । मयि जातः प्रकटीभूतो रामो भवान् उञ्छेन क्षेत्रादिपतितकणिशग्रहणेन कथं वर्तयेत् वर्तेत ॥ २।२४।२ ॥
यस्येति । यस्य भृत्यादयः मृष्टानि स्वच्छानि भुञ्जते ॥ २।२४।३ ॥
क इति । काकुत्स्थो रामः यद्विवास्यते तच्छ्रुत्वा कः श्रद्दधेत्समीचीनं मन्येत भयं रामगमने कथमत्रत्यानां जीवनमिति कस्यायोध्याजनस्य भीतिर्न भवेत् ॥ २।२४।४ ॥
नूनमिति । हे राम अभिरामस्त्वं यत्र यदर्थं वनं गमिष्यसि स कृतान्तः धर्मध्वंसकर्ता रावणः सर्वमादिशन्स्वाज्ञाविषयीभूतं कुर्वन् सन् लोके इह पृथिव्यां बलवान् इति अहं लोके जाने । एतेन सावधानतया वर्तितव्यमिति सूचितम् । इह पृथिव्यामित्यनेन तवाग्रे वस्तुतो न बलवानिति सूचितम् ॥ २।२४।५ ॥
इदानीं त्वद्वियोगजनितं दुःखं दुःसहमिति बोधयन्ती आह– अयमित्यादिभिः । आत्मभवः मनसि प्रादुर्भूतः अदर्शनं दर्शनाभावः मारुतो वायुर्यस्य सः विलापदुःखं समिधः इन्धनं यस्य सः रुदिताश्रुहुताहुतिः रुदिताशूणि रोदनजन्यनेत्रजलानि हुता प्रक्षिप्ता आहुतिर्यस्य सः चिन्ताबाष्पः चिन्तनोष्मा महाधूमो यस्य सः आगमनचिन्तजः अतिदुःखसम्पादकदूरदेशगमनोत्तरं कथमयमागमिष्यतीति चिन्तनजनितः निःश्वासायासेन संभवो वृद्धिर्यस्य अत एव अतुल इयत्तां कर्तुमशक्यः अत एव महान् शोकाग्निः त्वया विहीनां मां मां राज्यलक्ष्मीं च अधिकं यथा स्यात्तथा कर्षयित्वा क्लेशतां प्रापय्य प्रधक्ष्यति अत एव मामित्यनयोर्न पौनरुक्त्यं हिमात्यये हिमध्वंससमये चित्रभानुर्वह्निः सूर्यो वा कक्षं यथाचिन्तज इति बाहुलकाद्घ्रस्व इति भट्टाः “अदर्शनचिन्तजः” इति पाठे ऽपि अदर्शनजातचिन्ताजनित इत्यर्थः । परे त्वदर्शनस्य मारुतत्वेन निरूपणात्स चिन्त्य इत्याहुरिति भट्टाः । वस्तुतस्त्वेवं पाठे आदर्शनमिति छेदः आदर्शनं नित्यदर्शनं कदा स्यादिति चिन्ताजनित इत्यर्थः । श्लोकत्रयमेकान्वयि ॥ २।२४।६८ ॥
शोकाभावे उपायं वदन्ती आह– कथमिति । कथंशब्दो यथार्थकः क्वचित्तथैव पाठ इति भट्टाः । त्वा त्वामनुगमिष्यामि “नानुगच्छन्ति” इति पाठे तु कथमो न यथार्थत्वम् । तत्रोत्तरार्धादौ तस्मादिति पूरणीयम् ॥ २।२४।९ ॥
मातृवचनश्रवणानन्तरकालिकवृत्तमाह– यथेति । मात्रा निगदितं कथितं यथा यथावच्छ्रुत्वा भृशदुःखितां निश्चितवियोगजनितदुःखाक्रान्तां मातरमब्रवीत् ॥ २।२४।१० ॥
तद्वचनमेवाह– कैकेय्येति । अवञ्चितः वञ्चनकर्तृत्वाभाववान् कैकेय्या सहितो राजा मयि अरण्यमाश्रिते गते सति भवत्या परित्यक्तः मद्वियोगहेतुत्वबुद्ध्या प्रीतिविषयत्वाभाववान् यदि स्यादिति शेषः । तदा न वर्तयिष्यति प्रजापालनं न करिष्यतीत्यर्थः । एतेन प्रीतिरेव कर्तव्येति सूचितम् ॥ २।२४।११ ॥
तत्र हेतुं वदन्नाह– भर्तुरिति । भर्तुः परित्यागः केवलं नृशंसः क्रूरतैव अतो विगर्हितो निन्दितः स त्यागो भवत्या मनसापि न कर्तव्यः नृशंसशब्दो भावप्रधानः ॥ २।२४।१२ ॥
यावदिति । ककुत्स्थवंशोद्भवः पिता यावज्जीवति इह प्रजाः पालयति तावच्छुश्रूषा क्रियताम् । एतेन तेन सह त्वया न गन्तव्यमिति ध्वनितं तेन पितुर्लोकान्तरगमनावश्यकत्वं बोधितं तेन पुत्रसेवार्थं कौशल्या इहैव तिष्ठतु इति राजेच्छा सूचिता तेन रामस्य पित्रभिप्रेतसाधकत्वं ध्वनितम् ॥ २।२४।१३ ॥
एवमिति । अक्लिष्टकारिणं क्लेशकारिपतियोगिकभेदविशिष्टं रामं तथा इत्युवाच ॥ २।२४।१४ ॥
मातृसंतोषपरीक्षणहेतुकं रामवचनं वर्णयन्नाह– एवमुक्त इति । भृशदुःखितां निश्चितवियोगस्मृतिजनितदुःखाक्रान्तां भूपः अब्रवीत् ॥ २।२४।१५ ॥
तद्वचनमेवाह– मयेत्यादिभिः । पितुः वचनं मया भवत्या च कर्तव्यमेव तत्र हेतुः राजा भूपतिः भर्ता सविधि भवत्याः पाणिग्रहीता गुरुः तत्त्वोपदेष्टा श्रेष्ठो महात्मा प्रभुः सकलसामर्थ्यविशिष्टः सर्वेषामीश्वरः पूज्य इत्यर्थः ॥ २।२४।१६ ॥
इमानीति । इमानि पित्राज्ञप्तानि नवपञ्चवर्षाणि विहृत्य विहारं कृत्वा तव वचने आज्ञापिते स्थास्यामि तत्करिष्यामीत्यर्थः । विहृत्येत्यनेन वनगमनस्य स्वप्रीतिविषयीभूतत्वं बोधितं तेन भवत्या विषादो न कर्तव्य इति ध्वनितम् ॥ २।२४।१७ ॥
एवमिति । एवमनेन प्रकारेणोक्ता पुत्रेणेति शेषः । सुतवत्सला सुतविषयकातिवात्सल्यविशिष्टा अत एव परमार्ता अत एव बाष्पपूर्णानना कौशल्या उवाच । एतेन वियोगदुःखस्य दुर्निवारत्वं सूचितम् ॥ २।२४।१८ ॥
तद्वचनमेवाह– आसामिति । आसां त्वद्वियोगहेतुभूतानां सपत्नीनां मध्ये वस्तुं क्षममुचितं न अतः हे काकुत्स्थ पितुः अपेक्षया संतोषहेतुना यदि ते गमने बुद्धिर्निश्चयः तर्हि मामपि वनं नय प्रापय । तत्र दृष्टान्तः वन्यां मृगीमिव । एतेन रामवियोगजन्यं दुःखं सर्वासां भवतीति सूचितं तेन तद्दुःखासहिष्णुत्वं व्यक्तम् । सार्धश्लोक एकान्वयी ॥ २।२४।१९ ॥
तामिति । अरुदन् रोदननिवृत्तिं कुर्वन् सन्नित्यर्थः रामः अब्रवीत् । अर्धं पृथक् ॥ २।२४।२० ॥
तद्वचनमेवाह– जीवन्त्या इति । स्त्रियाः भर्तैव दैवतं देवता प्रभुः सामर्थ्यं च भावप्रधानो निर्देशः । किंच प्रभुः सर्वार्थसंपादनसमर्थः अत एव जीवन्त्याः बहून् जीवयन्त्याः भवत्याः मम च राजैव प्रभुः नियोगे समर्थः एतेन राजनियोगाभाववत्यास्तव गमनमनुचितमिति बोधितम् ॥ २।२४।२१ ॥
ननु त्वां विना अहं कथं स्थास्यामीत्यत आह– नहीति । लोकनाथेन सकलजननियन्त्रा राज्ञा वयं भरतश्च अपिना भवत्यादयः अनाथाः न । एतेन राजकर्तृकगमननियोगाभावाद्दुष्करापि स्थितिः कर्तव्यैवेति ध्वनितम् ॥ २।२४।२२ ॥
त्वादृशः सेवको नास्तीत्यपि नाशङ्क्यमिति बोधयन्नाह– भवतीमिति । स भरतः अनुवर्तेत सेविष्यते इत्यर्थः । अर्धं पृथक्– यथेति । निष्क्रान्ते वनं गते सति श्रमं खेदं किंचिदल्पमपि अप्रमत्ता अनवधानतारहिता । अर्धद्वयमेकान्वयि ॥ २।२४।२३ ॥
दारुण इति । अयं मद्वियोगजनितः शोकः एनं पितरं न विनाशयेल्लोकान्तरगमनहेतुकादर्शनतां न प्रापयेत्तथा तेन प्रकारेण वृद्धस्य ज्ञानवयोभ्यामधिकस्य राज्ञः हितं प्रियं सततं चर कुरु ॥ २।२४।२४ ॥
हिताचरणाभावे दोषमाह– व्रतेति । परमोत्तमा उत्कर्षगुणजात्यादिमत्वेन सर्वोत्कृष्टा अत एव व्रतोपवासनिरतापि या नारी भर्तारं नानुवर्तेत सेवेत सा पापगतिः पापानां पापविशिष्टानां गतिरिव गतिर्यस्याः सा भवेद्भर्तुः शुश्रूषया तु नारी साधारणस्त्री अपि उत्तमं स्वर्गं लभते । सार्धश्लोक एकान्वयी ॥ २।२४।२५,२६ ॥
स्त्रिया देवपूजनादिप्रवृत्तिरपि नावश्यकीति बोधयन्नाह– अपीति । देवपूजनान्निवृत्ता अज्ञानादिना देवाद्याराधनरहिता अत एव निर्नमस्कारा नमस्कारादिक्रियारहिता या नारी भर्तुः प्रियहिते रता सती शुश्रूषामेव कुर्वीत सापि उत्तमं स्वर्गं लभते इति पूर्वेणान्वयः ॥ २।२४।२७ ॥
तत्र हेतुं वदन्नाह– एष इति । एषः पतिशुश्रूषणरूपो धर्मः वेदे लोके च नित्यः श्रुतः अत एव स्मृतः समये स्मृतिविषयीभूतो जातः । अर्धं पृथक् । कालक्षेपणार्थं स्वागमनहेतुत्वेन प्रकल्पितां क्रियामाह– अग्नीति । अग्निकार्येषु द्वादशसु सूर्येषु इत्यर्थः । सुमनोभिः पुष्पैः देवताः पूज्याः सुव्रता ब्राह्मणाश्च पूज्याः एतेन स्वपूजैव परोक्षेण निर्दिष्टा इति व्यक्तम् । अर्धद्वयमेकान्वयि ॥ २।२४।२८ ॥
एवमिति । एवमुक्तपूजनादिना नियता यतचित्ता भर्तृशुश्रूषणे रता सती कालं प्रतीक्षस्व । अत एव मयिपर्यागते सति धर्मभृतां श्रेष्ठः पिता यदि जीवितं सर्वेषां जीवनं धारयिष्यति पालयिष्यतीत्यर्थः । तर्हि परमं कामं स्वेप्सितं प्राप्स्यते पक्षे विशेष्यमात्रे पर्यवसानं सूचितम् । अर्वचतुष्टयमेकान्वयि ॥ २।२४।२९,३० ॥
एवमिति । राममब्रवीत् । अर्धद्वयमेकान्वयि ॥ २।२४।३१ ॥
तद्वचनमेवाह– गमन इति । हे पुत्रक हे वीर गमने सुकृतामतिनिविष्टां ते बुद्धिं निवर्तयितुं न शक्नोपि तत्र हेतुः कालः विजयसमयः दुरत्ययः ॥ २।२४।३२ ॥
गच्छेति । हे पुत्र हे विभो एकाग्रो नियतचित्तः त्वं गच्छ ते तुभ्यं सदा भद्रं कल्याणमस्तु अहं तु त्वयि निवृत्ते वनादागते सति गतक्लमा त्यक्तग्लानिर्भविष्यामि भवितास्मि । अर्धद्वयमेकान्वयि ॥ २।२४।३३ ॥
प्रत्यागते इति । चरितव्रते चरितमाचरितं व्रतं येन तस्मिन्कृतः संपादितः अर्थः प्रतिज्ञाविषयीभूतं वस्तु येन तस्मिन्नत एव पितुः आनृण्यतां प्राप्ते प्रत्यागते इह प्राप्ते महाभागे महाभां राज्यलक्ष्मीमागच्छति प्राप्नोति तस्मिन् त्वयि सति परमं सुखं स्वपिष्ये ॥ २।२४।३४ ॥
कृतान्तस्येति । यद्यस्माद्धेतोः कृतान्तस्य राक्षसानामित्यर्थः गतिर्गमनं दुर्विभाव्या दुर्लक्ष्या तस्माद्धेतोः आविध्य स्वस्त्यादिविधानं कृत्वा मे वचः त्वां संचोदयति गमनाय प्रेरयति । “आच्छिद्य” इति पाठे तु स्वस्त्यादिकरणेन विघ्नान् छित्वेत्यर्थः ॥ २।२४।३५ ॥
गच्छेति । हे महाबाहो इदानीं क्षेमेण मत्कृतमङ्गलवचनहेतुककल्याणेन सहितस्त्वं गच्छ । हे पुत्र आगतः वनादिह प्राप्तः त्वं श्लक्ष्णेन रमणीयार्थेन चारुणा रमणीयवर्णविशिष्टेन साम्ना शान्तिकारकेण वाक्येनेति शेषः । मां नन्दयिष्यसि ॥ २४।३६ ॥
अपीति । यद्यस्मिन् काले वनात्प्रत्यागतं त्वां पश्येयं स कालः इदानीं समीपे एवेत्यर्थः स्यात् भवेत् । वियोगकालस्याधिक्यं न प्रतिभासेतेति तात्पर्यम् ॥ २।२४।३७ ॥
तदेति । वनवासनिश्चितं वनवासविषयकनिश्चवन्तं शुभलक्षणं रामं परमेण सूक्ष्मेण चेतसा विचारेण ददर्श स्वस्त्ययनाभिकाङ्क्षिणी स्वस्त्ययनं कर्तुकामा बभूव अत एव शुभलक्षणं शुभसूचकं वच उवाच ॥ २।२४।३८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे चतुर्विंशः सर्गः ॥ २।२४ ॥