०२२ दैवप्रभावः

अथेति । व्यथया भ्रातृवियोगश्रुत्या प्राप्तप्रकृतिविपर्यासेन दीनं क्षीणत्वेन प्रतीयमानं सविशेषं रामातिप्रियत्वेन विशेषसंहितममर्षितं रामवियोगासहनशीलं सरोषं नागेन्द्रमिव अत एव रोषविस्फारितेक्षणं रोषेण विस्फारिते ईक्षणे यस्य तं सुहृदं सरलस्वभावं प्रियं स्वातिप्रीतिविषयीभूतं भ्रातरं सौमित्रिमासाद्य हस्तग्रहेण स्वसमीपं प्रापय्य इदमुवाच । श्लोकद्वयमेकान्वयि ॥ २।२२।१,२ ॥

तद्वचनमेवाह– निगृह्येति । रोषादिकं निगृह्य सन्त्यज्येत्यर्थः । धैर्यमाश्रित्य स्वीकृत्य अवमानं प्रव्राजनविषयकसंमतिग्रहणाभावमूलकानादरं निरस्य परिहृत्य उपक्लृप्तं प्राप्तं सर्वमेतत्सामग्रीजातं क्षिप्रं निवर्तय निरव्ययं विघ्नरहितं यथा स्यात्तथा कार्यं कर्तव्यं गमनोद्योगमित्यर्थः कुरु । श्लोकद्वयमेकान्वयि ॥ २।२२।३,४ ॥

सौमित्रे य इति । संभारसंभ्रमः सामग्रीसंपादनविषयिणी त्वरा आदरो वा ॥ २।२२।५ ॥

यस्या इति । मदभिषेकार्थे अभिषेकरूपे वस्तुनि मानसं वर्तत इति शेषः । सा नः माता कौशल्या सविशङ्का विगतवनवासक्लेशविषयकशङ्काविशिष्टा सती न परितप्यते तथा कुरु ॥ २।२२।६ ॥

तस्या विशङ्काकरणे हेतुमाह– तस्या इति । शङ्कामयं शङ्काहेतुकमित्यर्थः । मनस्यपि प्रतिसंजातं किं पुनर्बहिःप्रकटितमित्यर्थः । दुःखमुपेक्षितुं तिष्ठत्विदमित्युपेक्षां कर्तुमहं नोत्सहे । “उदीक्षितुम्” इतिपाठे द्रष्टुमित्यर्थ इति भट्टाः ॥ २।२२।७ ॥

स्वस्मिन्मात्रादेः स्नेहबोधकं लिङ्गमाह– नेति । बुद्धिपूर्वं विप्रियं न कृतमबुद्धमबुद्धिपूर्वकं वा न कृतमिति अहं स्मरामि ॥ २।२२।८ ॥

सत्य इति । सत्यः सत्यवादी अत एव सत्यसंधः सत्यप्रतिज्ञः अत एव परलोकभयादयं सत्यात्प्रच्युतः इति शत्रुजनापवादाद्भीतः मम पिता निर्भयः लोकापवादभयरहितो ऽस्तु ॥ २।२२।९ ॥

स निर्भयो ऽवश्यं कर्तव्य इत्यत्र हेतुं वदन्नाह– तस्येति । कर्मणि अभिषेकानुकूलव्यापारे अप्रतिसंहृते अनिवर्तिते सति मम वचः सत्यं नेति तस्य पितुर्मनस्तापः भवेत्तस्य तापो मामपि तपेत् ॥ २।२२।१० ॥

अभिषेकेति । हे लक्ष्मण तस्मादुक्तहेतोः अन्वक् शीघ्रमेव इतः अस्मात्पुरः पुर्याः गन्तुमिच्छामि ॥ २।२२।११ ॥

ममेति । कृतकृत्या साधितमुनिप्रयोजना नृपात्मजा केकयी अव्यग्रमनवधानतारहितं भरतमभिषेचयतामभिषेचमिव प्रापयताम् इवार्थान्तर्भावेण प्रापणरूपधात्वर्थे णिच् । यद्वा यतः मम प्रव्राजनान्नृपात्मजा केकयी कृतकृत्या अतः अः विष्णुरेव व्यग्रः विशेषेण अग्रः मत्प्रीतिपात्राग्रणीत्वं यस्मिन्स तं भरतमभिषेचयतामभिषेचः अभिषेकः यतः निवर्तितो यया तामुपरमार्थकयमोरूपम् स चान्तर्भावितणिजर्थः । केकयीमद्य दुर्वचनादिना न पीडय । निषेधार्थकमव्ययमिति ॥ २।२२।१२ ॥

मयीति । मनः सुखं मद्यशःप्राप्तिहेतुकानन्दः भविष्यति ॥ २।२२।१३ ॥

बुद्धिरिति । येन मद्विजयकालेन बुद्धिः विजयविषयकनिश्चयः प्रणिहिता संपादिता अनु पश्चान्मनः केकयीसंकल्पः समाहितं प्रापितं कारितमित्यर्थः । तं कालं संक्लेष्टुमतिवर्तितुमित्यर्थः । नैवार्हामि अतः प्रव्रजिष्यामि अतः मा चिरमस्मिन्विषये विलम्बो न कार्यः ॥ २।२२।१४ ॥

केकय्यादिविषये द्वेषाभावाय कालस्यैव प्रवर्तकत्वं बोधयति– कृतान्त इति । कृतान्तः काल एव कारणमिति शेषः । वितीर्णस्य पित्रा दत्तस्य राज्यस्य निवर्तने विलम्बने ॥ २।२२।१५ ॥

कालस्यैव प्रवर्तकत्वे हेतुमाह केकय्या इति । तस्याः केकय्याः भावो ऽभिप्रायः यदि कृतान्तविहितः मद्विजयकालप्रेरितो न भवेत्तर्हि मम पीडने मत्कर्मकप्रवासहेतुकपीडादाने प्रतिपतिः

निश्चयः कथं स्यात् न स्यादित्यर्थः ॥ २।२२।१६ ॥

तस्याः स्वतः प्रवर्तिकात्वाभावे हेतुमाह– जानासीति । हे सौम्य मातृषु कौशल्यादिषु अन्तरं पूज्यत्वे भेदो मम मत्कृतमित्यर्थः । भूतपूर्वं न तस्याः केकय्या मयि सुते भरते वा विशेषो भूतपूर्वो न इति त्वं यथा यथावज्जानासि ॥ २।२२।१७ ॥

स इति । अभिषेकनिवृत्त्यर्थैः अभिषेकनिवृत्तिरर्थो येषां तैः प्रवासार्थैः प्रवासबोधकैः अत एव उग्रैः अत एव दुर्वचैः वक्तुमनर्हैः तस्याः केकय्या वाक्यैः वचनैः प्रव्राजने दैवाद्देवोदयकारककालादन्यत्कारणं न समर्थये निश्चिनोमि ॥ २।२२।१८ ॥

कथमिति । तथागुणा मद्विषकातिवात्सल्यविशिष्टा प्रकृतिसंपन्ना सुस्वभावसंयुक्ता विक्षेपादिरहितेत्यर्थः । राजपुत्री केकयी भर्तृसंनिधौ मत्पीड्यं पीडाबोधकं प्राकृता स्त्रीव कथं ब्रूयान्न ब्रूयादित्यर्थः । एतेन मम हितमेव तयोक्तमिति सूचितम् इवेन तस्याः प्राकृतविलक्षणात्वं ध्वनितम् ॥ २।२२।१९ ॥

अदृष्टस्य बलवत्त्वं बोधयन्नाह– यदिति । यद्यस्माद्धेतोः दैवमदृष्टमचिन्त्यम् इदानीमिदमिति निश्चेतुं न शक्यमित्यर्थः । तत्तस्माद्धेतोः भूतेषु हन्यमानेष्विति शेषः । न हन्यते अत एव मयि तस्यां केकय्यां च व्यक्तं देवदृष्टप्रभावः प्रकटित इत्यर्थः । तत्प्रभावादेव प्रव्रजने प्रव्राजने च द्वयोर्बुद्धिरासीदिति तात्पर्यम् अत एव विपर्ययः अभिषेकविपरीतः पतितः प्राप्तः ॥ २।२२।२० ॥

दैवनिवृत्त्यर्थं यत्नो न कर्तव्य इति बोधयन्नाह– कश्चिदिति । यस्य दैवस्य ग्रहणं बोधकं कर्मणः फलभोगादन्यन्न दृश्यते तेन दैवेन सह योद्धुं कश्चित्पुमान्न उत्सहते नञ आवृत्योभयत्रान्वयः ॥ २।२२।२१ ॥

सुखेति । यस्य जनस्य सुखादयः स्वातन्त्र्येण दृश्यन्ते तथाभूतं तत्सदृशमन्यदपि सुपुप्त्यादि तत्सर्वं दैवस्य कर्म कृतं भवाभवौ उत्पत्तिविनाशौ एतेन स्वतन्त्रसुखादिरहितानां नादृष्टमिति सूचितम् ॥ २।२२।२२ ॥

दैवप्राबल्यं दृष्टान्तमुखेन द्रढयन्नाह– ऋषय इति । तीव्रानतिप्रयत्नेन संपादितान् ॥ २।२२।२३ ॥

दैवबोधकमसाधारणं लिङ्गमाह असङ्कल्पितमिति । आरम्भैः सामग्रीभिः आरब्धं प्रारम्भविषयीभूतं निवर्त्य असङ्कल्पितं सङ्कल्परहितं यदकस्मात्प्रवर्तते तद्दैवस्य कर्म ॥ २।२२।२४ ॥

प्रासङ्गिकादृष्टवर्णनं परिसमाप्य प्रकृतमाह– एतयेति । अभिषेके व्याहते ऽपि तत्त्वया स्वधर्मपालनरूपयाथार्थ्यविषयिण्या बुद्ध्या निश्चयेन आत्मना मनसा सह आत्मानमन्तःकरणं संस्तभ्य स्थिरीकृत्य परितापो न विद्यते न स्थाप्यते अन्तर्भावितणिजर्थो विद्यतिः ॥ २।२२।२५ ॥

तस्मादिति । तस्मादुक्तहेतोः मामनुविधाय अनुसृत्य अपरितापः परितापरहितः सन् आभिषेचनिकीं क्रियां क्षिप्रं प्रतिसंहारय निवर्तय ॥ २।२२।२६ ॥

ननु सामग्रीणां का गतिरित्यत आह– एभिरिति । अभिषेचनसंवृतैः अभिषेकार्थमानीतैः एभिर्घटैः मम तापस्ये तपःकर्मणि व्रतस्नानं व्रतोद्देश्यकस्नानं भविष्यति ॥ २।२२।२७ ॥

एतज्जलेन स्नाने अयं वनं न गमिष्यतीति देवादीनां शङ्कासंभवात् शेषसामग्रीवैयर्थ्यस्यार्थतः सिद्धत्वाच्च पक्षान्तरमाह– अथवेति । स्वयं स्वहस्तेनेत्यर्थः । उद्धृतमानीतं व्रतादेशं व्रतस्नानं करिष्यति विधास्यति ॥ २।२२।२८ ॥

मेति । हे लक्ष्मण लक्ष्म्याः राज्यश्रियः विपर्यये वनवासश्रियः प्राप्तावित्यर्थः । संतापं मा

कार्षीस्तत्र हेतुः लोके लक्ष्मीद्वयं राज्यं राज्यलक्ष्मीः वनवासो वनवासलक्ष्मीः च तत्रैका प्राप्तैवेति तात्पर्यं प्रत्युत इयं प्राप्तिर्हर्षावहेत्याह– वनवासमहोदयः अतियशःसंपादकत्वेनातिहर्षहेतुरिति तात्पर्यम् ॥ २।२२।२९ ॥

उपसंहरन्नाह– नेति । हे लक्ष्मण अस्मिन् राज्यविघ्ने दैवाभिपन्ना देवविजयादृष्टप्रेरिता यवीयसी कनिष्ठा मम माता केकयी न अभिशङ्कितव्या किमाचरितमनयेति शङ्कितुमनर्हा, पितापि न शङ्कितव्यः शङ्कितव्येति लिङ्गविपरिणामेन इहाप्यन्वेति त्वत्कर्तृकशङ्कितव्यत्वाभावे हेतुः तथाप्रभावं मदुक्तप्रभावविशिष्टं दैवं त्वं जानासि ॥ २।२२।३० ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे द्वाविंशः सर्गः ॥ २।२२ ॥