केकयीवचनश्रवणौत्तरकालिकं मन्थरावृत्तमाह– मन्थरेत्यादिभिः । एनां केकयीमभ्यसूय प्रणिन्द्य तत् केकयीदत्तम् ॥ २।८।१ ॥
तद्वचनमेवाह– हर्षमिति । अस्थाने हर्षानुचितकाले ॥ २।८।२ ॥
अयं हर्षस्त्वया त्याज्य इत्यत्र हेतुं बोधयन्ती आह– मनसेति । व्यसनं दुराग्रहम् ॥ २।८।३ ॥
शोचामीति । ते दुर्मतित्वं दुष्टबुद्धित्वमहं शोचामि । ननु मदनुसारिणी भूत्वा त्वमपि मे हर्षप्रयोजिका भवेत्यत आह– मृत्योः मृत्युसदृशस्य अरेः सपत्नीपुत्रस्य वृद्धिमागतां ज्ञातवतीं त्वां का प्राज्ञा बुद्धिमती प्रहर्षयेत् सन्तोषयेत् न कापीत्यर्थः एतेन तस्याः भ्रान्तिमतीत्वं बोधितम् ॥ २।८।४ ॥
भरतादिति । राज्यसाधारणात् राज्ये राज्यकरणे साधारणात् साधारणयोग्यताविशिष्टात् भरतात् रामस्य भयमेव तद्विचिन्त्य निश्चित्य अहं विषण्णा ऽस्मि । ननु रामकर्तृकभये तव विषण्णात्वं कथमित्यत आह– भीताद्भयविशिष्टाद्भयं भयहेतौ भीतिर्जायत एव यो हि यस्माद्बिभेति स तस्मिन् भयोत्पत्तियत्नं करोत्येवेति भावः । हिरेवार्थे ॥ २।८।५ ॥
ननु लक्ष्मणशत्रुघ्नाभ्यामपि रामभीतिं कुतो न ब्रूषे इत्यत आह लक्ष्मण इति । लक्ष्मणः सर्वात्मना सर्वप्रयत्नेन रामं गतः अनुसृत इत्यर्थः । एतेन लक्ष्मणात्तस्य न भीतिरिति ध्वनितम् । शत्रुघ्नस्तु सर्वात्मना भरतं गतः एतेन रामस्य शत्रुघ्नहेतुकभीतिमत्वे ऽपि तद्भीतेः भरतहेतुकभीतावन्तर्भावान्न न्यूनतेति सूचितम् ॥ २।८।६ ॥
लक्ष्मणशत्रुघ्नाभ्यां भीत्यभावे हेत्वन्तरमाह– प्रत्यासन्नेति । प्रत्यासन्नस्य जन्मनो यः क्रमः तेनापि भरतस्यैव राज्यक्रमः राज्यस्याधिकारः यवीयसोः कनिष्ठयोः तयोर्लक्ष्मणशत्रुघ्नयोः राज्यक्रमस्तु विसृष्टः भरतस्य ज्येष्ठत्वात्तदधिकारेण दूरीकृतः एतेन ताभ्यां न रामभीतिरिति सूचितम् । तेन यथा भरतराज्याधिकारेण तयो राज्याधिकारो दूरीकृतः तथा रामराज्याधिकारेण भरतराज्याधिकारो ऽपि दूरीकृत इत्यंशे तस्या अज्ञानं सूचितम् । तेन परमात्मेच्छायाः प्राबल्यं ध्वनितम् ॥ २।८।७ ॥
ननु महात्मनां वसिष्ठादीनां विद्यमानत्वात् यथाधिकारमेव भविष्यतीति तव विचारेण किमित्यत आह– विदुष इति । तवात्मजं त्वत्पुत्रसाधुतां चिन्तयन्त्यहं विदुषः सर्वज्ञस्य अत एव क्षत्रचारित्रे संधिविग्रहादिप्रयोगादिषु प्राज्ञस्य विज्ञातुः अत एव
प्राप्तकारिणः उपस्थितेष्टवस्तुनो झटिति करणशीलस्य रामस्य भयात् भीत्युत्पादककृतेः प्रवेपे प्रकम्पे ॥ २।८।८ ॥
ननूक्तविशेषणविशिष्टरामसंनिधौ त्वया साधुतयैव वर्तितव्यमतो न भीत्यवसरो न वा राज्यप्राप्तौ दोष इत्यत आह– सुभगेति । पुष्येण युक्ते श्वः अव्यवहितागामिदिवसे महता सर्वश्रेष्ठेन यौवराज्येन युवराजत्वेन यस्याः पुत्रो द्विजोत्तमैरभिषेक्ष्यते सा कौशल्या सुभगा ॥ २।८।९ ॥
नन्विष्टमेवैतदित्यत आह– प्राप्तामिति । वसुमतीं प्राप्तामत एव हतविद्विषं विनष्टप्रायसपत्न्यादिरिपुमत एव प्रीतिं प्राप्तां प्रतीतां राजविश्वस्तां कौशल्यां त्वं दासीवदुपस्थास्यसि ॥ २।८।१० ॥
एवमिति । एवं च यदि त्वं तस्याः कौशल्यायाः प्रेष्या दासी भविष्यसि तदा तव पुत्रो ऽपि अस्माभिः सह रामस्य प्रेष्यत्वं दासत्वं गमिष्यति प्राप्स्यति ॥ २।८।११ ॥
हृष्टा इति । रामस्य स्त्रियः सीताबहुत्वमादरार्थम् । किंच स्त्रीशब्दः स्त्रीत्वजातिविशिष्टपरः नतु पाणिगृहीतीपरः तेन बहुत्वं युक्तमेव, किंच रामस्य स्त्रियः सीतायाः परमाः प्राकृतविलक्षणाः सम्पत्तयः प्रहृष्टा भविष्यन्ति । आगमशास्त्रस्यानित्यत्वादाड्विरहः । अत एव रामस्य एकपत्नीव्रतत्वं संगच्छते ।
रामस्य भार्यान्तराभावादेव सीताविरहकालभवयागे सीताप्रतिकृतिकरणं संगच्छते अत एव तदुत्तरत्र “न सीतायाः परां भार्यां वव्रे स रघुनन्दनः । यज्ञे यज्ञे च पत्न्यर्थं काञ्चनी जानकी भवेत्” इति संगच्छते । अत एव “मोघं हि धर्मश्चरितो मयायं तथैकपत्नीत्वमिदं निरर्थकम् । या त्वां न पश्यामि कृशा विवर्णा हीना त्वया संगमने निराशा” इति सुन्दरकाण्डे अष्टाविंशतितमे सर्गे सीताविलापपद्ये एकपत्नीत्वोक्तिः संगच्छते । स्वपतिनिरूपितपत्न्यन्तरसंम्बन्धात्यन्ताभाववत्यहमिति तदर्थः । एतदुत्तरपद्यस्य “पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च । स्त्रीभिश्च मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः” इत्यस्य तु अयमर्थः यदि मां त्यक्त्वा गमिष्यसि तर्हि बहुभिः स्त्रीभिश्च ते विहारः सेत्स्यति एतेन तवैकपत्नीव्रतत्वं भज्येत इति बोधितम् तेन स्वत्यागपूर्वकगमनासंभवो ध्वनितः तेन तन्मूलकबहुस्त्रीकरणकविहारस्यासंभवः सूचितः । तेन स्वविषयकरामपरप्रेम्णो विज्ञात्रीत्वं व्यञ्जितम् । एतदनुरोधेन “भुजैः परमनारीणामभिमृष्टमनेकधा” इत्यस्य तु अनेकधा अनेकप्रकारकाणां नारीणां सीतातिरिक्तस्त्रीणां भुजैः यत् अभिमृष्टं स्पृष्टमनतमित्यर्थः । सामान्ये नपुंसकम् । अत एव परं सर्वोत्कृष्टमत एव “शयने चोत्तमाङ्गेन सीतायाः शोभितं पुरा” इति वक्ष्यमाणेनावगतार्थता वक्ष्यमाणानुरोधादेवात्र नारीशब्देन सीतातिरिक्तस्त्रीग्रहणं यत्तमित्यध्याहृतम् । “मातरश्चैव सर्वा मे कुमाराः स्त्रीगणानि च । अग्रतो भरतं कृत्वा गच्छन्त्वग्रे समाधिना” इत्युत्तरकाण्डाश्वमेधोपक्रमपद्यघटकीभूतस्त्रीशब्दः पाणिगृहीत्यतिरिक्तपरः । मातरश्चेत्युक्तिस्तु ब्राह्मणवसिष्ठन्यायेन विशिष्टबोधनाय ॥ २।८।१२ ॥
तामिति । ततः मन्थरोक्तिश्रवणानन्तरमपरमतृप्तिकारकं वचनं ब्रुवन्तीं मन्थरां दृष्ट्वा कैकेयी रामस्यैव गुणान् प्रशशंस गुणप्रशंसया रामे अस्याः प्रीतिरुत्पद्येतेत्यनिष्टभाषणतो निवर्तेतेत्यभिप्रायः सूचितः ॥ २।८।१३ ॥
तदाकारमाह– धर्मज्ञ इत्यादिभिः । रामः यतो धर्मज्ञत्वादिविशिष्टः ज्येष्ठो राजसुतश्च अतो यौवराज्यमर्हति ॥ २।८।१४ ॥
ननु तत्त्वे उक्तदोषप्रसक्तिरित्यत आह– भ्रातृ़निति । दीर्घायुः रामः भ्रात्रादीन् पितृवत्पालयिष्यति अतः कथं सन्तप्यसे ॥ २।८।१५ ॥
ननु भरतस्य राज्यानधिकारित्वे ऽपि भ्रातृत्वात् किंचित्तेनापि प्राप्तव्यमतस्तदागमने सति रामाभिषेकेण भवितव्यमन्यथा किंचिदपि न प्राप्स्यतीत्यत आह– भरत इति । वर्षशतात् बहुखण्डैर्व्याप्तं पितृपैतामहं राज्यं नरर्षभो रामो ऽवाप्स्यति भरतस्तु ध्रुवमचलं रामस्य परं तृप्तिमवाप्स्यति । एतेन रामप्रीतेर्दुर्लभत्वं व्यञ्जितम् । किंच रामस्य राज्यं भरत एव प्राप्स्यति रामाभिषेकानन्तरपालनाधिकारं रामो भरतायैव दातेत्यर्थः । एतेन भरतो रामस्यातिप्रीतिविषय इति ध्वनितम् । यद्वा अप्राप्यवस्तुप्राप्त्यर्थं यत्नो न कर्तव्य इति भरतराज्यप्राप्त्यर्थं न यतितव्यमिति बोधयन्ती आह– भरत इति । रामस्य योग्यं पितृपैतामहं राज्यं नरर्षभो भरतः वर्षशतात्परमपि अ न वाप्स्यति अवाप्स्यति । भागुरिमतेनावाकारलोपः । वर्षशतात्परमग्रे भरतः प्राप्स्यतीत्यर्थस्तु न युक्तः सर्वप्रमाणाविषयत्वेनासंमतत्वादिति दिक् ॥ २।८।१६ ॥
सेति । प्राप्ते प्रकृष्टेन आप्तं प्राप्तिर्यस्य तस्मिन् उचिते इत्यर्थः । अभ्युदये रामाभिषेकजनितोत्सवे वर्तमाने सति भविष्यति भरतागमनजनिते आगामिनि उत्सवे तदर्थमित्यर्थः । त्वं किमर्थं परितप्यसे ॥ २।८।१७ ॥
रामाभिषेको ममापि हर्षप्रद इत्यत्र हेतुं वदन्ती आह– यथेति । तथा तेन प्रकारेण भूयस्ततो ऽधिकमपि राघवो रामो मान्यः तत्रापि हेतुं वदन्ती आह– अतिरिक्तमधिकं रामः
मामनुशुश्रूषते ॥ २।८।१८ ॥
रामाभिषेके विषादो न कार्य इत्यत्र हेत्वन्तरं वदन्ती आह– राज्यमिति । तत् राज्यं तत्रापि हेतुः मन्यते जानाति आत्मानं शरीरं राघवो रामः ॥ २।८।१९ ॥
कैकेय्या इति । दीर्घं चिरकालमुष्णं यथा स्यात्तथा ॥ २।८।२० ॥
तद्वचनमेवाह– अनर्थेति । अनर्थदर्शिनी विरुद्धार्थदर्शनशीला अनर्थे अर्थमानिनीत्यर्थः । शोकव्यसनविस्तीर्णे शोकस्य हेतुभूतं यद्व्यसनं दुराग्रहस्तेन विस्तीर्णे दुःखसागरे मज्जन्तमात्मानं नावबुध्यसे जानासि ॥ २।८।२१ ॥
भरतराज्यप्राप्त्यर्थमिदानीमेव यतितव्यमिति बोधयितुमाह– भवितेति । राघवस्य रामस्य अनु पश्चात् यः सुतः स भविता अतः राजवंशात् राज्ञां परंपरातः राजपङ्क्तिभ्य इत्यर्थः । भरतः परिहास्यते अपसार्यते राजभिः सहासनं न प्राप्स्यतीत्यर्थः ॥ २।८।२२ ॥
रामराज्यकाले भरतो ऽपि कस्यचिद्देशस्य राजा भवितेत्याशा न कर्तव्येति सूचितुमाह– नहीति । अनयो नीतिविरोधः ॥ २।८।२३ ॥
तस्मादिति । स्थापयन्ति तदायत्ततां प्रापयन्तीत्यर्थः । गुणवत्सु राजोचितगुणविशिष्टेषु इतरेषु कनिष्ठेष्वपि ज्येष्ठस्य तादृशगुणवत्वाभावे इति शेषः । राज्यतन्त्राणि राज्यपालनादियोग्यव्यापारान् “तन्त्रं स्वराष्ट्रव्यपारः” इति वैजयन्ती ॥ २।८।२४ ॥
उपसंहरन्नाह– असाविति । अत्यन्तनिर्भग्ननितरामपसारितः ॥ २।८।२५ ॥
सेति । सपत्निवृद्धो इत्यत्र ह्रस्व आर्षः । प्रदेयं पारितोषिकं मे मह्यं दातुमिच्छसि एतेन तया कैकेय्या विवेकाभावः सूचितः ॥ २।८।२६ ॥
ध्रुवमिति । अकण्टकं निर्विघ्नं यथा स्यात्तथा नाययिता प्रापयिता लोकान्तरं मनुष्यलोकातिरिक्तलोकं हन्तेति यावत् ॥ २।८।२७ ॥
बाल इति । मातुल्यं मातुलवेश्म नायितः प्रापितः सन्निकर्षात् समीपवासात् सौहार्दमन्योन्यालिङ्गनेनानुमीयमानम् । एतेन यदि भरत इह स्यात्तर्हि तस्या ऽपि कस्यचिद्देशस्याधिपत्यं स्यादेवेति सूचितम् ॥ २।८।२८ ॥
शत्रुघ्नस्यापि दुःखमेव भवितेति बोधयन्ती आह– भरतानुगत इति । सः शत्रुघ्नो ऽपि भरतानुगतः भरतानुसारी सन् तत्समं रामकर्तृकद्रोहविषत्वेन भरतसाम्यं गतः प्राप्तः । समशब्दो भावप्रधानः । ननु लक्ष्मणस्य रामप्रीतिविषयत्वात् कथं तद्भ्रातुः शत्रुघ्नस्य भरतसाम्यमत आह– यथा असौ शत्रुघ्नो भरतं गतः भरतानुसारी भरतादन्यं न कंचन वेदेत्यर्थः । तथा लक्ष्मणो ऽपि राममनुगतः रामादन्यं न कंचन वेदेत्यर्थः । एतेन शत्रुघ्नस्य भरतानुयायित्वेन रामद्रोहविषयत्वे लक्ष्मणद्रोहविषयत्वमपि स्यादिति व्यक्तम् ॥ २।८।२९ ॥
लक्ष्मणसाहाय्यात् भरतकर्तृकापकृतिप्रसक्तिः रामे न भवितेति बोधयितुमन्यसंनिकर्षादन्यस्यानर्थनिवृत्तिर्लोके दृष्टेत्याह– श्रूयत इति । वनजीविभिः वनावयवीभूतच्छिन्नवृक्षक्रयजीविकावद्भिः जनैः छेत्तव्यः कश्चन द्रुमः इषीकाभिः बहुकण्टकविशिष्टगुल्मैः संनिकर्षात्स्वसामीप्यात्सर्वत आवरणादित्यर्थः । परमाद्भयाद् उन्मूलनोच्छेदनरूपभीतेः मोचितः इति श्रूयते । हिशब्द इत्यर्थे ॥ २।८।३० ॥
लौकिकदृष्टान्तेन लक्ष्मणसाहाय्याद् रामानर्थनिवृत्तिमुक्त्वा तुल्ययुक्तेः परस्परसाहाय्यात्परस्परा ऽनर्थाप्रसक्तिर्भवितेति बोधयन्ती आह– गोप्तेति । राघवो रामः ॥ २।८।३१ ॥
तस्मादिति । तस्मात्संनिकर्षाद्धेतोः रामो भरते तु कुर्यादेव तत्संनिकर्षाभावादिति भावः ॥
२।८।३२ ॥
ननु भरतभयनिवृत्त्यर्थमिदानीं किं कर्तव्यमित्यत आह– तस्मादिति । राजगृहात्केकयाधिपभवनात् अन्यथा रामस्तं घातयितेति तात्पर्यम् ॥ २।८।३३ ॥
एवमिति । एवं भरते वनं गते सति चेत्कस्मिंश्चित्समये यदि भरतो धर्मात् राज्यमवाप्स्यति तदा ज्ञातिपक्षस्यास्मदादेः श्रेयो भविष्यत्येव एतेन वनगमने दशरथस्य तस्मिन्नपि कृपा भवितेति हेतुर्ध्वनितः ॥ २।८।३४ ॥
अन्यथा दुःखमेवेत्याह– स इति । समृद्धार्थस्य प्राप्तराज्यश्रियो रामस्य सहजो भ्राता सुखोचितः राज्यानन्दयोग्यः नष्टार्थः विगतराज्यः रामस्य रिपुरयं राज्याभिलाषीति रामद्रोहविषयीभूतः रामस्य वशे स्थितः ते बालः स भरतः कथं जीविष्यति । रामस्येति योग्यतया स्थलत्रयान्वयि ॥ २।८।३५ ॥
अभीति । अभिद्रुतं पलायितं प्रच्छाद्यमानं पराभूयमानम् ॥ २।८।३६ ॥
दर्पादिति । दर्पात्पत्यतिप्रीतिहेतुकगर्वान्निराकृता अनादृता सौभाग्यवत्तया पुत्रो राज्यप्राप्त्येदानीमतिभाग्यवतीत्वेनोपलक्षिता राममाता वैरं द्रोहफलं यापयेत्प्रापयेत् । “पातयेत्” इतिपाठे ऽपि स एवार्थः ॥ २।८।३७ ॥
इदानीन्तनाभिषेकभङ्गप्रयत्नाभावे सपुत्रायास्ते विनाशो ऽवश्यं भवितेत्याह– यदेति । भरतेन सहैव अशुभं पराभवं गमिष्यसि प्राप्स्यसि ॥ २।८।३८ ॥
ननु रामस्य मद्धेतुकभयाभावाद्रामहेतुकभीतिर्ममापि न स्यादिति कथं मम पराभवो भवितेत्याह– यदेति । भरतः ध्रुवं प्रनष्टो भविष्यति । एतेन भरतपराभवमूलकस्तव पराभव इति सूचितम् । अतः आत्मजे भरते राज्यं परस्य तत्प्रतिपक्षभूतरामस्य विवासकारणं चाद्यैव संचिन्तय ॥ २।८।३९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे ऽष्टमः सर्गः ॥ २।८ ॥