०१४ रामानयनाय सुमन्त्रप्रेषणम्

राजवृत्तमुक्त्वा केकयीवृत्तान्तमाह– पुत्रेति । पुत्रशोकार्दितं सम्भावितपुत्रवियोगहेतुकशोकविशिष्टमत एव विसंज्ञं कर्तव्यविषयकविवेकरहितमत एव भुवि पतितमत एव विचेष्टमानं विविधचेष्टां कुर्वन्तमैक्ष्वाकमुत्प्रेक्ष्य अवलोक्य पापा पत्यनिष्टकारिणीत्वेन प्रतिभासमाना केकयी इदमब्रवीत् ॥ २।१४।१ ॥

तद्वचनमेवाह– पापमिति । संश्रवं दास्यामीति पूर्वप्रतिज्ञाविषयीभूतं वरद्वयमित्यर्थः । संश्रुत्य तद्दास्यामीतीदानीं प्रतिज्ञाय इदं दानं पापमनिष्टमिव कृत्वा मत्वेत्यर्थः । सन्नः पीडितस्त्वं क्षितितले किं किमर्थं शेषे । ननु किं कर्तव्यमित्यत आह– स्थित्यां सत्यपालनरूपेक्ष्वाकुकुलोचितमर्यादायां स्थातुमर्हसि । “मर्यादा धारणा स्थितिः” इत्यमरः ॥ २।१४।२ ॥

सत्यस्याङ्गीकारे हेतुं वदन्ती आह– आहुरित्यादिभिः । धर्मविदः निखिलधर्मवेदितारः धर्मविषयकसंशयरहिता इत्यर्थः । जनाः सत्यं परमं धर्ममाहुः । अतः सत्यमाश्रित्य ग्रहीतव्यत्वेन स्वीकृत्य मया त्वं धर्मं प्रति चोदितः कथितः ॥ २।१४।३ ॥

समिति । जगतीपतिः राजा स्वां तनुं श्येनभक्ष्यकपोतशरीरप्रतिनिधिभूतत्वेन प्रकल्पितामित्यर्थः ॥ २।१४।४ ॥

तथेति । अविमना वैमनस्यरहितः ॥ २।१४।५ ॥

सरितामिति । सत्यमन्वितः प्राप्तः सरितां पतिः समुद्रः मर्यादां स्वकृतनियमविशिष्टां स्वां वेलां समये स्ववृद्धिकारणीभूतचन्द्रोदयकाले ऽपि सत्यानुरोधात् स्वनिष्ठसत्यस्मरणान्नातिवर्तते उल्लङ्घते ॥ २।१४।६ ॥

सत्यस्य सर्वकारणत्वं प्रदर्शयन्ती आह– सत्यमिति । सत्यमेव एकपदमेकं सर्ववेदकारणत्वेन प्रथमं पदं सुबन्तं तदेव तदिति कर्मधारयः । ब्रह्म रामशब्दतादात्म्यापन्नप्रणव इत्यर्थः । प्रणवो ऽपि सत्यप्रतिपादक इत्यर्थः । अत एव धर्मः सत्ये एव प्रतिष्ठितः तन्मूलक इत्यर्थः । अत एव वेदा अपि सत्यं तत्प्रतिपादका इत्यर्थः । अत एव सत्येन सत्यावलम्बेन परम् “सा काष्ठा सा परा गतिः” इति श्रुतिप्रतिपादितं राम इत्यर्थः । अवाप्यते प्राप्यते ॥ २।१४।७ ॥

सत्यमिति । यदि धर्मे मतिः धृता निश्चिता तर्हि सत्यं समनुवर्तस्व न त्यजेत्यर्थः । अतः स भवत्प्रतिज्ञातः सफलः अस्तु दीयतामित्यर्थः ॥ २।१४।८ ॥

धर्मस्येति । अभिकामार्थं प्रीत्यर्थं प्रवृत्तिकामनया एव मम अभिचोदनात् प्रार्थनातः रामं प्रव्राजय इति त्रिः त्रिवारं ब्रवीमि ॥ २।१४।९ ॥

समयमिति । हे आर्य समयं प्रतिज्ञाकालोत्तरोचितं न करिष्यसि वरं न दास्यसीत्यर्थः । तर्हि परित्यक्ता प्रतीयमानकटुभाषणेन त्वया दूरीकृता अहं जीवितं परित्यक्ष्यामि ॥ २।१४।१० ॥

एवमिति । निर्विशङ्कया वास्तवपत्युपकारप्रार्थनया दोषशङ्कारहितया केकय्या प्रचोदितः प्रार्थितो राजा पाशं प्रातीतिकभयोत्पादकत्वेन पाशसदृशं वचनमुन्मोक्तुं परिहर्तुं नाशकत् । तत्र दृष्टान्तः इन्द्रकृतम् । इन्द्रप्रार्थनया वामनयाचितमित्यर्थः ॥ २।१४।११ ॥

उदिति । स राजा उद्भ्रान्तहृदयः संचलितचित्तः अभवत् । तत्र दृष्टान्तः युगचक्रान्तरं युगचक्रयोर्मध्यं प्राप्येति शेषः । परिस्पन्दन् निःसरणार्थं चेष्टां कुर्वन् धुर्यः अनड्वानिव ॥ २।१४।१२ ॥

विकलाभ्यामिति । विह्वलाभ्यां क्षुब्धाभ्यामपश्यन्निव अन्ध इव स्थितः भूमिपः कृच्छ्रात् लब्धेन धैर्येण संस्तभ्य दुःखातिशयजनितक्षोभं निरुध्येत्यर्थः ॥ २।१४।१३ ॥

तदाकारमाह– य इति । अग्नौ विधिस्थापितवन्हिसन्निधौ मन्त्रकृतः “गृभ्णामि” इति मन्त्रेण

संस्कृतः मया धृतः यस्ते पाणिः तं त्वया सह स्वजं तव पुत्रं च संत्यजामि इतःप्रभृति इह लोके न स्प्रक्ष्यामीत्यर्थः ॥ २।१४।१४ ॥

रामाभिषेकनिवृतिर्न स्यादिति बोधयन्नाह– प्रयातेति । हे देवि रजनी प्रयाता व्यतीता अत एव सूर्यस्य उदयनं प्रति प्रतिलभ्य रामाभिषेकसम्भारैः सहितः जनः अभिषेकाय मां त्वरयिष्यति । एतेन रामाभिषेको भविष्यत्येवेति ध्वनितम् । तत्कर्तृकाभिषेकनिवर्तननिवारणाय तां भर्त्सयन्नाह– हे अशुभाचारे यदि रामाभिषेचनं व्याहन्तासि विध्वंसितासि तदा तदर्थमभिषेकार्थमुपकल्पितैः अधिकृतैर्गुरुभिः मृतस्य मृतवल्लोकान्तरं प्राप्तस्य मे सलिलक्रियां वेदबोधितलोकान्तरप्राप्तिहेतुकसलिलक्रियोपलक्षितकर्मविशेषमुद्दिश्य रामः कारयितव्य अधिकर्तव्यः सपुत्रया त्वया नैव कर्तव्या । श्लोकत्रयं संमिलितान्वयि ॥ २।१४।१५१७ ॥

अभिषेकनिवृत्तौ इह लोके स्वस्थितेरयोग्यतां बोधयन्नाह– नेति । तथासुखं वर्णिताभिषेकहेतुकसुखविशिष्टं जनं पूर्वं दृष्ट्वा हतहर्षं विध्वस्तहर्षकारणकमत एव निरानन्दमानन्दरहितमत एव अवाङ्मुखं जनं द्रष्टुं न शक्तो ऽस्मि । जनमित्युभयान्वयि ॥ २।१४।१८ ॥

तामिति । तां केकयीं तथा तेन प्रकारेण ब्रुवतः भूमिपस्य शर्वरी रात्रिः प्रभाता प्रभातत्वं प्राप्ता ॥ २।१४।१९ ॥

तत इति । पापसमाचारा पापत्वेन प्रतीयमानः समाचारो यस्याः, रोषमूर्च्छिता रोषः कोपः मूर्छितो यया क्रोधरहितेत्यर्थः । परुषं वाक्यमुवाच ॥ २।१४।२० ॥

तद्वचनमेवाह– किमिति । गररुजोपमं हेयत्वेन विषरोगसदृशं किं भाषसे न वक्तव्यमित्यर्थः । उचितमाह– अक्लिष्टं त्रैकालिकबाधारहितं राममानाययितुमिह प्रापयितुमर्हसि ॥ २।१४।२१ ॥

ननु किं प्रयोजनमानयने इत्यत आह– स्थाप्येति । राज्ये राज्यपालने मम सुतं स्थाप्य स्थापयित्वा नियुज्येत्यर्थः । निःसपत्नाम् एतत्प्रतिबन्धकीभूतशत्रुरहिताम् ॥ २।१४।२२ ॥

स इति । प्रतोदेन कशया तुन्नः ताडितः “नुन्नः” इति पाठे ऽप्ययमेवार्थः । हयोत्तम एव केकय्या प्रचोदितो राजा वाक्यमब्रवीत् ॥ २।१४।२३ ॥

तद्वचनमेवाह– धर्मेति । धर्मबन्धेन स्वकुलोचितसत्यप्रतिज्ञत्वधर्मरूपबन्धनेन बद्धः संयतो ऽस्मि । अतः मम चेतना बुद्धिः नष्टा कर्तव्यनिश्चयरहिता । अतः धार्मिकं रामं द्रष्टुमिच्छामि उचितमेव स करिष्यतीति तात्पर्यम् ॥ २।१४।२४ ॥

तत इति । ततः प्रातरभिष्ोकनियोगाद्धेतोः प्रभातां रजनीं दृष्ट्वेति शेषः । पुण्ये ज्योतिरुक्तदोषरहिते नक्षत्रयोगे पुण्ये मुहूर्ते च समागते सति गुणसम्पन्नः सकलसद्गुणविशिष्ठो वशिष्ठः संभारान् अभिषेकसामग्रीः उपगृह्य प्रविवेश । श्लोकद्वयमेकान्वयि ॥ २।१४।२५,२६ ॥

पुरीं वर्णयन्नाह– सिक्तेत्यादिश्लोकचतुष्टयेन । सिक्तसंमार्जितपथां सेकसंमार्जनविशिष्टपथविशिष्टां समृद्धः अत्यधिकः विपणः क्रेयपदार्थो यस्मिन् स आपणो यस्यां, समुत्सुकामत्युत्सवयुक्तां पुरन्दरपुरोपमां तां पुरीं समतिक्रम्य लङ्घयित्वा पौरादिभिः आकीर्णं व्याप्तं सदश्वैश्च सुसंपूर्णमन्तःपुरं ददर्श । श्लोकचतुष्टयमेकान्वयि ॥ २।१४।२७३० ॥

तदिति । तत् वर्णितमन्तःपुरमासाद्य प्राप्य तमन्तःपुरद्वारे स्थितं जनं परमर्षिर्वशिष्ठः व्यतिचक्राम विवेश च ततो ऽप्यग्रे अगच्छदित्यर्थः ॥ २।१४।३१ ॥

स इति । मनुजसिंहस्य राज्ञः द्वारे अन्तःपुरद्वारि विनिष्क्रान्तमन्तःपुरादागच्छन्तं सचिवं सारथिमेतद्धर्मद्वयाक्रान्तमित्यर्थः । सुमन्त्रं स वशिष्ठो ऽपश्यत् ॥ २।१४।३२ ॥

तमिति । वशिष्ठः तं सुमन्त्रमुवाच । तदाकारमाह– मामिहागतं प्राप्तं नृपतेराचक्ष्व कथय ॥ २।१४।३३ ॥

इमे इति । गङ्गोदकघटाः गङ्गाजलविशिष्टघट्यः सागरेभ्यः समाहृता इति शेषः । औदुम्बरमुदुम्बरनिर्मितं भद्रपीठं भद्रसूचकचिह्नचिह्नितपीठविशेषश्च आहृतम् । लिङ्गवचनविपरिणामेन पूर्वत्राप्यन्वयः ॥ २।१४।३४ ॥

सर्वेति । सर्वबीजानि अभिषेकोचितनिखिलबीजविशेषाः सुमनसः विहितपुष्पाणि ॥ २।१४।३५ ॥

रुचिराः रमणीयाः दोषरहिता इत्यर्थः । अष्टौ कन्या वरवारणः हस्तिश्रेष्ठः चतुरश्वः अश्वचतुष्टयविशिष्टो रथः निस्त्रिंशः खड्गविशेषः ॥ २।१४।३६ ॥

नरसंयुक्तं वाहनं शिबिकेत्यर्थः । वालव्यजने वालौ केशविशेषावेव व्यजने चामरद्वयमित्यर्थः । किंच वालः केशविशेषः चामरद्वयमित्यर्थः । जात्यभिप्रायेणैकवचनम् । स च व्यजनं चेति द्वन्द्वः । अत एव मुख्याभिषेकसामग्रीभूतचामरानुक्तेर्न न्यूनता श्रृङ्गारं भूषणादि ॥ २।१४।३७ ॥

हेम्नः सुवर्णस्य दाम माला तेन पिनद्धो युक्तः वृष उक्षा केसरी सिंहः । किंच केसरी प्रशस्तसटाविशिष्टः चतुर्दंष्ट्रः दंष्ट्राचतुष्टयविशिष्टः हरिश्रेष्ठः अश्वमुख्यः ॥ २।१४।३८ ॥

व्याघ्रतनुः व्याघ्रस्य चर्म वादित्रसङ्घा वाद्यसमूहाः । वेश्यानां पृथगुपादानं स्रीभ्यो वैलक्षण्यद्योतनाय ॥ २।१४।३९ ॥

गणैः स्वस्वानुचरसमूहैः नैगमाः वणिजः ॥ २।१४।४० ॥

प्रीयमाणाः मन्त्रिभिस्तर्पिताः पार्थिवै राजभिः सह तिष्ठन्ति तानपि आचक्ष्वेति तात्पर्यम् । श्लोकाष्टकमेकान्वयि ॥ २।१४।४१ ॥

त्वरयस्वेति । समुदिते अभिषेकोक्तगुणविशिष्टे अहनि अस्मिन्दिने रामो राज्यं यथा अवाप्नुयात् तथा महाराजं त्वरयस्व ॥ २।१४।४२ ॥

इतीति । सूतपूत्रः सुमन्त्रः नृपतिशार्दूलं स्तुवन् तद्भाग्यवत्तां प्रशंसन् निवेशनमन्तःपुरं प्रविवेश ॥ २।१४।४३ ॥

तमिति । वृद्धं ज्ञानवयोभ्यामधिकं पूर्वोदितं त्वया यथेच्छं सर्वदैवेहागन्तव्यं त्वद्गमननिवारणं कदाचिन्न भविष्यतीति पूर्वं राज्ञा प्रबोधितं तं सुमन्त्रं संरोद्धुं राज्ञः प्रियचिकीर्षवः न शेकुः ॥ २।१४।४४ ॥

स इति । तां केकयीवचनश्रवणहेतुकचञ्चलतारूपामवस्थामजज्ञिवान् अज्ञाता स सुमन्त्रः परमतुष्टाभिः अतिसंतोषहेतुभिः वाग्भिरिभिष्टोतुं प्रचक्रमे निश्चयं जगाम ॥ २।१४।४५ ॥

तत इति । ततः स्तवननिश्चयानन्तरं निवेशने अन्तःपुरे स्थित इति शेषः । तुष्टाव ॥ २।१४।४६ ॥

स्तवनप्रकारमाह– यथेत्यादिभिः । सागरः समुद्रः भास्करोदये यथा आनन्दति आनन्दयति तत्पूजनादिकामान् इति शेषः । तथा नो ऽस्मानानन्दय प्रसिद्धा च भास्करोदयसमये समुद्रवृद्धिः । ततः आनन्दनस्य समयाद्धेतोः केचित्त्वत्र योगवृत्त्या भास्करशब्दने चन्द्रमसमाहुः । वस्तुतस्तु अभास्करेति छेदः । भास्करसदृश इत्यर्थः । स चन्द्र एवेति केचित् ॥ २।१४।४७ ॥

इन्द्रमिति । मातलिः इन्द्रसारथिः सः मातलिना स्तुत इन्द्रः दानवान् अजयत् । तथा त्वां बोधयामि स्तौमि । त्वमपि स्वविरुद्धान् जयेत्यर्थः ॥ २।१४।४८ ॥

वेदा इति । सहाङ्गा व्याकरणादिसहिताः विद्या धनुर्वेदादयः आत्मभुवं कर्मातन्त्रमित्यर्थः । तथा त्वां बोधयामि एतदुपमालङ्कारेण राज्ञः सर्वविषयकज्ञानवत्त्वं सूचितम् ॥ २।१४।४९ ॥

आदित्य इति । भूतधरां भूतानि धरति ब्रह्मादिद्वारा स्थापयति तां पृथिवीं पृथिवीप्रादुर्भूतां स्वमण्डलवर्तिसीतां चन्द्रेण सहादित्यो यथा बोधयति स्तौति तथाद्य त्वां बोधयामि । एतेन सूर्याचन्द्रमसोः रामोपासकत्वं व्यक्तम् । अत एव सूर्यमण्डलमध्यस्थं रामं सीतासमन्वितमित्यादि सङ्गच्छते ॥ २।१४।५० ॥

उत्तिष्ठेति । कृतकौतुकमङ्गलः कृतानि संपादितानि कौतुकमङ्गलानि अभिषेकोत्सवहेतुभूतमङ्गलोपस्कराणि येन स त्वं मेरोर्दिवाकर इव उत्तिष्ठ । “कौतुकं त्वभिलाषे स्यादुत्सवे नर्महर्षयोः” इति कोशः ॥ २।१४।५१ ॥

सोमेति । सोमादयस्ते विजयं प्रदिशन्तु ददतु ॥ २।१४।५२ ॥

गतेति । भगवती उत्सवैश्वर्यस्याधिक्यात्तद्विशिष्टा शिवं मङ्गलमूलमहो दिनमुपस्थितम् अतः प्रतिबुध्यस्व । तत्र हेतुः इदं सामग्रीसम्पत्त्यनन्तरकालिकं कर्तव्यं तव कृतकृत्यं त्वत्प्रयत्नसाध्यम् ॥ २।१४।५३ ॥

उदिति । समग्रं निःशेषम् । अभिषेचनमभिषेकसामग्री पौरादिश्चोदतिष्ठत प्राप्नोत् ॥ २।१४।५४ ॥

अयमिति । भगवान् अतिसमर्थः अतः अभिषेचनमाज्ञाप्यताम् ॥ २।१४।५५ ॥

तवोत्थानमन्तरा सर्वं निरर्थकमित्याह– यथेति । अपालाः पालकरहिताः । यत्र यस्मिन्काले राजा न दृश्यते तस्मिन्काले राष्ट्रमेवं भविता भवति । लुडुपात्तकालस्याविवक्षा ॥ २।१४।५६ ॥

एवमिति । अर्थवदर्थविशिष्ठं सान्त्वपूर्वमिव सान्त्वनपूर्वकसदृशं वचः श्रुत्वा भूयो ऽपि शोकेन अभ्यकीर्यत व्याप्नोत् । प्रार्थनावचनस्य सान्त्वनत्वाभावेन इवेत्युक्तम् ॥ २।१४।५७ ॥

तत इति । ततः केकयीवचःश्रवणात्सन्निहर्षः संभावितरामवियोगजनितनिवृत्तानन्दः । अत एव सुतं प्रति शोकरक्तेक्षणः राजा सूतमुद्वीक्ष्य उवाच ॥ २।१४।५८ ॥

तद्वचनमेवाह– वाक्यैरिति । वाक्यैः त्वदुक्ताभिषेकसम्बन्धिवचनैः । भूयो ऽधिकं त्वं मां निकृन्तसि । एतेनाभिषेकविघ्नः सूचितः । सुमन्त्र इति । करुणं श्रवणमात्रेण दयोत्पादकं वचनं श्रुत्वा दीनं कर्तव्यविवेकराहित्येन दीनतां प्राप्तं दृष्ट्वा तस्माद्राजाधिष्ठिताद्देशात्किञ्चिदपाक्रमत् । किञ्चिदित्यनेन स्वाभिप्रायं राजा कथयतु इत्यभिप्राय सूचितः ॥ २।१४।५९ ॥

यदेति । दैन्याद्धेतोः ॥ २।१४।६० ॥

तत्प्रतिवचनमेवाह– सुमन्त्रेति । हे सुमन्त्र प्रजागरपरिश्रान्तो राजा अनिद्रावशं निद्रासदृशमोहपारतन्त्र्यमुपागतः प्राप्तः ॥ २।१४।६१ ॥

तदिति । तत्तस्माद्धेतोः यशस्विनं नित्ययशोविशिष्टं रामं त्वमानय ॥ २।१४।६२ ॥

केकयीवचनश्रवणानन्तरकालिकं सुमन्त्रोत्तरमाह– अश्रुत्वेति । हे भामिनि प्रातीतिककोपविशिष्टे राजवचनमश्रुत्वा अहं कथं गच्छामि । एतेन राज्ञः शोककारणं सुमन्त्रेण ज्ञातमिति ध्वनितम् । तत्केकयीवचनप्रत्याख्यानरूपं वाक्यं श्रुत्वा राजा अब्रवीत् ॥ २।१४।६३ ॥

सुमन्त्रेति । हे सुमन्त्र रामं शीघ्रमानय सः सुमन्त्रः कल्याणं मन्यमानः राजवचनश्रवणेनेति शेषः । ननन्द ॥ २।१४।६४ ॥

निर्जगामेति । तया राजवाण्या त्वरितं चोदितः प्रेरितः राजशासनाद्राज्ञः शासनं शिक्षामतति नित्यं प्राप्नोति । प्रीत्या त्वरितः सः सुमन्त्रः निर्जगाम चिन्तयामास च तयेत्यस्य केकयीविशेषणत्वे तु राजशासनादिति पञ्चम्यन्तमेव ॥ २।१४।६५ ॥

तच्चिन्तनं बोधयन्नाह व्यक्तमिति । धर्मराट् दशरथः राजा इह अभिषेकशालायां व्यक्तं यथा

स्यात्तथा आयास्यति इति मतिं कृत्वा सागरह्रदसङ्काशात् समुद्रान्तरवर्तिह्रदसदृशात् अन्तःपुराद्राघवस्य दिदृक्षया सुमन्त्रः निर्जगाम । श्लोकद्वयमेकान्वयि ॥ २।१४।६६,६७ ॥

तत इति । ततः अन्तःपुराद्विनिःसृतः सुमन्त्रः पुरस्तादग्रे महीपतेर्द्वारगतान्द्वारपालान्विलोकयन्सन् द्वारमुपेत्य प्राप्य विष्ठितान्संस्थितान्विविधाननेकप्रकारान्महाधनान्पौरान्ददर्श ॥ २।१४।६८ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे चतुर्दशः सर्गः ॥ २।१४ ॥