०२१ लक्ष्मणस्य वीर्योक्तिः

कौशल्याविलापानन्तरकालिकवृतान्तमाह– तथेत्यादिभिः । तत्कालसदृशं बोधनकालोचितं वच उवाच ॥ २।२१।१ ॥

तद्वचनमेवाह– नेति । आर्ये हे मातः स्त्रिया सीतया सह राज्यश्रियं त्यक्त्वा वाक्यवशं गतः ब्रह्मादिविज्ञापनहेतुकस्वप्रतिज्ञावचनाधीनः रामः यद्वनं गच्छेत्तदेतन्ममापि न रोचते एतेनास्मदादिभिः सहैव गन्तव्यमिति सूचितम् । सीतया सहेत्यनेन सीताप्यनुगमिष्यतीति लक्ष्मणनिश्चयो ध्वनितः ॥ २।२१।२ ॥

ननु सर्वसंमतिमलब्ध्वा राजा कथं प्रेषयतीत्यत आह– विपरीत इति । वृद्धः ज्ञानवयोभ्यां संपन्नः अत एव प्रधर्षितः प्रगल्भः अत एव मन्मथः मदं प्रजादैन्यं मथतीति सः अत एव विषयैः राक्षसबाधितऋषिसमीपदेशवासिभिश्चोद्यमानः प्रार्थ्यमानः अत एव विपरीतः पुत्रविषयकस्नेहरहित इव स नृपः किं न ब्रूयाद्ब्रूयोदवेत्यर्थः । अतः येन राज्ञा राघवः वनवासाय निर्वास्यते तस्य अस्य अपराधं दोषं पुत्रवियोगकारकपापविशेषं वा न पश्यामि । श्लोकद्वयमेकान्वयि ॥ २।२१।३,४ ॥

राज्ञः दोषविशेषास्पर्शित्वमुक्त्वा दोषसामान्यास्पर्शित्वमप्याह– न तमिति । निरस्तः युद्धादिना पराजितो ऽपि अस्य राज्ञः एतेन सार्वकालिकसर्वदोषासंसर्गित्वं राज्ञः सूचितम् ॥ २।२१।५ ॥

कारणविशेषाभावे रामप्रव्राजनं न संभवतीत्याह– देवेति । देवकल्पं देवादिनिर्माणकारकम् । अकारणात् कारणविशेषाभावात् ॥ २।२१।६ ॥

रामेणेदं दुष्करं कृतमित्याह– तदिति । बाल्यं स्वदत्तकेकयीवराछादनमुपेयुषः प्राप्तस्य राज्ञः इदं परंपराभिहितं वचनं दुष्करकार्यबोधकवाक्यं कः पुत्रः हृदये कुर्यान्न को ऽपीत्यर्थः । बाल्यमिति संवरणार्थकबलधातुप्रकृतिकण्यदन्तम् ॥ २।२१।७ ॥

परमात्माभिप्रायस्य दुर्ज्ञेयत्वेन मदुक्तमेतदभिप्रेतं न वेति तदभिप्रेतजिज्ञासया रामं प्रत्याह– यावदिति । कश्चिन्नरः इमं त्वत्प्रव्राजनरूपमर्थं नैव जानाति तावदेव आत्मस्थं स्वमनसि स्थितं शासनमाज्ञामित्यर्थः । तेन भवदाज्ञापितसाधकयत्नमहं करिष्यामि इति सूचितम् । यावन्न जानातीत्यनेन ज्ञाते रहस्यवचनश्रवणानर्हजनबाहुल्यं स्यादिति व्यञ्जितम् ॥ २।२१।८ ॥

मयेति । सधनुषा धनुःसहितेन मया गुप्तस्य सेवितस्येत्यर्थः । तव अधिकं तदाज्ञापितात्परं कर्तुं कः समर्थः न को ऽपीत्यर्थः ॥ २।२१।९ ॥

स्वसेवाकारमाह– निरिति । हे मनुजर्षभ विप्रिये तव विरोधे यदि स्थास्यति सर्वो जन इति शेषः । तदा अयोध्यामयोध्यादेशं निर्मनुष्यां मनुष्योपलक्षितविरोधिजनरहितां करिष्यामि ॥ २।२१।१० ॥

भरतादीनामपि विपरीतत्वेन भयमस्तीत्याह– भरतस्येति । भरतस्य पक्षः मातुलप्रभृतिः यः अन्यो वा अस्य त्वद्विरोधिभरतस्य हितमिच्छति तान्सर्वान्वधिष्यामि । शान्त्या राजकीयकार्यसिद्धिर्न भविष्यतीत्याह– मृदुः शान्तस्वभावः परिभूयते ॥ २।२१।११ ॥

स्वातिप्रीतिं दर्शयन्नाह– प्रेति । यदि संतुष्टस्त्वदनिष्टसाधने प्रीतिमानत एव अमित्रभूतः नः पिता तर्हि निःसङ्गं यथा स्यात्तथा बध्यतां बध्यतां बन्धनेन नियुज्यताम् वीप्साद्विर्वचनम् ॥ २।२१।१२ ॥

ननु गुरुत्वादेव पिता न वाच्य इत्यत आह– गुरोरिति । अवलिप्तस्य गर्वविशिष्टस्य अत एव कार्याकार्यमजानतः अत उत्पथं शिष्टागृहीतमार्गं प्रतिपन्नस्य प्राप्तस्य गुरोरपि शासनं शिक्षा कार्यं एतेन पितुरपि शासनमुचितमिति ध्वनितम् ॥ २।२१।१३ ॥

बलमिति । एषः पिता बलं सैन्यादिहेतुकपराक्रमं हेतुं योग्यताकारणं वाश्रित्य किं दातुमिच्छति ॥ २।२१।१४ ॥

त्वयेति । अनुत्तमं निषिद्धमित्यर्थः । अस्य राज्ञः का शक्तिर्न काचिदित्यर्थः ॥ २।२१।१५ ॥

राममुक्त्वा मातरं संबोध्याह अन्विति । हे देवि भावेन मद्विषयकातिप्रेम्णा विशिष्टं भ्रातरं राममनुरक्तो़ ऽस्मि तद्विषयकातिप्रेमवानस्मीत्यर्थः । अत्रार्थे विश्वासार्थमाह सत्येन सत्यरूपधर्मेण धनुषा स्वचापेन दत्तेन वापीकूपादिनिर्माणजनितादृष्टेन यागादिजनितादृष्टेन च शपे एतच्छपथं करोमीत्यर्थः । प्रसिद्धश्च क्षत्रियाणां शस्त्रास्त्रशपथः इति नाप्रसिद्धिः ॥ २।२१।१६ ॥

ननु रामानुरागिणस्तव रामाभिप्रेतविरुद्धाचरणं न युक्तमित्यत आह– दीप्तमिति । अग्न्यादिकं प्रवेक्ष्यति पित्राद्याज्ञादिनेति शेषः । अवधारय निश्चिनु एतेनास्मिन् प्रव्रजने रामेप्सितत्वं नास्तीति स्वनिश्चयः सूचितः तेन रामेच्छा ईश्वरैरपि दुर्ज्ञेयेति व्यक्तम् ॥ २।२१।१७ ॥

हरामीति । वीर्यात्स्वपराक्रमात् ॥ २।२१।१८ ॥

रामानुकूल्यं पापाचरणेनापि साधयिष्यामीत्याह– हनिष्ये इति । केकय्या सह वृद्धं पितरं हनिष्ये रामप्रतिकूलत्वेन ज्ञातमिति शेषः । एवं तत्त्वेन ज्ञातमसक्तमानसं विषयासक्तिरहितं परमहंसादिमित्यर्थः । कृपणं दीनं च बाल्ये स्थितं बालकं चेत्यर्थः । वृद्धभावेन वृद्धत्वेन गर्हितमतिवृद्धमित्यर्थः । विषयासक्तिरहितादयो न हन्तव्या इति धर्मशास्त्रे प्रसिद्धम् । एतेन रामप्रतिकूलजनविनाशने मम वध्यावध्यविचारो नास्तीति ध्वनितं तेन प्रीतेः परा काष्ठा सूचिता ॥ २।२१।१९ ॥

एतदिति । महात्मनः अतिप्रयत्नशीलस्य लक्ष्मणस्य एतद्वचनं श्रुत्वा राममुवाच ॥ २।२१।२० ॥

तद्वचनमेवाह– भ्रातुरिति । पुत्र हे राम वदतः कथयतः लक्ष्मणस्य तत्त्वं याथार्थ्यविशिष्टमनन्तरं कापट्यरहितं वचनं त्वया श्रुतमतः अत्र अस्मिन् विषये यद्रोचते तत्कुरुष्व ॥ २।२१।२१ ॥

नेति । मम सपत्न्याः केकय्या अधर्म्यं राक्षसाधर्मबोधकं किंच अकालप्रव्रजनयाच्ञाबोधकत्वेन धर्मादनपेतं विरुद्धं वचः श्रुत्वा शोकसंतप्तां वियोगहेतुकशोकव्याप्तां मां विहाय त्यक्त्वा इतो गन्तुं नार्हसि मया सह गन्तुर्महसीत्यर्थः । अत्र संगृेह्य शोकसंतप्तामिति वक्तव्ये विहायेत्युक्त्या स्वगमनाभावनिश्चयः सूचितः ॥ २।२१।२२ ॥

प्रव्रजनविषयकराजाज्ञाभावनिश्चयहेतुकतज्जिगमिषाभावे तत्कर्तव्यमाह धर्मज्ञ इति । हे धर्मिष्ठ धर्मज्ञस्त्व यदि इहस्थः सन्धर्मं चरितुमिच्छसि तर्हि मां शुश्रूष इदमनुत्तमं धर्मं चर । इतिशब्दः इदमर्थे ॥ २।२१।२३ ॥

मातृशुश्रूषणरूपधर्मे शिष्टाचारं प्रमाणयन्ती आह– शुश्रूषुरिति । नियतः निरन्तरमित्यर्थः ॥ २।२१।२४ ॥

प्रव्राजननिवर्तनं मया नोचितमित्याह– यथेति । गौरवेण गुरुत्वेन यथा अहं पूज्येत्यर्थः । तथा राजा पूज्यः अतः इतो वनं त्वया न गन्तव्यमिति न अनुजानामि आज्ञापयामीत्यर्थः । एतेन पत्यनुकूलाचरणशीलात्वं तस्याः सूचितम् ॥ २।२१।२५ ॥

अहं त्वया सहैव नेतव्येति बोधयन्ती आह– त्वदिति । त्वद्वियोगात्त्वद्वियोगं प्राप्य जीवितादिना मे न कार्यम् ॥ २।२१।२६ ॥

यदीति । शोकलालसां शोकव्याप्तां मां त्यक्त्वा यदि वनं यास्यसि तर्हि अहं प्रायं सुमङ्गलं यथा स्यात्तथा इह न आसिष्ये स्थास्यामीत्यर्थः । अत एव जीवितुं जीवयितुं पालयितुमित्यर्थः । न शक्ष्यामि । एतेन रामगमने दशरथो नेह स्थास्यतीति कौशल्यायाः निश्चयः सूचितः ॥ २।२१।२७ ॥

तत इति । ततः प्रजापालनविधाताल्लोकविश्रुतं लोकैर्विश्रावितं कथितमित्यर्थः । निरयं मङ्गलरहितं वचनं प्राप्स्यसे श्रोष्यसीत्यर्थः । तत्र दृष्टान्तः अधर्मात् पिप्पलादापराधरूपकर्मणः ब्रह्महत्यां पिप्पलादोत्पादितकृत्याबोधकशब्दं समुद्र इव समुद्रकर्तृकब्रह्महत्याया अप्रसिद्धिरिति भूषणकृतः । पिप्पलादस्य कृत्याकर्तृत्वादि तु

“पिप्पलादसमुत्पन्ने कृत्ये लोकभयङ्करे । पाषाणं ते मया दत्तमाहारार्थं प्रकल्पितम्” इत्यादिना पुराणेषु प्रसिद्धम् ॥ २।२१।२८ ॥

विलपन्तीमिति । धर्मात्मा सकलधर्मप्रवर्तकः राम उवाच ॥ २।२१।२९ ॥

तद्वचनमेवाह– नेति । समतिक्रमितुमुल्लङ्घितुं पितुर्वाक्यमित्यनेन केकय्युक्तं राजसंमतमेवेति रामनिश्चया व्यक्तः ॥ २।२१।३० ॥

अकार्यमपि पित्राज्ञया कर्तव्यमित्यत्र शिष्टाचारं प्रमाणयन्नाह– ऋषिणेति । ऋषिणा मन्त्रद्रष्ट्रा पितुर्वाक्यं कुर्वता कण्डुना ऋषिविशेषेण गौर्हता ॥ २।२१।३१ ॥

अस्माकमिति । सागरैः सगरपुत्रैः सुमहानत्युग्रः वधः कपिलहेतुकात्मविघातः ॥ २१।३२ ॥

जामदग्न्येनेति । कृत्ता छिन्ना ॥ २।२१।३३ ॥

एतैरिति । देवसमैः देवसदृशैः अनेन तेषामाप्तत्वं बोधितम् पितुर्हितम् । परमयशः प्रापकत्वेनातिप्रियं पितुर्वचनमक्लीबं यथा स्यातथा करिष्यामि ॥ २।२१।३४ ॥

नेति । यतः ये कण्डुजामदग्न्यादयः मया परिकीर्तिताः तैरेतैरपि कृतमतः एकेन मया न क्रियते ॥ २।२१।३५ ॥

मत्पूर्वजैः स्वीकृतत्वान्मयावश्यं कर्तव्य इत्याह– नाहमिति । यतः पूर्वैः सागरादिभिः अयं मार्गो ऽभिप्रेतः इष्टः अत एव गतः प्रतिकूलं स्वकुलाननुरूपमपूर्वं नवीनं न प्रवर्तये अत एव पूर्वैर्गतो मार्गो मयानुगम्यते ॥ २।२१।३६ ॥

उपसंहरन्नाह– तदिति । तद्वर्णितहेतोः कार्यं कर्तव्यं पितुर्वचनं पित्रा निर्दिष्टं भुवि कस्मिंश्चित्स्थले अन्यथा न क्रियते तदेव क्रियते इत्यर्थः । हि यतः पितुर्वचनं कुर्वन् पुरुषः न हीयते त्यज्यते धर्मेणेति शेषः नाम प्रसिद्धमेतत् । किंच अमहीयते न पूज्यते न सर्वो ऽपि पूज्यते इत्यर्थः ॥ २।२१।३७ ॥

तामिति । सर्वधनुष्मतां श्रेष्ठो रामः लक्ष्मणमब्रवीत् ॥ २।२१।३८ ॥

तद्वचनमेवाह– तवेति । हे लक्ष्मण अनुत्तममतिश्रेष्ठं स्नेहादि जानामि ॥ २।२१।३९ ॥

ममेति । हे शुभलक्षण सत्यस्य सत्यप्रतिज्ञस्य अत एव शमस्य नित्यनियमितोभयकरणस्य पितुरतुलं प्राकृतविलक्षणमभिप्रायं प्रतिज्ञापालनादिरूपमभिप्रेतं विज्ञाय मम मातुः महद्दुःखं न एतेन प्रव्रजनप्रतिबन्धकारकं वचनं न वक्तव्यमिति सूचितम् ॥ २।२१।४० ॥

धर्मो ऽवश्यमाचरणीय इति बोधयन्नाह धर्म इति । धर्मः प्रजापालनादिः परमः अतिश्रेष्ठः अत एव धर्मे सत्यं धर्मनिमित्तकं सत्यमित्यर्थः । प्रतिष्ठितमतिश्रेष्ठमत एव धर्मसंश्रितं धर्मनिष्पादकमित्यर्थः । अपिना सत्यसंश्रितमेतत्पितुः वचनमुत्तममेतेन इदं पित्राज्ञापितं कर्तव्यमस्माभिरिति सूचितम् ॥ २।२१।४१ ॥

वाक्यकरणाभावे दोषमाह– संश्रुत्येति । पित्रादिवाक्यं संश्रुत्य करिष्यामीति प्रतिज्ञाय धर्ममाश्रित्य तिष्ठता पुरुषेण वृथा मिथ्या न कर्तव्यम् किंच न कर्तव्यमिति वचनं वृथा तदाचरितधर्मादिवैयर्थ्यसंपादकमित्यर्थः । एतेन स्वधर्मं रक्षिता पुरुषेण पित्राद्याज्ञापनमवश्यमनुष्ठेयमिति सूचितम् ॥ २।२१।४२ ॥

स इति । हे धीर पितुर्वचनात्पित्राज्ञापितत्वहेतोः केकय्या प्रचोदितः वनगमनाय प्रेरितः सो ऽहं नियोगमाज्ञामतिवर्तितुमुल्लङ्घितुं न शक्ष्यामि ॥ २।२१।४३ ॥

तदिति । तद्वर्णितहेतोः अनार्यां क्षुद्रां क्षत्रधर्माश्रितां क्षत्रधर्मैः राज्यधर्मनिष्णातैः आश्रितामासेवितामेनां पित्राज्ञापनज्ञापिकां मतिं विसृज त्यज अत एव तैक्ष्ण्यं प्रव्राजनहेतुभूतकेकय्यादिषु तीक्ष्णत्वं धर्मं माश्रय न स्वीकुरु अत एव मद्बुद्धिः मत्स्वीकृतो निश्चयः अनुगम्यतां क्रियतामित्यर्थः । अयं निरनुबन्धको माशब्दः अत एव “माङि लुङ्” इत्यस्य न प्रवृत्तिः ॥ २।२१।४४ ॥

तमिति । कौशल्यां भूय उवाच ॥ २।२१।४५ ॥

तद्वचनमेवाह– अन्विति । इतः उक्तहेतोः वनं गमिष्यन्तं मामनुमन्यस्व आज्ञापयेत्यर्थः । ननु वियोगकारिणीभूतमत्कर्तृका प्रव्रजनप्रेरणा कथं स्यादित्यत आह– शा नित्यमङ्गलस्वरूपा त्वं प्राणैः प्राणप्रियलक्ष्मणादिभिः सह मम मया प्रापिता नित्यं प्राप्ता नित्यसंबन्धविशिष्टासीत्यर्थः । एतेन सर्वेषां नित्यत्वं सूचितम् । तेन नित्येषु ध्वंसप्रतियोगित्वाभावेन विघ्नानामकिंचित्करत्वाद्वियोगे ऽपि शोको न कार्य इति ध्वनितम् ॥ २।२१।४६ ॥

तीर्णेति । तीर्णा समापिता प्रतिज्ञा येन सो ऽहं पुनरेष्यामि । पुनरागमनमात्रे दृष्टान्तः ययातिरिवेति । ययातिः स्वर्गाद्भूमौ पतितः पुनः स्वर्गं जगामेति प्रसिद्धम् ॥ २।२१।४७ ॥

शोक इति । हे मातः शोकः शोकविशिष्टः पितेति शेषः । संधार्यतां बोध्यतामित्यर्थः । ननु शोकाक्रान्तया मया कथं तस्य प्रबोध इत्यत आह– मा शुचः शोकं त्यजेत्यर्थः । तत्र हेतुः एष्यामि आगन्तास्मि अत एव मा शुच इत्यनेन न पौनरुक्त्यम् ॥ २।२१।४८ ॥

त्वयेति । नियोगे आज्ञापने ॥ २।२१।४९ ॥

अवेति । संभारानभिषेकसामग्रीः अवसंहृत्य संस्थाप्य धर्म्या धर्मादनपेता मम बुद्धिः अनुवर्त्यतां तदनुसारेणैव क्रियतामित्यर्थः ॥ २।२१।५० ॥

एतदिति । सुधर्म्यमतिधर्मविशिष्टमव्यग्रं व्यग्रताविरोधि अविक्लवं कातर्यरहितं वचो निशम्य श्रुत्वा राममिति उवाच ॥ २।२१।५१ ॥

तद्वचनमेवाह– यथेति । यथा ते गुरुः पिता तथा अहमतः स्वधर्मेण स्वस्य आत्मनः पुत्रस्येत्यर्थः । धर्मेण सेवादिना सुहृत्तया चोपलक्षितस्त्वं न मां त्वत्कर्तृकनमस्कारकर्मीभूतां सुदुःखितां त्वद्वियोगश्रुतिहेतुकदुःखविशिष्टां मां विहाय त्यक्त्वा गन्तुं नार्हसि इति त्वा त्वामनुजानामि बोधयामि मया सहैव गन्तुं योग्यो ऽसीति स्वाभिप्रायः सूचितः ॥ २।२१।५२ ॥

ननु विपिने क्लेशभिया न नेतास्मीत्यत आह किमिति । लोकेन सुहृज्जनेन स्वधया स्वधादिशब्दवत्या निखिलक्रिययेत्यर्थः । अमृतेन ध्वंसाप्रतियोगिना जीवितेन कृत्स्नान्निखिलाज्जीवलोकात्सकललोकराज्येनेत्यर्थः । मुहुर्तमपि त्वया विना किं सर्वं व्यर्थमित्यर्थः । तत्र हेतुः तव संनिधानमेव मम श्रेयः ॥ २।२१।५३ ॥

रामजननीवचनं संवर्ण्य तत्समीपवर्तितदभिप्रायानभिज्ञजनवृत्तमाह– नरैरिति । एवं जननीविलापसदृशं जनन्या समीपवर्तिनामिति शेषः । विलापं निशम्य श्रुत्वा उल्कादिभिः अपोह्यमानः निवार्यमाणः अध्वानं मार्गं प्रविष्टो महागज इव भूयः प्रजज्वाल अधिकं शुशुभे गमनाय मतिं चक्रे इत्यर्थः । एतेन जनन्यभिप्रायः रामेण बोधित इति ध्वनितम् ॥ २।२१।५४ ॥

स इति । विसंज्ञकल्पां विसंज्ञं संज्ञाराहित्यं कल्पयति करोति सा ताम् तच्चेष्टादर्शनमात्रेण अन्या अपि विसंज्ञा भवन्तीत्यर्थः । किंच प्राप्तकिंचित्संज्ञां मातरं सौमित्रिं च यत्स एव वक्तुमर्हति

तद्धर्म्यं धर्मादनपेतं वाक्यं धर्मे स्थितः स रामः यथा यथावदुवाच ॥ २।२१।५५ ॥

तद्वचनमेवाह अहमिति । हे लक्ष्मण ते नित्यं पराक्रमं भक्तिं च अहं जानामि त्वं तु ममाभिप्रायमसंनिरीक्ष्य अज्ञात्वा सुदुःखं यथा स्यात्तथा मात्रा सह मा मामर्दसि सहगमनं याचसे ॥ २।२१।५६ ॥

स्वाभिप्रायमाह– धर्मेति । धर्मफलोदयेषु धर्माणां सदसत्कर्मणां फलोदयेषु फलभोगसमयेषु समीक्षितास्तत्त्वतो ज्ञाताः तत्र प्रसिद्धे जीवलोके ये धर्मार्थकामाः ते वश्या, स्वाधीनतां प्राप्ता अभिमता सौन्दर्यादिना अत्यन्तमीप्सिता सपुत्रा पुत्रसहिता भार्येव असंशयं यथा स्यात्तथा मे वश्याः स्युः सन्ति एतेन सर्वे स्वस्वसमये मया रक्षणीया इति सूचितम् ॥ २।२१।५७ ॥

धर्मस्तु सदैव रक्षणीय इति बोधयितुमाह– यस्मिन्निति । यस्मिन्धर्मे सर्वे जनाः असंनिविष्टाः उपदेशमन्तरा प्रवृत्तिरहिताः स धर्मः यतः येनोपायेन स्यात्तेनोपायेन तत्तं धर्ममुपक्रमेत आरभेत । तदिति सामान्ये नपुंसकं धर्महेतुत्वानाक्रान्ता अर्थकामा न सेव्या इति बोधयितुं तत्र दोषमाह– अर्थपरः धर्माकारणीभूतद्रव्यादिसंग्रहीता द्वेष्यो भवति अतः कामात्मता कामपरत्वं न प्रशस्तं तत्रापि द्वेषादेर्दर्शनमस्तीति तात्पर्यम् ॥ २।२१।५८ ॥

गुरुरिति । गुर्वानिदिर्यद्व्यादिशेदाज्ञापयेत्तत्कार्यं धर्ममवेक्ष्य कः अनृशंसवृत्तिर्न कुर्यात् कुर्यादेवेत्यर्थः ॥ २।२१।५९ ॥

नेति । तेन हेतुना इमां पितुः प्रतिज्ञां यथावत्कर्तुं न शक्नोमि न शक्नोम्येवेत्यर्थः । त्वया जनन्या च तदनुष्ठातव्यमित्याह– हे तात आवयोः नियोगे आज्ञापने स एव गुरुः जनन्यास्तु स एव गतिर्धर्मश्च तत्सेवाधीनमेव गत्यादीत्यर्थः । तत्र हेतुः यतो भर्ता पतिः ॥ २।२१।६० ॥

तस्मिन्निति । स्वे पथि राजधर्मे वर्तमाने धर्मराजे पितरि जीवति पालयति सति अन्या प्राकृतविलक्षणा देवी माता विधवा स्वामिरहिता नारीव मया सार्धमितः कथमभिगच्छेन्मातुर्गमनं नोचितमिति तात्पर्यम् ॥ २।२१।६१ ॥

सेति । देवि हे मातः सातिपूज्या त्वं मा मामनुमन्यस्व आज्ञापय अत एव नः स्वस्त्ययनानि कुरुष्व । तत्र हेतुः यथा समाप्ते नियमितवनप्रव्रजनवर्षपूर्तौ आव्रजेयमागच्छेयम् । तत्र दृष्टान्तः ययातिर्यथेति ॥ २।२१।६२ ॥

यश इति । अवरां सर्वलोकापेक्षया न्यूनां महीमदीर्घकाले जीविते प्रकटतया पालने केवलराज्यकारणान्महोदयमत्युदयप्रापकं यशः अधर्मतः पृष्ठतः कर्तुमहं न वृणे । अन्तर्भाषितणिजर्थो जीवतिः ततो भावे निष्ठा ॥ २।२१।६३ ॥

प्रसादयन्निति । नरवृषभः प्राकृतविलक्षणत्वेन सकलनरश्रेष्ठः पराक्रमात्परेषां मुनिशत्रूणामाक्रमः विध्वंसनं तस्माद्धेतोः दण्डकान् जिगमिषुः स रामः मातरमनुजं च दर्शनं धर्मविषयकज्ञानमनुशास्य जननीं प्रदक्षिणं हृदि हृदये चकार प्रत्यक्षप्रदक्षिणस्य वियोगज्ञापकत्वात् तत्र कृतमिति तात्पर्यम् ॥ २।२१।६४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकविंशः सर्गः ॥ २।२१ ॥