०११ कैकेय्याः वरयाचना

तमिति । मन्मथशरैः मदं संसारदैन्यं मथ्नन्ति निवर्तयन्तीति मन्मथा वशिष्ठादयः तेषां शरैः शत्रुनिवर्तकशरसदृशाविद्यानिवर्तकवचनैर्विद्धं व्याप्तमत एव कामवेगवशानुगं कामवेगः वशो येषां ते अनुगा अनुचरा यस्य तं पृथिवीपालं दशरथं दारुणं दारुणवस्तुस्वीकारकं वच उवाच ग्लेपनार्थकमदधातुप्रकृतिकभावक्विबन्तं मदिति शरशब्दः आचारक्विबन्तप्रकृतिककर्तृक्विबन्तः । किं च मन्मथशरैर्विद्धमिति वचोविशेषणम् । तथाहि मन्मथं शृणातीति मन्मथशरः शिवः उपलक्षणतया ब्रह्मविष्णुमहेश्वरा इत्यर्थः विद्धं प्रार्थितमित्यर्थः विद्धमिति विधानार्थकविधधातुप्रकृतिकनिष्ठान्तमागमशास्त्रस्यानित्यत्वादिडभावः ॥ २।११।१ ॥

तद्वचनमेवाह– नेति । अभिप्रायः इच्छाविषयीभूतस्तं त्वया कृतं संपादितमिच्छामि ॥ २।११।२ ॥

प्रतिज्ञामिति । प्रतिज्ञामवश्यमहं करिष्यामीति शब्दोच्चारणपूर्वकनिश्चयं प्रतिजानीष्व कुरु । अथ अनन्तरं मयाभिप्रार्थितमीप्सितं यथा यथावद्व्याहरिष्यामि कथयिष्यामि ॥ २।११।३ ॥

तामिति । ईषदुत्स्मयः ईषद्धासविशिष्टः कामी रामाभिषेकेच्छावान्, ईषदिति संगृह्यान्वयि वा ॥ २।११।४ ॥

तद्वचनमेवाह– अवेति । अवलिप्ते स्वरूपादिविषयकगर्वविशिष्टे त्वत्तः प्रियतमा अन्या स्त्री न रामादन्यो मनुजः पुरुषः प्रियतमो न, प्रियतमाशब्दो लिङ्गविपरिणामेन उत्तरत्रापि संबध्यते एवमन्यशब्दस्तद्विपरिणामेन पूर्वत्र संबध्यते । “प्रियतर” इति भट्टपाठः ॥ २।११।५ ॥

तेनेति । अजय्येन जेतुमशक्येन जीवनार्हेण जीवनः प्राणः तस्यापि अर्हः पूज्यः तेन प्राणेभ्यो ऽप्यधिकेनेत्यर्थः । रामेण सह अहं ते शपे रामो ऽपि त्वदीप्सितमवश्यं साधयिष्यतीति भावः ॥ २।११।६ ॥

रामे स्वाधिकप्रीतिं बोधयितुं पुनःपुनः शपते– अयमिति द्वाभ्याम् । अपश्यन् विरुद्धरूपेणावलोकयन् तेन रामेण सह ते वचनक्रियां त्वद्वचनकर्तव्यतां प्रतीति शेषः ॥ २।११।७ ॥

आत्मनेति । आत्मना देहेन अन्यैर्मित्रादिभिः यं वृणे सेवे इत्यर्थः । तेन सह शपे एतेन रामस्त्वयाप्यत्यन्तं सेव्य इति बोधितम् ॥ २।११।८ ॥

भद्र इति । हे भद्रे एतत् हृदयं ममाभिप्रायमनुमृश्य विचार्य मामुद्धरस्व रामानुकूलस्वाभिप्रायाविष्करणेन मत्संदेहं निवर्तयेत्यर्थः । एतद्रामाभिप्रेताविरुद्धं समीक्ष्य विचार्य यत्साधु मन्यसे तद् ब्रूहि ॥ २।११।९ ॥

बलमिति । सुकृतेन शोभनक्रियाविशिष्टकायव्यापारेणैव ॥ २।११।१० ॥

सेति । तदर्थमनाः तेषां देवानामर्थे मनो यस्याः सा तं रामस्त्वया सेव्य इत्याकारकमभिप्रायमागतं निवेदितवन्तं राजानं निर्माध्यस्थ्यात् नितरां माध्यस्थ्यस्य मध्यस्थधर्मस्य अत् प्राप्तिर्यस्मिन् तद्दुर्वचमन्यैर्वक्तुमशक्यं वचो बभाषे । आगतमित्यत्रान्तर्भावितणिजर्थः कर्तरि निष्ठा ॥ २।११।११ ॥

तद्वचनप्रभावं वर्णयन्नाह– तेनेति । आत्मना स्त्रीस्वभावस्य व्या आच्छादकेन अतिचातुर्यविशिष्टेनेत्यर्थः । तेन वाक्येन अभ्यागतं स्वप्रतापेन सर्वत्र पूर्णमभिप्रायं गूढाभिप्रायविशिष्टमन्तकं देवानां बन्धकं तं रावणं जहार जघानेव, केकयीवचनश्रवणमात्रेण रक्षसां संतापो जात इति तात्पर्यम् । अत एव बभाषे इत्यनेन न पौनरुक्त्यम् । संवरणार्थकव्येञ्धातुप्रकृतिककर्तृक्विबन्तप्रकृतिकतृतीयान्तं व्येति ॥ २।११।१२ ॥

तद्वचनमेवाह– यथेत्यादिभिः । यथा येन क्रमेण शपसे शपथं करोषि वरं ददासि च तेन

क्रमेण तत्तव भाषितं देवाः देवताविशेषाः चन्द्रादयश्च निशाचरादयश्च श्रृण्वन्तुस तव भाषितं जानीयुश्च । श्लोकत्रयमेकान्वयि ॥ २।११।१३१५ ॥

देवान् साक्षित्वेन संस्थाप्य तदधिपतीन् संस्थापयन्ती आह– सत्येति । सत्यवाक् सत्यवक्ता अत एव सत्यसंधः सत्यप्रतिज्ञः राजा मम वरं ददाति । अतः सर्वे दैवताः देवतानामिमे नियन्तारो दैवताः ब्रह्मादयः शृण्वन्तु अत एव न पौनरुक्त्यम् ॥ २।११।१६ ॥

इतीति । महेष्वासं महाचापविशिष्टं राजानमिति अनेन प्रकारेण परिगृह्य वशीकृत्य प्रशस्य च ततः परिग्रहणादिहेतोः काममत्यन्तमोदितं कृतानेकविधतकं वरदं राजानं परमन्यदिदमुवाच ॥ २।११।१७ ॥

तद्वचनमेवाह– स्मरेति । तत्र रात्रौ तस्मिन्प्रसिद्धे देवासुरे रणे शत्रुः शम्बरः तव जीवितमन्तरा विना त्वां च्यायवत् वीर्यहीनमकरोत् आगमशास्त्रस्यानित्यत्वादड्विरहः ॥ २।११।१८ ॥

तत्रेति । तत्र तस्यामवस्थायां जाग्रत्या मया यत् यस्माद्धेतोस्त्वं समभिरक्षितस्तस्माद्धेतोः यतमानाया मे वरौ प्रददौ भवानिति शेषः संबन्धसामान्यविवक्षया षष्ठी ॥ २।११।१९ ॥

ताविति । तव सकाशे त्वत्समीपे निक्षेपौ न्यासभूतत्वेन स्थापितौ तौ दत्तौ वरौ मृगयामि अन्वेषयामि वाञ्छामीत्यर्थः ॥ २।११।२० ॥

तदिति । प्रतिश्रुत्य दास्यामीति प्रतिज्ञाय प्रहास्यामि त्यक्ष्यामि त्वद्विमानिता त्वत्कर्तृकावमानं प्राप्ता ॥ २।११।२१ ॥

वाङ्मात्रेणेति । तदा स्वोक्तिकाले वाङ्मात्रेण विना सूर्येण मृगो नित्यं मृगविशिष्टश्चन्द्र इव केकय्या स्ववशीकृतो राजा विनाशाय देवानां मङ्गलाय आत्मानं स्वस्य पाशं अस्य प्रजापालनस्य पाशं व्याप्तिं प्रचस्कन्द जग्राह, स्नेहस्यापि त्यागेन प्रजापालनं कर्तव्यमिति बुद्धिं चकारेत्यर्थः । सूर्ये चन्द्रवशीकरणत्वं तु चन्द्रप्रकाशनिवर्तकत्वेन, किं च विना चन्द्रेण मृग इव वशीकृत इत्यर्थः । प्रसिद्धं च मृगवशीकरणत्वं चन्द्रे एतेन केकय्यभिप्रायो राज्ञा ज्ञात इति ध्वनितम् तथा च मात्रिकाकोशः “विः पक्षी गरुडः सूर्यो जलधिः सोम उच्यते” इति ॥ २।११।२२ ॥

वरयोर्दुर्देयत्वेन पुनः प्रार्थयन्ती आह– तत इति । काममत्यन्तं मोहितं तर्कितवन्तं राजानमुवाच । तद्वचनमेवाह– तदा देवासुरयुद्धे त्वया दत्तौ वरौ देयौ ॥ २।११।२३ ॥

ननु कौ वरौ याचसे इत्यत आह– ताविति । मे वचः शृणु राघवस्य रामस्याभिषेकसमारम्भः त्वया कल्पितः । अनेन अभिषेकेणाभिषेकसामग्र्या भरतो ऽभिषिच्यतां रामाभिषेको निवर्त्यतामिति तात्पर्यम् इत्येको वरो बोध्यः । सार्धश्लोक एकान्वयी ॥ २।११।२४ ॥

य इति । तस्य द्वितीयस्यापि काल आगतः ॥ २।११।२५ ॥

द्वितीयं वरमेवाह– तवेति । रामस्तापसो भवतु अर्धद्वयमेकान्वयि ॥ २।११।२६ ॥

उपसंहरन्ती आह– भरत इति । अकण्टकं विघ्नरहितं कामः इच्छा ॥ २।११।२७ ॥

अद्येति । प्रयान्तं गच्छन्तं राघवं रामम् । अर्धं पृथक् ॥ २।११।२८ ॥

राजानं प्रोत्साहयन्ती आह– स इति । सः रघुकुलोद्भवः सत्यसंगरः सत्यवाक् भव तेन कुलादित्रयं रक्ष । तत्र हेतुः परत्र सर्वोत्कृष्टे वासे अनुत्तमं परमोत्तमं निमित्तं सत्यवचो वदन्ति अत एव नृणां हितम् ॥ २।११।२९ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे एकादशः सर्गः ॥ २।११ ॥