इतीति । इति उक्तप्रकारेण रामे ब्रुवति सत्येव अवाक्शिरा अधोमुखो लक्ष्मणः आशु शीघ्रं ध्यात्वा रामोक्तितात्पर्यं विचार्य दैन्यहर्षयोः पितृकृताभिषेकप्रतिज्ञाभङ्गेन दैन्यं रामेप्सितराक्षसवधादिसान्निध्येन हर्षः तयोर्मध्यमिव सहसा जगाम । इवेन तटस्थजनबोधनायैवमाचरणमिति ध्वन्यते तेन तस्य लोकापवादभीरुत्वं व्यक्तम् । एतेनास्यापि रामेप्सितमेवेप्सितमिति सूचितम् ॥ २।२३।१ ॥
तथेति । तथा नैतत्संमतं रामगमनमिति लोकप्रतीतिकारकत्वप्रकारेण भ्रुकुटी भ्रुवौ बद्धा भ्रुवोर्मध्ये निशश्वास भ्रूमध्याच्छ्वासो ऽगच्छदित्यर्थः । तत्र दृष्टान्तः बिलस्थः बिले निरुद्ध इत्यर्थः । रोषितः सर्प इव ॥ २।२३।२ ॥
तस्येति । दुष्प्रतिवीक्ष्यं कोपबोधकत्वेन वीक्षणानर्हं मुखं बभौ ॥ २।२३।३ ॥
अग्रेति । हस्ती हस्तं शुण्डादण्डमिव अग्रहस्तं दक्षिणकरमित्यर्थः । शरीरे तिर्यगूर्ध्वं यथा स्यात्तथा विधुन्वन्सन् अग्राक्ष्णा अक्ष्यग्रभागेन भ्रातरं वीक्षमाणश्च सन् शिरोधरां पृथ्वीं पातयित्वा अत्यधोमुखीभूयेत्यर्थः अब्रवीत् । सार्धश्लोक एकान्वयी ॥ २।२३।४ ॥
तद्वचनमेवाह– अस्थाने इति । अयस्य अयोध्याभिन्नकर्मकगमनकर्तृत्वाभावविशिष्टस्य तव अयं सुमहान् संभ्रमो गमनत्वरा अस्थाने अप्रसङ्गे अभिषेकस्योपस्थितत्वाद्गमनस्यानवसरे इत्यर्थः जातः । अर्धं पृथक् ॥ २।२३।५ ॥
लोकादिभीतिरपि त्वयि उचितेति बोधयन्नाह– धर्मेति । त्वद्विधः सत्यप्रतिज्ञात्वेन त्वत्सदृशः असंभ्रान्तः सार्वकालिकसर्वहेतुकभयरहितः अत एव लोकस्य राक्षसादिजनस्य अनतिशङ्कया अतिशङ्काभावेनोपलक्षितो जनः राजा केकयी वा धर्मदोषप्रसङ्गेन धर्माणां मुन्याद्यनुष्ठितसत्कर्मणां यो दोषः राक्षसादिकर्तृकोपद्रव इत्यर्थः । तत्प्रसङ्गेन तच्छ्रवणेनेत्यर्थः । एतदनवसरगमनाज्ञापनं कथं वक्तुमर्हति एतेनाभिषेकप्रतिज्ञातः पूर्वमेवाज्ञापनं युक्तमिति ध्वनितम् ॥ २।२३।६ ॥
यथेति । शौण्डीरः प्रारब्धादिनिरसनसमर्थः क्षत्रियर्षभस्त्वमशौण्डीरं त्वद्विषयकसामर्थ्यहीनमत एव कृपणं दैवमशक्तं सामर्थ्यहीनं यथा भवति तथा किं यथावदभिशंससि एतेन देवादृष्टवशात्तवाभिषेकनिवृत्तिर्न युक्तेति सूचितम् ॥ २।२३।७ ॥
ननु रावणो ऽतिबलवान् शत्रुरतस्तन्निरसनयत्नो द्रुतं कर्तव्य इत्यत आह– पापयोरिति । पापयोः पापाचरणशीलयोस्तयोः रावणकुम्भकर्णयोः शङ्का कथं विद्यते कथमपि नेत्यर्थः । तत्र हेतुः धर्मोपधासक्ताः धर्मं भवदुपासनामुपदधाति धारयति स विभीषण इत्यर्थः । तत्रासक्ताः तद्विषयकप्रीतिमन्तो न सन्ति तयोः पुरुषा इति शेषः । धर्मात्मन् परमधर्मप्रवर्तक किं कथं न बुध्यसे स्मरसि । एतेन रामोपासकद्रोही ध्रुवं नश्यतीति सूचितम् । “धर्मोपधाः श्लक्ष्णाः” इति भूषणपाठः तत्र धर्मोपधाः धर्मध्वंसकाः श्लक्ष्णाः स्वरक्षणे चतुराः न सन्तीत्यर्थः ॥ २।२३।८ ॥
तयोरिति । शाठ्याद्धेतोः स्वार्थं स्वैश्वर्यं जिहीर्षतोः त्यक्तुमिच्छ्वोः तयोः रावणकुम्भकर्णयोः यदि सुचरितं स्यात्तर्हि प्राक् पूर्वमेव एवं मुनिदुःखदानप्रकारेण व्यवसितं निश्चितं न स्यात् ॥ २।२३।९ ॥
ननु प्राप्तवरत्वात्कथं तयोर्विनाश इत्यत आह– तयोरिति । दत्तः ब्रह्मणा ग्राहितः तयोः रावणकुम्भकर्णयोर्वरः प्रकृतः अतिशयेन छिन्नः छेदनार्थककृतो रूपम् । तत्र हेतुः यतः लोकविद्विष्टं भवज्जनद्वेषः आरब्धमत एव अन्यस्य रावणाद्भिन्नस्य विभीषणस्येत्यर्थः । त्वत्त्वतः अभिषेचनं लङ्काराज्याभिषेकः स्याद्भविष्यतीत्यर्थः । एतेन भक्तापराधिनः कल्याणं न भवतीति सूचितम् ॥ २।२३।१० ॥
नेति । हे वीर येन अनवसरकेकयीवचनेन हेतुना तव बुद्धिः एवमनवसरगमनेन द्वैधं द्वौ रावणकुम्भकर्णौ धयति विध्वंसयतीत्यर्थः । स तस्य भावः तदागता प्राप्ता तं हेतुं केकयीवचनमित्यर्थः । सहितुं नोत्सहे । ननु माता कथमेवमुच्यते इत्यत आह– तत्र मातृवचनासहनविषये क्षन्तुमर्हसि तदसहनं मम दुर्निवारमिति तात्पर्यम् ॥ २।२३।११ ॥
स इति । यत्प्रसङ्गाद्यदनुष्ठानादित्यर्थः । विमुह्यसि सर्वान्विचित्तान् करोषि स धर्मः अनवसरे प्रतिज्ञापालनमित्यर्थः । मम द्वेष्यः मत्प्रीतिविषयीभूतो न भवतीत्यर्थः । अन्तर्भावितणिजर्थो मुह्यतिः । अर्धं पृथक् । वनगमननिवारणमपि कर्तुं न शक्यते इति बोधयन्नाह– कथमिति । कर्मणा धर्मक्रिययोपलक्षितः शक्तः समर्थस्त्वं कैकेयीवशवर्तिनः तत्त्वेन प्रतीयमानस्य पितुः वाक्यं अधर्मिष्ठमत एव विगर्हितं कथं करिष्यसि त्वत्कर्तृकपितृवचनाकरणे इदं पितृवाक्यमधर्मिष्ठमिति जना वदिष्यन्तीति तात्पर्यम्, यद्वा विगर्हितमसमयोद्भवत्वेन लोकापवादसहितमपि धर्मिष्ठं मुनिरक्षारूपस्वधर्मबोधकत्वेन धर्मसहितं वाक्यं कथं न करिष्यसि करिष्यस्येवेत्यर्थः ॥ २।२३।१२ ॥
ननु तर्हि गमनसंमतिं कुर्वित्यत आह– यदिति । किल्बिषात्पितृवचनाकरणे दोषोद्भावनाद्धेतोः अयं भेदः स्थितिनिराकरणं कृतो ऽपि मयेति शेषः । न गृह्यते स्वीकर्तुं न शक्यते इत्यर्थः । तत्र हेतुः तत्र गमने च मे दुःखं जायते वियोगशङ्कयेति भावः । अत एव धर्मसङ्गः धर्मासक्तिरपि गर्हितः मया मनसि निन्दितः, एतेनाहमपि सहैव नेतव्य इति ध्वनितम् ॥ २।२३।१३ ॥
स्थापयितुं गमयितुं वा मया न शक्यमिति बोधयन्नाह– तवेति । अयं भवता आरब्धः धर्मसंयोगः धर्महेतुकवनसंबन्धः अस्य अयोध्यास्थस्य लोकस्य जनस्य विगर्हितः वियोगस्यासह्यत्वेन अनीप्सित इत्यर्थः । अनेन गमनसंमतेरशक्यत्वं सूचितम् । पित्रभिधानयोः मातापित्रोरित्यर्थः । अहितयोः अनीप्सिततत्पाल्यमुन्यादिद्रोहकर्तृत्वेन तदहिताचरणविशिष्टयोरित्यर्थः । अत एव शत्र्वोः कामवृत्तयोः स्वच्छन्दचारिणोः तयोः रावणकुम्भकर्णयोः कामं कस्य स्वच्छन्दवर्तिहेतुकसुखस्य अमं निवारणं त्वां विना अन्यः मनसापि कथं कुर्यान्न कुर्यादित्यर्थः । विनेति अन्य इति चाध्याहृतम् । एतेन निवारणमप्यशक्यमिति ध्वनितम् । सार्धश्लोक एकान्वयी ॥ २।२३।१४,१५ ॥
यद्यपीति । यद्यपि ते प्रतिपत्तिर्गमननिश्चयः दैवी देवाद्यदृष्टप्रार्थिता तयोः रावणकुम्भकर्णयोः मतम् उपद्रवविषयिणी मतिश्च दैवं देवादृष्टप्रेरितं द्वयमपि दुर्निवारमिति तात्पर्यम् तथापि यत्ते उपेक्षणीयमभिषेकत्यागः तन्मे नैव रोचते । दैवीशब्दः लिङ्गविपरिणामेनान्यत्राप्यन्वेति ॥ २।२३।१६ ॥
दैवानुसरणं तवानुचितमिति बोधयन्नाह– विक्लव इति । यो वीर्यहीनः दैवान्यथाकरणे असमर्थः अत एव विक्लवः कातरः प्राकृतो जन इत्यर्थः । सः दैवमनुवर्तते अनुसरति संभावितात्मानः संभावितः नित्यं परिशीलितः आत्मा स्वस्वरूपं यैस्ते अत एव वीरा ईश्वरा इत्यर्थः । दैवं न पर्युपासते अनुसरन्तीत्यर्थः एतेन यदीश्वरा दैवं नानुसरन्ति तर्हि ईश्वरेश्वरो नानुसरतीति किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः ॥ २।२३।१७ ॥
दैवमिति । यः पुरुषकारेण स्वपौरुषेण दैवं प्रबाधितुं समर्थः स पुरुषः परमपुरुषः ईश्वरेश्वर इत्यर्थः । दैवेन विपन्नार्थः विध्वंसितप्रयोजनः सन्नावसीदति खेदं प्राप्नोति । एतेन देवादृष्टानुसारेणाभिषेकनिवर्तनं न योग्यमिति ध्वनितम् । तेनादृष्टमेवान्यथा कुतो न कृतमिति जिज्ञासा सूचिता ॥ २।२३।१८ ॥
त्वत्कर्तृकगमने इदमाश्चर्यं भविष्यतीत्याह– द्रक्ष्यन्तीति । पुरुषस्य पुरुषे त्वयि दैवस्य पौरुषमद्यैव द्रक्ष्यन्तीति जनाः इति शेषः । ननु ततः किमित्यत आह– दैवमानुषयोः देवदेवमनुष्ययोः
अव्यक्तिः अविभागः व्यक्ता प्रकटिता भविष्यति तेन परमपुरुषोपासना निवर्तिष्यते इति तात्पर्यम् ॥ २।२३।१९ ॥
यदि मत्प्रार्थनया भवद्गमननिवृत्तिः स्यात्तर्हि उचितं स्यादित्याह– अद्येति । यैः जनैः दैवाद्देवाद्यदृष्टादाहतं निवृत्तं ते राज्याभिषेचनं दृष्टं ते जना अद्यैव मत्पौरुषहतं मत्पौरुषेण मत्कर्तृकभवत्कर्मकमत्प्रार्थनया हतं निवृत्तं दैवं द्रक्ष्यन्ति तेन ममापि कीर्तिः स्यादिति सूचितम् । “यद्दैवात्” इति पाठे यैरित्यध्याहर्तव्यम् यदित्यभिषेचनविशेषणम् ॥ २।२३।२० ॥
ननु सुखप्रापकदैवादृष्टनाशे तेषां दुःखनिवृत्तिर्न स्यादतो मद्गमनं स्यादेवेत्यत आह अतीति । अत्यङ्कुशमङ्कुशव्यापारानियम्यमुद्दामं बन्धनरहितमित्यर्थः । मदबलोद्धतं मदबलहेतुकौद्धत्यविशिष्टं प्रधावितं धावनक्रियाविशिष्टं गजमिव दुर्निवारं दैवं रावणकुम्भकर्णोदयकारकादृष्टं पौरुषेण निवर्तये त्वदाज्ञामात्रेण रावणादीनहमेव निहनिष्यामीति तात्पर्यं तेन देवादिदुःखध्वंसो भविष्यत्येवेति सूचितम् ॥ २।२३।२१ ॥
ननु गमननिरोधे देवाः प्रार्थयिष्यन्तीत्यत आह– लोकेति । हे राम ते अभिषेचनं लोकपालादयो न विहन्युः गमनप्रार्थनया न निवर्तयिष्यन्तीत्यर्थः । गमनप्रयोजनस्य सिद्धत्वनिश्चयो भविष्यतीति तात्पर्यम् पिता किं किमर्थमित्यर्थः ॥ २।२३।२२ ॥
यैरिति । राजन् हे नित्यराजत्वविशिष्ट यैर्देवादिदुःखैर्हेतुभिः चतुर्दशसमा अरण्ये ते वासो मिथः परस्परं समर्थितः ते अरण्ये विवत्स्यन्ति नङ्क्ष्यन्तीत्यर्थः ॥ २।२३।२३ ॥
अहमिति । या सर्वाक्रमणाविषयिणी रावणाशा तस्याः केकय्याः तव पितुश्च तवाभिषेकविघाते मातापितृकर्तृकत्वत्कर्मकाभिषेकविध्वंसे तदर्थं वर्तते अत एव पुत्रराज्याय पुत्रस्य तव राज्याय राज्यं प्रापयितुं न वर्तते तां तदाशां तस्य रावणस्यातितृष्णां धक्ष्यामि निवर्तयिष्यामीत्यर्थः । “आशा दिगतितृष्णयोः” इति वैजयन्ती ॥ २।२३।२४ ॥
मदिति । मद्बलेन साकं विरुद्धाय विरोधं कर्तुं न स्यात्तथा विरोधाय स्याच्चोत्तर्हि मम उग्रं पौरुषं दुःखाय दैवबलनिवृत्तये यथा यथावत्प्रभविष्यति ॥ २।२३।२५ ॥
उर्ध्वमिति । वर्षसहस्रान्ते यथेप्सितराज्यकरणानन्तरमित्यर्थः । त्वयि वनवासं गते मर्यादापालनार्थ प्राप्ते सति आर्यपुत्राः आर्यस्य सर्वश्रेष्ठस्य तव पुत्राः प्रजापाल्यं प्रजारक्षणमनन्तरं निरन्तरं यथा स्यात्तथा करिष्यन्ति ॥ २।२३।२६ ॥
ननु वनगमनेन कथं मर्यादापालनं स्यादित्यत आह– पूर्वेति । पुत्रवत्परिपालेन परिपालनार्थं प्रजाः पुत्रेषु निःक्षिप्य पूर्वराजर्षिवृत्त्या राजर्षीणामाचरणेन हेतुना वनवासः अभिधीयते मया प्रार्थ्यते ॥ २।२३।२७ ॥
स इति । राज्यविभ्रमशङ्कया राक्षसादिकर्तृकप्रजादौस्थ्यसंदेहेन राजनि दशरथे अनेकाग्रे अनवस्थिते सति आत्मनि स्वमनसि राज्यं नैव इच्छसि चेत्तर्हि हे वीर तव राज्यमहं रक्षेयमन्यथा वीरभाक् वीरशब्दवाच्यो मा भूवमिति अहं प्रतिजाने प्रतिज्ञां करोमि । श्लोकद्वयमेकान्वयि ॥ २।२३।२८,२९ ॥
राक्षसानुयायिराजान्तरकृतोपद्रवशङ्कापि न कर्तव्येति बोधयन्नाह– मङ्गलैरिति । मङ्गलैर्मङ्गलद्रव्यैः त्वमभिषिञ्चस्व स्वाभिषेकं कारय अतः तत्र तस्मिन् अभिषेके त्वं व्यापृतो व्यापा रवान्भव एकः सहायान्तररहितो ऽहं बलात्पौरुषान्महीपालान्राक्षसानुयायिराजान्वारयितुं नियमयितुमलं समर्थः ॥ २।२३।३० ॥
ननु तव श्रमः स्यादित्यत आह– नेति । इमौक्षत्रियशरीरसंबन्धिनौ बाहू शोभार्थौ
शोभाप्रयोजनकौ न धनुः भूषणाय न असिः खङ्गः आबन्धनार्धाय कुट्यादिनिर्मापकरज्ज्वादिछेदनाय न शराः बाणाः स्तम्भहेतवः समूहीभूय स्तम्भनिर्मापका न ॥ २।२३।३१ ॥
ननु किमर्थमित्यत आह– अमित्रेति । चतुष्टयं बाह्वादि । अर्धं पृथक्– न चेति । यः शत्रुः मम मतः मज्ज्ञानविषयीभूतः स्यात्तं कं साधारणं वज्रिणमिन्द्रं वा प्रगृहीतेन उत्थापितेन विद्युच्चलितवर्चसा विद्युच्चलितमिव चलितं वर्चस्तेजो यस्य तेन असिना न कल्पये छिनद्मि इत्यहं न कामये इच्छामि । सार्धश्लोक एकान्वयी ॥ २।२३।३२,३३ ॥
शत्रूनवश्यं हनिष्यामीति स्पष्टं बोधयन्नाह– खड्गेति । मे खड्गस्य यो निष्पेषः छेदनानुकूलो व्यापारः तेन निष्पिष्टैः छिन्नैः हस्त्यादिहस्तादिभिः गहना व्याप्ता अत एव दुश्चरा संचारायोग्या मही भविता ॥ २।२३।३४ ॥
तदेव द्रढयन् भङ्ग्यतरेणाह– खड्गेति । अग्नय इव दीप्यमानाः रुधिरसहितदेहा इत्यर्थः । द्विषः शत्रवः तत्र दृष्टान्तः सविद्युतः विद्युत्सहिताः ॥ २।२३।३५ ॥
बद्धेति । बद्धं गोधायै ज्याघातनिवारणाय अङ्गुलित्राणं येन तस्मिन् बद्धकवचे इत्यर्थः । मयि स्थिते सति पुरुषाणां मध्ये पुरुषमानी अहं पुरुषः परमयोद्धेत्यर्थः । इति मानी अभिमानी कथं त्यान्न स्यादित्यर्थः । तेन परमपुरुषानुगृहीतस्य मे पराभवो नैव भविष्यतीति स्वनिश्चयः सूचितः “गोधा ज्याघातवारणे” इत्यमरः ॥ २।२३।३६ ॥
नन्वेकस्त्वं बहून् रिपून्कथं हनिष्यसीत्यत आह– बहुभिरिति । बहुभिः बाणैः एकं मुख्यं शूरमित्यर्थः । अत्यस्यन्प्रक्षिपन्नेकेन बाणेन बहून् अमुख्यानित्यर्थः । अत्यस्यन् न्रादिमर्मसु बाणान्विनियोक्ष्यामि ॥ २।२३।३७ ॥
अद्येति । अद्य परकृताभिषेकविघ्नकाले राज्ञः राक्षसराजादेः अप्रभुतामसामर्थ्यं कर्तुं प्रकटयितुं तव प्रभुत्वं समाधिकरहितसामर्थ्यं च प्रकटयितुमस्त्रप्रभावस्य मदस्त्रशस्त्रसामर्थ्यस्य प्रभावः प्रतापः प्रभविष्यति विरुद्धराजनिराकरणेन प्रकटीभविष्यति । एतेन लक्ष्मणस्य रामातिप्रियत्वं व्यक्तम् । राज्ञ इत्यत्र जात्यभिप्रायेणैकवचनम् । अत एव अभिषेचनविघ्नस्य कर्तृ़णामिति वक्ष्यमाणस्य न वैरूप्यम् ॥ २।२३।३८ ॥
अद्येति । हे राम अभिषेचनविघ्नस्य कर्तृ़णां निवारणे कर्म व्यापारं करिष्यतो मे बाहू चन्दनसारस्य उत्तमचन्दनानुलेपनस्य केयूरामोक्षणस्य केयूरस्य अङ्गदस्य मोक्षणस्य धारणस्य वसूनां द्रव्याणां विमोक्षस्य दानस्य सुहृदां पालनस्य च अनुरूपौ योग्यौ भविष्यत इति शेषः । एतेन रामसेवाकरणमन्तरा सर्वं कर्म निरर्थकमिति सूचितम् । श्लोकद्वयमेकान्वयि । “केयूरमङ्गदम्” इत्यमरः ॥ २।२३।३९ ॥
ब्रवीहीति । तव असुहृत् अरिः कः इति त्वं ब्रवीहि ब्रूहि ईडागमगुणावार्षौ । ननु किमर्थं पृच्छसीत्यत आह– अद्यैव प्राणयशःसुहृज्जनैः मया वियुज्यताम् स इति शेषः । यथा येन प्रकारेण वसुधा तव वशा भवेत् तथा मां शाधि शिक्षय ॥ २।२३।४० ॥
लक्ष्मणवचनश्रवणानन्तरकालिकं रामवृत्तमाह विमृज्येति । बाष्पमश्रूणि विमृज्य लक्ष्मणनेत्राद्दूरीकृत्य लक्ष्मणमसकृद्बहुवारं परिसान्त्व्य राघववंशवर्धनः स रामः लक्ष्मणमुवाच । तद्वचनमेवाह– पित्रोः वचने व्यवस्थितमेव मां निबोध । एतेन भीतिनिवृत्तिर्बोधिता । तत्र हेतुः हे सौम्य एष पितृवचनपालनं सत्पथः समीचीनो मार्गः “जीवतोर्वाक्यकरणात्प्रत्यब्दं भूरिभोजनात् । गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता” इति स्मृतिः ॥ २।२३।४२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे त्रयोविंशः सर्गः ॥
२।२३ ॥