त इति । सहराजपुरोहिताः वसिष्ठकुलोद्भूतराजपुरोहितसहिताः वेदपारगास्ते अभिषेकब्राह्मणाः तां रजनीमुष्य उषित्वा दिने सूर्ये उदिते सति पुष्ये नक्षत्रे अभ्यागते प्राप्ते सति राघवस्याभिषेकार्थे उपस्थानं राजद्वारमुपतस्थुः अमात्यादयश्चोपतस्थुः । तत्र बलमुख्याः सेनाधीशाः निगमस्य वणिक्समूहस्य ये मुख्याः प्रधानाः । श्लोकत्रयमेकान्वयि उपस्थानशब्दो ऽधिकरणल्युडन्तः ॥ २।१५।१३ ॥
अभिषेकायेति । रामस्य अभिषेकाय अभिषेकं कर्तुं द्विजेन्द्रैर्जलकुम्भादि उपकल्पितं समीपे प्रापितं सामान्यविवक्षया नपुंसकत्वैकत्वे । काञ्चनाः स्वर्णनिर्मिताः भद्रपीठं मङ्गलचिह्नचिह्नितपीठविशेषः ॥ २।१५।४ ॥
रथ इति । भास्वता प्रकाशमानेन व्याघ्रचर्मणा सम्यगास्तीर्णो रथ आहृतः । पुण्यात् अतिपवित्रत्वहेतुभूतात्सङ्गमाज्जलं चाहृतम् । अन्याः गङ्गायमुनाभिन्नाः पुण्याः पुण्यविशेषहेतुभूताः सरितो नद्यः इदं नदानामप्युपलक्षकम् । पुण्या इति ह्रदादावप्यन्वेति । प्राग्वाहाः प्राचोदिशः प्रभूताः वाहाः प्रवाहाः यासां ताः । पश्चिमवाहिन्यः नर्मदादय इत्यर्थः । ऊर्ध्ववाहाः ऊर्ध्वात् पर्वतादेर्वहन्ति अधःपतन्ति ताः गङ्गोत्र्यादय इत्यर्थः ॥ २।१५।५ ॥
तिर्यग्वाहाः दक्षिणोत्तराभिमुखवाहिन्यः काशीगङ्गागण्डकीशोणभद्रादयः । क्षीरिण्यः दुग्धवाहिन्यश्च याः सन्ति सर्वशस्ताभ्यः सर्वशः समुद्रेभ्यश्च तोयमाहृतम् । सर्वश इत्युभयान्वयि । क्षीरमत्र जलमिति भट्टाः ॥ २।१५।६ ॥
क्षौद्रमिति । दर्भाः कुशाः सुमनसः पुष्पाणि ॥ २।१५।७ ॥
अष्टाविति । क्षीरिभिः क्षीरविशिष्टवृक्षविशेषपल्लवैः छन्ना आच्छादिताः पद्मोत्पलयुताः पद्मोत्पलयोः कमलजातिविशेषत्वान्न पौनरुक्त्यम् ॥ २।१५।८ ॥
चन्द्रेति । चन्द्रांशुविकचप्रख्यं चन्द्रांशुवद्विकचा विस्तृता प्रख्या दीप्तिर्यस्य तत् रत्नभूषितं विहितानेकविविधरत्नसंयुक्तं सज्जं गन्धादिभिरलङ्कृतं वालव्यजनं वालौ पुच्छकेशविशेषौ चामरावित्यर्थः । तौ च व्यजनं चैतेषां समाहारः । तत् रामस्य रामाभिषेकार्थं तिष्ठति ॥ २।१५।९ ॥
चन्द्रमण्डलेति । चन्द्रमण्डलसंकाशं चन्द्रमण्डलप्रकाशकमत एव द्युतिकरं सर्वप्रकाशकरं श्रीमदसंख्यैश्वर्यविशिष्टमभिषेकपुरःसरमभिषेकानामभिषेकसामग्रीणां पुरःसरमग्रे स्थितं मुख्यमित्यर्थः । आतपत्रं छत्रं तिष्ठति इति शेषः । अभिषेकशब्दः करणघञन्तः ॥ २।१५।१० ॥
पाण्डुर इति । पाण्डुरो वृषः पाण्डुराश्वश्च संस्थितः वादित्राणि बन्दिनश्च संस्थिताः वचनविपरिणामेन संस्थित इत्यत्राप्यन्वेति ॥ २।१५।११ ॥
इक्ष्वाकूणामिति । इक्ष्वाकूणां राज्ये राज्याभिषेके अभिषेचनमभिषेकसामग्री यथा संभ्रियेत तथाजातीयमिक्ष्वाकुकुलराज्याभिषेकोचितमित्यर्थः । अभिषेचनमभिषेकसामग्रीं राजवचनादादाय गृहीत्वा समवेताः राजद्वारं प्राप्तास्ते राजकीयाः महीपतिमपश्यन्तः सन्तः राज्ञो नः अस्मान् कः प्रतिवेदयेत् कथयेत् इत्यब्रुवन् । श्लोकद्वयमेकान्वयि ॥ २।१५।१२,१३ ॥
ननु त्वमेव प्रतिपादयेत्यत आह– नेति । दिवाकर उदितः राजानं च न पश्यामः अतः कं प्रति कथयामीत्यर्थः । धीमतो रामस्य यौवराज्याभिषेकश्च सज्ज इत्यनेन प्रकारेण तान्द्वारप्राप्तान्महीपतीन्ब्रुवाणेषु सत्सु राजसत्कृतः सुमन्त्रः तान् ब्रुवाणानिदं वाक्यमब्रवीत् । अर्धचतुष्टयमेकान्वयि ॥ २।१५।१४,१५ ॥
तद्वचनमेवाह– राममिति । यद्यपि राज्ञो नियोगेन राजाज्ञयेत्यर्थः । राममानेतुमिति शेषः । त्वरयावेगेनाहं प्रस्थितः । तथापि राज्ञो रामस्य च भवन्तः पूज्या इति हेतोः आयुष्मतां भवतां
वचनात्संप्रतिबुद्धस्य जाग्रतो राज्ञः अनागमनकारणं द्वारगमनाभावहेतुमयमहं सुखं यथा स्यात्तथा पृच्छामि । द्वारे समागता ब्राह्मणादयः जाग्रतो भवतः । आगमनाभावहेतुं पृच्छन्ति इति राजसन्निधौ गत्वा प्रश्नं कारयिष्यामीत्यर्थः । इति उक्त्वा पुराणवित्सुमन्त्रः अन्तःपुरद्वारमाजगाम । अर्धपञ्चकमेकान्वयि ॥ २।१५।१६१८ ॥
सदेति । सदा सर्वस्मिन् काले । आसक्तं स्वसेवितमनिवारितमित्यर्थः । किंच आसक्तं कविभिर्नित्वं वर्णितमित्यर्थः । तद्वेश्म गृहं प्रविवेश प्रविश्य विशांपतेरस्य वंशं तुष्टाव ॥ २।१५।१९ ॥
शयनीयमिति । नरेन्द्रस्य शयनीयं शयनगृहमासाद्य प्राप्य व्यतिष्ठत । अर्धं पृथक्– स इति । सः शयनगृहसमीपं प्राप्तः सुमन्त्रः तिरस्करणीं जवनिकाम् “चिक” इति नाम्ना लोके प्रसिद्धामित्यर्थः । अन्तरा विना तद्वेश्म अत्यासाद्य अतिक्रम्य राघवं दशरथं तुष्टाव । अर्धद्वयमेकान्वयि ॥ २।१५।२० ॥
स्तुतिमेवाह– सोमेति । सोमादयः ते तव विजयं प्रदिशन्तु कथयन्ति ॥ २।१५।२१ ॥
गतेति । शिवं कल्याणमूलं बुध्यस्व जागृहि । अनन्तरं कार्यं श्वः कर्तव्यत्वेन निश्चितं कुरु ॥ २।१५।२२ ॥
ब्राह्मणा इति । इहागताः ब्राह्मणादयः ते दर्शनमभिकाङ्क्षन्ते ॥ २।१५।२३ ॥
स्तुवन्तमिति । स्तुवन्तं सुमन्त्रं राजा प्रतिबुध्य इदं वचनमब्रवीत् ॥ २।१५।२४ ॥
तद्वचनमेवाह– राममिति । अनया मद्वाण्या राममानय इति त्वं यदभिहितः आज्ञापितो ऽसि सा ममाज्ञा । त्वया येन कारणेन प्रतिवाह्यते निवर्त्यते तदिदं किं कारणम् ॥ २।१५।२५ ॥
नेति । अहं नैव संप्रसुप्तः ॥ २।१५।२६ ॥
इतीति । अन्वशादचकथत् । स सुमन्त्रः तं राजानं शिरसा प्रतिपूज्य नमस्कृत्य प्रियं मन्यमानः निर्जगाम । सार्धश्लोक एकान्वयी ॥ २।१५।२७ ॥
प्रपन्न इति । राजमार्गं प्रपन्नः प्राप्तः हृष्टः गात्रहर्षतं प्राप्तः प्रमुदितः अत्यानन्दमनाः सूतः पताकाध्वजशोभितं राजमार्गं विलोकयन् सन् आशु जगाम राजमार्गमित्युभयान्वयि ॥ २।१५।२८ ॥
स इति । तत्र मार्गे अभिषेचनसंयुक्ताः रामाभिषेको द्रुतं स्यादित्यादिवचनसंयुक्ताः रामाधिकरणाः रामनिष्ठसौशील्यादिगुणबोधिकाः इत्यर्थः । सर्वलोकस्य कथाः सर्वलोककर्तृकवर्णनं हृष्टवद्धर्षविशिष्टं यथा स्यात्तथा शुश्राव । एतेन स्वार्थे वतिरार्ष इति भट्टाद्युक्तिश्चिन्त्या ॥ २।१५।२९ ॥
तत इति । कैलाससदृशप्रभं कैलासप्रभासदृशप्रभाविशिष्टं शक्रवेश्मसमप्रभं शक्रवेश्मप्रभासदृशप्रभाविशिष्टं रामवेश्म सुमन्त्रो ददर्श ॥ २।१५।३० ॥
रामवेश्मैव वर्णयन्नाह– महेत्यादिभिः । महाकपाटपिहितं महाकपाटेन पिहितमाच्छादितं वितर्दिशतशोभितं वितर्दीनां वेदिकानां यच्छतं तेन शोभितम् महाकपाटपिहितमित्यनेन तदन्तर्वर्तिसूक्ष्मकपाट उद्घाटित इति व्यक्तम् ॥ २।१५।३१ ॥
काञ्चनप्रतिमैकाग्रं काञ्चन्यः प्रतिमा देवप्रतिकृतयो यस्मिन् तदेकाग्रमेकं मुख्यमतिविलक्षणमित्यर्थः । अग्रमग्रभागो यस्मिन् तदेव तदिति कर्मधारयः । मणिविद्रुमतोरणं मणिविद्रुमनिर्मितं तोरणं बहिर्द्वारं यस्य शारदाभ्रघनप्रख्यं शारदाभ्रवद्घनीभूता प्रख्या प्रभा यस्य मेरुगुहासमं मेरुगुहासदृशम् ॥ २।१५।३२ ॥
वरमाल्यानां सुवर्णनिर्मितपुष्पमालानां सुमहद्भिरतिमूल्यैर्मणिभिः अन्तरालवर्त्तिमणिविशेषैः अलङ्कृतं मुक्तामणिभिः विन्यस्तमुक्तामणिसमूहैः आकीर्णं चन्दनागरुभूषितं चन्दनागरुभिः शोभितम् ॥ २।१५।३३ ॥
मनोज्ञानतिमनोहरान्गन्धान्विसृजत्त्यजद्दार्दुरं दर्दुरस्य मलयसन्निकृष्टचन्दनगिरेरिदं शिखरं यथा सारसैः पक्षिविशेषैः ॥ २।१५।३४ ॥
सुकृताः सुवर्णादिना अतिनिर्मिता ये ईहामृगा वृकास्तैः आकीर्णं व्याप्तम् “कोकस्त्वीहामृगो वृकः” इति कोशः । भक्तिभिः चित्रादिरचनाविशेषैः उत्कीर्णं पूर्णमत एव मनश्चक्षुश्च आददत् हरत् ॥ २।१५।३५ ॥
चन्द्रभास्करसंकाशं चन्द्रादिप्रकाशकं कुबेरभवनमुपमा उपमेयं यस्य महेन्द्रधाम प्रतिमा उपमा यस्य समाकुलं व्याप्तम् ॥ २।१५।३६ ॥
अञ्जलिकारिभिर्जनैः समाकीर्णं मेरुशृङ्गसमं रामवेश्म ददर्श । मेरुगुहासममित्यनेन गृहान्तर्वर्णनमनेन तु तदुन्नतत्ववर्णनमिति न पौनरुक्त्यम् । सार्धषट्कमेकान्वयि ॥ २।१५।३७ ॥
उपादायेति । सारथिः सारथिधर्मविशिष्टः सारथिः स सुमन्त्रः समाकुलं गजादिभिराकीर्णं राजकुलं राजमार्गं वाजियुक्तेन वरूथिना रक्षकसहितेन राजगृहाभियातिना राजगृहगमनशीलेन रथेन विराजयन् प्रकाशयन् सन् मनांसि हर्षयंश्च सन् उपादाय गृहीत्वा उपायनानीति शेषः । समाक्रान्तैः समागतैः रामाभिषेकसुमुखैः तदभिषेकोत्सवविशिष्टैः उन्मुखैः भवनशोभानिरीक्षणार्थं कृतोर्ध्वमुखैर्जनैः समलङ्कृतम् । महामेघसमप्रख्यं महामेघस्य सजलजलदस्य समा सदृशी प्रख्या उक्तिर्यस्मिन् । इदमादर्शशीसादिवेश्मवर्णनमतः शारदाभ्रघनप्रख्यमिति पूर्वेण न विरोधः । कुब्जकैः हास्यरसप्रपूरणाय निवासितकुब्जजनसमूहैरावृतं माहधनं वरार्हस्य वराणां सर्वश्रेष्ठानां ब्रह्मादीनामित्यर्थः । अर्हः तत्कर्तृपूजा यस्मिंस्तस्य रामस्य गृहं समासाद्य प्राप्य प्रहृष्टरोमा बभूव । अत एव आस रराज । श्लोकचतुष्टयमेकान्वयि ॥ २।१५।३८४१ ॥
स इति । कैलासनिभाः कैलाससदृशीः त्रिदशालयोपमाः त्रिदशालय उपमा यासां ताः स्वलङ्कृताः कक्ष्याः तिस्रो द्वारः प्रविश्य प्रियान् रामप्रीतिविषयीभूतानत एव राममते स्थितानत एव वरान्सर्वश्रेष्ठान्बहून् जनान्व्यपोह्य अतिक्रम्य शुद्धान्तं शास्त्रानुकूलान्तःपुरं रथी सुमन्त्रः उपस्थितः प्राप्तः । कक्ष्याणां त्रित्वलाभस्तु कपिञ्जलाधिकरणन्यायेन ॥ २।१५।४२ ॥
स इति । रामाभिषेकार्थकृतां रामाभिषेकाय इदं रामाभिषेकार्थं तत्कुर्वन्ति संपादयन्ति तेषां जनानां प्रहर्षयुक्ताः गिरः शुश्राव । नरेन्द्रसूनोः अभिमङ्गलार्थाः अभितः सर्वप्रकारेण मङ्गलमेव अर्थो यासां ताः सर्वस्य उक्तातिरिक्तस्य लोकस्य तत्रत्य जनस्य प्रहृष्टा गिरश्च शुश्राव । शुश्राव गिर इति च आवर्तते । किंच सर्वस्य लोकस्य सम्बन्धिनां रामाभिषेकार्थे कृत् प्रयत्नो येषां तेषां जनानां नरेन्द्रसूनोः रामस्याभिमङ्गलार्थाः सर्वतो मङ्गलप्रापिकाः हर्षयुक्ताः हर्षेण योजिताः अत एव प्रहृष्टाः हर्षकारिकाः गिरः स सूतः शुश्राव ॥ २।१५।४३ ॥
कक्ष्यात्रयानन्तरमपि तादृशमेव वेश्मास्तीति बोधयन्नाह– महेन्द्रेति । प्रभया स्वकान्त्या विभ्राजमानं वेश्म कक्ष्यात्रयात्परं गृहं ददर्श ॥ २।१५।४४ ॥
तस्मिन्द्वारे अत्याश्चर्यमस्तीति बोधयन्नाह– उपस्थितैरिति । विमुक्तयानैः विमुक्तानि यानानि रथादयः यैस्तैः समाकुलं व्याप्तं द्वारपथं ददर्श । एतेन तद्द्वारस्य आश्चर्यशक्तिमत्त्वं ध्वनितं प्रसिद्धं चैतादृशशक्तिमत्त्वं पुष्पकविमानादौ ॥ २।१५।४५ ॥
तत इति । महामेघैः युक्तो यो महीधरः पर्वतः तदाभं तत्सदृशं प्रभिन्नमतिमदमत्युङ्कुशमतिशयितः लोकविलक्षणः अङ्कुशो यस्य अत्यसह्यं सर्वासह्यविलक्षणं रामोपवाह्यं रामः उपवाह्यो येन तं रुचिरं मनोहरमुदग्रकायमुद् उन्नतः अग्रः अग्रभागो यस्य तत्कायं तस्य तं शत्रुञ्जयं शत्रुजयनामार्थविशिष्टं नागं गजं ददर्श ॥ २।१५।४६ ॥
स्वलङ्कृतानिति । सूतः सुमन्त्रः स्वलङ्कृतान् शोभनालङ्कारविशिष्टान्साश्वरथानश्वसहितरथविशिष्टान्सकुञ्जरान्कुञ्जरसहितान्वल्लभान्रामप्रियानमात्यमुख्यान्ददर्श । समन्ततः हितान्प्राप्तान्तानमात्यमुख्यान्व्यपोह्य अतिक्रम्य समृद्धमतिसम्पत्तिविशिष्टमन्तःपुरमाविवेश ॥ २।१५।४७ ॥
तत इति । अद्रिकूटाचलमेघसंनिभमहाविमानोपमवेश्मसंयुतमद्रिकूटे पर्वतश्रृङ्गे अचलः चाञ्चल्यरहितः यो मेघः तत्संनिभानि तान्येव महाविमानोपमानि पुष्पकविमानसदृशानि तान्येव वेश्मानि गृहाणि तैः संयुतं प्रभूतरत्नमतिरत्नविशिष्टमन्तःपुरमर्णवं समुद्रं मकर इव अवार्यमाणः सारथिः प्रविवेश ॥ २।१५।४८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे पञ्चदशः सर्गः ॥ २।१५ ॥