मन्थरावचनश्रवणौत्तरकालिकं केकयीवृत्तमाह– एवमित्यादिभिः । उष्णं यथा स्यात्तथा दीर्घं विनिःश्वस्य मन्थरया कोपेनैव एवमुक्त्वा ज्वलितानना प्रकाशितवदना प्रसन्नवदनेत्यर्थः । कैकेयी मन्थरामिदमब्रवीत् । प्रसन्नवदना इत्यनेन रामो ऽवश्यं देवकार्यार्थं प्रवत्स्यतीति तदनुकूलमेव इयं प्रार्थयते इति हेतुः सूचितः तेन ब्रह्मादिप्रार्थनया देवकार्यार्थं रामप्रादुर्भूतिरिति कैकेय्या स्मृतमिति ध्वनितम् । तुशब्द एवार्थे ॥ २।९।१ ॥
तद्वचनमेवाह– अद्येति । इतो ऽयोध्यायाः क्षिप्रं शीघ्रमभिषेचये इव । एव इवार्थे ॥ २।९।२ ॥
तद्बुद्धिपरीक्षार्थं तामेव पृच्छति– इदमिति । कथंचन केनापि प्रकारेण भरतो राज्यमिदानीं प्राप्नुयात् पालयेदित्यर्थः । रामो नेदानीमिदमहं केनोपायेन साधये इति त्वं सम्पश्य मनसि निश्चित्य कथयेत्यर्थः । केनापि प्रकारेणेत्युक्त्या राज्याभिषेकं प्रत्याग्रहो न कर्तव्य इति बोधितम् तेनाभिषेकानर्हत्वं भरतस्य सूचितम् । केनोपायेन साधये इत्यनेन भरतो राज्यं न ग्रहीष्यतीति हेतुर्ध्वनितः । एकस्तुशब्द इत्यर्थे द्वितीयो ऽप्यर्थे ॥ २।९।३ ॥
एवमिति । रामार्थं राज्याभिषेकमुपहिंसन्ती निवर्तयन्तीत्यर्थः । मन्थराब्रवीत् ॥ २।९।४ ॥
हन्तेति । हन्तेति । हर्षार्थकमव्ययम् । प्रवक्ष्यामि कथयिष्यामि “प्रपश्य त्वं” इति भट्टसंमतः । मत्सामर्थ्यमिति शेष इति तद्व्याख्या ॥ २।९।५ ॥
किमिति । आत्मार्थमात्मनः स्वस्य अर्थः प्रयोजनं यस्मात्तमुपायमित्यर्थः । त्वं किं न स्मरसि निगूहसे गोपयसि वा यत् यस्मात् इच्छसि वाञ्छसि । आत्मार्थमित्युभयान्वयि ॥ २।९।६ ॥
मयेति । हे विलासिनि यदि श्रोतुं छन्द इच्छा तदा विधीयतां क्रियतामेव । च एवार्थे ॥ २।९।७ ॥
श्रुत्वेति । स्वास्तीर्णाच्छयनात्किंचिदुत्थाय अब्रवीत् । किंचिदुत्थायेत्यनेन तदादरः कृत इति ध्वनितम् स्वास्तीर्णादित्यनेन शय्याया निर्दोषत्वं सूचितम् तेनोत्थाने शय्यादोषो न हेतुरिति व्यक्तम् ॥ २।९।८ ॥
तद्वचनमेवाह– कथयस्वेति । कथंचनापि इदानीं राज्यं प्राप्नुयात् । तुरिदानीमित्यर्थे ॥ २।९।९ ॥
एवमिति । अयं श्लोकः पूर्वत्रापि पठितः परंतु तत्र तु सेति अत्र तदेति भेदः ॥ २।९।१० ॥
तद्वचनमेवाह– तवेति । दैवासुरे देवासुरसंबन्धिनि उपादाय गृहीत्वा देवराजस्य इन्द्रस्य साह्यकृत्साहाय्यकर्ता तव पतिः दक्षिणां दिशमास्थाय आश्रित्य दण्डकान्प्रति दण्डकसंबन्धि वैजयन्तमितिख्यातं पुरमगच्छत् । यत्र यस्मिन्पुरे तिमिध्वजः शम्बर इति नामभ्यां ख्यातः देवसंघैरनिर्जितः स महासुरः शक्रस्य संग्रामं ददौ । एतेन देवगणपराभूत्यनन्तरं भाविस्वपराभूतिमालक्ष्य इन्द्रेण दशरथ आहूत इति ध्वनितम् । श्लोकत्रयमेकान्वयि ॥ २।९।१११३ ॥
तस्मिन्निति । तस्मिन् देवासुरकर्तृके क्षतविक्षतान् क्षताश्च विक्षताश्चेति द्वन्द्वः लघुव्रणविशिष्टान्बृहद्व्रणविशिष्टांश्चेत्यर्थः । अपास्य तत्तदास्तरणादाकृष्य राक्षसाः राक्षसकर्मवत्वेन तत्त्वं प्राप्ताः असुरसायाहाय्यार्थमागताः राक्षसजातयो वा घ्नन्ति स्म ॥ २।९।१४ ॥
तत्रेति । तदा असुरकर्तृकहननकाले तत्र संग्रामभूमौ शकलीकृतः अनेकविधशस्त्रास्त्रकरणकव्रणविशिष्टः ॥ २।९।१५ ॥
अपेति । संग्रामादपवाह्य निष्कृष्य संस्थापित इति शेषः ॥ २।९।१६ ॥
तुष्टेनेति । ते तुभ्यं द्वौ वरौ दत्तौ गृहाणेत्युक्तमित्यर्थः । हे भर्तः यदा इच्छेयं तदा वरं गृह्णीयामिति तुरित्यर्थः । उक्तः प्रार्थितः तदा महात्मना पत्या तथा इत्युक्तम् । ननु त्वया कथं
विज्ञातमित्यत आह पुरा पूर्वम् “इति तत्तेन” इति आचारिपाठः । श्लोकद्वयमेकान्वयि ॥ २।९।१७,१८ ॥
कथेति । निगृह्य स्वाधीनीकृत्य अहं दास्यामीति प्रतिज्ञां कारयित्वेत्यर्थः, पतिमिति शेषः ॥ २।९।१९ ॥
तदुपायमाह– ताविति । तौ पूर्वदत्तौ वरौ “याचस्व भर्तारम्” इति भट्टपाठः ॥ २।९।२० ॥
चतुर्दशवर्षपर्यन्तं प्रव्राजने हेतुमाह– चतुर्दशेति । प्रजाभावगतस्नेहः प्रजाभावेन प्रजाकर्मकपालनचिन्तया गतः प्राप्तः स्नेहः प्रजाकर्तृकप्रीतिर्यम् । स्थिरः परैः चालयितुमशक्यः ॥ २।९।२१ ॥
क्रोधेति । अश्वपतेः अश्वपत्यभिधराजस्य क्रुद्धा क्रोधविशिष्टा इव त्वं क्रोधागारं क्रोधानां प्रणयादिकोपविशिष्टानामागारं तत्स्थातव्यं गृहमनन्तर्हितायामात्मनो ऽव्यवहितायामास्तरणरहितायामित्यर्थः ॥ २।९।२२ ॥
मेति । एनं राजानम् । जगत्यां भूमौ शयानेति शेषः । प्रत्युदीक्षेथाः पश्येः शोकलालसा शोकव्याप्तेवेत्यर्थः ॥ २।९।२३ ॥
नन्वेवंकृते कदाचिद्राजा मह्यं कुप्येत् इत्यत आह– दयितेति । त्वत्कृते त्वदर्थम् ॥ २।९।२४ ॥
नेति । प्रत्युदीक्षितुं द्रष्टुम् ॥ २।९।२५ ॥
नहीति । आत्मनः स्वस्य सौभाग्यबलम् सौभाग्यवत्ताहेतुकप्राबल्यम् मन्दः तोषकः स्वभावो यस्यातत्संबोधनम् ॥ २।९।२६ ॥
विविधान्यप्रदेयैः राजा त्वां लोभयिष्यति ते न ग्रहीतव्या इति बोधयन्ती आह– मणीति ॥ २।९।२७ ॥
याविति । यौ वरौ ते तुभ्यमददात्तौ स्मारय राज्ञे इति शेषः । सः याचितो ऽर्थः त्वां मा नातिक्रमेत्प्राप्स्यत्येवेत्यर्थः ॥ २।९।२८ ॥
यदेति । राघवो दशरथः व्यवस्थाप्य सत्यः प्रतिज्ञत्वादिना प्रशस्येत्यर्थः । वृणुयाः याचस्व ॥ २।९।२९ ॥
वरमेवाह– राममिति । भरतः राजा इव रक्षक इत्यर्थः । पुरोहितो ऽयं राजा इतिवदत्र राजशब्दप्रयोगः ॥ २।९।३० ॥
चतुर्दशवर्षपर्यन्तं प्रव्राजने फलमाह– चतुर्दशेति । प्रव्राजिते गते सति रूढः राज्यं प्राप्तः कृतमूलः कृतं निष्पादितं मूलं राज्यकरणकारणीभूतप्रजावशत्वं येन सः शेषं चतुर्दशवर्षादूर्ध्वं स्थास्यति निश्चलतयेति शेषः ॥ २।९।३१ ॥
अवश्यं वरौ ग्रहीतव्यौ इति बोधयितुमाह– रामेति ॥ २।९।३२ ॥
भाविरामवृत्तं बोधयन्ती आह– एवमिति । अरामः प्रजाभिरामदातृभिन्नः राजा इव । एकश्चशब्द इवार्थे ॥ २।९।३३ ॥
वासौत्तरकालिकं भरतवृत्तमाह– येनेति । संगृहीतमनुष्यः स्वाधीनीकृतसेनः सुहृद्भिः साकमात्मवान् जितेन्द्रियः तत्सुहृदो ऽपि जितेन्द्रिया इत्यर्थः । अत एव अन्तरयोध्यामध्ये बहिःराज्ये कृतमूलः कृतं निष्पादितं मूलं राज्यकारणीभूतप्रजानुरागनिष्पादकपालनादि येन पुत्रो भविष्यति अतः प्राप्तकालं प्राप्तः कालः रामो ऽभिषेक्तव्यः इत्युपदेशो यं तं राजानं दशरथं रामाभिषेकसङ्कल्पात् निगृह्य आग्रहं कृत्वा विनिवर्तय इति विगतसाध्वसा निवृत्तभया अहं मन्ये निश्चिनोमि । तुरित्यर्थे ॥
२।९।३४३५ ॥
अनर्थमिति । सा केकयी तया मन्थरया ततः उक्तस्ववाक्यादनर्थं विरुद्धार्थमर्थरूपेण ग्राहिता बोधिता आसेति शेषः । अर्धं पृथक् ॥ २।९।३६ ॥
हृष्टेति । उत्पथं विरुद्धमार्गं गता प्राप्तेनापि कुब्जायाः वाक्येन हृष्टा हर्षं प्राप्ता । प्रतीता रामप्रव्रजनविषयकप्रतीतिमती कैकेयीकं सुखमेव एकं कैकं कैकस्य इयः प्राप्तिर्यस्यां सा कैकेय्या सैव कैकेयी किशोरी नित्यकिशोरत्वविशिष्टा । परमदर्शना अतिशयज्ञानवती । दृशिर्ज्ञानसामान्ये । सा कैकेयी केकयराजकन्या कुब्जाया वाक्येन राज्याभिषेकबोधककुब्जावचनेन विस्मयमिदं राज्याभिषेकं महाराजाधिराजो मह्यं किमर्थं न बोधितवान् इत्याश्चर्यं प्राप्य मन्थरामिदं वचो अब्रवीत् । अर्धत्रयमेकान्वयि ॥ २।९।३७ ॥
तद्वचनमेवाह– कुब्ज इति । श्रेष्ठमत्युत्तममभिदधाति वदति तच्छीला तत्संबोधनम् । श्रेष्ठां त्वामहं नाभिजानामि त्वच्छ्रेष्ठात्वं न ज्ञातमित्यर्थः ॥ २।९।३८ ॥
इदानीं तज्ज्ञातमिति बोधयितुं तद्गुणमाह– पृथिव्यामिति । बुद्ध्या विचारेण यो निश्चय इदमित्थमेवेति ज्ञानं तस्मिन् कुब्जानां मध्ये उत्तमा त्वमेवासि ॥ २।९।३९ ॥
मत्तो ऽपि त्वमधिकबुद्धिमतीति बोधयितुमाह– नेति । समवबुद्ध्येयं जानीयां ज्ञातुं समर्था स्यामित्यर्थः । “शकि लिङ् च” इति लिङ् । तत्र हेतुः अवक्राः कौटिल्यरहिताः किं च अवे प्रजापालने कृतिर्येषामत एव परं केवलमपापिकाः न पापि कर्म येषां ते अपि मन्त्रिण इति शेषः । दुःसंस्थिताः अविज्ञाताभिप्रायाः सन्ति एतेन राज्ञो मन्त्र्यधीनत्वं व्यक्तं ते नास्मिन्विषये राज्ञो नापराध इति सूचितम् तेन त्वद्बोधनमन्तरा इदं मदज्ञानविषयीभूतं न स्यादिति व्यञ्जितम् । तेन त्वत्सदृशी मत्प्रिया अन्या
नास्तीति बोधितम् ॥ २।९।४० ॥
तस्याः कोपमपाकर्तुं तां वर्णयति– त्वमिति । वातेन पद्ममिव त्वं संनता प्रतीयसे । एतेन तस्याः सूक्ष्माङ्गीत्वसुकुमारीत्वातिशयौ ध्वनितौ । यावत्स्कन्धात्स्कन्धपर्यन्तमुन्नतमुरः अभिनिविष्टमभिनिवेशितं ब्रह्मणेति शेषः ॥ २।९।४१ ॥
अधस्तादिति । अधस्तादुन्नतोरस्थलादधोभागे विद्यमानं सुनाभं शोभननाभिविशिष्टमुदरं लज्जितमुरस्समुन्नतिदर्शनजनितगर्वध्वंसहेतुकलज्जाविशिष्टमिव शान्तं जघनं प्रतिपूर्णं विस्तारविशिष्टं सुपीनौ अतिस्थूलौ । “परिपूर्णम्” इति पाठान्तरम् ॥ २।९।४२ ॥
विमलेति । विमलेन्दुना समं तापशामकत्वादिना सादृश्यविशिष्टम् । धर्मान्तरवैशिष्ट्यबोधनाय जघनं पुनर्वर्णयति निर्मृष्टमत्यन्तशुद्धं लोमादिरहितमित्यर्थः । रशनायाः क्षुद्रघण्टिकायाः यद्दाम उपरि पतितं रज्जुः तेन भूषितम् । किंच रशना क्षुद्रघण्टिका, रज्जुः दाम वनमालैकदेशः, ताभ्यां भूषितम् ॥ २।९।४३ ॥
जङ्घे इति । उपन्यस्ते जानूपरिविन्यस्ते जङ्घे उभौ पादौ च व्यायतौ दीर्घौ । अर्धं पृथक्– त्वमिति । आयताभ्यां दीर्घाभ्यां सक्थिभ्यामूरूभ्यामतीव राजसे अर्धद्वयमेमेकान्वयि “राजहंसीव राजसे” इति क्वचित्पाठ इति भट्टाः ॥ २।९।४४ ॥
तत्स्थगुमतिवश्मत्वेनोत्प्रेक्षन्ती आह– आसन्निति । असुराधिपे शम्बरे याः सहस्रमासन् ताः अन्या शम्बरासुराज्ञाताश्च ते हृदये निविष्टाः प्रविष्टाः तत् मायैव आयतं दीर्घं रथघोणं रथचक्रपिण्डीव दीर्घं स्थगु तदितिजात्यभिप्रायेणैकत्वं सर्वनाम्नामुद्देशविधेयान्यतरलिङ्गतेत्यनुशासनात्क्लीबत्वम् । सार्धश्लोक एकान्वयी ॥ २।९।४५,४६ ॥
मतय इति । अत्र स्थगुनि यतो मतिप्रभृतयो वसन्ति अतः अत्र अस्मिन्काले मालां प्रमोक्ष्यामि
प्रक्षेप्स्यामि ॥ २।९।४७ ॥
अभिषिक्त इति । अभिषिक्ते अभिषेकं प्राप्ते इव च इवार्थे । जात्येन जातावुत्तमजातौ भव । जात्यं तेन सुनिष्टप्तेन अत्यन्तध्मातेन द्रुतेनेत्यर्थः । ते तव स्थगु लेपयिष्यामि । सार्धश्लोक एकान्वयी ॥ २।९।४८ ॥
मुख इति । चित्रं आश्चर्यकारकं जातरूपं सुवर्णं तन्मयं तिलकं मुखे ललाटे इत्यर्थः । कारयिष्यामि अत एवाभरणानि वस्त्रे च परिधाय देवेतेव चरिष्यसि । सार्धश्लोक एकान्वयी ॥ २।९।४९,५० ॥
चन्द्रमिति । चन्द्रमाह्वयमानेन स्पर्धमानेन मुखेन अप्रतिमानना अप्रतिमं मुखसादृश्यरहितमाननं यस्याः सा, किंच अप्रतिमा सादृश्यरहिता आनना आनयति जीवयतीति ल्युः । आसमन्ताद्भावेनाननं जीवनं यस्या इति ल्युट् वा । द्विषज्जने स्वशत्रुतामापन्नजन्तौ गर्वयन्ती गर्वं कुर्वती मुख्यामत्युत्तमां गतिं सर्वाग्रणीत्वं गमिष्यसि
प्राप्स्यसि ॥ २।९।५१ ॥
तवेति । कुब्जाः परिचरिष्यन्ति निषेविष्यन्ते इत्यर्थः । एतेन तत्र बहवो बुद्धिमत्यः कुब्जाः सन्तीति व्यक्तम् ॥ २।९।५२ ॥
इतीति । शुभ्रवेद्यां विद्यमाने शयने शय्यायां शयानां कैकयीमिदमब्रवीत् ॥ २।९।५३ ॥
तद्वचनमेवाह– गतेति । हे कल्याणि गतोदके गतं शुष्कमुदकं यस्य तस्मिन्नद्यादौ सेतुबन्धो न विधीयते अत उत्तिष्ठ कल्याणं सज्जनानामित्यर्थः । राजानमनुदर्शय तद्दृष्टिपथं गच्छेत्यर्थः ॥ २।९।५४ ॥
तथेति । प्रोत्साहिता अत्युत्साहं प्रापिता देवी कैकेयी सौभाग्यस्य अहोभाग्यमस्माकं यस्या देवसंतापहारका रामादयः पुत्राः इति स्वातिशयभाग्यवत्ताया मदेन गर्विता किंच सौभाग्यैः शोभनभाग्यवद्भिर्मन्यते अतिश्रेष्ठात्वेन ज्ञायते असाविति सौभाग्यमत् । सा एव अगर्वितेति कर्मधारयः मन्थरया सह विवेश मन्थरयेत्युभयान्वयि ॥ २।९।५५ ॥
अनेकेति । अनेकशतसाहस्रमनेकशतसहस्रमुद्रालभ्यं बहुमूल्यकमिति यावत् । अवमुच्य निस्सार्य वरार्हाणि वरैः श्रेष्ठैः अर्हाणि प्रशंसनीयानि ॥ २।९।५६ ॥
तदेति । कुब्जावाक्यवशंगता तत्त्वविचारेण तदधीनतां प्राप्ता कैकेयी इदमब्रवीत् ॥ २।९।५७ ॥
तद्वचनमेवाह– इहेति । राघवे रामे वनं प्राप्ते सति भरतः क्षितिं प्राप्स्यते इह अस्मिन्विषये वा पक्षान्तरे सति मां मृतामेव आवेदयिष्यसि इह लोके ऽहं न वत्स्यामीति भावः । तुरेवार्थे । यद्वा इह अस्मिन् कोपागारे मृतां प्राणवियोगानुकूलव्यापारवतीं मां यदि नृपायावेदयिष्यसि भरतराज्यप्राप्तिमन्तरेयं न जीविष्यतीति कथयिष्यसि चेदित्यर्थः । तदा राघवे वनं प्राप्ते सति भरतः क्षितिं प्राप्स्यते । वाशब्दो यद्यर्थे तुस्तदार्थे ॥ २।९।५८ ॥
अस्मिन्विषये स्वनिश्चयबोधनार्थमाह– नेति । जीवितस्य प्रकटस्थितेः अन्तो ऽवसानम् ॥ २।९।५९ ॥
द्विर्बद्धं सुबद्धं भवतीति न्यायेन रामराज्ये तदनिष्टं बोधयन्ती पुनराह– अथो इति । महीक्षितो दशरथस्य महिषीं, अवचोभिः न वचः कस्यचित्प्रार्थना येषु तैः प्रार्थयितुमशक्यैरित्यर्थः । अत्यर्थमहापराक्रमैः अत्यर्थाय देवादिपरार्थसिद्धये ये महापराक्रमास्तैर्देवाद्यर्थसाधकयुद्धादिभिरित्यर्थः । युक्तम् तद्बोधकमित्यर्थः । राममुपेत्य उद्दिश्य हितमहितमिव तत्त्वेन प्रतीयमानं वच उवाच । चशब्द इवार्थे ॥ २।९।६०,६१ ॥
तथेति । वागिषुभिः समाहता ताडिता अत एव अतिविद्धा अतिव्रणमिव प्राप्ता कुब्जां प्रति कुपिता इदमेव पुनः पुनः किमर्थं वदतीति कोपं प्राप्ता कैकेयी कुब्जां शशंस ॥ २।९।६२ ॥
तच्छंसनमेवाह– यमस्येति । विषयं देशमितो ऽयोध्यातः निशम्य दृष्ट्वा प्रतिवेदयिष्यसि राज्ञे कथयिष्यसि । अद्य रामे ऽभिषिक्ते सतीति शेषः । वाथवा भरतः परमात्मप्रकाशध्याननिरतो मुनिसमूहः समृद्धकामो भविष्यति ॥ २।९।६३ ॥
अहमिति । राघवो रामः इतः मद्धृदयस्थहेतोः न गच्छति न गन्ता तदा आस्तरणादीनि नैवेच्छामि ॥ २।९।६४ ॥
अथेति । आस्तरणेन असंवृतां मेदिनीमधिशिश्ये “अधिशीङ्स्थासां कर्म” इति मेदिन्याः कर्मत्वम् ॥ २।९।६५ ॥
उदीर्णेति । दीर्णं नित्यं विध्वस्तं संरम्भतमः उद्वेगहेतुभूताज्ञानं यस्याः सा एव वृताननेति कर्मधारयः । अवमुक्तोत्तममाल्यभूषणा अवमुक्तानि प्रक्षिप्तानि उत्तममाल्यभूषणानि यया सा तमोवृता मेघाच्छादिता मग्नतारका द्यौरिव विमना इव बभूव । उशब्द एवार्थे ॥ २।९।६६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे नवमः सर्गः ॥ २।९ ॥