०१७ रामागमनम्

स इति । संप्रहृष्टाः सुहृज्जना यस्य स रामो रथमास्थाय पताकाध्वजसम्पन्नं पताकादिभिः पूरितं महार्हागरुधूपितं महार्हा बहुमूल्या अगरुधूपा जाता अस्य तत् नानाजनसमन्वितमनेकविधमनुष्यादिभिर्युक्तं नगरमपश्यत् । सार्धश्लोक एकान्वयी ॥ २।१७।१ ॥

स इति । अभ्रसङ्काशैः पाण्डुरैर्गृहैः उपशोभितम् । अगरुधूपितं राजमार्गं स रामो मध्येन मध्यभागेन ययौ ॥ २।१७।२ ॥

चन्दनानामिति । मुख्यानां जात्यादिभिरत्युत्तमानां चन्दनानामगरूणां च संचयैः उत्तमानां दोषरहितानां गन्धानां गन्धद्रव्याणां क्षौमकौशाम्बरस्य क्षौममतसीनिर्मितं कौशं पट्टनिर्मितं तदेवाम्बरं वस्त्रं तस्य संचयैः शोभमानम् आविद्धाभिः कृतछिद्राभिः मुक्ताभिः क्वचित् “अविद्धाभिः” इति पाठः । तत्र अप्राप्तच्छिद्राभिरित्यर्थः । स्फाटिकैः स्फटिकाक्षैश्च शोभमानमसम्बाधं चोरादिबाधारहितं पुष्पादिभिः संवृतं दध्यादिभिः अर्चिताश्चत्वराः चतुष्पथा यस्मिंस्तमुत्तमं राजपथमाशीर्वादान् शृण्वन् रामः ददर्श । तत्र दृष्टान्तः दिवि स्वर्गे विद्यमानं तं तादृशविशेषणविशिष्टं राजपथं देवपतिरिन्द्रो यथा । अर्थनवकमेकान्वयि ॥ २।१७।३६ ॥

यथेति । यथार्हं यथायोग्यं सर्वान्नरान्संपूज्य अवलोकादिना सत्कृत्य ययौ राम इति शेषः । अर्धं पृथक् ॥ २।१७।७ ॥

राममुद्दिश्य प्रजोक्तिमाह– पितामहैरिति । पितामहैः पितामहोपलक्षितपितृपितामहैः दशरथाजाभ्यां तथा प्रपितामहैः अजपित्रा आचरितं तं प्रसिद्धं मार्गं नीतिपथमुपादाय गृहीत्वा अभिषिक्तः प्राप्तराज्याभिषेकस्त्वं पालय पितामहाद्युत्तरं बहुवचनमादरार्थम् ॥ २।१७।८ ॥

तत्पालनफलमाह– यथेति । पित्रा दशरथेन सर्वैः पितामहैरजादिभिः यथा यथावत्पोषिता वयं रामे राजनि सति ततः दशरथादिपालनसुखात्सुखतरमधिकसुखं यथा स्यात्तथा वत्स्यामः सर्वशब्दसमभिव्याहारात्पितामहशब्दः प्रपितामहादीनामपि बोधकः ॥ २।१७।९ ॥

अभिषिक्तरामदर्शनजनितसुखस्यातिमहत्त्वं बोधयन्त आहुः– अलमित्यादिश्लोकद्वयेन । राज्ये प्रतिष्ठितं विनिर्यान्तं राजद्वाराद्बहिर्गच्छन्तं रामं यदि पश्याम तर्हि अद्य भुक्तेन ऐहिकभोगेन परमार्थैः मोक्षैश्च अलं न प्रयोजनमित्यर्थः ॥ २।१७।१० ॥

ननु पारमार्थिकसुखं कुतो नाभिलषध्वे इत्यत आहुः– तत इति । अमिततेजसः इयत्तारहितप्रभावस्य रामस्य राज्येन राज्यार्थमभिषेकः यथा यथावत् प्रियतम इति शेषः । अत एव ततः राज्याभिषेकादन्यत्किञ्चित्प्रियतरं न भविष्यति । किंच ततः तस्य रामस्य यथा अभिषेकः प्रियतरः तथा अन्यत्किञ्चिन्न प्रियतरमित्यस्य लिङ्गविपरिणामेनान्वयः । राज्येनेति तृतीया हेतौ चेति विहिता, फलस्यापि हेतुत्वेन विवक्षेति तत्र सिद्धान्तितत्वात् ॥ २।१७।११ ॥

एता इति । उदासीनः स्वाभिषेकोत्साहरहितो रामः आत्मसंपूजनीः स्वसत्कारकारिकाः कथाः शृण्वन् महापथं ययौ महानां सर्वपूज्यानामपि आपथो ऽतिगमनं यस्मिन् तं राजमार्गमित्यर्थः । एतेन महच्छब्दो न दीपत(?) इत्यस्य नायं विषयः निषेधस्याप्रामाणिकत्वं वा ॥ २।१७।१२ ॥

नेति । नरोत्तमात्परमपुरुषात्तस्माद्रामादपाक्रष्टुं आर्तयितुमतिक्रान्ते गते ॥ २।१७।१३ ॥

रामानुरागरहितं निन्दन्त आहुः– य इति । यो जनः राममेव न पश्येत्स्वस्वामित्वेन न जानाति रामो वा यं न पश्यति अयं मामेव स्वस्वामित्वेन जानातीति न जानाति सः सर्वलोकेषु निन्दितः । अतः एनं रामानुरागरहितं स्वात्मा स्वमनो ऽपि विगर्हते निन्दति ॥ २।१७।१४ ॥

सर्वेषामिति । यदनुरागमन्तरा जनजन्मवैयर्थ्यं स रामः वयस्थानां वयसि स्थानं स्थितिर्यस्यास्तां तत्तद्वयोनुरूपामित्यर्थः । चतुर्णां वर्णानां सर्वेषां वर्णातिरिक्तानां च दयां तद्विषयककृपां कुरुते तेन

हेतुना ते जनाः तं राममनुव्रताः तमेव सेवन्ते इत्यर्थः ॥ २।१७।१५ ॥

प्रासङ्गिकं समाप्य प्रकृतमाह– चतुष्पथानिति । चतुष्पथान् चत्वरान्देवपथान्ब्रह्मादीनामयोध्यागमनमार्गान् चैत्यानि ग्रामदेवतास्थानानि आयतनानि पाठशालाः प्रदक्षिणं परिहरन्दक्षिणपार्श्वे परित्यजन्नित्यर्थः नृपतेः सुतो रामो जगाम ॥ २।१७।१६ ॥

स इति । मेघसङ्घोपमैः मेघसमूहसदृशैः शुभैः कल्याणहेतुभिः विविधैः अनेकप्रकारैः कैलासशिखरोपमैः कैलासशिखरसदृशैः प्रासादशृङ्गैः गगनं स्वर्गमावारयद्भिः अतिक्रमद्भिरिव पाण्डुरैः पाण्डुरवर्णविशिष्टैः रत्नजालपरिष्कृतैः निषिद्धपक्षिवारकरत्ननिर्मितजालविशिष्टैः वर्धमानगृहैः क्रीडावेश्मभिश्च सहितं राजकुलं राज्ञो गृहमासाद्य प्राप्य राजपुत्रः स रामः पृथिव्यां विद्यमानं महेन्द्रसदनोपममिन्द्रभवनसदृशं गृहवरं गृहाणि अवान्तरवेश्मानि वराणि श्रेष्ठानि यस्िमंस्तत्पितुर्वेश्म पित्रधिष्ठितगृहं प्रविवेश । अर्धषट्कमेकान्वयि ॥ २।१७।१७१९ ॥

स इति । नरोत्तमः स रामः धन्विभिर्धनुर्धरैः गुप्ताः रक्षिताः तिस्रः कक्ष्याः द्वारः वाजिभिः अतिक्रम्य अपरे द्वै कक्ष्ये पदातिः सन् जगाम ॥ २।१७।२० ॥

सर्वा इति । दशरथात्मजः सर्वाः कक्ष्याः समतिक्रम्य जनमनुयायिवर्गं संनिवर्त्य शुद्धान्तःपुरमन्वगात्प्राप्नोत् ॥ २।१७।२१ ॥

तस्मिन्निति । तदा तस्मिन्काले तस्मिन् रामे प्रविष्टे सति मुदितः सर्वो जनः तस्य रामस्य निर्गमं राजगृहादागमनं पुनः प्रतीक्षते स्म । तत्र दृष्टान्तः चन्द्रमसः उदयं सरित्पतिः समुद्र इव ॥ २।१७।२२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे सप्तदशः सर्गः ॥ २।१७ ॥