प्रवेशप्रकारं वर्णयन्नाह– तस्मिन्निति । पुरुषव्याघ्रे पुरुषश्रेष्ठे अनिष्क्रामति प्रविशति सति अन्तःपुरे राज्ञ्यन्तर्गृहे स्त्रीणां महानार्तशब्दो जज्ञे ॥ २।२०।१ ॥
तच्छब्दार्थमाविष्कुर्वन्नाह– कृत्येष्विति । सर्वस्यान्तःपुरस्य कृत्येषु अभिप्रेतकार्येषु यः पित्रा अचोदितः अप्रेरितो ऽपि गतिः निर्वाहकर्ता शरणं रक्षकश्चासीत् स रामः प्रवत्स्यति वनं गमिष्यति ॥ २।२०।२ ॥
कौसल्यायामिति । कौशल्यायां जनन्यां स्वमातरि यथा आयुक्तः एकाग्रचित्तः सन् कार्यकारी वर्तते तथैव अस्मास्वपि ॥ २।२०।३ ॥
नेति । अभिशप्तः दुरुक्तो ऽपि क्रोधनीयानि क्रोधकारणीभूतवचनानि वर्जयन् विस्मरन् न क्रुध्यति क्रुद्धानस्मान्महिषीजनान्यः प्रसादयन्सन्वर्तत इति शेषः । स रामो ऽद्य प्रवत्स्यति ॥ २।२०।४ ॥
अबुद्धिरिति । यो ऽयं राजा जीवलोकं चरति दिग्जिगीषया अगच्छदित्यर्थः । सर्वभूतानां गतिं राघवं रामं परित्यजति च स राजा अबुद्धिः कर्तव्यविषयकनिश्चयरहितो नो न अवश्यकर्तव्यमुद्दिश्यैव प्रेषयतीत्यर्थः । विनापि चं समुच्चयः ॥ २।२०।५ ॥
इतीति । इति अनेन प्रकारेण विवत्सा धेनवः इव विद्यमानाः सर्वा महिष्यः सस्वरं शब्दं कुर्वन्तं जनमित्यर्थः । आचुक्रुशुः निनिन्दुः पतिं राजानं चुक्रुशुः । हे पते भवद्विचारितं नास्मद्बुद्धिविषय इत्युच्चारयामासुरित्यर्थः ॥ २।२०।६ ॥
स इति । महीपतिः स दशरथः अन्तःपुरे घोरं श्रवणानर्हमार्तशब्दं कारुण्यसंपादकस्वनं श्रुत्वा आसने व्यालीयत वस्त्रेण स्वशरीरमाच्छाद्यावाङ्मुखो ऽतिष्ठदित्यर्थः ॥ २।२०।७ ॥
राम इति । रामस्तु भृशमत्यन्तमायस्तः आसमन्ताद्भावेन एः कामस्य स्वेशितस्येत्यर्थः । अः प्राप्तिस्तस्माद्भावक्विबन्तगत्यर्थकासधातोरूपम इति । अनिःश्वसन् क्रोधादिरहित इत्यर्थः । कुञ्जरो गज इव मातुरन्तःपुरं जगाम प्राप ॥ २।२०।८ ॥
स इति । तत्र अन्तःपुरद्वारे उपविष्टं स्थितिमन्तं परमपूजितमतिसत्कृतं वृद्धं ज्ञानवयोभ्यामधिकं पुरुषं द्वारपालमुख्यं गृहद्वारि तिष्ठतः अपरांश्च द्वारपालानपश्यत् ॥ २।२०।९ ॥
दृष्ट्वेति । समुपस्थिताः समीपं प्राप्ताः सर्वे जयतां श्रेष्ठं विजयिमुख्यं रामं जयेन जयशब्देन वर्धयन्ति स्म राघवस्य जयः स्यादित्यन्तमुच्चारयन्ति स्मेत्यर्थः । “जय” इति पाठे त्वं जय सर्वोत्कर्षेण वर्तस्व इति वर्धयन्ति उत्साहयन्ति स्मेत्यर्थः ॥ २।२०।१० ॥
प्रविश्येति । प्रथमां कक्ष्यां द्वारं प्रविश्य अतिक्रम्येत्यर्थः ॥ २।२०।११ ॥
प्रणम्येति । तान्द्वितीयाकक्ष्यास्थितान् प्रणम्य तृतीयायां स्त्र्यादीन्ददर्श ॥ २।२०।१२ ॥
वर्धयित्वेति । प्रहृष्टाः रामदर्शनेनातिहर्षं प्राप्ताः ताः द्वाररक्षणतत्पराः स्त्रियः वर्धयित्वा तवातिवृद्धिकालः प्राप्त इत्युक्त्या राममातुः प्रियमत्यन्तं प्रीतिविषयीभूतं रामागमनमित्यर्थः । न्यवेदयन्त तस्यै एवेति प्रत्यासत्तिन्यायलभ्यम् ॥ २।२०।१३ ॥
निवेदनकालं बोधयन्नाह– कौशल्येत्यादि । पुत्रहितैषिणी कौशल्या विष्णोः सूर्यस्य पूजामकरोत् । रामस्य सूर्यमण्डलमध्यस्थत्वेन स्वकुलमूलपुरुषत्वेन चातिस्नोहात्तत्पूजायां प्रवृत्तिरिति सूचितम् ॥ २।२०।१४ ॥
सेति । क्षौमवसना क्षुमाया अतस्याः विकारः क्षैमं तद्वसनं यस्याः सा मन्त्रवत् मन्त्रविशिष्टं यथा स्यात्तथा अग्निं जुहोति स्म ॥ २।२०।१५ ॥
प्रविश्येति । शुभं मातुरन्तःपुरं प्रविश्य हावयन्ती ब्राह्मणैरिति शेषः । मातरं ददर्श एतदनुरोधेन
पूर्वत्र जुहोतीत्यस्य हावयन्तीत्यर्थः । अत्रैव स्वार्थे णिज्वा ॥ २।२०।१६ ॥
देवेति । देवकार्यनिमित्तं देवकार्यार्थं समुद्यतं प्राप्तं दध्यादि ददर्श । श्लोकद्वयमेकान्वयि तत्र हविष इत्यत्र लिङ्गव्यत्यय आर्षः । कृसरं द्विदलमिश्रतण्डुलम् ॥ २।२०।१७१८ ॥
तामिति । अद्भिर्जलैः देवतां तर्पयन्तीं वरवर्णिनीमुत्तमवर्णविशिष्टां गौराङ्गीमित्यर्थः, ददर्श ॥ २।२०।१९ ॥
सेति । चिरस्य बहुकालमात्मजं दृष्ट्वा संहृष्टा सती अभिचक्राम प्रत्युज्जगाम । तत्र दृष्टान्तः किशोरमश्वबालं वडवा अश्वत्वजातिविशिष्ठा स्त्री वा किंच अवगतः प्रादुर्भूतः रवः हे पुत्रागच्छेत्यादिः शब्दो यस्याः सा यथावदभिचक्राम । भागुरिमतेनावाकारलोपः रलयोरैक्याद्रेफस्य लकारः डलयोश्चैक्याल्लस्य डः ॥ २।२०।२० ॥
स इति । उपक्रान्तां स्वसमीपमागतां मातरमुपसंगृह्य कराभ्यां कण्ठे गृहीत्वा यो राघवो ऽतिष्ठदिति शेषः । सः बाहुभ्यां परिष्वक्तः मूर्धनि अवघ्रातश्च मात्रेति शेषः ॥ २।२०।२१ ॥
तमिति । प्रियहितं प्रियत्वसमानाधिकरणहितत्वविशिष्टमुवाच ॥ २।२०।२२ ॥
तद्वचनमेवाह– वृद्धानामिति द्वाभ्याम् । वृद्धानां ज्ञानवयोभ्यामधिकानां राजर्षीणामायुः आयुस्तुल्यमायुः प्राप्नुहि आयुश्शब्दः स्वसदृशे लाक्षणिकः मुख्यस्येहासंभवात् । कीर्तिधर्मयोरप्येषैव गतिः एकचकारस्येवार्थकत्वे तु मुख्यत्वे ऽपि न क्षतिः ॥ २।२०।२३ ॥
सत्येति । पितरं सत्यप्रतिज्ञं पश्य जानीहि अत एव स राजा त्वामद्यैवाभिषेक्ष्यति किंच यः स धर्मात्मा धर्मेण सहितः आत्मा प्रयत्नो यस्य धर्मनिष्पादकप्रयत्नवानित्यर्थः । राजा त्वां यौवराज्ये ऽभिषेक्ष्यति त्वत्कर्मकयौवराज्यसंपादकाभिषेकानुकूलव्यापारं करोति तं राजानं त्वं सत्यप्रतिज्ञं पश्य जानीहि दृशिर्ज्ञानसामान्ये लृडुपात्तभविष्यत्कालस्याविवक्षा ॥ २।२०।२४ ॥
कौसल्योक्तिं संवर्ण्य रामोक्तिं वर्णयितुमुपक्रमते– दत्तमिति । अञ्जलिं प्रसार्य आसनग्रहणार्थं हस्तमुत्थाप्येत्यर्थः । दत्तं मात्रा समर्पितमासनमालभ्य प्रसारिताञ्जलिना गृहीत्वा भोजनेन भोजनार्थं निमन्त्रितः मात्रेति शेषः । गौरवात्सर्वश्रेष्ठत्वादानतः सर्वैर्नमस्कृतः स्वभावविनीतः स्वभावतो नम्रः दण्डकारण्यं प्रस्थितो राघवः आप्रष्टुं गमनायाज्ञां ग्रहीतुमुपचक्रमे अत एव मातरं किं चिदब्रवीत् । ऽप्रसाद्याञ्जलिःऽ इति पाठे प्रकर्षेण संनाञ्जलिः विशीर्णाञ्जलिरित्यर्थः । इति कश्चित् मातुः प्रसादनयोग्याञ्जलिरित्यर्थः । उचित इति भट्टाः । “व्रीडाञ्जलिः” इति भूषणपाठः । श्लोकद्वयमेकान्वयि ॥ २।२०।२५,२६ ॥
तद्वचनमेवाह–देवीति । हे देवि उपस्थितं प्राप्तं महद्भयं राक्षसहेतुकदण्डकारण्यस्थऋषिमहाभीतिं त्वं जानीषे अतः दण्डकारण्यमहं गमिष्ये अतः इदं मत्कर्तृकदण्डकारण्यगमनं तव वैदेह्याश्च लक्ष्मणस्य च दुःखाय न भवतु इति शेषः । अतः विष्टरासनयोग्यः पञ्चविंशतिसंख्याकदर्भनिर्मितासनविशेषार्हः तादृशासनप्रापक इत्यर्थः । अयं कालः मामुपस्थितः प्राप्तः अतः अनेन आसनेन मे किं न किंचिदित्यर्थः । श्लोकद्वयमेकान्वयि । “पञ्चाशद्भिर्भवेद्ब्रह्मा तदर्धेन तु विष्टरः” इति स्मृतिः ॥ २।२०।२७,२८ ॥
वनवासावधिं बोधयन्नाह– चतुर्दशेति । विजने विशिष्टजनसहिते वने मुनिवद्वत्स्यामि आमिषं राजभोग्यं वस्तु हित्वा त्यक्त्वा “आकर्षणे ऽपि पुंसि स्यादामिषं पुंनपुंसकम् । भोग्यवस्तुनि संभोगे ऽप्युत्कोचे पलले ऽपि च” इति मेदिनी । “तां तदा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् । निषण्णां तां गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥ इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना । एवमास्ते स धर्मात्मा सीतया सह राघवः” इति पद्यघटकीभूतमांसशब्दार्थस्तु मांसेन मुनिभोग्यफलादिना छन्दयन् लालयन् ।
लालनप्रकारमाह– इदमित्यादिना । तथा च मेदिनी “मांसं स्यादामिषे क्लीबम्” इति । तत्रामिषशब्दः भोग्यवस्त्वर्थकः पूर्वोदाहृतकोशात् ॥ २।२०।२९ ॥
ननु तव स्वातन्त्र्येण गमनमनुचितमित्यत आह– भरतायेति । महाराजः यौवराज्यं युवराजोचितं प्रजापालनमित्यर्थः । तापसमनेकविधतपस्विविशिष्टं दण्डकारण्यं विवासयति प्रेषयतीत्यर्थः ॥ २।२०।३० ॥
वक्ष्यमाणकौशल्यापतनहेतुत्वेनोक्तमर्थं पुनराह– स इति । षट् अष्टौ वर्षाणि वन्यानि सुखानि आसेवमानः सो ऽहं वत्स्यामि इति रामोक्तं श्रुत्वेति शेषः । परशुना निकृत्ता छिन्ना शालस्य वृक्षविशेषस्य यष्टिरिव दिवश्च्युता देवतेव सा देवी कौशल्या पपात । श्लोकद्वयमेकान्वयि ॥ २।२०।३१,३२ ॥
तामिति । गतचेतसं श्रुतवियोगजनितदुःखेन तिरोहितचैतन्यां मातरमुत्थापयामास ॥ २।२०।३३ ॥
उपेति । वाहितामभिषेकविषयकप्रयत्नकर्त्रीमवडवामवगतः प्रादुर्भूतः हे पुत्र इत्यादिशब्दो यस्याः तां पांसुगुण्ठितसर्वाङ्गीं धूलीव्याप्तशरीरामुपावृत्त्य कराभ्यां गृहीत्वैव उत्थितामुत्थापितां तां पाणिना विममर्श परिममार्ज अन्तर्भावितणिजर्थस्तिष्ठतिः । इवशब्द एवार्थे ॥ २।२०।३४ ॥
सेति । उपासीनं स्वां सेवमानं राघवमसुखार्ता असुखेन सुखविरोधिना दुःखेनेत्यर्थः । आर्ता व्याप्ता सा कौशल्या उवाच ॥ २।२०।३५ ॥
तद्वचनमेवाह– यदीति । हे पुत्र मम शोकाय शोकमपनेतुं यदि त्वं न जायेथाः अजायथास्तदा एवं दुःखं न पश्येयमपश्यमतः वियोगात्तु भूयो ऽधिकं दुःखं पश्येयम् । स्मशब्द एवमर्थे ॥ २।२०।३६ ॥
पूर्वदुःखस्याल्पत्वे हेतुं वदन्ती आह– एकेति । वन्ध्यायाः पुत्ररहितायाः अहमप्रजा पुत्ररहिता ऽस्मीति मानसः एक एव शोको भवति अन्यः पुत्रदुःखादिनिमित्तः संतापो न विद्यते । एतेन पुत्रवियोगे वियोगजनितदुःखं पुत्रदुःखादिश्रवणजनितदुःखं चास्तीति दुःखाधिक्यं सूचितम् ॥ २।२०।३७ ॥
त्वच्चिकीर्षितस्य सिद्धिर्भवितैवेत्याह– नेति । हे राम पतिपौरुषे पतिकर्तृकदिग्विजयादावित्यर्थः । यत्कल्याणं श्रोतृ़णां कल्याणसंपादकं सुखं न दृष्टं पूर्वं नानुभूतमित्यर्थः । तदपि कल्याणं सुखं पुत्रे त्वयि वनस्थे सत्यपीति शेषः । विपश्येयमनुभवितास्मीत्यर्थः । इति मया स्थितं निश्चितम् । एतेन त्वत्कर्तृकविजये ऽस्माकं संशयो नास्तीति सूचितम् ॥ २।२०।३८ ॥
त्वत्कर्तृकविजयकालात्पूर्वं ममातीव दुःखमित्याह– सेति । सा अभिषेकोचितप्रेषितपुत्रा अहममनोज्ञानि अप्रियाणि हृदयच्छिदामस्मत्समृद्धिदर्शनेन विदीर्णहृदयानामवराणामैश्वर्यादितो न्यूनानां सपत्नीनां शत्रुस्त्रीणां बहूनि वाक्यानि अस्मद्भाग्यवत्ताहानिसूचकवचनानि श्रोष्ये श्रोतास्मि ॥ २।२०।३९ ॥
अत इति । अतः एवं दुरुक्तश्रवणाद्दुःखतरं प्रमदानामस्माकं किंनु भविष्यति न भविष्यतीत्यर्थः । अतः यादृशः अयं त्वद्वियोगजनितः शोको विलापश्च तादृशः अनन्तकः त्वद्विजयात्पूर्वकाले अविनाशी भविष्यति । भविष्यतीत्युभयान्वयि ॥ २।२०।४० ॥
त्वयीति । हे तात संनिहिते ऽपि त्वयि अहं निराकृता भविष्यत्वद्वियोगश्रवणेन विभिन्नचित्ता आसमभवम् । अतः त्वयि प्रोषिते मरणमिव दुःखं स्यादिति किं वक्तव्यम् एव इवार्थे ॥ २।२०।४१ ॥
अत्यन्तेति । भर्तुः परिवारेण परिवारसदृशेन सुमन्त्रेणेत्यर्थः । केकय्या च असमा श्रेष्ठेत्यर्थः । आवरा तदत्यन्तस्वीकारकर्त्री अहं यतो ऽसंमता प्रव्राजने तत्संमतिं न प्राप्ता अतः अत्यन्तनिगृहीता
दुःखितास्मीत्यर्थः । “अतन्द्रिता” इति टीकासंमतपाठे । संमत्यग्रहणेन अप्रधानीकृतेत्यर्थः । “तन्त्रं प्रधाने सिद्धान्ते” इति निघण्टुः ॥ २।२०।४२ ॥
स्वमहत्त्वं प्रकटयन्ती आह– य इति । केकय्याः पुत्रं भरतं यः कश्चित्सेवते अनुवर्तते वा स जनः मामन्वीक्ष्य नाभिभाषते मत्संकोचान्मौनीभूय तिष्ठतीत्यर्थः ॥ २।२०।४३ ॥
नित्येति । नित्यकः त्वद्वियोगहेतुकनित्यविक्षेपाद्धेतोः अधतया पोषणानुकूलव्यापारराहित्येनोपलक्षिताहं वदनमिह स्थितिमन्तं केकय्याः खरवादिनं केकयीकर्मककठोरवक्तारं जनं द्रष्टुं बोधयितुं कथं शक्ष्यामि । अत एवामोलुगभावे मत्क्लेशकल्पनं दृशिर्ज्ञानसामान्ये वदनमित्यत्र स्थैर्यार्थको वदति । तेन नेह मम स्थातुं योग्यतेति सूचितम् । “खरवादवत्” (खरवादि तत् ?) इति भूषणपाठः ॥ २।२०।४४ ॥
दशेति । दुःखपरिक्षयं दण्डकारण्यऋषिपीडाध्वंसं प्रकाङ्क्षन्त्या मया जातस्य मत्तः प्रकटीभूतस्य तव दश सप्त दश च दशचेत्येकशेषः विंशतिरित्यर्थः । ते च सप्त च च एकश्च दशसप्तचाः अष्टाविंश्ातिरित्यर्थः । ते एव वर्षाणि किंच सप्तशब्दस्यैवैकशेषः तेन सप्तशब्देन चतुर्दशलाभः चशब्देनैकत्वलाभः एवं च दशसप्त च वर्षाणीत्यस्य पञ्चविंशतिवर्षाणीत्यर्थः अतीतानि चशब्देनैकत्वलाभस्तु चन्द्रमो वाचकत्वेन यथा चैतस्यायमर्थः तथा बालकाण्डे निरूपितम् ॥ २।२०।४५ ॥
तदिति । अक्षयमन्यैर्विनाशयितुमशक्यं दुःखं राक्षसहेतुकऋषिक्लेशं चिरात् बहुकालं सहितुं क्षन्तुं नोत्सहे । एवमनेन प्रकारेण सपत्नीनां शत्रुस्तीणां विप्रकारं युवराजत्वोचितः अस्याः पुत्रः प्रव्रजित इति दुर्भाग्यमस्या इति दुरुक्तिं चिरात्सहितुं नोत्सहे एतेनान्यतरक्लेशस्य दुर्निवारत्वं सूचितम् ॥ २।२०।४६ ॥
अपश्यन्तीति । कृपणजीविका कृपणा क्षीणा जीविका जीवनप्रवृत्तिर्यस्याः सा ॥ २०।४७ ॥
उपवासैरिति । दुःखं यथा भवति तथा दुर्गतया विविधचिन्तां प्राप्तया मया उपवासाद्यैः संवर्धितस्त्वममोघं क्रियासाफल्यमित्यर्थः कुर्विति शेषः । एतेनास्मदाज्ञापरिपालनं तवोचितमेवेति सूचितम् ॥ २।२०।४८ ॥
वियोगस्यासह्यत्वं बोधयन्ती आह– स्थिरमिति । स्थिरं कठिनं प्रावृषि वर्षर्तौ महानद्याः गङ्गादेः ॥ २।२०।४९ ॥
भवदागमनं विना मम दुःखक्षयो न भविष्यतीत्याह– ममेति । यद्यतः मम यमक्षये यमकर्तृकमत्कर्मकविनाशने अवकाशः यमकर्तृकप्रकाशः यमसामर्थ्यमिति यावन्नास्ति तस्मान्मम मरणं नैव विद्यते अत एव अन्तकः यमः मां नैव जिहीर्षति आनेतुमिच्छति । एतेन यदि मरणं स्यात्तर्हि दुःखक्षयः स्यात्तस्याभावाद्दुःखविनाशः त्वदधीन एवेति सूचितम् ॥ २।२०।५० ॥
स्थिरमिति । यत् यतः अकाले अल्पकाले ईश्वराधीनकाले इत्यर्थः । मम मरणं न विद्यते अत एव विशेषणविशिष्टं हृदयं न विदीर्यते अतः अनेन भविष्यत्वद्वियोगदुःखेन अर्पितं व्याप्तं देहमस्तीति शेषः देहशब्दः अर्धर्चादिः ॥ २।२०।५१ ॥
इदमिति । यद्यतो मे व्रतादीनि अनर्थकानि न अर्थः प्राकृतविषयः फलत्वेन येषु प्राकृतविलक्षणार्थफलकानीत्यर्थः । अपत्यकाम्यया तपश्च सुतप्तमतः इदं दुःखमूषरे उप्तं बीजमिव सुनिष्फलं भविष्यतीति शेषः । शीघ्रमेव विनङ्क्ष्यतीत्यर्थः । एतेन क्षिप्रं ते विजयो भविष्यतीति ध्वनितम् ॥ २।२०।५२ ॥
यदिति । त्वया विना गुरुदुःखकर्षितः कश्चित्पतिरित्यर्थः । अकाले कालभयशून्यत्वे ऽपि
यदृच्छया स्वेच्छया मरणं हि मरणमिव लोकान्तरगमनमित्यर्थः लभेत कुर्यादित्यर्थः । तदा परेतसंसदं मृतसभामिव गता प्राप्ता आत्मजने विना धेनुरिवाहं स्यामिति शेषः । एव इवार्थे । एतेन राजकर्तव्यं तया ज्ञातमिति सूचितम् ॥ २।२०।५३ ॥
त्वद्वियोगे जीवनं वृथेत्याह– अथेति । त्वया विना मे किंजीवितं जीवनमपि कुत्सितमित्यर्थः । अथातो हेतोः वृथा निरर्थकमित्यर्थः । अतस्त्वयैव सह वनमनुव्रजिष्यामि अभिकाङ्क्षया सुखेच्छया ॥ २।२०।५४ ॥
भृशमिति । यदा महद्व्यसनं सुतवियोगजनितमहादुःखमुपनिशाम्य संस्मृत्य अमर्षिता तद्दुःखसहनसामर्थ्यहीना आसेति शेषः । तदा बद्धं पितृनियन्त्रितं राघवं बहु अत्यन्तं समीक्ष्य सा विलालाप ॥ २।२०।५५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे विंशः सर्गः ॥ २।२० ॥