स इति । जनाकुलं बहुजनैराकीर्णं तदन्तःपुरद्वारं समतीत्य अतिक्रम्य ततः रामसमीपगमनस्य आवश्यकत्वाद्धेतोः प्रविविक्तां जनबाहुल्यरहितां प्राप्तकार्मुकबिभ्रद्भिः प्राप्तानि प्रकटीभूतानि कार्मुकाणि धनूंषि बिभ्रति धारयन्ति तैः कर्मणः । सम्बन्धसामान्यत्वेन विवक्षणात् षष्ठी ततः षष्ठीतिविधिना समास ।ः मृष्टकुण्डलैः मृष्टानि स्वतः शुद्धानि कुण्डलानि येषां तैः अनुरक्तैः रामविषयकात्यनुरागविशिष्टैः अत एव एकाग्रैः नियमितचित्तैः अत एव अप्रमादिभिः अनवधानतारहितैः युवभिः अधिष्ठितां कक्ष्यां पुराणवित्सुमन्त्रः आससाद प्राप । द्वयोरेकत्रान्वयः ॥ २।१६।१,२ ॥
तत्रेति । काषायिणः कुसुम्भादिरक्तवस्त्रधारिणः स्वलङ्कृतान्स्वावस्थायोग्यालङ्कारविशिष्टान्स्थितान्स्त्र्यध्यक्षान्स्त्रीसमीपगमनयोग्यानित्यर्थः । वृद्धान् तत्र तस्मिन्समये ददर्श ॥ २।१६।३ ॥
ते इति । ते वृद्धाः आसनेभ्यः उत्पतिता उत्थिताः ॥ २।१६।४ ॥
तानिति । प्रदक्षिणः मन्त्रादिकर्मस्वतिनिपुणः सूतपुत्रः सुमन्त्रः तानुवाच । तद्वचनमेवाह– सुमन्त्रो द्वारि तिष्ठतीति क्षिप्रं शीघ्रमाख्यात यूयं कथयत ॥ २।१६।५ ॥
ते इति । उपसंगम्य प्राप्य आचचक्षिरे कथयामासुः ॥ २।१६।६ ॥
प्रतीति । प्रतिवेदितं निवेदितागमनकं सूतं पितुः अभ्यन्तरमत्यन्तरङ्गमाज्ञाय प्रियकाम्यया तत्प्रसन्नतावाञ्छया तत्रैव आनाययामास ॥ २।१६।७ ॥
तमिति । सोत्तरच्छदे आस्तरणसहिते सौवर्णे सुवर्णमये पर्यङ्के उपविष्टं तं वराहरुधिराभेण वराहरुधिरसदृशेन अत्यरुणेनेत्यर्थः । अत्यरुणं वराहरुधिरमिति लोके प्रसिद्धं किंच वरमतिश्रेष्ठं न जहाति प्रयत्नमन्तरानुलेपनकर्तृ़न् त्यजतीत्यहं रुधिरा अरुणा आभा यस्य तत्त्रयाणां कर्मधारयः तेन शुचिना अतिपवित्रेण परार्ध्येन बहुमूल्यकेन चन्दनेन अनुलिप्तं परं सर्वतृप्तिकारकं तपमत्यैश्वर्यविशिष्टं वालव्यजनहस्तया पार्श्वतः पार्श्वे स्थितया सीतया उपेतं युक्तं रामं चित्रया तदभिधतारया उपेतं युक्तं शशिनं चन्द्रमसमिव भूयो ऽत्यन्तं ददर्श । श्लोकत्रयमेकान्वयि ॥ २।१६।८१० ॥
तमिति । स्वतेजसा स्वनित्यप्रकाशेन उपपन्नं युक्तमत एव आदित्यमपि तपन्तं प्रकाशयन्तं तं रामं विनीतवत् विनीतं विनयवचनं वनति रचयति उच्चारयतीत्यर्थः । स बन्दी सुमन्त्रः ववन्दे ॥ २।१६।११ ॥
प्राञ्जलिरिति । विहारशयनाय आसनं तस्मिन् स्थितमिति शेषः । राजपुत्रं सुमुखं प्रसन्नवदनं दृष्ट्वा इदमुवाच ॥ २।१६।१२ ॥
तद्वचनमेवाह– कौशल्येति । हे राम येन भवता कौशल्या सुप्रजा शोभनपुत्रा तं त्वां कैकेय्या महिष्या सह पिता द्रष्टुमिच्छति अतस्तत्र गम्यतां येन भवतेति शेषः ॥ २।१६।१३ ॥
एवमिति । एवमनेन प्रकारेण उक्तः नरसिंहः पुरुषश्रेष्ठो रामः ततः तं द्वितीयान्तात्तसिः । सूतं संमानयामास त्वदुक्तं मया स्वीकृतमिति कथयामासेत्यर्थः च सीतां इदमुवाच । हश्चार्थे । १६।१४ ॥
तद्वचनमेवाह– देवीति । देवो राजा देवी केकयी समागम्य एकत्र स्थित्वा मदन्तरे मदर्थमभिषेचनसंहितम् अभिषेचनं संहितं विषयतया प्राप्तं यस्मिन् तत्किञ्चिद्ध्रुवं मन्त्रयेते संमतिं कुरुतः संहितमित्यत्र गत्यर्थक हिधातोर्निष्ठा ॥ २।१६।१५ ॥
लक्षयित्वेति । हे मदिरेक्षणे अभिप्रायं मदीप्सितं लक्षयित्वा ज्ञात्वा प्रियकामा मत्प्रीतिविषयकेच्छावती सुदक्षिणा अतिनिपुणा केकयी राजानं संचोदयति प्रेरयति ॥ २।१६।१६ ॥
सेति । प्रहृष्टा सा केकयी किञ्च सा प्रहृष्टा आप्रहृष्टाभिः अतिहर्षविशिष्टाभिः सखीभिः सहिता महाराजमनुवर्तिनी हितकामा मत्प्रियविषयकेच्छावती अत एव मे अर्थकामा
मत्प्रयोजनविषयकवाञ्छाविशिष्टा केकयाधिपतेः सुता जननी या केकयी तया प्रियया महिष्या सह महाराजः मम अर्थकामपरं सुमन्त्रं दूतं प्राहिणोत्प्रैषयत् दिष्ट्या भाग्यमेतत् श्लोकद्वयमेकान्वयि ॥ २।१६।१७,१८ ॥
यादृशीति । तत्र राजसन्निधौ यादृशी परिषत्समज्या तादृशः अयं दूतः आगतः तेन यथेच्छं कार्यसिद्धिर्भविष्यतीति ध्वनितमतः यो राजा यौवराज्ये मामभिषेक्ष्यति मत्कर्मकाभिषेकानुकूलव्यापारं करोति तं महीपतिमितः गत्वा ध्रुवं द्रक्ष्यामि त्वं तु परिवारेण सखीगणेन सह सुखमास्व तिष्ठ रमस्व च । अभिषेक्ष्यतीत्यत्र लृडुपात्तभविष्यत्कालस्याविवक्षा । श्लोकद्वयमेकान्वयि ॥ २।१६।१९,२० ॥
पतीति । असितेक्षणा पतिसंमानिता सीता मङ्गलानि यात्राकालोचितशुभहेतुवचनादीनि अभिदध्युषी उच्चारणादीनि कुर्वती सती भर्तारं राममाद्वारं द्वारं मर्यादीकृत्य अनुवव्राज अभिदध्युषी इत्यार्षम् ॥ २।१६।२१ ॥
एतद्यौवराज्याभिषेकेन मदीयाभिरुचिरिति बोधयन्ती आह– राज्यमिति द्वाभ्याम् । यतो राज्यं द्विजातिभिः ब्राह्मणैः जुष्टं सेवितं राज्ये बहवो ब्राह्मणा वसन्तीत्यर्थः । अतस्ते राजसूयाभिषेचनं कर्तुं राजा अर्हति तत्र दृष्टान्तः वासवस्य इन्द्रस्य लोककृद्ब्रह्मेव । एतेन राजसूयनिष्पत्तये सर्वे राजानो जेतव्या इति सर्वान्तःपातित्वाद्राक्षसराजादयो ऽपि जेतव्या इति सीताभिप्रायो व्यक्तः ॥ २।१६।२२ ॥
राजसूयाभिषेके स्वाभिलाषातिशयं बोधयन्ती आह– दीक्षितमिति । दीक्षितं राजसूयदीक्षाविशिष्टमत एव व्रतसम्पन्नं यागोचितव्रतं कुर्वन्तं वराजिनधरं विहितचर्मधारिणं शुचिं पावनहेतुं कुरङ्गश्रृङ्गपाणिं कुरङ्गस्य कृष्णमृगस्य श्रृङ्गं पाणौ कण्डूयनार्थं हस्ते यस्य तं त्वां पश्यन्ती ध्यायन्ती अहं भजामि । एतेन ईदृगवस्थासिद्धये भवद्भिर्यतितव्यमिति प्रार्थना सूचिता ॥ २।१६।२३ ॥
रामे स्वप्रीत्यतिशयं बोधयन्ती आह– पूर्वामिति । वज्रधरः इन्द्रः आशां दिशम् ॥ २।१६।२४ ॥
अथेति । कृतकौतुकमङ्गलः रामः सुमन्त्रेण सह निवेशनाद्गृहान्निश्चक्राम ॥ २।१६।२५ ॥
पर्वतादिति । पर्वताद्गिरिगुहाशयः सिंह इव स रामः निष्क्रम्य गृहादिति शेषः । द्वारि स्थितं प्रह्वाञ्जलिपुटं प्रणतिसूचकबद्धयुगलकरं लक्ष्मणमपश्यत् ॥ २।१६।२६ ॥
अथेति । स रामः अथ लक्ष्मणदर्शनानन्तरं मध्यमकक्ष्यायां समागच्छत् । अर्थिनो जनान्दृष्ट्वा समेत्य तत्समीपं प्राप्य प्रतिनन्द्य आश्वास्य च वैयाघ्रं व्याघ्रदन्तनिर्मितत्वेन प्रतीयमानं रथोत्तममारुरोह । श्लोकद्वयमेकान्वयि ॥ २।१६।२७,२८ ॥
रथं वर्णयन्नाह– मेघेति । मेघनादं मेघस्वनसदृशस्वनविशिष्टमसम्बाधं जनसङ्कुलादिहेतुकबाधारहितं मणिस्तोमविभूषितं मणिसमूहैः शोभितं प्रभया प्राकृतविलक्षणकान्त्या चक्षूंषि मुष्णन्तं हरन्तमिव करेणुशिशुकल्पैः करिशावकसदृशैः परमवाजिभिरश्वैर्युक्तं रथं तूर्णमास्थाय प्रययौ गन्तुं मनश्चक्रे । तत्र दृष्टान्तः हरियुक्तं रथं सहस्राक्ष इव । सार्धश्लोकद्वयमेकान्वयि ॥ २।१६।२९३० ॥
स इति । स्वनवानतिशब्दविशिष्टः श्रीमान्सकलसम्पत्तिविशिष्टः स रथः आकाशे पर्जन्यो मेघ इव अभिनादयन्दिश इति शेषः । महेन्द्रात्पर्वतविशेषाच्चन्द्रमा इव निकेताद्गृहान्निर्ययौ । पर्जन्यशब्दस्य इन्द्रपरत्वे तु सशब्देन रामपरामर्शः । तदा अभिनादयन् इत्यत्र रथेनेति शेषः । स्वनवानित्यस्य शोभनो नः पालनं तद्वानित्यर्थः ॥ २।१६।३१ ॥
चित्रेति । चित्रचामरपाणिर्लक्ष्मणस्तु भ्रातरं जुगोप ॥ २।१६।३२ ॥
तत इति । ततः रथनिर्गमनानन्तरं समन्ततो निष्क्रममाणस्य जनौघस्य हलहलाशब्दः
समजायत । हलहलेति जनौघजन्यशब्दानुकरणम् ॥ २।१६।३३ ॥
तत इति । ततः रामगमनानन्तरं हयवराः अश्वश्रेष्ठाः गिरिसंनिभाः मुख्या नागा हस्तिनश्च शतशः सहस्रशो राममनुजग्मुः ॥ ६।३४ ॥
अग्रत इति । अस्य रामस्य अग्रतः संनद्धाः धृतकवचाः शूराः आशंसवः वंशादिप्रशंसका जनाश्च जग्मुः ॥ २।१६।३५ ॥
तत इति । वादित्रशब्दाः वाद्यध्वनयः शूराणां सिंहनादाः सिंहस्वनसदृशस्वनाः । ततः तस्मिन्पथि शुश्रुविरे जनैरिति शेषः ॥ २।१६।३६ ॥
हर्म्येति । हर्म्यवातायनस्थाभिः हर्म्याणां प्रासादानां वातायनेषु गवाक्षेषु स्थिताभिः स्त्रीभिः पुष्पौघैः कीर्यमाणः अरिंदमो रामो ययौ ॥ २।१६।३७ ॥
राममिति । रामपिप्रीषया रामतृप्तीच्छया अनवद्याङ्ग्यः निन्दारहिताङ्गविशिष्टाः हर्म्यस्थाः क्षितिस्थाश्च सर्वाः स्त्रियः अग्र्यैः अत्युत्कृष्टैर्वचोभिः रामं च ववन्दिरे तुष्टुवुः ॥ २।१६।३८ ॥
ततस्तवनमेवाह– नूनमिति । सिद्धयात्रं सिद्धा यात्रा यात्राफलं यस्य तं पित्र्यं पितृसम्बन्धि राज्यमुपस्थितं प्राप्तं त्वां पश्यन्ती ते माता नूनं नन्दति ॥ २।१६।३९ ॥
सर्वेति । हितास्तत्र प्राप्ता नार्यः रामस्य हृदयप्रियां सीमन्तिनीं सीतां सर्वसीमन्तिनीभ्यः वराममन्यन्ताकथयन्तेत्यर्थः ॥ २।१६।४० ॥
सीतारामयोः संयोगहेतुं विचारयन्त्य आहुः– तयेति । महत्तपः सुचरितमत एव रामसंयोगमागताः प्राप्ताः ॥ २।१६।४१ ॥
इतीति । इति अनेन प्रकारेण प्रासादश्रृङ्गेषु विद्यमानाभिः उदाहृताः प्रियाः वाचः नरोत्तमो रामः शुश्राव । प्रासादशृङ्गशब्दः क्षितेरप्युपलक्षकः । अत एव उपक्रमेण न वैरूप्यम् ॥ २।१६।४२ ॥
स इति । तत्र मार्गे समागतस्य लोकस्य प्रलापान् रघुवंशसम्बन्धिविविधकथाः शुश्राव । आत्माधिकाराः आत्मनः स्वस्य रामस्येत्यर्थः । अधिकारो यासु ताः विविधाः अनेकप्रकारा प्रहृष्टरूपस्य प्रहृष्टस्वरूपविशिष्टस्य पुरोजनस्य अयोध्यावासिनः वाचश्च शुश्राव ॥ २।१६।४३ ॥
तद्वचनमेवाह– एष इति । गमिष्यन्गच्छन्नेष राघवः राजप्रसादाद्विपुलामत्युत्कृष्टां श्रियं गच्छति प्राप्स्यति । अतः येषां नो ऽस्माकं प्रशास्ता अयं रामो भविता ते एते वयं सर्वसमृद्धकामाः भविष्याम इति शेषः ॥ २।१६।४४ ॥
लाभ इति । यद्यस्मादेष रामः सर्वं राष्ट्रं राज्यं प्रपत्स्यते प्राप्स्यति तत्तस्मादस्य एतन्नियम्यस्य जनस्य लाभः परमानन्दस्येति शेषः । तत्र हेतुः अस्मिन् रामे मनुजाधिपे राज्ञि सति किञ्चन अप्रियं द्वेष्यं दुःखं च जातु कदाचिदपि कश्चिन्न पश्येत् ॥ २।१६।४५ ॥
स इति । पुरःसरैः अग्रगमनकर्तृभिः स्वस्तिकसूतमागधैः स्वस्तिकाः मङ्गलप्रयोगकर्तारः सूताः पौराणिकाः मागधाः वंशप्रशंसकास्तैर्महीयमानः पूज्यमानः प्रवरैः स्तुतिनिपुणैः वादिकैः स्तुतिकर्तृभिरभिष्टुतः रामः घोषवद्भिः नादविशिष्टैः सनागैर्गजसहितैः हयैरश्वैः वैश्रवण इव ययौ ॥ २।१६।४६ ॥
करेण्विति । करेण्वादिभिः सङ्कुलं व्याप्तं महाजनौघैः परिपूर्णाः चत्वराः चतुष्पथा यस्य प्रभूतानि रत्नानि यस्मिन् तं बहुपण्यसंचयमनेकविधानां पण्यानामापणद्रव्याणां संचयो यस्मिन् तं विमलं तृणादिरहितं महापथं राजमार्गं ददर्श ॥ २।१६।४७ ॥
इति श्रीमद्वाल्मीकीमीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे षोडशः सर्गः ॥ २।१६ ॥