गत इति । पुरोहिते वसिष्ठे गते सति स्नातो नियतमानसः एकाग्रचित्तः रामः विशालाक्ष्या पत्न्या सह नारायणं स्वमर्यादापुरुषोत्तमत्वमुपागमत् अस्मरत् । नारायणशब्दार्थस्तु नारेण नीत्यैव अयते भावप्रधानो निर्देशः ॥ २।६।१ ॥
तन्मर्यादापुरुषोत्तमत्त्वं प्रकटयितुं तत्कर्तृकवेदबोधितकर्माचरणं बोधयन्नाह– प्रगृह्येत्यादिभिः । शिरसा तदुपलक्षितनमस्कारेण हविषः पात्रीं प्रगृह्य नमस्कारपूर्वकं हविःपात्रं गृहीत्वेत्यर्थः । ततः तस्याः पात्र्याः आज्यं प्रगृह्य ज्वलिते ऽनले महते यागदेवतामुख्याय दैवताय देवतायै विधिवज्जुहाव । प्रगृह्येत्युभयान्वयि ॥ २।६।२ ॥
शेषमिति । तस्य हुतस्य हविषः शेषमाशास्य प्रशस्य प्राश्य भुक्त्वा प्रियं स्वप्रीतिविषयीभूतमत एव देवं प्रमोदप्रापकं नारायणं स्वमर्यादापुरुषोत्तमत्वं ध्यायन् स्मरन् सन् श्रीमति सकलैश्वर्यविशिष्टे आयतने विधिनिर्मितयागगृहे विष्णोः स्वास्तीर्णे विष्णुकर्तृकशोभनविस्तारविशिष्टे कुशसंस्तरे कुशासने नियतमानसः नरवरात्मजो रघुनाथः वैदेह्या सह वाग्यतो भूत्वा शिश्ये विष्णोः स्वास्तीर्णे इत्यनेन विष्णुपूज्यत्वं रघुनाथस्य द्योतितम् विष्णोरिति संबन्धसामान्ये षष्ठी द्वयोरेकत्रान्वयः । विष्णोरायतने
शिश्ये इत्यर्थस्तु न युक्तः गर्भमन्दिरे शयनस्य निषेधात् गौणग्रहणे तु स एव दोषः ॥ २।६।३,४ ॥
एकेति । एकयामावशिष्टायां यामत्रयव्यतीतायमित्यर्थः । रात्र्यां प्रतिबुध्य स्वीकृतनिद्रां परित्यज्य स रघुनाथः वेश्मनः सभामण्टपस्य अलङ्कारविधिं यथोक्तमलङ्कारं सम्यगेव कारयामास दीपप्रज्वलनादि कर्तुमाज्ञापयामासेत्यर्थः । तुशब्द एवार्थे ॥ २।६।५ ॥
तत इति । ततः अलङ्कारकरणज्ञापनानन्तरं सूतमागधबन्दिनां सूताः पौराणिकाः मागधाः वंशप्रवक्तारः बन्दिनः तद्यशोवक्तारः तेषां सुखा वाचः श्रृण्वन् पूर्वां संध्यामुपासीनश्च सन् यतमानसो रामः जजाप गायत्र्यादिजपं चकारेत्यर्थः । विनापि च समुच्चयः ॥ २।६।६ ॥
तुष्टावेति । विमलक्षौमसंवीतः मलसम्बन्धरहितपट्टविशेषवस्त्रधारी शिरसा प्रणत एव स रामः द्विजान् तुष्टाव मधुसूदनं मधुसूदनशब्दं वाचयामास च द्विजैरुच्चारयामासेत्यर्थः । मधुसूदनशब्दार्थस्तु मधौ चैत्रे सूः प्रादुर्भावो यस्य सः उद्यते स्वस्वकल्याणार्थं सर्वैरुच्यते इति उत् अनिति ब्रह्मादीनपि पालयति इति अनः त्रयाणां कर्मधारयः किंच मधुं मधुनामानं दैत्यं सूते कर्णमलद्वारोत्पादयतीति मधुसूर्विष्णुः तेन उद्यते नित्यमुच्चार्यतो ऽसाविति मधुसूदः स एवानः सर्वरक्षकः । एतेन स्वनामोच्चारणविषयकप्रीत्यतिशयो रघुनाथस्य सूचितः । दूरान्वयीदमिति तु न भ्रमितव्यं पाठक्रमादार्थक्रमस्य बलीयस्त्वादाकाङ्क्षितत्वाच्चेति दिक् । युक्तश्चायमेवार्थ ।ः अन्यथा अभेदवादिनामप्यस्यैव मधुसूदनत्वेन स्वकर्मकस्तवनस्य निषिद्धत्वेन विरुद्धत्वापत्तिरिति दिक् ॥ २।६।७ ॥
तेषामिति । तदा मधूसूदनशब्दोच्चारणकाले तेषां द्विजानां तूर्यघोषानुनादितः तूर्यघोषानुनादविशिष्टः पुण्याहघोषोत्थगम्भीरमधुरः पुण्यं पवित्रत्वं न जहातीति पुण्याहः सार्वकालिकपवित्रतासम्पादकधर्मविशिष्ट इत्यर्थः । स एव घोषः मधुसूदनशब्दशब्दः तेनोत्थः संजातः गम्भीरमधुरः गम्भीरेण गाम्भीर्येण सहितो मधुरो माधुर्यं गाम्भीर्यमाधुर्ये इत्यर्थः । अयोध्यां पूरयामास गम्भीरमधुरशब्दौ भावप्रधानौ ॥ २।६।८ ॥
कृतेति । अयोध्यानिलयः अयोध्यानिवासी ॥ २।६।९ ॥
तत इति । पुरीमयोध्यां शोभयितुं स्वस्वबुद्ध्यनुसारेणालङ्कर्तुं चक्रे प्रयत्नमिति शेषः । शोभायुतामित्याचारिपाठः ॥ २।६।१० ॥
अलङ्कृतिमेव विशदयन्नाह –सितेत्यादिभिः । सिताः शुक्ला ये अभ्रा मेघाः तद्वत् तानि
शिखराणि तेषामाभा येषु किंच सिताभ्रयुक्तानि यानि शिखराणि तैराभान्ति तेषु चैत्येषु चैत्यं चैतन्यमस्ति एषु अर्शआद्यजन्तः इदं देवतायतनादिविशेषणम् । एतेन रामधाम्नः चैतन्यं व्यक्तं तत्र प्रमाणम् “यत्र गुल्मलतावृक्षा नित्यशो भान्ति चिन्मयाः” इत्यादि चैत्येषु बौद्धालयेष्विति गोविन्दाचारिव्याख्यानं तु न नास्तिको नानृतक इत्यादिना बालकाण्डोक्तेन विरोधात् त्यक्तव्यमिति दिक् ॥ २।६।११ ॥
नानेति । पण्यं व्यवहर्तव्यं वस्तु आट्टालकेषु प्राकारोपरिकल्पितयुद्धस्थानेषु सभाविस्वति आलक्षितेषु दूरतो ऽप्यवलोकितेष्वित्यर्थः । तेन तेषामत्युन्नतत्वं व्यक्तं ध्वजाः चिह्नसहिताः पताकाः तद्रहिता इति न पौनरुक्त्यम् ॥ २।६।१२१३ ॥
नटेति । नटा आश्चर्यनानोल्लङ्घनादि कर्म कर्तारः “नर्तका नृत्यनृत्तादिकर्मकर्तारः” गायका गानकुशलाः तेषां वाचः जनता जनानां समूहः ततस्तत्रायोध्यायामित्यर्थः । शुश्राव सप्तम्यन्तात्तसिल् “शुश्रुवुश्च ततस्ततः” इति गोविन्दाचारिपाठः ॥ २।६।१४ ॥
रामेति । रामाभिषकयुक्ताः रामाभिषेकोपयोगिनीः जनाः अयोध्यानिवासिनः चत्वरेषु चतुष्पथेषु ॥ २।६।१५ ॥
अज्ञानामपि तत्कथासु रुचिरिति बोधयितुमाह– बाला इति । गृहद्वारेषु गृहाणि च द्वाराणि चेति द्वन्द्वः । एतेन तत्कथायाः सर्वमनोहरत्वं व्यक्तम् ॥ २।६।१६ ॥
प्रासङ्गिकं कथाप्रचारं संवर्ण्य प्रकृतां पुरालङ्कृतिमाह– कृतेत्यादिद्वाभ्याम् । श्रीमान् स्वतो नित्यसम्पत्तिविशिष्टो राजमार्गः पौरैः कृतपुष्पोपहारः कृतः पुष्पोपहारः पुष्पबलिर्यस्मिन् धूपगन्धाधिवासितः उपलक्षणतया धूपादिगन्धव्याप्तश्च कृतः ॥ २।६।१७ ॥
प्रकाशेति । निशागमनशङ्कया राज्याभिषेकसमये इति शेषः । दीपवृक्षान् दीपस्थापनयोग्यशाखाविशिष्टतरून् अनुरथ्यासु अनुगता रथ्याः मार्गा यासु राजमार्गेष्वित्यर्थः । एतेनाभिषेकानन्तरमनेन मार्गेण रामागमनं भविष्यति तं द्रक्ष्यामीति हेतुर्व्यक्तः ॥ २।६।१८ ॥
उपसंहरन्नाह– अलङ्कारमिति । आकाङ्क्षमाणाः प्रशशंसुरिति । द्वयोरेकत्रान्वयः ॥ २।६।१९,२० ॥
प्रशंसास्वरूपं बोधयन्नाह– अहो इत्यादिभिः । अयं राजा अहो महात्मा अतिधैर्यवान् तत्र हेतुः वृद्धमैश्वर्यादिभिरतिप्रवृद्धं स्वमात्मानं स्वस्वरूपं ज्ञात्वापि राममभिषेक्ष्यति सामर्थ्यसत्त्वे अत्यन्तं प्रवृद्धैश्वर्यादेः पुत्राधीनीकरणमपि दुर्लभमिति भावः ॥ २।६।२१ ॥
स्वभाग्यवत्तां सूचयन्त आहुः– सर्वे इति । सर्वे वयमनुगृहीताः परमात्मानुग्रहं प्राप्ताः स्म तत्र हेतुः दृष्टलोकपरावरः दृष्टो विष्ण्वादीन् बोधितः लोकानां भुवनानां परः पालनं येन सः किं च दृष्टः उपदिष्टः लोकपरः भुवनानां पालको येन सः दृष्टलोकपरः अत एव न वरः श्रेष्ठो यस्मात् सः अवरः सर्वश्रेष्ठ इत्यर्थः । स एव स इति कर्मधारयः । किंच दृष्टा लोकाः भुवनानि परावराः उत्तमाधमा येन सः महीपतिः रामः यद्यस्मान्नो गोप्ता चिराय बहुकालं भविता ॥ २।६।२२ ॥
राज्यार्हत्वसम्पादनाय रामस्य गुणान्तराण्याह –अनुद्धतेति । अनुद्धतमनाः न उदोर्थिवचनात् हतं निवृत्तं मनो यस्य सः भावक्विबन्ताद्वदो निष्पन्न उदिति ॥ २।६।२३ ॥
स्वेप्सितप्रापको राजा आशीर्भिर्योजित इत्याह– चिरमिति । अनघः आश्रिताखनिवर्तकः ॥ २।६।२४ ॥
एवमिति । एवंविधमेतत्प्रकारकं वचः कथयतां पौराणां वचः विश्रुतवृत्तान्ताः विश्रुतो वृत्तान्तः राज्याभिषेकवृत्तं यैस्ते अत एव दिग्भ्यः प्राप्ता आगताः जानपदाजनास्तदा तस्मिन्काले शुश्रुवुः । वच
इति विशेष्यमध्याहृतं तच्चोभयान्वयि ॥ २।६।२५ ॥
ते इति । ते रामस्य पुरीमयोध्यां पूरयामासुः ॥ २।६।२६ ॥
जनौघैरिति । तैरयोध्यां प्राप्तैः विसर्पद्भिः गच्छद्भिर्जनौघैर्जनित इति शेषः । तत्रायोध्यायामुदीर्णवेगस्य उदीर्णः प्रवृद्धो वेगो यस्य स तस्य ॥ २।६।२७ ॥
तदेव भङ्ग्यन्तरेणाह– तत इति । ततः जनैः पूर्णत्वाद्धेतोः इन्द्रक्षयसन्निभमिन्द्रनिवासामरावतीसदृशम् किंच इन्द्रक्षयानुयोगिकसादृश्यप्रतियोगि किंच इन्द्रक्षयस्य अमरावत्याः संनिभः सम्यग्प्रकाशो यस्मात्तच्छ्रुतिप्रसिद्धं पुरं साकेतं दिदृक्षुभिः उपाहितैः प्राप्तैः आकुलं व्याप्तमत एव सस्वनं पुरं बभौ शुशुभे । तत्र दृष्टान्तः समुद्रयादोभिः समुद्रजलजन्तुभिः अर्णवोदकमिव पुरमित्युभयान्वयि “निवेशः शरणं क्षयः” इत्यमरः । उपाहितैरित्यत्र क्तान्तो गत्यर्थो हिः यादोभिर्नदीभिरित्यर्थे ऽपि समुद्रोपादानवैयर्थ्यमेवेति दिक् ॥ २।६।२८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे षष्ठः सर्गः ॥ २।६ ॥