रामवृत्तं बोधयन्नाह– स इति । विषण्णं तं सम्भावितपुत्रवियोगजनितदुःखाक्रान्तमत एव दीनं केकय्या सहितं परिशुष्यता मुखेनोपलक्षितं पितरमासने पर्यङ्के ददर्श ॥ २।१८।१ ॥
स इति । सुसमाहितः नित्यमेकाग्रचित्तः स रामः विनीतवद्विनम्रताविशिष्टं यथा स्यात्तथा केकय्याः चरणौ ववन्दे ॥ २।१८।२ ॥
रामप्रणामानन्तरकालिकं राजवृत्तान्तमाह– रामेति । नृपतिस्तु राम इति वचनमुक्त्वा बाष्पपर्याकुलेक्षणः अश्रुव्याप्तनेत्रः सन् ईक्षितुं रामं द्रष्टुं न शशाक अभिभाषितुं प्रत्यभिवादनवाक्यमुच्चारयितुं च न शशाक ॥ २।१८।३ ॥
तदिति । भयावहं द्रष्टृ़णां भयप्रापकं नरपतेः तदीक्षणाभावादिविशिष्टमपूर्वरूपं दृष्ट्वा रामो ऽपि भयमदृष्टपूर्वराजचेष्टाहेतुभूतनिश्चयाभावहेतुकभीतिमापन्नः प्राप्तः ॥ २।१८।४ ॥
इन्द्रियैरिति । अप्रहृष्टैः हर्षाभावविशिष्टैरिन्द्रियैः शोकसंतापकर्षितमप्रहृष्टेन्द्रियज्ञाप्यशोकसंतापविशिष्टमत एव निःश्वसन्तमत एव व्यथिताकुलचेतसं व्यथिताकुलं चेतो यस्य तं क्षुभ्यन्तं समयविशेषे प्राप्तक्षोभमक्षोभ्यं क्षोब्धुमशक्यमूर्मिमालिनं तरङ्गसमूहविशिष्टं सागरमिव समुद्रसदृशमुपप्लुतं राहुणाग्रस्तमादित्यमिव ग्रस्तादित्यसदृशमुक्तानृतं भाषितमिथ्यावचनमृषिं यथा भाषितमिथ्यावचनऋषिसदृशं महाराजं दृष्ट्वेति शेषः । अचिन्त्यकल्पं नृपतेः शोकमुपधारयन्निश्चिन्वन्सन् पर्वणि समुद्र इव संरब्धतरः संक्षुब्धः बभूव राम इति शेषः । श्लोकत्रयमेकान्वयि ॥ २।१८।५७ ॥
चिन्तयामासेति । चतुरः सर्वविषयकनैपुण्यविशिष्टः चिन्तयामास । तच्चिन्तनमेवाह– अद्य अस्मिन्काले एव न प्रत्यभिनन्दति स्विदेतत्किम् ॥ २।१८।८ ॥
अन्यदेति । अन्यदा अन्यस्मिन्काले यं मां दृष्ट्वा प्रसीदति तं मां संप्रेक्ष्य दृष्ट्वा तस्य राज्ञः आयासः खेदः प्रवर्तते किम् । आश्चर्यार्थकः किं शब्दः ॥ २।१८।९ ॥
स इति । दीन इव दीनत्वेन प्रतीयमान इत्यर्थः । उत्तरयोरपि इवशब्दसम्बन्धेन एवमर्थो बोध्यः ॥ २।१८।१० ॥
तद्वचनमेवाह– कच्चिदिति । अज्ञानाद्यद्विषयिणी एतस्य प्रीतिरप्रीतिर्वा तद्विषयकज्ञानाभावात् अपराद्धं विपरीतकरणेनापकृतं कच्चित् न येनापकारेण मे पिता कुपितः तदाचक्ष्व कथय त्वमेनं प्रसादय एव येनोपायेन प्रसन्नः स्यात्तमुपायं कुर्वित्यर्थः ॥ २।१८।११ ॥
अप्रसन्नेति । यः पिता सदा नित्यं मां प्रति वत्सलः मद्विषयकवात्सल्यविशिष्टः सः अप्रसन्नमनआदिः सन्मां न प्रतिभाषते किं नु किमेतत् ॥ २।१८।१२ ॥
शारीर इति । शारीरः शरीरसम्बन्धिज्वरादिजनितः संतापः पीडा मानसः मनस्थवाञ्छापूर्त्यभावजनितो ऽभितापः शोकादिर्वा दुर्लभं प्राकृतैर्दुष्प्रापं सदासुखं नित्यसुखविशिष्टमेनं पितरं कच्चिन्न बाधते ॥ २।१८।१३ ॥
कच्चिदिति । भरतादौ मम मातृ़णां वा अशुभमपराधो न कच्चित् ॥ २।१८।१४ ॥
पितृसंतोषो ऽवश्यं कर्तव्य इति बोधयन्नाह– अतोषयन्निति । अतोषयंस्तुष्टमकुर्वञ्जीवितुं न इच्छेयम् ॥ २।१८।१५ ॥
तत्र हेतुमाह– यत इति । मूलं प्रवृत्तिहेतुभूतमात्मनः स्वस्य प्रादुर्भावं प्राकट्यं यतो यस्मात्पश्येज्जानाति तस्मिन्प्रत्यक्षे दैवते सति कथं न वर्तेत तदानुकूल्येनेति शेषः । एतेन यतो मूलं यन्मूल्यमित्यर्थे आर्षमेतदिति भट्टाद्युक्तिश्चिन्त्या ॥ २।१८।१६ ॥
कच्चिदिति । अभिमानादयं मद्वश इति गर्वाद्भवत्या मत्पिता परुषमुक्तः रोषेण रोषहेतुभूतेन
येन वचनेन अस्य राज्ञो मनो लुलितं त्यक्तस्वभावम् ॥ २।१८।१७ ॥
उपसंहरन्नाह– एतदिति । अपूर्वः पूर्वमनुत्पन्नः अयं विकारः अजायतेति शेषः । अत्र निमित्तं किमत्रेत्यध्याहृतम् ॥ २।१८।१८ ॥
एवमिति । सुनिर्लज्जा यशःप्रख्यापनरूपपत्युपकारार्थं त्यक्तव्रीडा केकयी आत्महितं जीवानामुपकारकमधृष्टं प्रागल्भ्यरहितमिदं वच उवाच ॥ २।१८।१९ ॥
तद्वचनमेवाह– नेति । व्यसनं व्याध्यादिजनितदुःखं मनोगतमभिप्रेतं त्वद्भयात्त्वद्वियोगभिया नानुभाषते कथयति । एतेन त्वद्वियोगमन्तरा एतदभिप्रेतसिद्धिर्न भविष्यतीति बोधितम् ॥ २।१८।२० ॥
प्रियमिति । अप्रियं प्रियविरुद्धत्वेन प्रतीयमानं तत्तस्मादेतदभिप्रेतत्वान्मम मह्यं यदाश्रुतं प्रतिज्ञातं तत्त्वया कार्यं कर्तव्यम् ॥ २।१८।२१ ॥
एष इति । पुरा पूर्वं मामभिपूज्य प्रशस्य वरं दत्त्वा स वरदाता एष राजा पश्चात्तप्यते तत्र दृष्टान्तः अन्यः सत्यप्रतिज्ञभिन्नः प्राकृतः प्रकृतिकार्यशरीरको यथा । एतेनोपमालङ्कारेणास्य प्राकृतविलक्षणत्वं ध्वनितम् । “न जायते म्रियते वा” इत्यादिवाक्येन सर्वेषामात्मनां प्राकृतविलक्षणत्वेन शरीरे तस्य पर्यवसानं बोध्यम् । अन्य इति विशेषणदानेन प्राकृतो ऽपि सत्यप्रतिज्ञो न शोचतीति ध्वनितम् ॥ २।१८।२२ ॥
शोको न कार्य इति बोधयन्ती आह– अतीति । अहं ददामीति अतिसृज्य प्रतिज्ञाय स विशांपतिः राजा विपरीतमिच्छति चेत्तन्निरर्थं निष्प्रयोजनं सेतुं बन्धितुमिच्छति ॥ २।१८।२३ ॥
धर्मेति । हे राम सत्यं धर्ममूलं सर्वधर्मकारणमिदं सतां विदितं निश्चितं तत्सत्यम् । कुपितो यथा संभावितत्वद्वियोगहेतुककोपाभासविशिष्टो ऽपि राजा त्वत्कृते भवत्परमयशोनिष्पत्तये न त्यजेत् ॥ २।१८।२४ ॥
यदीति । यदि यदा अशुभं निम्बौषधादिवत्प्रातिभासिकाशुभत्वविशिष्टं यदि वा शुभं प्रातीतिकपारमार्थिकशुभत्वविशिष्टं राजा वक्ष्यते उक्त्यनुकूलकृतिमान्भवतीत्यर्थः । तदैव सर्वं प्रातिभासिकाशुभत्वविशिष्टं प्रातीतिकपारमार्थिकशुभत्वविशिष्टं च त्वं पुनः करिष्यसि अतः सर्वं राजाभिप्रेतमाख्यास्यामि कथयिष्यामि । अत्र वच एव कृतिरर्थ इति न वैयाकरणमतविरोधः । वक्ष्यते करिष्यसीत्यत्र लृडुपात्तभविष्यत्कालस्याविवक्षा ॥ २।१८।२५ ॥
रामवचनशुश्रूषयाह– यदीति । यदि राज्ञा ऽभिहितं मदनुमितराजाज्ञापितं त्वयि न विपत्स्यते निरर्थं न भवेदित्यर्थः । ततः तदा तन्मदनुमितराजाज्ञापितमहमभिधास्यामि कथयिष्यामि एष तु न वक्ष्यति । प्रसिद्धश्च वचने “प्रधानविषयाशक्तिः प्रत्ययेनाभिधीयते” इत्यादावभिदधाति ॥ २।१८।२६ ॥
एतदिति । समुदाहृतं कथितं व्यथितः पितृदशादर्शनहेतुकसंचलितचित्तः रामः उवाच ॥ २।१८।२७ ॥
तद्वचनमेवाह– अहो इति । हे देवि ईदृशमाज्ञापनाङ्गीकारविषयकसंशयबोधकं वचः वक्तुं यदि अर्हसे तर्हि मां धिक् एवं संशयो न कार्य इत्यर्थः । तदेव आह– पावके वह्नौ ॥ २।१८।२८ ॥
भक्षयेयमिति । अर्णवे समुद्रे गुरुणा वशिष्ठेन हितेन हितोपदेशकर्त्रा पित्रा ॥ २।१८।२९ ॥
तदिति । प्रतिजाने प्रतिज्ञां करोमि । स्वस्वाभाविकं गुणमाह– रामः रामशब्दतादात्म्यापन्नः द्विः प्रतिज्ञाविपरीतं न अभिभाषते ॥ २।१८।३० ॥
तमिति । आर्जवसमायुक्तं विनयसंपन्नं तं राममनार्या सर्वश्रेष्ठा कैकेयी भृशदारुणं रामवियोगसम्पादकत्वेनातिकठिनं वचनमुवाच ॥ २।१८।३१ ॥
तद्वचनमेवाह– पुरेति । सशल्येन शत्रुविद्धबाणसहितेन ॥ २।१८।३२ ॥
तत्रेति । तत्र देवासुरसङ्ग्रामसमये प्राप्तौ वरौ राजा अद्यैव मया याचितः । तावेवाह भरतस्य अभिषेचनमभिषेचनसदृशं तव दण्डकारण्ये गमनम् । अभिषेचनशब्दः आचारक्विबन्तप्रकृतिककर्तृक्विबन्तः ॥ २।१८।३३ ॥
यदीति । हे नरश्रेष्ठ इदं शृणु श्रवणपूर्वकाचरणं कुरु ॥ २।१८।३४ ॥
तद्वाक्यमेवाह– सन्निदेश इति । सन्निदेशे पितृप्रतिज्ञापालने प्रतिश्रुतं प्रतिज्ञातम् । तत्प्रतिज्ञातमेवाह– प्रवेष्टव्यं तत्र स्थातव्यम् ॥ २।१८।३५ ॥
भरत इति । विहितं सम्पादितमभिषेचनमभिषेकद्रव्यं तेन सर्वेण भरतः अभिषिच्येत इव सर्वमेतदायत्तं स्यादित्यर्थः । च इवार्थे ॥ २।१८।३६ ॥
सप्तेति । सप्तसप्त चतुर्दश वर्षाणीत्यर्थः । जटेत्यादिब्रह्मचर्योचितचिह्नानामुपलक्षणम् ॥ २।१८।३७ ॥
भरत इति । कोशलपतेः नित्यकोशलाधीशस्य तव वसुधां प्रशास्तु पालयतु । वसुधाविशेषणं नानेत्यादि ॥ २।१८।३८ ॥
एतेनेति । एतेन संभावितत्वद्वियोगजनितेन कारुण्येन करुणया समाप्लुतः युक्तः अत एव शोकसंक्लिष्टवदनः अयं नरेन्द्रः त्वां निरीक्षितुं न शक्नोति ॥ २।१८।३९ ॥
एतदिति । हे रघुनन्दन नरेन्द्रस्य वचनं वक्तुमभिप्रेतं कुरु अत एव महता सत्येन युक्तं नरेन्द्रं तारयस्व तत्सत्यप्रतिज्ञत्वं निर्वाहयेत्यर्थः ॥ २।१८।४० ॥
इतीवेति । परुषमपरुषत्वेन प्रतीयमानम् आचारक्विबन्तप्रकृतिककर्तृक्विबन्तम् रामः शोकं नैव प्रविवेश रामस्यापि तत्संमतमिति तात्पर्यम् । महानुभावो ऽपि राजा पुत्रव्यसनाभितप्तः संभावितपुत्रवियोगजनितदुःखाक्रान्तः सन् प्रविव्यथे चञ्चलचित्तो ऽभवत् ॥ २।१८।४१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे ऽष्टादशः सर्गः ॥ २।१८ ॥