०१० दशरथकृतप्रसादनम्

उत्तरवृत्तं सप्रसङ्गं बोधयितुं पूर्ववृत्तमनुवदन्नाह– विदर्शितेति । अपापया पापिनीसदृशया कुब्जया देवी कैकेयी यदा विदर्शिता विशेषकार्यविषयकबोधं प्रापिता तदा भूमौ शेते स्म । तत्र दृष्टान्तः दिग्धविद्धा दिग्धेन कार्यविशेषवृद्ध्या विद्धा व्याप्ता किनरीव भूमिशयनमात्रसाध्यकार्यविशेषवशेन भूमिशयितकिंनरीसदृशीत्यर्थः । किंच दिग्धं वनगमनहेतुकरावणादिवधजनितरामकीर्तिवृद्धिं वेत्तीति दिग्धवित् इति कैकेयीविशेषणम् । हा इति विदर्शितान्वयि कष्टेन बोधितेत्यर्थः । किंच दिग्धविदं रामकीर्तिवृद्धिज्ञानं दधाति सा, किंच दिशः तदुपलक्षितभुवनानि दधाति स्वकार्यत्वेन मनसि स्थापयति पुष्णाति वा दिग्धो ब्रह्मा विष्णुर्वा तदन्यतरस्य या वित् आख्यानं तत्कर्तृकप्रार्थनेत्यर्थः । तां दधाति स्वीकरोतीति, किंचोक्तदिशा दिग्धशब्दस्य ब्रह्मविष्णुपरत्वेनोभयकर्तृकप्रार्थनास्वीकर्त्रीत्यर्थः । एषु पक्षेषु किंनरीति तत्सौन्दर्यधर्मबोधिकोपमा ॥ २।१०।१ ॥

निश्चित्येति । अकृत्यं कर्तव्यरामराज्याभिषेकस्याभावः निवृत्तिरिति यावत् सम्यक् स्वप्रतिज्ञापालनाय अवश्यं रामो वनं गन्ता तच्छोभनमेतन्निवारणमिति निश्चित्य विचक्षणातिनिपुणा केकयी सर्वं मन्थरोक्त्यनुकूलस्वकृत्यं शनैः आचचक्षे त्वदुक्तमहं करिष्यामीति कथयामासेत्यर्थः । शनैराचचक्षे इत्यनेन मया इयमेवं बोधितेति कस्मैचित्त्वया न वक्तव्यमन्यथा लक्ष्मणस्तुभ्यं कोपिष्यतीति केकय्या शिक्षा सूचिता ॥ २।१०।२ ॥

सेति । वाक्यं केकयीवचनम् ओहिता अस्या उक्तिः सदसद्वेति विचारवती अत एव दीना पाक्षिकानिष्टसंभावनया खिन्ना भामिनी सा मन्थरा निश्चयं लक्ष्मणो ऽवश्यं कोपिष्यतीति बुद्धिं कृत्वा अत एव नागकन्येव दीर्घं बहुकालमुष्णं विनिःश्वस्य आत्मसुखावहं मार्गमुपायं मुहूर्तं चिन्तयामास । सार्धश्लोक एकान्वयी ॥ २।१०।३ ॥

सेति । तं केकेयीहृदयस्थं विनिश्चयं वनगमनं रामाभीप्सितमिति तदितरकोपस्याकिंचित्करत्वमिति बुद्धिं निशम्य युक्त्या ज्ञात्वा स्वयमपि तथैव निश्चित्येत्यर्थः । सिद्धिं स्वचिकीर्षितनिष्पत्तिं प्राप्येव परमप्रीता बभूव । अर्धद्वयमेकान्वयि ॥ २।१०।४ ॥

अथेति । आबला अः विष्णुः आः ब्रह्मा च तयोः बलं यस्या मत्कर्मकप्रार्थनाकर्त्रोर्युवयोः कार्यमहं साधयिष्यामीति ब्रह्मविष्णुबलसंपादिकेत्यर्थः । अरूषिता देवी केकयी आवि रामकर्तृकदेवादिरक्षणहेतुकवनगमने निश्चयं कृत्वा भृकुटिं मुखे संनिवेश्य एकाग्रदृष्टिं कृत्वेत्यर्थः भूमौ संविवेश । अर्धत्रयमेकान्वयि । आवीत्याङ्पूर्वकगमनार्थकवाधातुप्रकृतिकभावक्विबन्तप्रकृतिकसप्तम्येकवचनम् ॥ २।१०।५ ॥

तत इति । ततः भूमिसंवेशानन्तरं यानि माल्यादीन्यपविद्धानि परित्यक्तानि तानि भूमिं प्रपेदिरे प्रापुः ॥ २।१०।६ ॥

तयेति । तया केकय्या नक्षत्राणि नभ इव अशोभयन्त ॥ २।१०।७ ॥

क्रोधेति । एकवेणीं वेण्यन्तराण्युन्मुच्येत्यर्थः । अर्धद्वयमेकान्वयि ॥ २।१०।८ ॥

केकयीवृत्तं समाप्य राजवृत्तमाह– आज्ञाप्येति । अभिषेचनम् अभिषेकस्य कर्तारं वसिष्ठमित्यर्थः । आज्ञाप्य तत्र नियुज्येत्यर्थः । उपस्थानं वसिष्ठसमीपस्थितियोग्यं जनमित्यर्थः । अनुज्ञाप्य वसिष्ठाज्ञापितकर्मणि नियुज्येत्यर्थः । निवेशनं स्वगृहं प्रविवेश अभिषेचनोपस्थानशब्दौ कर्तृल्य्वन्तौ । अर्धद्वयमेकान्वयि ॥ २।१०।९ ॥

प्रवेशप्रयोजनं बोधयन्नाह– अद्येति । अज्ञिवान् ज्ञातवान् अतः प्रियार्हां प्रियाभिः स्त्रीभिः अर्हां पूज्यां कौशल्यामित्यर्थः । आख्यातुं बोधयितुमन्तःपुरं सर्वपत्नीगृहविशिष्टगृहं विवेश ॥ २।१०।१० ॥

स इति । श्रेष्ठं कविभिरत्यन्तं प्रशस्यमित्यर्थः । केकय्याः गृहं प्रविवेश । एतेन केकयीगृहं कौशल्यागृहगमनमार्गे एवेति व्यक्तम् । अर्धं पृथक् ॥ २।१०।११ ॥

भवनमेव वर्णयति– शुकेत्यादिभिः । क्रौञ्चहंसानां रुतैः शब्दैरायुतं व्याप्तं वामनिका अतिह्रस्वाः ॥ २।१०।१२ ॥

लतेति । चम्पकाशोकशोभितैर्लतागृहैश्चित्रगृहैश्च शोभितमिति शेषः ॥ २।१०।१३ ॥

दान्तेति । दान्तादय एव वेदिकास्ताभिः समायुतम् । सामान्ये नपुंसकम् ॥ २।१०।१४ ॥

दान्तेति । भक्ष्यैश्च संवृतम् ॥ २।१०।१५ ॥

उपपन्नमिति । भूषणैरुपपन्नमत एव त्रिदिवोपमं स्वमन्तःपुरं महाराजो राजा प्रविश्य शयनोत्तमे कैकेयीं न ददर्श । सार्धश्लोक एकान्वयी ॥ २।१०।१६ ॥

स इति । कामबलेन अभिषेकविषयकातीच्छया संयुक्तः अत एव रत्यर्थी राज्ञीप्रीतिप्रयोजनो मनुजाधिपः भार्यामपश्यन् विषसाद अत एव पप्रच्छ ॥ २।१०।१७ ॥

विषादे हेतुं वदन्नाह– नहीति । देवी केकयी तस्य राज्ञो वेलामागमनसमयं नात्यवर्तत तदागमनसमये तत्रैव अतिष्ठदित्यर्थः । अत एव शून्यं केकयीरहितं गृहं कदाचन न प्रविवेश प्रवेशसमये सदैव तत्र तामपश्यदित्यर्थः । ततो हेतोः पर्यपृच्छत् ॥ २।१०।१८१९ ॥

यथेति । स्वार्थलिप्सुं देवकार्यनिष्पादनजनितस्वयशोरूपप्रयोजनवतीमत एव अपण्डितामतिविज्ञां केकयीं यथापुरमविज्ञाय संत्रस्ता प्रतीहारी उवाच ॥ २।१०।२० ॥

तद्वचनाकारमाह देवेति । देव हे राजन् क्रुद्धेव देवी केकयी क्रोधागारमभिद्रुता प्राप्ता । अर्धं पृथक् । प्रतीहार्या इति । लुलितेन केकयीचञ्चलतया स्वाभिप्रायमनुक्त्वा गमनेनेत्यर्थः । व्याकुलितानीन्द्रियाणि यस्य अत एव परमदुर्मना राजा विषसाद इतस्ततश्चचाल ॥ २।१०।२१ ॥

तत्रेति । तत्र प्रचलनसमये भूमौ पतितां शयानां केकयीं जगतीपतिरपश्यत् ॥ २।१०।२२ ॥

भङ्ग्यन्तरेण पुनस्तदेवाह– स इति । पापाय पापिराक्षसविनाशाय सङ्कल्पो यस्यास्तामपापो राजा धरणीतले ददर्श ॥ २।१०।२३ ॥

लतामिति । निर्धूतां पतितां किन्नरीमिव दिग्धेन विषलिप्तबाणेन मृगयुना व्याधेन विद्धां करेणुमिव वनितां केकयीमभिसंत्रस्तचेतनः अभितः किमर्थमेवमियं पतितेति सर्वत्र विचारेण संत्रस्ता चेतना बुद्धिर्यस्य कामी रामाभिषेकविषयकेच्छावान् राजा इदमुवाच । सार्धश्लोकत्रयमेकान्वयि ॥ २।१०।२४२७ ॥

तद्वचनमेवाह– नेति । ते आत्मनि चित्ते संश्रितं क्रोधं न अभिजानामि । क्रोधकारणं पृच्छति अभियुक्ता पराभूतिं प्राप्ता विमानिता निन्दिता ॥ २।१०।२८ ॥

यदिति । हे कल्याणि पांसुषु धूलिषु यत्त्वं शेषे तत् इदं शयनं मम दुःखाय भवति अतः कल्याणचेतसि मयि सति हे मम चित्तप्रमाथिनि भूतोपहतचित्ता इव त्वं भूमौ किमर्थं शेषे । चित्तस्य सावधानत्वे एवमाचरणं ते न स्यादिति भावः । सार्धश्लोक एकान्वयी ॥ २।१०।२९ ॥

भूतग्रहादिजनितरोगाणां निवृतिर्वैद्यप्रयत्नसाध्येति बोधयन्नाह– सन्तीति । सर्वशः सर्वप्रकारैरित्यर्थः आचक्ष्व कथय । अर्धद्वयमेकान्वयि ॥ २।१०।३० ॥

आधिमाशङ्क्य तत्कारणं पृच्छति– कस्येति । कस्य केनापि जनेन प्रियं प्रीतिविषयीभूतं कर्म कार्यं कृतं किम् । वाशब्दः किमर्थकः । एतेन तत्प्रत्युपकारकरणसामर्थ्याभावप्रयुक्ता मानसी व्यथा चेदुच्यतामिति स्वाभिप्रायो निवेदित इति ध्वनितम् । “कृत्यानां कर्तरि वा” इति षष्ठी । विप्रियं प्रीतिविषयीभूतकर्मध्वंसकं कर्म केनापि कृतं किम् । एतेन तत्कृतकर्मफलदानासामर्थ्यमूलिका ते

मानसी व्यथा चेदुच्यतामिति बोधितम् । अपिरुभयान्वयी ॥ २।१०।३१ ॥

ननु किं कथनेनेत्यत आह– क इति । महत् त्वत्प्रयत्नासाध्यमिदं प्रियाप्रियोभयान्वयि मा रौत्सीः । स्वाभिप्रायावरोधं मा कार्षीरित्यर्थः । हे देवि संपरिशोषणं स्वाभिप्रायाविष्करणाभावमूलं कौष्ठादिसंपरिशोषणं मा कार्षीः ॥ २।१०।३२ ॥

अवध्य इति । अवध्यः त्वत्कर्तृकनाशाशक्यः आढ्यो द्रव्यवान् अकिंचनो दरिद्रः ॥ २।१०।३३ ॥

अहमिति । वशानुगाः वशं वशतामनुगच्छन्ति प्राप्नुवन्ति ते अहं ते ऽभिप्रायमीक्षितं व्याहन्तुं निवर्तयितुं जीवितेनात्मना देहेन नैवोत्सहे । अतो ब्रूहि आत्मनि तवात्मभूते मयि । श्लोकद्वयमेकान्वयि ॥ २।१०।३४,३५ ॥

करिष्यामीति । सुकृतेन शोभनं कृतं मनोव्यापारो यस्मिन् तेन कर्तृणा तव प्रीतिं प्रसादं करिष्यामि संपादयिष्यामि ते शपे अस्मिन्विषये तव शपथं करोमि । अर्धं पृथक् । संपादने स्वसामर्थ्यं बोधयन्नाह– यावदिति । चक्रं रविमण्डलं यावदावर्तते प्रकाशयति तावती वसुंधरा मे मत्संबन्धिनी अत एव द्राविडादयो देशा मे अत एव तत्र तत्तद्देशेषु बहुद्रव्यमपि मे ततो हेतोः हे कैकेयि त्वं वृणीष्व । सार्धश्लोकद्वयमेकान्वयि ॥ २।१०।३६३८ ॥

किमिति । आयासेन ईदृक्चेष्टाजनितप्रयासेन किम्, प्रयासस्य न प्रयोजनमित्यर्थः । तत्र हेतुः यतो यस्मात्ते भयमागतं तदहं व्यपनयिष्यामि नाशयिष्यामि इडार्षः । तत्र दृष्टान्तः नीहारं रश्मिवान् भास्कर इव । सार्धश्लोक एकान्वयी ॥ २।१०।३९ ॥

तथेति । भूयो ऽत्यन्तं तथोक्ता अत एव समाश्वस्ता अत एव वक्तुकामा सा केकयी तदप्रियं देवद्विषं राक्षसमित्यर्थः । परिपीडयितुं हिंसयितुं भर्तारं वक्तुमिति शेषः । उपचक्रमे ॥ २।१०।४० ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे दशमः सर्गः ॥ २।१० ॥