दशरथोक्त्याद्यनुभवानन्तरकालिकं केकयीवृत्तान्तमाह– अतदर्हमिति । अतदर्हं शोकयोग्यतारहितं देवलोकात्परिच्युतं ययातिमिव शयानं भूमौ पतितमतथोचितं तादृशशयनानर्हं महाराजं दशरथमनर्थरूपा राजेप्सितार्थविरुद्धार्थनिरूपणकर्त्री सिद्धार्था साधितदेवप्रयोजना अभीता वास्तवयशोरूपपत्यर्थसाधिकात्वरूपधर्मविविष्टात्वेन धर्मच्युतिभीतिरहिता, किंच अभीता वारतवयशोरूपपत्यर्थप्रापिका इणो रूपम् । अभयदर्शिनी रामनिष्ठसर्वहेतुकभयाभावदर्शनशीला केकयी तं याचितं वरं पुनः आकारयामास राज्ञा सम्पादयामास । श्लोकद्वयमेकान्वयि ॥ २।१३।१२ ॥
तत्संपादनप्रकारमाह– त्वमिति । हे महाराज सत्यवादी अत एव दृढव्रतः । त्वं कथ्यसे जनैरिति शेषः । अतो मम वरं विधारयितुं स्वान्तरेव संस्थापयितुं दूरीकर्तुं वा कस्माद्धेतोरिच्छसि अनुचितमेतदिति तात्पर्यम् ॥ २।१३।३ ॥
एवमिति । एवमुक्तो राजा क्रुद्ध इव विह्वलन् सन् प्रत्युवाच ॥ २।१३।४ ॥
तदाकारमाह– मृत इति । हे अनार्ये आर्यविरुद्धे हे अमित्रे मयि मृते लोकान्तरं प्राप्ते सति सुखिनी सुखविशिष्टा भव ॥ २।१३।५ ॥
स्वर्ग इति । स्वर्गे साकेते ऽपि दैवतैर्देवताभिमानिदेवैरभिहितं कथितं रामस्य कुशलं धारयिष्ये प्रत्यादेशात्प्रत्यादेशं प्राप्तं प्रसङ्गाद्देवैः कथितं तव कुशलं कथं धारयिष्ये तव कुशलं न श्रोष्यामीत्यर्थः ॥ २।१३।६ ॥
कैकेय्या इति । कैकेय्याः प्रियकामेन केकयीनिष्ठप्रीतिविषयीभूतवरद्वयदानेच्छावता मया यदि रामो वनं प्रव्राजितः । एतत् सत्यं ब्रवीमि तदा तदभिषेकप्रतिज्ञानमसत्यं भविष्यति एतेन अन्यतरासत्यत्वं दुष्परिहर्तव्यमिति सूचितम् ॥ २।१३।७ ॥
अपुत्रेणेति । अपुत्रेण पुत्ररहितेन मया महता श्रमेण लब्धो महातेजाः पुत्रः स रामः मया कथं त्यज्यते त्यक्तुं न शक्नोमीत्यर्थः ॥ २।१३।८ ॥
त्यागानर्हत्वमेव बोधयन्नाह– शूर इति । शूरत्वादिगुणविशिष्टः रामः कथं विवास्यते ॥ २।१३।९ ॥
तदेव भङ्ग्यन्तरेणाह– कथमिति । इन्दीवरश्यामत्वादिगुणविशिष्टं रामं दण्डकान् कथं स्थापयिष्यामि प्रस्थापयिष्यामि ॥ २।१३।१० ॥
सुखानामिति । सुखानामेव उचितस्य योग्यस्य दुःखैः दुःखानामनुचितस्य रामस्य दुःखं कथमनुपश्येयम् ॥ २।१३।११ ॥
स्वसुखोपायं चिन्तयन्नाह– यदीति । अदुःखार्हस्य रामस्य दुःखं दुःखहेतुभूतवनप्रव्राजनरूपवरमकृत्वा असम्पाद्य अदत्त्वेत्यर्थः । यदि मम संक्रमणं लोकान्तरगमनं भवेत् तदा सुखमवाप्नुयामहमिति शेषः । द्रुतं लोकान्तरं प्राप्ते इहस्थया अनया संभाषणं न स्यात् । तर्हीयं भिया स्वेप्सितं रामसन्निधौ न कथयिष्यतीति रामो वनं न, गमिष्यतीति तात्पर्यम् ॥ २।१३।१२ ॥
नृशंसे इति । सत्यपराक्रमं मम प्रियं रामं विप्रियेण वियोगेन किं किमर्थं योजयसे ॥ २।१३।१३ ॥
रामप्रव्राजने अनर्थान्तरमपि भविष्यतीत्याह– अकीर्तिरिति । अकीर्तिः त्वद्वरप्रदानमूलकाभिषेकनिवृत्तिहेतुकप्रतिज्ञाहानिजनितदुर्यशः परिभविष्यति दूरीकरिश्यति कीर्तिमिति शेषः । परिभविष्यतीत्यस्य यदि भविष्यतीत्येवार्थस्तदा न शेषकल्पना । परीति लोके इत्यस्य विशेषणं वा संपूर्णेत्यर्थः । विच्प्रत्ययान्तमेतत् । अर्धं पृथक् । दशरथोक्तिं समाप्य वृत्तान्तमाह– तथेति । तथा वर्णितप्रकारेण विलपतः परिभ्रमितचेतसः तस्य राज्ञः सूर्यः अस्तमभ्यानमत् अत एव रजनी रात्रिः
अभ्यवर्तत प्राप्नोत् अर्धद्वयमेकान्वयि । “षष्ठी चानादरे” इत्यनुशासनविहिता तस्येत्यत्र षष्ठी ॥ २।१३।१४ ॥
सेति । चन्द्रमण्डलमण्डिता त्रियामा शर्वरी रात्रिः विलपमानस्य राज्ञो दशरथस्य न व्यभासत न प्राकाशयत् अन्तर्भावितणिजर्थः । सम्बन्धसामान्यविवक्षया राज्ञ इत्यत्र षष्ठी ॥ २।१३।१५ ॥
तथेति । तथा तेन प्रकारेण वृद्धः त्यक्तलोकवृत्तान्तः दशरथः उष्णं विनिःश्वस्य गगनासक्तलोचनः ऊर्ध्वदृष्टिः सन् आर्तवद्विललाप ॥ २।१३।१६ ॥
तद्विलपनमेवाह– नेति । हे नक्षत्रभूषिते निशे तव प्रभातं नेच्छामि प्रभातकालभाविरामवियोगभिया न वाञ्छामीत्यर्थः । हे भद्रे मे दया क्रियतामेतेन प्रभातत्वविशिष्टा न भवेति तत्प्रार्थना व्यञ्जिता ॥ २।१३।१७ ॥
अथवेति । अथवा शीघ्रं गम्यताम् । तत्र हेतुः निर्घृणां दयारहितां यत्कृते मम व्यसनं दुःखं तां केकयीं द्रष्टुमहं नेच्छामि । एतेन निशाविरामे पुञ्जनबाहुल्यात् तद्दर्शनं न स्यादिति हेतुर्व्यक्तः । अर्धद्वयमेकान्वयि ॥ २।१३।१८ ॥
एवमिति । राजा केकयीमनेन प्रकारेण उक्त्वा संयताञ्जलिः आसेति शेषः । अर्धं पृथक् ॥ २।१३।१९ ॥
प्रसादयामासेति । राजधर्मवित् सामादिविज्ञाता राजा कैकेयीं पुनः प्रसादयामास । अर्धं पृथक् । तत्प्रसादनमेवाह– साधुवृत्तस्य कपटरहितवृत्तिविशिष्टस्य त्वद्गतस्य तव वशे प्राप्तस्येत्यर्थः । गतायुषः गता अवक्तव्यवचनेन निवृत्ता आयुः त्वद्विषयिणी प्रीतिर्यस्य तस्य विशेषतः सर्वराजतो ऽधिकस्य राज्ञो मम प्रसादः क्रियताम् विशेषत इत्यत्र षष्ठ्यन्तात्तसिः । प्रसादान्वयित्वे तु प्रथमान्ताद्बोध्यः । अर्धद्वयमेकान्वयि ॥ २।१३।२० ॥
मद्दुर्वचनजनितो विषादस्त्वया न कार्य इति बोधयन्नाह– शून्येनेति । हे सुश्रोणि शून्येन जनरहितत्वेन हेतुना इदं दुर्वचनं मया समुदाहृतं कथितम् । एकान्ते क्रूराभासमप्युपदेशवचनं क्रोधकारणं लोके न दृष्टमिति तात्पर्यम् । तेन त्वया कोपो न कार्य इति व्यञ्जितम् । अर्धं पृथक् ॥ २।१३।२१ ॥
कुर्विति । हे बाले यतस्त्वं सहृदया रसज्ञा असि अतः मे प्रसादं प्रसन्नतां कुरु । सम्पादय त्वं च प्रसीद । तेन किमत आह –त्वद्दत्तं राज्यं रामो लभतां तेन त्वं परं यशः अवाप्स्यसि । सार्धश्लोक एकान्वयी ॥ २।१३।२२ ॥
ममेति । मदादेः प्रियमेतद् रामाभिषेचनं कुरु सम्पादय ॥ २।१३।२३ ॥
राजवाक्यश्रवणानन्तरं केकयीवृत्तान्तमाह– विशुद्धेति । दुष्टभावा तत्सदृशी अत एव नृशंसा तत्तुल्या केकयी विशुद्धभावस्य कापट्यरहिताभिप्रायविशिष्टस्य ताम्राश्रुकलस्य अतिविलापेन ताम्रप्रायनेत्राभ्यामश्रुकला यस्य तस्य भर्तुर्विलापं श्रुत्वा भर्तुर्वाक्यं वचनं न चकार । एतेन राजयशोवृद्ध्यभिलाषिणीत्वं तस्याः सूचितम् । भर्तुरित्युभयान्वयि ॥ २।१३।२४ ॥
तत इति । ततः स्ववचनानङ्गीकारानन्तरं पुत्रस्य विवासनं प्रति विवासनहेतोः प्रतिकूलभाषिणीं प्रियां समीक्ष्य पुनरपि मूर्छितः अत एव विसंज्ञो राजा क्षितौ निपपात ॥ २।१३।२५ ॥
इतीवेति । इतीव अतीव व्यथितस्य श्वसतः उच्छ्वासं प्राप्नुवतः राज्ञः घोरं यथा स्यात्तथा निशा जगाम । अत एव तदा बन्द्यादिप्रबोधनसमये तैः प्रबोध्यमानो ऽपि राजसत्तमः प्रतिबोधनं प्रतिबोधकबन्द्यादिवचनं निवारयामास । तेन क्लेशाधिक्यं सूचितम् ॥ २।१३।२६ ॥
इति श्रीमद्वाल्मीकीमयरामायणव्याख्याने रामायणशिरोमणावयोध्याकण्डे त्रयोदशः सर्गः ॥ २।१३ ॥