वनप्रवेशवर्णनमुपक्रममाण आह– ज्ञातीति । अजाता आय विष्णवे तेन सहोद्वाहार्थमित्यर्थः जायते कुशध्वजभार्यायां प्रादुर्भवतीत्यजा प्रतिज्ञातरावणवधवेदवत्यपरावस्थाकमाण्डवीत्यर्थः । तया सह अतति सततं गच्छतीत्यजाता मन्यरेत्यर्थः । यतः कैकेय्याः ज्ञातिदासी ज्ञातिर्ज्ञानं तद्युक्ता दासी अतिज्ञानवत्यनुचरी किंच ज्ञातिः क्षत्रियजातिः सैव दासी अतः सहोषिता मन्थरेत्यर्थः । चन्द्रसंकाशमुन्नतत्वस्वच्छत्वादिना चन्द्रवत्प्रकाशमानं प्रासादं यदृच्छयैवारुरोह । अजातेत्यनेन वेदवत्यभिप्रायाभिज्ञत्वं तद्धिताचरणकर्त्रीत्वं मन्थराया व्यक्तम् । तुशब्द एवार्थे ॥ २।७।१ ॥
आरोहणौत्तरकालिकं वृत्तमाह– सिक्तेति । प्रकीर्णानि कमलोत्पलानि यस्यां तामन्ववैक्षत अपश्यत् ॥ २।७।२ ॥
पताकाभिरिति । वरार्हाभिः वराः सर्वश्रेष्ठाः अत एव आर्हाः अयोध्यायोग्याः कर्मधारयः किंच वरो ऽर्हः पूजा यासाम् किंच वरैः सर्वश्रेष्ठैर्ब्रह्मादिभिः अर्हाः प्रशंसिता इत्यर्थः । एतेन तत्पताकानां प्राकृतविलक्षणत्वं सूचितं छन्दपथैः छन्दा निःशङ्कगमनयोग्याः पन्थानो मार्गा येषु तैः वीथीभिरित्यर्थः । शिरःस्नातजनैः मूर्धाभिषिक्तै राजभिरित्यर्थः । किंच शिरसि स्नानं विधिनाभिषेको यैः किंच छन्दः स्वाधीनः पथो गमनं येषां परमहंसैरित्यर्थः । ते एव जनाः तैः वसिष्ठादिभिरित्यर्थः । समलङ्कृतामित्येतदग्रे “वृतां छन्दपथैश्चापि स्वच्छन्दकपथैर्वृताम् । सिक्तां चन्दनतोयैश्च शिरःस्नातजनैर्युताम्” इति श्लोको भट्टसंमतः ॥ २।७।३ ॥
माल्येति । माल्यमोदकहस्तैः रामोपायनयोग्यदानप्राप्तानन्तरमाल्यमोदकयुक्तकरैर्द्विजेन्द्रैरभिनादितां शुक्लदेवहगृद्वारां शुक्लानि स्फटिकमण्यादिरचितत्वेन श्वेतानि देवानां गृहद्वाराणि यस्यां तां सर्ववादित्रनिस्वनां सर्वेषां प्राकृताप्राकृतानां वादित्राणां निःस्वनः शब्दो यस्यां ताम् ॥ २।७।४ ॥
समिति । ब्रह्मघोषो वेदध्वनिः प्रहृष्टं वरं प्राकृतविलक्षणत्वेन सर्वश्रेष्ठं हस्त्यश्वं यस्यां ताम् ॥ २।७।५ ॥
प्रहृष्टेति । प्रहृष्टमुदितैः पोरैः पुरोद्भवैः उच्छ्रितः रामेण सह नेतुं गृहीतः ध्वजमाली मालाविशिष्टो ध्वजो यस्यां तां मन्थरा दृष्ट्वा परं विस्मयमागता प्राप्ता ॥ २।७।६ ॥
विस्मयप्राप्त्यौत्तराकलिकं वृत्तमाह– सेति । मन्थरा धात्रीं पप्रच्छ ॥ २।७।७ ॥
प्रश्नाकारमाह उत्तमेनेति । उत्तमेन महता हर्षेण अभिसंयुक्ता अर्थपरा अर्थैर्धनैः परा पूर्णा राममाता जनेभ्यो धनं किं नु किमर्थं संप्रयच्छति ददाति ॥ २।७।८ ॥
अतीति । अस्यायोध्यास्थस्य जनस्य अतिमात्रः परममहान् प्रहर्षः किं किंनिमित्तः महीपतिः किं कारयिष्यति शंस पृष्टं कथय ॥ २।७।९ ॥
विदीर्येति । हर्षेण विदीर्यमाणा हर्षपूर्णेत्यर्थः । धात्री राघवे राघवनिमित्तं भूयसीमत्यधिकां श्रियं राज्याभिषेकसामग्रीमित्यर्थः । चचक्षे ॥ २।७।१० ॥
तदाकारमाह– श्व इति । पुष्येण युक्ते इव श्व आगामिदिवसे अनघं स्वाश्रिताघनिवर्तकं यौवराज्येनाभिषेचयिता ॥ २।७।११ ॥
धात्र्या इति । कुब्जा मन्थरा अवरोहत आगमशास्त्रस्यानित्यत्वादडभावः ॥ २।७।१२ ॥
सेति । पापदर्शिनी पापकर्मण उपदेष्ट्री किंच पापं राक्षसकृतोपद्रवं पश्यति तच्छीला इदमब्रवीत् ॥ २।७।१३ ॥
तद्वचनमेवाह उत्तिष्ठेति । मूढे कार्याकार्यविवेकरहिते अघौघेन पापसमूहकर्मफलेन उपप्लुतं युक्तम् ॥ २।७।१४ ॥
अनिष्टे इति । अन्निष्टे राजेच्छाया अविषयीभूते राजप्रीत्यविषयीभूत इत्यर्थः । अत एव सुभगाकारे सुभगस्य शोभनैश्वर्यस्य आकारः प्रक्षेपो यस्याः किंच सुभगस्य नकारः राजकर्तृकनिष्पादः यस्यै तत्संबोधनम् । सौभाग्येन युक्तमात्मानमिति शेषः । विकत्थसे वस्तुतस्तव सौभाग्यं नास्तीत्यर्थः । तदेव विशदयति उष्णगे ग्रीष्मर्तुगे सूर्ये नद्याः स्त्रोत इव तव सौभाग्यं चलं नाशोन्मुखमित्यर्थः ॥ २।७।१५ ॥
एवमिति । परं विषादमनिष्टवचनं श्रुत्वातिखेदमगमत् ॥ २।७।१६ ॥
कैकेयीति । क्षेमं कुशलमिहास्तीति शेषः ॥ २।७।१७ ॥
मन्थरेति । वाक्यविशारदा वचननिपुणा ॥ २।७।१८ ॥
सेति । हितैषिणी प्रातिभासिकहितविषयकेच्छावती हितप्रक्षेपणशीला वा आद्ये इच्छार्थक इव द्वितीये तु गत्यर्थकः तच्छब्देन देवतापरामर्शो वा विषादयन्ती विषादमुत्पादयन्ती राघवं रघुकुलोद्भवदशरथादिनिष्ठकेकयीविषयकस्नेहं भेदयन्ती विदारयन्ती ॥ २।७।१९ ॥
तद्वचनमेवाह– अक्षयमिति । अक्षयं विनाशरहितं त्वद्विनाशनं त्वत्कर्मको ध्वंसः प्रवृत्तं तत्र हेतुरभिषेक्ष्यतीति ॥ २।७।२० ॥
सेति । सा दृष्टत्वद्विनाशकरामाभिषेकहेतुभूतसामग्रीसंपादनादिः ॥ २।७।२१ ॥
तवेति । मम दुःखं महत् त्वद्दुःखाधिकं भवेत् स्वदुःखात् मित्रदुःखदर्शनजनितदुःखस्याधिक्यादिति भावः ॥ २।७।२२ ॥
नराधिपेति । राजधर्माणां राजाचरितकर्मणामुग्रत्वं क्रूरत्वं त्वं कथं न बुध्यसे एतेन दशरथस्य क्रूरकर्मकर्तृत्वं बोधितम् ॥ २।७।२३ ॥
ननु इक्ष्वाकुवंशप्रभूतः परमधर्मात्मा मम भर्ता क्रूरकर्मा कथं स्यादित्यत आह– धर्मेति । भर्ता तव पतिः धर्मवादी सन् शठः अधर्माचरण इत्यर्थः । श्लक्ष्णवादी मृदुभाषणशीलः सन् दारुणः कठोरहृदयः एवं एतद्धर्मविशिष्टं तं त्वं शुद्धभावेन अधर्मसंसर्गशून्यधर्मविशिष्टत्वेन जानीषे तेन तस्यां विवेकाभावः सूचितः । ननु त्वया कथमेवं विज्ञातमित्यत आह तेन राज्ञा अहं अतिसंधिता वञ्चिता वञ्चनं च अधर्माचरणादि ज्ञाप्यमेवेति भावः ॥ २।७।२४ ॥
उपेति । सान्त्वं शान्तिमुपस्थितः प्राप्तस्ते भर्ता त्वयि अनर्थकमर्थाभावमद्य प्रयुञ्जन् सन् अर्थेन कौशल्यामेव योजयिष्यति ॥ २।७।२५ ॥
अनर्थमेव बोधयन्ती आह– अपेति । दुष्टो निषिद्ध आत्मा प्रयत्नो यस्य । अपवाह्य संप्रेष्य काल्ये प्रातरेव ॥ २।७।२६ ॥
शत्रुरिति । पतिप्रवादेव पतिनाम्ना शत्रुः शातयिता विषदन्तसहित इत्यर्थः आशीविषः क्रूरसर्प इव अङ्केन स्वोत्सङ्गेन हितकाम्यया मात्रेव पोषणपरया त्वया परिहृतः स्वीकृतः पोषित इत्यर्थः । “परिधृतः” इति पाठे ऽपि स एवार्थः । एनेनास्मात्पत्युस्ते कल्याणं नास्तीति ध्वनितम् ॥ २।७।२७ ॥
तदेव भङ्ग्यन्तरेणाह– यथेति । शत्रुः शातयिता प्रत्युपेक्षित एव सर्पः यथा कुर्यात्तथैवाद्यैव त्वं कृता हिवाशब्दौ एवार्थौ । किंच प्रत्युपेक्षितः सर्पः शत्रुश्च यथा कुर्यात्तथैव ॥ २।७।२८ ॥
पापेनेति । पापेन पापसंपादककर्मकारिणा अनृतशान्तेन अनृतं मिथ्याभूतं शान्तं शान्तिर्यस्य क्रूरहृदयेनेत्यर्थः । सानुबन्धा पुत्रादिपरिकरसहिता हता विपत्तिप्राप्त्या हिंसितेवेत्यर्थः ॥ २।७।२९ ॥
इदानीं कृतयत्नेन तव कल्याणं भवितेति बोधयन्त्याह– सेति । तव स्वस्य विस्मयदर्शने विगतः स्मयः रूपादिगर्वः येन तदेव दर्शनं यस्याः तत्संबोधनम् किंच विस्मयमाश्वर्यकारकमिह लोके दर्शनं यस्याः परमसुन्दरीत्यर्थः ॥ २।७।३० ॥
वचनश्रवणौत्तरकालिकं केकयीवृत्तमाह– मन्थराया इति । शारदी चन्द्रलेखेव आश्विनपूर्णिमाचन्द्रसदृशीत्यर्थः ॥ २।७।३१ ॥
अतीवेति । एकं मुख्यमाभरणदानेन तत्कोपः शाम्यतु इति हेतुर्ध्वनितः तेनाभिषेकविरोधिवचो नोच्चारयत्विति हेतुः सूचितः ॥ २।७।३२ ॥
दत्त्वेति । प्रमदोत्तमा प्राकृतप्रमदाविलक्षणा इदमब्रवीत् ॥ २।७।३३ ॥
तद्वचनमेवाह– इदमिति । परमं प्रियमेवाख्यातं कथितम् । तुरेवार्थे एतन्मे प्रियमाख्यातुस्ते तव किं करोमि तद्वदित्यर्थः । एतत्प्रतिदानयोग्यं वस्तु अहं न पश्यामीति भावः । उत्तरार्धादौ “एतन्मे प्रियमाख्यातम्” इति भट्टपाठः । प्रियमाख्यातमित्यस्य पुनरुक्तिः वक्त्र्याः हर्षातिशयद्योतकत्वान्न दोषावहेति तद्व्याख्या ॥ २।७।३४ ॥
रामे इति । विशेषमैश्वर्यप्राप्तौ भेदं नोपलक्षये अभिषेक्ष्यति अभिषेक्ता विशेषकालाविवक्षयापि लृट् ॥ २।७।३५ ॥
नेति । हे प्रियार्हे प्रियवस्तुप्राप्तियोग्ये अमृतं मधुरं किंच मृतिनिवर्तकमेतच्छ्रवणमात्रेण आसन्नमरणो ऽपि हर्षातिशयप्राप्त्या जीवितो भवतीति भावः अत एव वरं सर्वश्रेष्ठमत एव प्रियं सर्वप्रीतिविषयीभूतं वचस्त्वमवोचः इतो ऽस्मात्परं भिन्नं किंचित्प्रियं सुवचं न वचनविषयं वस्तु नास्तीति भावः अतो ऽपि तथा मत्प्रीतिविषयीभूतवस्तुसदृशं प्रियोत्तरमतिप्रियमत एव ते परं त्वत्तृप्तिकारकं कंचिद्वरं त्वं वृणु तमहं प्रददामि कंचिदित्यध्याहृतम् । इतो ऽनन्तरं त्वयेति वचःशब्दानन्तरं वरमिति च ददामीत्येतदनन्तरं ते इति च गोविन्दाचारिपाठः ॥ २।७।३६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे सप्तमः सर्गः ॥ २।७ ॥